SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ महाभिनिष्क्रमणम् उभावपि वयस्यौ प्रथमं श्रीजसराजमहोदयस्य गृहं गतवन्तौ यत्र हि नेमचन्दः पूर्वमपि वासं कृतवानासीत् । तत्र च सर्वमपि प्रवृत्तमितिवृत्तं तौ निवेदितवन्तौ । स श्राद्धोऽपि तयोर्वृत्तान्तेन प्रसन्नो जातः, साहसकृत्यमिदं च तयोरभिनन्दितवांश्चाऽपि । अथ, प्राभातिकं कृत्यं समाप्य तौ श्राद्धेन सहैवोपाश्रयं पूज्यगुरु भगवतः समीपं गतवन्तौ । गुरुराजोऽपि नेमचन्दस्याऽनेनाऽतर्कितागमनेनाऽऽश्चर्यमनुभूतवान् । किन्तु सर्वमपीतिवृत्तं यदा तेन ज्ञातं तदा सोऽपि चित्ते प्रसन्नतामन्वभवत्, परं मातापित्रोरनुज्ञां विना साधुत्वप्रदानाय स्पष्टतया निषेधं कृतवान् । 'अरे रे ! किं तीरं प्राप्तः पोतोऽयं मंक्ष्यति ? किं वाऽऽचरितमिदं साहसमपि व्यर्थं भविष्यति ?' इति गुरुभगवतो निषेधवचनं श्रुत्वा नेमचन्दोऽनुभूतवान् । समुद्रे इव तस्य मनस्यपि मथनं प्रारब्धं 'किमथ करणीयम् ?' इति । - अत्र गृहे प्रातःकालपर्यन्तं तमनागतं दृष्ट्वा सर्वेऽपि चिन्तिता जाताः । समेषां मनस्येष निश्चय आसीद् यदेष भावनगरमेव गतवान् स्यात् । तावता गुरुभगवतः सन्देश आगतः "सदुर्लभो नेमचन्दोऽत्राऽऽगतोऽस्ति । दीक्षाग्रहणाय तस्याऽऽग्रहोऽप्यस्ति किन्तु भवतां सम्मतिं विना न तादृशं किमपि करिष्यामि' इति । अनेन हि सर्वेऽपि निश्चिन्ता जाता: । तत्र च द्वावपि श्रीजसराजमहोदयस्य गृहे एव स्थितौ । नित्यं च गुरुभगवतोऽग्रेऽनुनयमपि कुरुत:, किन्तु गुरुवरस्तु स्वकीयनिर्णयेऽत्यन्तं दृढ आसीत् । अतो नेमचन्दो विचारितवान् - 'गुरु भगवतो विचारो निर्णयो वाऽपि नाऽनुचितः । अस्माभिरेव किमपि करणीयमत्र । दीक्षा तु ग्रहीतव्यैव । किन्तु मातापित्रोरत्र सम्मतिस्तु दिवास्वप्नवदशक्यैव' इति । अत्रान्तरे, दुर्लभस्य पिता तु पूर्वमेव दिवं गत आसीदन्या च काऽप्यापद् नाऽऽसीदेव, अतस्तं गुरुवरो दीक्षितवान् परं नेमचन्दं तु निषिद्धवानेव । अनेन तु नेमचन्दस्य निर्धार इतोऽपि दृढतरो जातः । स निर्णीतवान् यद् 'यथाकथञ्चिदपि मया साधुत्वमङ्गीकरणीयमेव' इति । एकदा गुरुभगवतः शिष्यसमुदायादन्यतमस्य मुनिश्रीरत्नविजयस्य समक्षं स स्वस्थितिं भावनां च वर्णितवान् । कथं कथमपि तं मुनिवरमवबोध्य साधुवेषं गृहीतवान् । गृहीत्वा च जसराजमहोदयस्य गृहं गतवान् । तत्र चैकस्मिन्नपवरके स्वयमेव मुनिवेषं धृत्वा गुरुभगवत्समक्षमुपस्थितोऽभूत् । गुरुराजोऽपि तं तथास्वरूपं दृष्ट्वा क्षणं विस्मितः स्तब्धश्च जातः, किन्तु तस्योत्कटभावं दृढसत्त्वं च संलक्ष्य विधिपुरस्सरं तं दीक्षितवान् । दिवंगतस्य गच्छपतिश्रीमुक्तिविजय(मूलचंदजी ) महाराजस्य रजोहरणं तस्मै आर्पयत् । तस्य च 'मुनिश्रीनेमविजयः' इत्यभिधानं कृतम् । वि.सं. १९४५ तमवर्षस्य ज्येष्ठशुक्लसप्तम्याः स शुभो दिवस आसीत् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः ८७ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy