Page #1
--------------------------------------------------------------------------
________________
THE FREE INDOLOGICAL
COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC
FAIR USE DECLARATION
This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website.
Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility.
If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately.
-The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
11 eft: 11
श्री यदुशैलवासि
विद्याविशारद संस्कृत सेवासक्त कविकुलतिलक राज्यप्रशस्ति-राष्ट्रपतिप्रशस्ति-परिष्कृत
श्रीबालधन्वि जग्गु बकुलभूषण महाकविविरचिता
जयन्तिका
( गद्यकाव्यम् )
Published with the financial assistance from the Ministry of the Human Resource Development Government of India
प्रकाशकः
बालधन्वि जग्गु आळारैय्यङ्गार्यः
'श्रीमहालक्ष्मीमन्दिरम्''
I Main, Palace Lower Orchards
Bangalore - 3
1990
Page #6
--------------------------------------------------------------------------
________________
Copies can be had of:
Jaggu Alwar Iyengar Sri Mahalaxmi Mandir I Main Road
Palace Lower Orchards Bangalore - 3
सर्वेऽधिकारा: प्रन्थकृता स्वायत्तीकृताः
rinted at Prabha Printing House, Basavanagudi, Bangalore-4
Page #7
--------------------------------------------------------------------------
________________
जग्गूवकुलभूषणकविविरचिता ग्रन्थाः
गद्यकाव्यम् १५. प्रतिज्ञाकौटिल्यम .. जयन्तिका (इयं बाणभट्टकृत- (मुद्राराक्षसस्यपूर्वभागः)
कादम्बरीसदृशी) १६. स्यामन्तकम् २. यदुवंशचरितं
१७. मजुलम जीरं(रामायणकथा) (हर्षचरितसदृशं) १८. बलिविजयम् ३. उपाख्यानरत्नमञ्जूषा
१९. अमूल्यमाल्यम् (क्षेमेन्द्रकृतचारुचर्याव्याख्या)
२०. अप्रतिमप्रतिमम् 3. भावकौमुदी
२१. मणिहरणम् (भासकृतोरु
भङ्गस्योत्तरभागः) पद्यकाव्यम्
२२. यौवगज्यम् ५. अद्भुतदूतं महाकाव्यम्
२३. प्रसन्नकाश्यपम् (अभिज्ञान६. करुणरसतरङ्गिणी
शाकुन्तलस्योत्तरभागः) ७. पथिकोक्तिमाला
२४. संयुक्ता ८. शृङ्गाग्लीलामृतम्
२५. वीरसौभद्रं (भासकृत९. कलिकौतुकम् (कलिवर्णनम् )
दूतघटोत्कचपूर्वभागः) चपूम्काव्यम्
२६. प्रतिज्ञाशान्तनवम् ०. यतिराजचम्पू:
२७. नवजीमूतम् १. भारतसङ्ग्रहः
२८. अनङ्गदाप्रहसनम् २. यात्रोदन्तचम्पू:
२९. व्रतफलम् ३. गीतराघवम्
३०. कलिकालुष्यम्
३१. दाशरथिदर्शनम् नाटकानि
३२. वितीर्णामृतम् ४. अद्भुतांशुकं
३३. निघ्रतापसम् (वेणीसंहारस्यपूर्वभागः) ३४. मुग्धकुन्तलम्
Page #8
--------------------------------------------------------------------------
________________
५१. समस्यापूग्णानि ५२. चाटुश्लोकाश्च ५३. अघविघातिनी ५४ सुवर्णान्योक्तिपञ्चकम् ५५. मध्यरङ्गनाथसुप्रभातम् ५६ रङ्गनायिकासुप्रभातम् ५७ मध्यरङ्गनाथस्तोत्रम् ५८. रङ्गनाथाष्टोत्तरशतनामावलिः
स्तोत्राणि • हयवदनस्तोत्रम् . अमृताधिरोहिणी . लक्ष्मीदण्डकम् . लक्ष्मीस्तुतिम जरी
यदुशैलेश शतकम् . दाशरथिसुप्रभातम् . वासुदेवसुप्रभातम् . भार्गवीसुप्रभातम् . श्रीनारसिझसुप्रभातम् . लक्ष्मीजनार्दनसुप्रभातम् • सुब्रह्मण्यसुप्रभातम् . प्रपन्नवाणी . गान्धीनवरत्नमाला . वसन्तावतंसवर्णनम् १. चरमोपायनिर्णयः . श्रीवचनभूषणम् (संस्कृतश्लोकात्मकं कर्णाटभाषातात्पर्यसहितम् )
कन्नडग्रन्थाः ५९ मेलनाडिनभाग्योदय ६० गधामोहन् ६१. अम्बरीषचरितम् ६२. नगुविनगण्टु ६३. गमजीरङ्गस्थलम् ६४. भगवत्पद्यदशकम् ६५. 30003-30, m र
Page #9
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
प्रस्तावना
परश्शतं पद्यकृतो ऋक्षाणीव नभस्स्थले । हृद्यानवद्यगद्यस्य कर्ता राजेव गजते ||
इति,
इह खलु जगति जन्तवो विषयैषिणो यदि पृच्छ्यन्ते किं सारम् ? " असारे खलु संसारे सारं सारङ्गलोचना " इति उत्तरयन्ति । विषयविरक्ता यद्यनुयुज्यन्ते " असारे खलु संसारे सारं सर्वेशसंस्मृति: " इति वदन्ति । " काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् " इति - वदत्रैव जीवन्तो मुक्तकल्पा धीमन्तः " असारे खलु संसारं सारं सारस्वतामृतम् ” इत्युद्घोषयन्ति ।
तच्च विविधं विद्योतते काव्यरूपकविभेदेन । काव्यश्च गद्यपद्यात्मना द्वेधा भवति । रूपकच " नाटकं सप्रकरणं " इत्यादिरीत्या दशधा विभिन्नम् । तत्र केचन " गीतिरात्मा काव्यस्य " इति, "वाक्यं रसात्मकं काव्यम् " इति, "वक्रोक्तिः काव्यजीवितम्" इत्यादिचानुसन्दधते ।
ध्वनिप्रस्थापनपरमाचार्यो ह्यानन्दवर्धन: "काव्यस्यात्मा ध्वनिरिति बुधैर्यस्समाम्नातपूर्वः " इत्यादिना " ध्वनिरेव काव्यस्यात्मा ” इति परमप्राचीनैरेव निर्णीतम् । स च रसभावतदाभासभावशान्त्यादि रूपेण नैकधा भवति । इति च सदृष्टान्तं सिद्धान्तयति ।
'
सर्वत्र काव्येषु नाटकेषु वा यः कोऽपि रसः प्राधान्यमावहति । इतरे च यथायथं तदङ्गताम् । स च ग्स: " रसो वै सः " इत्यादि - श्रुत्या ब्रह्मास्वादसहोदरः । स एवानन्दयति सकलानपि लोकान् ।
Page #10
--------------------------------------------------------------------------
________________
IV
ईदृशकाव्यकरणनैपुणे सुशिक्षयितारः केचनैव गुरवो लभ्यन्ते कवेस्सौभाग्यवशेन । गुरूणामेतादृशानां बोधनचातुरीचर्चितचित्तारिशष्यास्तु लोकशास्त्रकाव्यादिषु सुशिक्षितास्सुकवयो भवन्ति ।
अश्व बालधन्विकुलकलशजलनिधिकलानिधिः जग्गु वकुलभूषणश्चेदृशः कश्चन महाकविः । यतश्वे दृशोगुरुस्स्वपितृव्यपादः स्वगृह एव समुपलब्धः कविनानेन । अमरकोशाद्यारभ्य रसगङ्गाधरादिपर्यन्तास्सकला अपि प्रन्थास्तत्सकाशादेव सम्यगधीता: । सांख्ययोगसूत्र
भाष्यादयश्च ।
तदातदा यावद्यावन्नाटकादयो लिखिताः, तावत्तावच स्वपितृव्यपादानां सम्मुखे पठिताश्चासन् । एवं सुशिक्षितेन पथा प्रतिपदमाक्रममाणस्सग्ससरलकविताकामिनीमाधुरीधुनीप्रस्रवणधुरीणतां प्रपेदे |
स च गुरुबलधन्विकुलाम्बुधिपूर्णचन्द्रमाः साहित्यकलाकुशलः, परम्परागतसरससरलकविताकामिनीसमाकृष्टकेशपाशः, सरससाहित्यसुमान्यवगाह्य तलनिलीनमधुरमधुधुनीं विरतझङ्कति सविमर्श पायं पाय सुहितो मत्तचित्तवृत्तिभृंगराजः, दुरूह श्रुत्यन्तरहस्यार्थप्रन्थिविश्लेषणचतुरचारुमति:, साहित्यालङ्कार सांख्ययोगोभयवेदान्तविद्वत्पद्मधितिष्ठन्, सांख्यतीर्थोपाधिना च परिष्कृतः, श्रीमन्महीशूर महाराजश्रीजयचामभूपवितीर्ण स्वर्णकट कराङ्कवद्वय सहितसाहित्यरत्नबिरुदः, यादवाद्रि श्रीयतिराजमठास्थानदत्तशास्त्रकविरत्नबिरुदः, श्रीमान् बालधन्वि जग्गुवेङ्कटाचार्य:, अनुपमबोधनचातुरीसमावर्जितशिष्यगणहृदयो विराजते स्म ।
"क्रिस्तस्यैकोनविंशशताब्द्यां यादवाद्रौ, यादवाद्रिमहाचार्य, मधुरमङ्गलंएम्बारजीयर, यादवाद्रि नाटम्पळ्ळि अनन्तार्यप्रभृतयो विद्वांसः प्रसिद्धा आसन् । ततः विंशतितमशताब्द्याः प्रथमपादेऽपि श्री कुप्पण्णास्वामिनः, मण्डयं आळुारस्वामिनः, तिरुवाय्मोळितिरुनारायणाचार्याः इत्यादय: संभाविताः पण्डिताः आसन् ।
Page #11
--------------------------------------------------------------------------
________________
ततः विंशतितमशताब्द्यां नैजपाण्डित्येन प्रधानतमाः चत्वारः पण्डिताः । इयपिळ्ळै वग्दाचार्यः, जयरामवेङ्कटाचार्यः, मण्डयं लक्ष्मीतातार्यः, बालधन्वि जग्गुवेङ्कटाचार्यश्च । वरदाचार्यः श्वेतशार्दूल इव दोषदर्शनमात्रेणैव पगनाकामति स्म । जयगमवेङ्कटाचार्यस्तु असितभल्लुक इव शास्त्रप्रन्थिषु बद्धमुष्टिः । लक्ष्मीतातार्यस्तु पट्टाभिषिक्तो गज इव गाम्भीर्यागारः । बालधन्वि जग्गु वेङ्कटाचार्यस्तु काननसिंहः इवासीत् । यतस्तस्य सन्निधौ विद्वांसः विद्यार्थिनश्च स्वस्वमर्यादा नोल्लखितुं प्रभवन्ति ।" इति स्वपिता तिरुवाय्मोळिरामानुजाचार्यः असकृदाहस्म” इति वि टि. तिरुनारायणैय्यङ्गार्यः अद्यापि तदातदा वदति ।
एतेष्वपि असंख्यशिष्यगणशिक्षणे परीक्षणे महाप्रबन्धनिबन्धने चायमेक एव बालधन्वि वेङ्कटाचार्यः स्वदेशे विदेशेष्वपि प्रख्यातः शिष्यैर्विद्वद्गणैश्च बहुमानितः पगं काष्ठामानन्दस्यानुबभूव ।
एवंस्थिते कदाचिदयं कविर्वकुलभूषणः बेङ्गळूरुनगरे स्वपितृष्वसुः पत्युर्जयगमवेङ्कटाचार्यस्य गृहे वसन् स्वीयमद्भुतांशुकनाटकं मुद्रापयति स्म । तदानीं वेङ्कटाचार्यः कविना पठितं नाटकं श्रुत्वा कविमवदत् । " यद्यपि नाटकान्तं कवित्वं" इति सुव्यक्तम् । तथापि " गद्यं कवीनां निकषं वदन्ति" इति कवित्वस्य नाटकान्तत्वेऽपि गद्यस्य कवितानिकषत्वं सुस्पष्टम् । यदि गद्यकाव्यकरणे सम्पन्नो भविष्यसि तदा कविरिति विश्वसिमः" इति सोपहासमब्रवीत् । तदायं कविः उपहासवचनेन खिन्नः प्रोत्साहितश्च पूर्वमेव लिखितं गद्यकाव्यं श्रावयामास तम् । ततस्संतुष्टो बभूव जयरामवेङ्कटाचार्यः ।
अस्य गद्यग्रन्थस्य शय्यापाकादिगुणग्रहणविद्धो ह्यस्य कवेः परमप्रीतिपात्रं सुहृन्मणिः महीशूर विश्वविद्यालयसंस्कृतप्राध्यापकः वि. टि.
Page #12
--------------------------------------------------------------------------
________________
vi
तिरुनारायणैय्यङ्गार्यः प्रथमलहरीमानं केवलं पञ्चाशदूप्यकैः मुद्रापयामास । तथैव शाकुन्तलशिरोभूतं प्रसन्नकाश्यपमपि।
गद्यस्यैव प्राचीनतमता च सुस्पष्टमवगम्यते । यथा-सरस्वती चानुष्टुभेन छन्दसा स्तुतवन्तं निजगाद स्वपुत्रं सारखतेयं काव्यपुरुषाभिधम् । “ वत्स त्वत्तः पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम् । त्वदुपज्ञमथातः छन्दस्वद्वचः प्रवर्त्यति" इति । अनेन वचसा प्राचीनतमता गद्यस्यैव । सारस्वतेयसम्बन्धादशनाः द्वैतीयीकतया छन्दस्वद्वचः प्रायुत। अतोऽस्यैव दिव्यः कविरिति व्यवहार: पप्रथे।
ततो वाल्मीकिगदिकवि वि प्रथामवाप । ततो व्यासादयः अद्यतनाः अपि लक्षणया कवय इति व्यवह्रियन्ते । एवं गद्यकाव्यकर्तुत्रपि कवित्वं भाक्तमेव ।
एवं संस्कृतवाङ्मये परश्शतं पद्यकवयो विद्योतन्ते । गद्यकवयः केवलमङ्गुलिमात्रगणनीयाः वर्तन्ते । अतः कविपु मूर्धन्यता गद्यकवेनिगबाधैव ।
कर्णाटककविरपि मुहणः स्वगद्यकाव्यप्रस्तावनायां वक्ति । " पद्यं वध्यं गद्यं हृद्यम्” इति । अतो गद्यकाव्यस्याग्रगणना त्वकामेनाप्यङ्गीकरणीयैव । किं बहुना-वेदविभागात्पूर्व सर्वोऽपि वेदः यजूरूप: गद्यात्मक एवासीत् किल ।
अस्य च कवेः कवितावैखरी ववृधे स्वभ्रात्रा शिङ्गरार्येण सह स्पर्धय॑व । अन्यश्च भ्राता गमानुजार्यः निर्णयसागरमुद्राक्षरशालायां शोधनकार्यं कुर्वन् तिलकम अर्यादिकान् प्रन्थान् मुम्बापुरीतस्संप्रेष्य प्रोत्साहयामास । गद्यकाव्यकरणे प्रेरकमपरमिदम् । यद्यादवाद्रौ भगवतस्सम्पत्कुमारस्य सन्निधौ पठ्यमानं श्री गमानुजार्यानुगृहीतं गद्यत्रयम् । तथा भगवतः निदाघचक्रमणोत्सवे (कल्हारोत्सवे) आचार्यपुरुषैः पापठ्यमानं चूर्णिकादिकञ्च ।
Page #13
--------------------------------------------------------------------------
________________
vii
अस्य च कवेर्जयन्तिकाकर्तुः नाटकसंविधानादिषु परिपक्वकल्पनावैखरीषु च यादवाद्रिनित्यवासी पेरियण्णाजिनामकः कश्चन रङ्गस्थलसूत्रधारः प्रेग्को बभूव। यतस्वबाल्य एव तस्य नाटकादिकं अभ्याससमयेषु प्रदर्शनसमयेषु च तदा तदा वीक्ष्य भावयन्नयं कविः स्वकाव्येषु नाटकेषु च संविधानादिक्रमं योजयामास। बालानां कथाकथनसमयेषु कवेरस्य पत्नी यग्गम्मनानी इमां जयन्तिकाकथां कथयतिस्म । जयदेवकविः स्वकीये प्रसन्नगघवनाटके प्रस्तावनायां प्रस्तौति :
यस्याश्चोरश्चिकुरनिकरः कर्णपूगे मयूरः भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवमतिः पञ्चबाणस्तु बाणः
केषां नपा कथय कविताकामिनी कौतुकाय ॥ इति । अत्र च कविः चोग्मयूरभासकालिदासहर्षाणां कविताकामिन्याः चिकुरनिकरकर्णपूरहामविलासहर्पस्थानीयतां निवर्ण्य " हृदयवसतिः पञ्चबाणस्तु बाणः” इति कामिनी कान्तत्वापादकप्रफुल्लमनःपरिस्फुरन्मनोभवस्थानीयतां बाणस्य निर्वर्णयति ।
अनया च वाचा स्वाभाविकनिर्गलनिर्गलद्वाग्वैखरी विलसदमलकविताकामिनीममाश्लिष्टेषु कविकुलतिलकेपु तिलकोपरिविन्यस्तसुवर्णबिन्दुकल्पोऽयमनल्पकल्पनाचातुरीविदग्धः दवदहनधग्धगहननिपातितहर्षकरवर्षधाग्या लोकमाप्याययन वपुकवलाहक इव सहृदयलोकमाप्याययन्नयं कविः कविनिकरशिरःपरिस्फुग्द्रत्नमयवरकिरीटप्रायतां भजत इति सुस्पष्टमभिहितं जयदेवेन।
अन्योऽपि कश्चन कविरेवं श्लाघते भट्टबाणम् । " श्लेष केचन" इत्यारभ्य, "आस्सर्वत्र गभीग्धीग्कविताविन्ध्याटवी चातुरीसञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥” इति ।
Page #14
--------------------------------------------------------------------------
________________
viil
एकैकस्मिन् श्लेषादिविशिष्टविषय एव निपुणाः केचन कवयः । परन्तु आः ! इत्याश्चर्ये ख्यापयति । सर्वत्र - श्लेषयमकानुप्रासादिसर्वविधशब्दालङ्कारेषूपमाद्यर्थालङ्कारेषु अनंतपदगुम्फगुम्फनान्तर्निलीनध्वनिसमावर्जितसहृदयहृदयेषु ध्वनिकाव्येषु च चातुर्ये नैपुण्यश्वास्यैवेति वर्णयति ।
" कण्टकादिभिर्दुर्गमासु महाटवीषु चरणे चातुर्यमावश्यकं किल ! तत्रापि गभीरतरविन्ध्याटवीसभ्वारे चातुर्यमत्यावश्यकमेव । तत्र च स्वेच्छया सश्चरन्ति मतङ्गजाः । तेषां कुम्भस्थलभेदनचतुरः पश्चाननः चातुर्येणैव सञ्चरति । कविमतङ्गजानामपि कविताटवीसभ्वारे चातुर्यमस्त्येव। तथापि गभीरधीरकविताख्यविन्ध्याटवी सभ्वारे चातुर्यातिशयोऽस्यैव । तत्रापि च स्वेच्छया सभ्वरतां मत्तमतङ्गजानां शिरः पाटनपटुः पश्चाननोऽयमेक एव बाण: " इति । " अनेन सकलविधकवितामार्गेऽप्ययमेक एव सर्वानप्यतिशेते" इति । " बाणस्तु — कविकुम्भिकुम्भभिदुरः पञ्चाननो बाणः पञ्चमुखश्शर : " इत्यपि भावः ।
।
किं बहुना ! उदासीनो हि नैयायिकशिरोमणिः जयन्तभट्टः स्वीयन्यायमञ्जर्यं चतुर्थाह्निके वेदापौरुषेयत्वहेतोरप्रयोजकत्वं साधयन प्रकरणात् कालिदास भट्टबाणञ्च लाघते ।
" अमृतेनेव संसिक्ताः चन्दनेनेव चर्चिताः ।
चन्द्रांशुभिरिवोद्धृष्टाः कालिदासस्य सूक्तयः ।। " इति । " प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकविकुलाः भट्टबाणस्य " इति च । सकलकविकुलान्यप्यस्य रसानुगुणशैली चमत्कारविद्धानि । इति भावः ।
वाचः ।
एवमुत्कलिकाचूर्णिकादिगद्यभेदस्सर्वोऽपि तत्रतत्र प्रयुक्तो भट्टबाणेन । " कादम्बरी - हर्षचरितम् " इति गद्यप्रबन्धद्वयमपि काव्यसिंहासनासीनस्य भट्टबाणस्योभयतः संवीज्यमानं चामरद्वयमिव कविचक्रवर्तित्वमस्य ख्यापयति ।
Page #15
--------------------------------------------------------------------------
________________
अस्य च कवेर्वकुलभूषणस्य आदौ स्वभ्रात्रा सह निबद्धा स्पर्धा भ्रातर्यकरिता भट्टनारायणे पल्लविता विशाखदत्ते शाखायुता भासे कुसुमिता कालिदासे शलाटुतामाप्ता भट्टबाणे फलिता बभूव ।
बाणानुच्छिष्टतां स्वप्रबन्धस्य ख्यापयतानेन कविना कादम्बरीप्रतिस्पर्धितया जयन्तिका हर्षचरितप्रतिद्वन्द्वितया यदुवंशचरितं च गद्यप्रबन्धद्वयं निरमायि। तत्तद्रसानुगुणसन्दर्भेपूत्कलिकाचूर्णिकादिगद्यवैविध्यं सन्दृब्धम् । हिमाचल, शिवपार्वती-नगरादिवर्णनेष्वस्पृष्टं बाणेन वर्णितम् ।
कविकाव्यविमर्शकास्सहृदयाः यथायथं कविद्वयस्य चातुर्य नैपुण्यं प्रन्थानां परस्परसंवादञ्च स्वयमेव विमृशन्तु । किञ्च कविद्वयं गद्यद्वयञ्च धनुर्धरौ रामलक्ष्मणाविव निजभुजद्वयशिखरे निवेश्य नन्दत्वित्याशास्महे ।
इति
प्रमोद संवत्सर पुष्यशुद्धद्वादशी
स्थिरवासरः 29-12-1990
सदयसहृदय हृदयदयापात्रं श्री बालघन्वि जग्गु सुदर्शनाचार्यः
साहित्यवेदान्तविद्वान् विश्रान्त विशिष्टाद्वैतवेदान्तप्राध्यापक:
राज्यप्रशस्ति विजेता
Page #16
--------------------------------------------------------------------------
________________
19
24
14
शुद्धम् 10 11 यशसि-समुद्गमे 10
निजाभिजात्यः 20 17 उपालभमानः 21 22 स्लपित 23
विलसन्तीस्त्रिचतुराः
तस्य तव 29 12 नमस्कुर्वत्या 32 18 अभ्यस्यद्भिः 33 18 प्रतिषेधन्ति 38 25
शिशुमती 449 स्वादुतरौदनं 44 12 शिरस्युष्णीपं 58 10 दैवविलसितं 15
शिविकामेतां 20
अस्मत्पक्ष्यं
तयापि जायया भवितव्यम् 61 24 बहुजुगुप्साकरी अत्र प्रयुक्ताशब्दाः प्रायशः अमरकोशस्था एव । अतः तत्रैवार्थो द्रष्टव्यः
60
5
Page #17
--------------------------------------------------------------------------
________________
॥ श्री॥ श्रीरामशर्मणा श्रीमान् जग्गुर्वकुलभूषणः ।
कविनेव कविः कीर्त्या चित्रं सम्भाव्यतेऽधुना ॥ यश्च कविकुलभूषणं वकुलभूषणः कुलभूषणं, वकुलभूषणाशयश्व नारायणपादपलेहमधुरमधुपानमत्त इव गुजन् मधुकरः, भासमानभारतीमहिना समानभासोऽप्यसमानभासोदितः, कालिदासदर्शनीयोऽपि लक्ष्मीदासदर्शनीयः, वाल्मीकिवाचां अतिशयप्रतिशब्दपर्वतः, पुरातनस्य व्यासविज्ञानपुञ्जस्य नूतनस्समासः, मूर्तिमानिव सरस्वतीकलितकलवल्लकीवाद्यनूतनविनोदनादः, विश्वकर्मणा करेण वोढुमक्षमेणेव नाकलोकान्निपातितायाः चित्रतूलिकाया इव संस्कृतप्रकृतिकस्सजीवो
विग्रहः,
यञ्च चतुर्मुखमुखपुण्डरीकावासमधुकरी देवी सरस्वती सादरमुपसेवते, हरिहृदयमहेन्द्रनीलपक्षगन्तरकनकशुकी देवी महालक्ष्मीरप्यनुग्रहेणेक्षते, शर्वसर्वस्वमपि सर्वमङ्गळा कापि गजकलावती सरसमिति श्लाघते, तन्महाफलं रसिकलोकमृद्वीकालतावलयस्य,
येन च सारस्वतकवीन्द्रसन्तानतानितेन, लक्ष्मीलक्ष्मणोऽनवधिकातिशयासंख्येयकल्याणगुणगणजलधितरंगान्तरंगेण, सर्वमङ्गलासर्वस्वदेहद्वयार्धसंघटनकर्मनिर्माणनिपुणस्येव प्रेमातिशयस्य मूर्तिमतेव रूपेण नानानाटकार्ध-सम्पूरणकरण-निपुणखनाटकार्ध-संघटनातिशयकारिणा, बाणानुकारिणापि हृदयसुखहेतुना बालधन्विनाऽपि महालक्ष्येण, बहुधा समाराधिता दिव्यतुरगाननाकारब्रह्मतेजोमयी पितामहप्रसादिता विद्याधिदेवता स्वपितृव्यश्रीवेंकटगुरुवरप्रतिपादिता च विद्या भवोद्भवतरलधनदरिद्रतोपद्रवतमस्तिरस्करणनिपुणा निपुणधिषणेन,
यस्य च भाषा भारवेरिव सार्थतयैव काव्यकमलाकरश्रियं सखीमिवालिङ्गति, दण्डिन इव ललितदण्डिनी काव्यशिक्षाचार्यकमाचरति,
Page #18
--------------------------------------------------------------------------
________________
X11
कुशिक कुलतिलकमुनिगोत्रसमुद्भवाऽप्याजानपावन ब्रह्मास्वादर सवसिष्ठतामापादयति सकलजीवलोकस्य,
-
स किल नानानाटकनिर्माणजृम्भमाणया प्रतिभया गद्यप्रबन्धदुर्गमार्गेऽप्यकुटिलसुखस वारया पद्यपद्यामपि स्वयमासेवमानयाऽनया चिरंतनकविपरम्परां पूग्यन्, अविच्छिन्नरसामेव तां ताभ्व संरक्षन्, प्रत्नकविरत्नकलाकोटिशतसहस्रकल्पित इव कमलासनेन, यदुशैलश्रृंगश्रियं भारतराष्ट्रपतिप्रतिपादितां पाण्डित्यप्रशस्तिपातिव्रत्य श्रियमपि पूर्वापग्वयस्सहचरीं रविरिव कविस्सुवर्णवर्णिनीं पुष्णाति ।
इति कवेर्वकुलभूषणस्य षष्ट्यब्दपूर्तिमहोत्सवे ७-११-१९६२ तमे वत्सरे कृतोऽयं प्रबन्धोऽद्यविस्तारितो मयैव ७-१२-१९९० तमे प्रमोद वत्सरे श्रीरामशर्मणेति ।
Page #19
--------------------------------------------------------------------------
________________
FOREWORD
I have great pleasure in associating myself with the publication of Jayantikā a prose romance composed by Sri Jaggu Vakula Bhushana by way of this foreword expressing my appreciation as well as admiration not only for this work but for the entire literary output of this unparalleled contemporary Sanskrit poet of the 20th century.
Earlier I had the privilege of writing a brief foreword to his Mahakavya Adbhutadutam. I also had the pleasure of delivering a special lecture at Shantiniketan University on the works of this poet, and presenting a paper on this poet in the Seminar on the 20th Century Sanskrit Literature organised at Bharatiya Vidyabhavan's College, Andheri, Bombay. This paper is published in Bharatiya Vidya. There were a few other occasions on which also I talked on the works of this poet. I never miss an opportunity to express my appreciation and admiration for the contribution of this poet to the field of Creative Sanskrit Literature of this Century. He is a distinguished poet who kept the tradition of Sanskrit poetry continued in the 20th Century with the same grandeur and depth with which it flourished in earlier centuries. The texture of the style and language of this poet cannot be easily separated from that of the classics of the early centuries.
The present work Jayantikā is a prose romance. The structure of the Story is modelled on Kadambari of Bāna. The style is aslo similar to it. The hero and the heroine assume two births viz., Chāruvaktra and Saugandhini, (B-12p)
xiii
Page #20
--------------------------------------------------------------------------
________________
XIV
Jivasena and Jayantikā. The work is named after the second name of the heroine. The main story is narrated by Chandadanstra a Gandharva who was born on the earth as a result of a curse. As the story proceeds different characters go on narrating the story. The narration is mostly of flash-back type. At each turning point the past story of the hero or heroine or some other important character is given. Thus the story proceeds in a winding way unfolding events within events. This keeps the interest to read further and further inspite of highly scholastic and descriptive style. In between there are refreshing dialogues and instructive passages, plenty of mythological and cultural references are found by way of comparison, metaphor and contrast all along.
The main story of this Prose romance is arranged in five laharis or sections. In the first three sections the first phase of the story, Chāruvaktra and Saugandhini story, is narrated. Chāruvaktra who was the son of Vimatakesari the king of Vaijayanti had to live in Dandakāranya forest with his mother Varamalini as his father was killed by Vrishaskandha who pretended to be his father's friend but had an evil eye on his mother. Therefore, his mother had to leave the palace and live in the forest to bring up her child Chāruvaktra. He learns this fate of his mother and himself from his mother and proceeds to acquire a suitable weapon by performing penance in order to destroy his father's enemy and get back the kingdom. Pleased with his severe penance the gods Indra, Siva and Brahma take interest in him and approach Narayana to help him.
Intervention of the divine personalities in human affairs may look strange and unreal to a modern reader; but for Sanskrit classics there is nothing new or strange about it.
Page #21
--------------------------------------------------------------------------
________________
XV
These divine personalities intervene in such a natural way that they are as good as human personalities. Co-operation between divine personalities and human personalities is so naturally presented in Sanskrit classics that no element of unreality is felt. The mix up of myth and reality in these stories does not affect the impact or the lessons of these stories on the reader's mind in any way. The cleavage between the myth and reality is never made an issue to receive the impact or draw the lesson. Same is the case when the supernatural elements or miracles are introduced. This prose romance is a mix up of myth and reality. There are some supernatural elements and miracles also. But these are not due to lack of creative talent to create at realistic level, nor do these hinder the impact or the lessons to be drawn from a creative work in a realistic way. These are a part of Classical Sanskrit style. The emotions are delineated and the events described do invoke a realistic response. One feels as if one reads a real story accepting the supernatural element and the miracles without much jarring. Readers of Sanskrit classics are very much used to these. The author of the present Prose romance has introduced some supernatural elements and miracles to progress his story and to create a vigorous emotional impact.
II
Charuvaktra obtains a boon from Narayana, undertakes a Vijayayatra over several countries, builds up a large army and ultimately kills Vrishaskandha, who was responsible for his father's death and the mother's misery. He is received at the capital of his father's Kingdom viz., the City of Vaijayanti by the old Minister Marunmāla and coronated. His mother Varamālini is very happy. This part of the story is covered in the first two Laharis or Sections.
Page #22
--------------------------------------------------------------------------
________________
Xvi
In this part of the Story there is a beautiful description of the Himalaya mountain, lord Chandrasekhara, Satyaloka and Narayana. As in Kadambari, mouthful adjectives, roll behind the substantives in long series and present the majesty of the Sanskrit language. Though many of these adjectives, metaphors and similes involved in them are quite familiar to readers of Sanskrit Prose romances and Champu kavyas our poet has introduced a freshness and a new import into them using his own ingenuity. While describing Narayana his religious sentiment is manifest. The Vijayayatra description and the killing of Vrishaskandha are couched in expressions appropriate to the sentiment of heroism. On the human side, the wickedness of Vrishaskandha, the tender feelings of Varamālini and the spirit of adventure of Charuvaktra are beautifully delineated.
The mother's advice to Charuvaktra when he returns after obtaining the bow from Narayana and proposes to proceed for detsroying Vrishaskandha reveals deep insight into human nature and mundane world:
तदवधारय शठप्रायं जगत्, स्वापतेयदासो लोकः, खलबहुला भूतधात्री, कृतघ्नताकलुषितं जनहृदयं, नैर्घृण्यकठोरः प्रपञ्चः, वञ्चनकताना बंधुता, शूरप्रणयिनी लक्ष्मीः प्रणिधिचक्षुषः क्षितिभृतः, क्षौद्रपटलमिव राज्यं नाम दुर्ग्राहम् ।
These expressions have the charm of both the sense and the sound. Such a charm is found all along this
work. Some of observations here and also elsewhere in this work reveal the poet's personal experience as revealed from the events in his life.
After coronation Charuvaktra undertakes a hunting expedition. He unwillingly hits a beautiful maiden. This
Page #23
--------------------------------------------------------------------------
________________
xvil
girl was Saugandhini who was to marry Charuvaktra but who is unfortunately hit by the very Chāruvaktra now. Saugandhini who was hit by Charuvaktra recognises Charuvaktra and narrates her story to him. She informs him that she was brought up by one Dhamana until her ninth year. Then he died. Later one Dirghasatra brought her up. This Dirghasatra thought of giving her in marriage to Charuvaktra whose bravery and physical features were described to her by him. Dirghasatra also had told Saugandhini that she was the daugher of one Sugandhana the King of Madhurā and Kanchanamālini a charming woman who met Sugandhana on a river bank. This Kanchanamalini had left her when she was born on the river bank and was picked up by Dhamana. After narrating her story Saugandhini who was hit by Charuvaktra collapses. Charuvaktra also dies in grief. But Indra appears in the form of a hunter and revives the life of Charuvaktra and Saugandhini. However, these two were revived in the form of Children. Then the hunter asks the Asrama boys of Dirghasatra to hand over the Child Charuvaktra to Vajrabāhu the King of Aribhikarapuri and the Child Saugandhini to Hemavati the Queen of Hemapur King. Dirghasatra sends a message to Varamālini the mother of Charuvaktra to be hopeful about the return of her Son Charuvaktra. This part of the story is covered in the third Lahari.
In this part of the Story, the past story of Saugandhini has no relevance to the main story nor brings out any special feature of her character. The ground for the attraction that Saugandhini develops for Charuvaktra is not fully developed. The hunting expedition is intended to provide
Page #24
--------------------------------------------------------------------------
________________
xviii
an opportunity for the two to come together. The death of the two puts a curtain to the first phase of the story. Their revival as Children again initiates the second phase. The description of the hunting expedition is quite charming.
III
In the Second phase of the story the Child given to Vajrabāhu is named as Jivasena while the Child given to Hemavati is named as Jayantikā. The two grow. Jayantikā sees Jivasena's picture and falls in love with him. Jivasena comes to know about it and proceeds to Hemapura. The two meet privately. However, after their meeting Jivasena disappears. Jayantikā wanders in search of him and meets a Tāpasi. She lives with the Tāpasi in her cave. The Tāpasi herself was Sukesha the Son of Veeraketu the king of Chitrapura, but was cursed to become a woman. Jayantikā who lived with her delivers a male child. The boy grows but unfortunately is lost in the forest. The
Tāpasi gives a miraculous Ratnamalā to Jayantikā and asks her to become Sukesha with its help and become the King of Chitrapura. Tāpasi also goes with her. Here the fourth Lahari closes.
Jayantikā (who is now Sukesha) wanders in search of her son and husband. She loses her Ratnamalā. Both Tāpasi and Jayantikā wander in search of it. They go to a Durgā temple and despatch servants in all directions to trace the Ratnamalā. It is found with a cowherd boy. The boy is brought and handed over to a butcher to kill him. The boy was the Son of Jayantikā and the butcher was her husband Jivasena himself. Both the boy and the butcher tell their story after they were lost in the forest. The
Page #25
--------------------------------------------------------------------------
________________
xix
butcher cuts the head of the boy as a matter of his duty and cuts his own head also. Jayantikā proceeds to cut her own head. Goddess Durgā appears and revives the life of all the three. Jayantikā who had assumed the form of Sukesha reverts back to Jayantikā. Tāpasi who was originally Sukesha becomes Sukesha. This real Sukesha is put on the throne at Chitrapura. Then, Jivasena proceeds to meet his mother Varamālini who lived in an Asrama outside the city of Aribhikara. He enters the city welcomed by the old Minister and ascends the throne. Hansadhvaja who was temporarily put on the throne in view of the long absence of Jivasena vacates. Virasena the son of Jivasena is made to ascend the throne at Hemapur since Satyakirti the father of Jayantikā had no male issue. Thus the story ends with a happy note.
This part of the Story has in it more supernatural elements and miracles. Change of Sex which is no longer a miracle nowadays is brought about here by supernatural
means.
Some of the well-known motifs current in Indian epics and folk tales such as an orphan child being brought up by a compassionate person, Father going to the extent of killing his own Son in discharge of his duty, the husband being lost in the forest leaving the wife alone are introduced here. In the stories of Sakuntala, Harischandra and Nala these motifs are fully developed. The author of this Prose romance has brought these together in one Story and put them in a different setting altogether. Lusty men being aggressive towards charming women and its leading to adverse consequences to both is delineated in this work more than once. Women and Children suffering because of the folly of men is also depicted. But the women
!
Page #26
--------------------------------------------------------------------------
________________
XX
characters here are courageous and hopeful. The Children as they grow become adventurous. All along the story it is women and young boys who lead the story through the major events. The emotions of Vira and Adbhuta i.e., heroism and wonder dominate. The emotions of pathos and love intervene here and there. There are no evil or wicked characters excepting one or two who are lusty and suffer for the same. No doubt the story starts because of the wickedness of one person i.e., Vrishaskandha but all the tragic turns later are due to unexpected circumstances and beyond human control. The truth that the journey of life is full of unpredictables is the lesson that can be drawn from this prose romance. We have already mentioned that presentation of the majesty of Sanskrit language and a series of rolling adjectives constitute the special features of the style in this work. This work is also rich in giving the information on arts, culture, ethics and human nature. We may quote one or two passages to give an idea of this aspect.
(i) क्रमशः प्रवर्धमाना जयंतिका वादित्रे चित्रे भरतशास्त्रे स्त्रीपुरुषलक्षणपरीक्षायां लवनकर्मणि अशेषभाषासु नानावेषेषु नूतनाख्यायिकादिकथानिर्माण नर्मालापे वीणावेण्वादिवाद्यकलापवादने गाने विचित्रपत्रभङ्गकर्मणि प्राणिशास्त्रे लवने लङ्घने विचित्रविविधक्रीडासु गम्भीरतरपरिहासे पत्रिकानिर्माणे काव्यपठने सरसोपन्यासे राजनीतौ कटुजनहृदयावर्जनभाषणे विविधविद्यासु च कौशलमवाप
Though the list appears to be conventional a few new items reflecting contemporary life are found here.
(i) किमपराद्धं मया नापहृतं परद्रव्यं, न हिंसिताः प्राणिनः, नोक्तानि अनृतानि, नापि चिंतिता मनसापि परपीडा, न कृतः कापुरुषसहवासः, न वञ्चितो लोकः, नाचरितं करं कर्म, न विनितं अवदातं कर्म ।
Page #27
--------------------------------------------------------------------------
________________
xxi
These are the lamentations of the Cowherd boy who was about to be killed by the butcher.
Good many such passages that are very instructive are introduced in this work. Thus the two aims of poetic compositions viz. Ananda (delight) and Upadesha (instruction) are served by this Prose-romance well
Normally a foreword records only the appreciation of the work. It does not give a narration of the contents. But in this case appreciation without narration would not highlight the depth of the contribution of the poet fully. Therefore, a narration of the main story is also attempted above. This will also help to get the threads of the story which is immersed in highly scholastic language and difficult to follow easily because of its winding nature.
It may not be out of place to quote from the appreciation of a senior Scholar Sri Govinda Ramanuja Yogindra here.
कचित्पदगभीरतां कच पदार्थगम्भीरतां
कचिन्नवनवाड्यतां नवरसात्मतां च कचित् । कचिजगदुदंततां कचिदपूर्वदृष्टांततां विलोक्य विवशं मनो भ्रमति गद्यकोशे मम ।।
IV As stated above, my admiration for this poet is not merely for the Prose-romance Jayantikā narrated above but for his entire literary output. Therefore, I cannot resist the temptation of including a few remarks about his other works in this foreword. As stated in one of my articles referred to in the beginning of this foreword his compositions are in the six areas of Drama, Mahakavya, Prose Romance, Champu, Lyrics and Stotra. The total number of his works
Page #28
--------------------------------------------------------------------------
________________
xxii
comes to about sixty-five. Among these the dramas have the major share. He has twenty-two dramas to his credit.
The special features of his dramas are: many of these are either prologues or epilogues of the well known classical dramas. These prologues and epilogues resemble the style and mood of the respective dramas so closely that one does not feel that a different poet has written these. His Prasanna Kasyapam is an epilogue to Sākuntala. It depicts the events after the reunion of Dushyanta and Shakuntala. Similarly Maniharana is an epilogue to Urubhanga of Bhasa. Adbhutamsukam and Pratijnakautiliyam are the prologues to Venisamhara and Mudrarakshasa respectively. Veerasubhadram is also a prologue to Dutaghatotkacha. His other dramas derive their theme from the Epics and Bhagavata. Most of these are one or two-act plays. He has dramatised Rishyasringa's episode in his drama Nighna Tapasa while Samyuktā is a historical play dealing with the story of Prithviraja. Anangada Prahasana is a Prahasana form of play.
Adbhutadutam is a major Mahakavya of our Poet. It is in fifteen cantos and deals with Sri Krishna's efforts to effect a reconciliation between Pandavas and Kauravas. The poet reveals his devotion to lord Sri Krishna profusely here. It is more a Bhakti Kavya than a Sandhāna Kavya. Good many figures of speech are employed here. Particularly, the Arthāntaranyāsa and Virodhabhāsa are very effective. Karunarasa Tarangini is his earlier poem. It deals with Kāliyamardana episode. Pathikoktimala is a Lyric. The poet wrote it to sustain a temporary separation from his wife when he was on a journey. In Upākhyanarathna manjusha he recounts a number of Upākhyanas selected from different Puranas.
Page #29
--------------------------------------------------------------------------
________________
XX111
Since I have said a lot about his one Prose romance viz., Jayantikā I need not say much about his other Prose romance viz., Yaduvamsa Charitam. This is a historical prose dealing with the family history of Mysore royal family. This was written at the instance of the last Mysore ruler of Odeyar family. In all these works, his creative talent, profound scholarship and command over the Sanskrit language are fully revealed.
My student Dr. S. R. Leela has recently written an article in Kannada reviewing all the works of this poet. She has highlighted the merit of each work vividly. She has also quoted the appreciative observations of Prof. Hiriyanna, Dr. Raghavan, Dr. Krishnamurthy and myself. I wish this article is published in English or Sanskrit.
Sri Jaggu Alwar Iyengar, the author of Jayantikā and Sixty-four other works was born in 1902 at Chitraghosha near Melkote the well known pilgrim centre of Srivaishnavas sanctified by the holy presence of Sri Ramanujacharya himself. His grandfather was a great scholar in Visistadvaita Vedanta and also a poet. Thus Sri Alwar Iyengar inherited his poetic talent and the scholarship from his ancestors. He obtained the Vidwan title in Sahitya and Samkhya yoga. He served on the staff of Sanskrit Colleges at Bangalore and Melkote. He was honoured by a gold medal by H. H. Krishnaraja Wodeyar of Mysore. He received Karnatak State award for eminent Scholars in 1981 and the certificate of honour from the President of India in 1985. He is also honoured by the Vidyavisharada title by Karnatak Sanskrit Sahitya Parishat.
Page #30
--------------------------------------------------------------------------
________________
XXIV
However, his greatest honour is in terms of sixty-five literary works which is a substantive contribution both in quality and quantity to 20th Century Sanskrit literature. He started his literary career when he was only 18 years old and continues the same when he is 88 now. With three sons and one daughter, he has managed a large family with a much larger number of literary children.
It is a pleasure and honour to me that I am in close association with him for the last 25 years since I came to Bangalore. I wish a full critical appreciation of his works is undertaken by a Ph.D. student and a well annotated bibliography of his works is published.
Bangalore 1-1-1991
Prof. K. T. Pandurangi Former Prof. of Sanskrit Bangalore University
Upakulapathi, Poornaprajna Vidyapeetha President, Mythic Society and Chairman, Karnatak Sanskrit Sahitya Parishat.
Page #31
--------------------------------------------------------------------------
________________
श्रीवादिकेसरिरम्यजामातृगोविन्दरामानुजयोगीन्द्रानुगृहीतं
प्रशसापत्रम्
बालधन्विकुलाब्धीन्दुः कविः वकुलभूषणः । सर्वोपकारिणी चक्रे गद्यरूपा जयन्तिकाम् ॥ १ ॥ साहित्यरसिकानन्दसन्दायिपदमेदुरा ।
अदृष्टश्रुतपूर्वेयं गद्यरीतिर्विगजते ॥ २ ॥ आबालवृद्धसकलाभिनिवेशदायी
लोकानुभूतपरमार्थविशेषवादी। नानाप्रकारगुणवर्णनवाक्यशाली
भूयादिगन्तविततो भुवि गद्यकोशः ॥ ३ ॥ कचित्पदगभीरतां कच पदार्थगम्भीरतां । ___ कचिन्नवनवाव्यतां नवरसात्मतां च कचिन । कचिजगदुदंततां कचिदपूर्वदृष्टान्ततां
विलोक्य विवशं मनो भ्रमति गद्यकोशे मम ॥ ४ ॥ शय्याविहीनकठिनाध्वनि निद्रितार्थाः
व्याख्यानवंदिपरिबोधितवास्तवार्थाः । सर्वे पुगतनकवीरितगद्यकोशाः ___ जाता अनेन कविना भुवि दीर्घनिद्राः ।। ५ ।। गयेषु वैजयन्ती __ जयन्तिकां वीक्ष्य कौतुकावेशात् । श्रीवादिकेसरिमुनिः
व्यतनोदामोदपत्रिकामेताम् ॥ ६ ॥ विरोधिवत्सरे कन्याशुक्लपञ्चम्युपेयुषि । सोमे विशाखासंयुक्ते लिखितामोदपत्रिका ॥ ७ ॥
Page #32
--------------------------------------------------------------------------
Page #33
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
॥ शुभमस्तु ॥
श्रीमते रामानुजाय नमः ॥ श्रीमते हयग्रीवाय नमः ॥
॥ जयन्तिका ॥
श्वेतं यस्य शरीरं निवसनवसनासनानि च सितानि । सोऽयं मनसि रमेशो निवसतु सततं तुरङ्गवदनो मे ॥ १ ॥
नारायणार्यतनयो यदुशैलवासी श्रीशिंगरार्यविदुषस्सुकवेश्च पौत्रः । लेभे च वेंकटगुरोस्स्वपितृव्यवर्यात् विद्याः कवेर्व कुलभूषणनामको यः ॥ २ ॥
अष्टादशाब्ददेश्यः सोऽहं गद्य प्रबंधरचनायां । कुतुकी हन्त ! नितान्तं प्रौढकवीनां यशो लिप्सुः ॥ ३ ॥
शृङ्गारवीरकरुणाद्भुतरौद्रहास्यबीभत्सशान्तरसमिश्रितमुच्चभावम् । नव्यं तनोमि सुमनोहृदयातिसेव्यं
काव्यं मनोज्ञपरिकल्पितवस्तुभव्यम् ॥ ४ ॥ बाल्ये तावदनेन निर्मितमिदं काव्यं त्विति प्राकृताः
ये मात्सर्यविमूढबुद्धिविभवा निन्दन्त्वदृद्वैव ते । बालेनेरितमेतदित्थमिति ये नन्दन्ति सन्तस्सदा
तेषामेव मुदः परं पिशुनयन्त्यस्य प्रकर्षाढ्यताम् ॥ ५ ॥ आसीद्विविधकुसुमभरितपरिमळबहुळप्रताननीमंडितारामा अअंकषकेतनालंकृतनिकेतना निजवैभवन्यक्कतसुरनगरी गरीयसी भासुरा अरिभीकरी नाम नगरी ।
Page #34
--------------------------------------------------------------------------
________________
जयन्तिका
प्रथमलहरी
आसीच्च तस्यां साम्राज्यलक्ष्मीसमालिङ्गितविग्रहो रिपुशमनशमितविग्रहस्सशरीरश्शंबरारिरिव सौन्दर्यैकवसतिरधरीकृतनिखिलनृपालो धर्मायत्तचित्तोऽप्रमत्तः प्रजापरिपालने अप्रदत्तदुरितप्रवेशावकाशो द्वादशात्मेव काशमानस्तेजसा सुधांशुरिवाह्लादितप्रजाहृदयो जीवसेनो नाम नरपतिः । यस्य च तरुणस्यापि विवाहे विमुखतया हिरण्याक्षपातनं पुराणे न क्रीडायां, चुम्बनं वेणुवादने न मदनोत्सवे प्रकम्पः पापकर्मणि न रमणीसमाकर्षणे कंठग्रहो मित्रमंडलेषु न वनितासु पयोधरकुम्भस्पर्शनं मंगलकार्येषु न मृगाक्षीवक्षस्स्थलेषु कंचुकनिर्मोचनं समीकषु न योषाजनेषु प्रह्वत्वं गुरुजनेषु न प्रणयकुपितकामिनीजनेषु समुद्गतरोमजालाकुलितशरीरता शिशिरसलिलावगाहने न नववधूसमालिंगने धवळिमा यशसा न मनोव्याधिसमुद्गमेन समभवत् ।
स नरपतिः विमुक्तकरनिकरे रक्तीकृतपश्चिमदिगन्तरे भगवति दिवाकरे निमज्जति निरन्तर तरंग परंपरामनोहरे पारावारे नक्षत्रमालालंकृतस्य नक्तमपत्यस्य तमोऽशनायानिवारणाय निर्मुक्तैकभागवलाहककंचुके परिलिप्तरागरक्तपटीरे कलंकमेचकचूचुके पीयूषक्षीरपूरिते राकेन्दुपयोधरे पूर्वदिगंगनया प्रकाशिते निर्वर्तितसंध्याविधिस्सुहृन्मण्डलपरिवृतो भुक्त्वा किंचिदिव व्याहरन्नर्मालापान्विसृष्टसुहृन्मण्डलो निद्रासुखमनुबभूव ।
तदनु संभवति तृतीये यामे विजयी भव अभिभूतराजराजवैभव ! महाराजोत्तिष्ठोतिष्ठ कलानिधिकुलललाम ! निखिलनृपालमंडलमौलिलालितपदकमल ! महासेनसमानमानातीतपराक्रम ! जीवसेनप्रभो ! चक्रवर्तिन्नित्याद्युन्नमितकरवन्दिवृन्दपरिपठ्यमानबिरुदावलिमवकर्ण्योत्थाय कोमलतरात्तल्पात् परिमृज्य च करकमलतलाभ्यां नयनयुगलं विमलचीनचेलावगुंठितविग्रहो निर्गत्य च शयनागाराभ्यंतरात् नृपालो द्वारपालप्रदर्श्यमानमार्गः,
च
Page #35
--------------------------------------------------------------------------
________________
प्रथमलहरी कुत्रचिदुशीरनिकरपरिमलीकृतशीतलसलिलतुन्दिलविमलस्फटिकभाजनं कुत्रचिदुष्णोदकमरितरुचिरकनककलशकमनीयं कुत्रचिन्निपिष्टामलामलकफलपिण्डमण्डितं कुत्रचित्परिमलहृदयङ्गमस्नानचूर्णविशेषपरिकलितपात्रं कुत्रचिन्नात्युन्नतशशांककान्तशिलापीठं कुत्रचिद्दन्तधवलममृणशङ्खलम्बितधौतकोशेयं कुत्रचिजलपात्रहस्तप्रशस्तवनितानिवहस्पृहणीयं मजनगृहमविशत्।
प्रविश्य च तत्रेन्दुकान्तशिलापीठमधिरुह्य स्नापितो वनिताभिस्स्वयं च करिकलभ इव स्फटिकद्रोणिकासलिले क्षणमिव क्रीडन्धौतवस्त्रपरिमृष्टमूर्तिः सुरापगाफेनपिण्डधवलकौशेयपरिधानः सूक्ष्मारुणातिमसृणकौशेयकोद्गमनीयश्वोपरिनिपतितबालातपारुणितकैलास इवाष्टमीशशांकानुकारिणि ललाटफलंके विरचितकुंकुमस्थासकोऽलिकतलदेदीप्यमानलोचनो हर इव मज्जनगृहान्निर्गत्य क्वचिन्निक्षिप्तकनकभाजनविनिहितसुगन्धबन्धुरविविधवर्णकरम्बितप्रसूनमालं वचिच्छातकुम्भस्तम्भबिलसन्निस्तरलदीपपल्लवं क्वचिद्धवलधूपधूमलतावितानितधूपवर्तिसम्भारं क्वचित्पीतनैलाचूर्णकृतघ्राणतर्पणार्णःपूर्णसुवर्णकुम्भं क्वचिदानायपारगभूसुरवरवर्ग देवमन्दिरं प्राविशत् ।
___ तत्र तुहिनविशदस्पृहणीयतिरस्करिणीकृतप्रतीहारपिधाने विशदकौशेयोलोचमध्यलम्बितस्थूलमुक्ताफलकलापे प्रत्ननवरत्नमालालङ्कृतगाङ्गेयगोपानसीपर्यन्ते कुशेशयकोरकाकारकनककलशपंक्तिपरिष्कृतशिखरदेशे चतुकोणयोजिततपनीयपताके चतुभिर्मसृणमरकतस्तम्भैरुपशोभिते रत्नकल्पितनेत्रैः विवृतकरालवदनकुहरैश्चतुर्भिः कनककसरिभिरुह्यमाने मण्टपे विराजमानं सुदर्शनपाञ्चजन्यकौमोदकीनन्दकादिदिव्यायुधमण्डलपरिमण्डितचतुर्भुजदण्डं मकुटमकरकुण्डलप्रैवेयककेयूरहारनूपुरादिदिव्याभरणालंकृतं मृगमदतिलकसुन्दरमुखारविन्दं श्रीभूनीलासमेतं परमपुरुषं नारायणं समभ्यर्च्य परिपठ्यमानस्वरसुभगानायकण्ठान्धृतधवलोद्गमनीयकमनीयकायानूर्ध्वपुण्ड्रभासुरान्भूसुरान् प्रणम्य च,
Page #36
--------------------------------------------------------------------------
________________
जयन्तिका कुत्रचित्सिताम्रानुकारिमल्लिकामालाकलापं कुत्रचिद्वर्षर्तुवलाहकसुषमासोदररमणीयमरकतमणीरितमालामनोहरं कुत्रचिन्नक्षत्रसदृक्षहीराभरणगणद्विगुणिततेजोविशेषं कुत्रचिदिन्द्रचापसच्छायनवरत्नमयौवेयकं कुत्रचिद्विविधवर्णशवलितमहणतरमृदुलपट्टांशुकहृदयंगमं कुत्रचिन्मलयजरसभरिततपनीयप्रतिग्राहं कुत्रचिचक्राकारविन्यस्तप्रशस्तकीरकायकान्तिनीकाशनागवल्लीपल्लवतल्लजप्रफुल्लप्रदेशं स्वकीर्तिधवलिताष्टकाष्ठांगनाभिरिव श्वेतद्वीपवासिनीभिरिव कलानिधिलोकललनाभिरिव गौरीमन्दहासविरचिताभिरिव मल्लिकाकुसुमपरागकल्पिताभिरिव परिधृतधवलदुकूलाभिः मौक्तिकमालालंकृताभिर्विशददन्तसमुत्कीर्णवलयालिललितमणिबंधाभिरष्टभिरविलासिनीभिः धवलितमध्यप्रदेशमलंकारनिलयमलंचकार ।
तत्र तामिरलंकृतोऽयं तस्मानिर्गत्य च प्रतीहारीकरकोकनदोपरिविनिहितवामेतरपाणिपुंडरीकश्चाजानुबाहुपरिलंबमानविशदकंचुकावगुंठितपूर्वकायैः आगुल्फावसक्तधवलतरचंडातकर्मेखलीकृतारुणांशुकैरक्ताम्बरविरचितोष्णीषैरसोपरिविन्यस्तकनकदंडैः प्रांशुभिस्सावधानं पश्यत, दूरं दीयतां मार्गावकाश इति तारतारं व्याहरद्भिः कंचुकिमिर्दापितमार्गावकाशः स्फटिकशिलाफलकनिर्मितावदातविशालभित्तिपरिगततया प्रसृमरकौमुदीकांतिमिव इंद्रनीलमणिफलककुट्टिमतलप्रतिबिंबितसमस्तवस्तुतया सलिलभ्रांतिमुपजनयंती समुत्कीर्णानेकप्रताननीस्पृहणीयानां स्तंभानामग्रभागेषु धृतपाटलकंकटकैरागुल्फावसक्तरक्तचंडातकैनिश्चलतनुभिः करविधृतकोशवर्जितकृपाणैः परिजनैर्विसृष्टनिर्मोकैः कृष्णकाकोदरहस्तैस्समुत्कीर्णसुपर्णविग्रहैरिव विराजमानां धराधीशदिदृक्षयाभीक्ष्णं विवलितकन्धरैर्गम्भीरप्रकृतिभिस्सामन्तनरपतिभिरुपशोभमानां कुत्रचित्संगीतवीणावेणुकलापारदृश्वभिः कुशीलवरलंकृतांकणां कुत्रचित्पदवाक्यप्रमाण र्वेदान्तवादविशारदैस्सशरी रैशान्तरसैरिव नृपसभप्रवेशोचितवेषैः पंडितप्रकांडैः परिमंडितां समां बलारातिस्सुधर्मामिव प्रविश्य, समुत्थितान्कोरकितकर
Page #37
--------------------------------------------------------------------------
________________
प्रथमलहरी सरोरुहान्सभास्ताराननुमोदमानश्शिरसैव कटाक्षप्रसरणेनैवानंदयन्नुदयगिरिशिखरं दिवाकर इव रत्नमयं सिंहासनमारुरोह ।
अधिरूढे च तस्मित्राजनि वारसुन्दरीकरारविन्दवीज्यमानविशदचामरकलापे प्रणिपतदनेकावनीपतिमकुटमालामणिरुचिनीराजितचरणकमलयुगले वीणादिविविधानवद्यवाद्यसंमोदितमानसे, प्रविश्य च सभां द्वारपालः प्रणिपत्य सविनयं देव ! मखप्रियो नाम तपोधनश्चतुर्मिरतेवासिभिस्सम देवदिदृक्षया द्वारि तिष्ठति । एतदवकर्ण्य देवः प्रमाणमिति अभिधाय विरराम । तत्क्षणमेव सभ्यैस्सममुत्थाय गत्वा च नरपतिद्वारदेश प्रह्वभावेनाबद्धपिंगजटमानाभिलम्बमानकूर्चकलापमावेष्टितकक्षतलनिक्षिप्तकृष्णाजिनं दर्भपवित्रसनाथानामिकांगुलिना दक्षिणहस्तेन गृहीतकमंडलुमक्षमालावेष्टितमणिबंधेन वामपाणिना विधृतयोगदंडं आजानुचीरचेलाबद्धकच्छं द्वादशोर्ध्वपुंड्रमंडलधिकतदंडधरदंडभयं प्रवयसं तेजसा तिरस्कृतवैश्वानरं लंबमानपाटलजटैः कृष्णाजिनपरिधाननिरन्तरामायाभ्यसनश्रमकृशतनुयष्टिभिर्मूर्तिमद्धिविनयैरिव चतुर्मिश्शिष्यैः परिवृतं तं मखप्रियं नमस्कृत्य मुनिवरं नीत्वा च सभाभ्यंतरं ब्रुस्याच्छादिते कनकपीठे समुपवेश्य च यथाविधि समभ्यपूजयत् । ततश्च तेन विनयाभिरामेण नरपतिना अपि कुशलं ? कचिनिर्विघ्नं तपः ? इति कृतानुयोगो योगीशस्सभ्येषु तद्भाषितशुश्रूषया समधिगतेषु जोषंभावं गभीरया गिरा भो ! राजन् ! त्वयि परिपालयति विश्वम्भरां सर्वमपि सम्यगस्माकं प्रचलत्येव । तथापि चण्डदंष्ट्रो नाम चण्डपराक्रमः कन्यादो मदाश्रमस्यानतिदूदरे पर्यटन्नसकृदभिपत्य तपोविघ्नमाचरति । निरन्तरायं तपः कर्तुं नैव शक्नुमः। तदधुना भवतैव स निहन्तव्य इति व्याहृत्य निरगच्छत्समांकणात् ।
तदनु स जीवसेनस्सचिवायत्तीकृतभुवनमारः करकमलकृतकरवालो वाजिवालचामरप्रकटितराजभावः समुदंडकेतुदंडकोटिचलपटपरिमंडितं
Page #38
--------------------------------------------------------------------------
________________
जयन्तिका पांडरघोटकचतुष्टयसनाथपुरोभागममिवर्मनामकसूताविरहितपुरोदेशं द्वारदेशस्थितं रथमधिरुह्य वृत्रासुरवधबद्धादरः पुरंदर इवाराजत ।
तदनु सारथिना परिचोदितास्तुरंगमाः किंचिदिव विवृतवदनाः खलीनमसकृजिह्वामूलेन चालयंतस्सितफेनपिंडाकुलितहक्कभागाः निश्चलोर्ध्वश्रवणपुटाविनमितकश्यदेशाः निजोदरेण स्पृशंतो धरातलं स्तोकोन्नमितवालकलापास्स्वेदसलिलस्रपितविग्रहाः परस्परसंघर्षणजनितधर्मजलसमुस्थितफेनचर्चितोरुमूलाश्चात्यर्कवाजिवायुवैनतेयजवाःसुदूरपरिदृश्यमानानपि महीधरमहीरुहान्क्षणादेव पृष्ठतः कुर्वतः तां निशाचरावासभूमिमगमन् ।
स तु जीवसेनः परितः पश्यन् निशम्य च प्रधावतां सैंधवानां खरतरखुरपुटरटितममर्षेणापतन्तं सन्ध्यातपारुणितशिखादलपरंपरं जंगमं नारिकेलतरुमिव शिरोविलसत्पाटलकुटिलजटापटलं स्थूलपनसफलसंकाशस्थपुटितोत्तमांग सरीसृपफणांतःप्रदेशप्रतीकाशनिग्नललाटतटमरुणतरप्रसमरभूदंडविडबितदेवजग्धकसमार्जिनीसंभारमत्यल्पनेत्रापहसिततित्रिणीपत्रवैभवंशूर्पायतलंबमानरोमपिहितश्रोत्रयुगलं पृथुलतरप्रसृतकुटिलघोणगह्वरं गजगंडस्थलानुकारिसमुदंडगंडभित्तिविडंबितगंडशैलंशैलदरीसोदरभयंकरवक्त्रविवरं गुहोभयपानिपतन्निर्झरप्रतीकाशनिशितसितायतदंष्ट्रायुगलं सालतरुमूलदेशसोदरपीवरकठोरतरकंधरं स्कंधपीठधिकतोदंडगंडशैलं खदिरपीवरशाखानुकारिभयंकरभुजदंडं गिरिसानुशिलातलविशालवणकिणस्थपुटितवक्षस्स्थलं स्तंबेरमशुष्कसिराबद्धशार्दूलाजिनतटलंबमानपीवरोदरं स्थूलस्थूलवल्गन्मांसलासितसक्थिस्तंभं करिचरणोच्छूनजंघाकांडं परस्परप्रोतारालांगुलिकुटिलविशालकठिनचरणं प्रांशुशूलपोतमृतविविधवन्यमृगारुणरुधिरबिंदुसिच्यमानबाहुमूलं कलिकालमिव सशरीरं दुरितनिकरमिवैकत्र संघीभूतं द्वितीयमिव यमं हरमिव धृतत्रिशूलं महासेनमिवाद्भुतशक्तिं पुण्यजनाभिनन्दितमपि पुण्यजननिंदितं प्राणिहननैकबुद्धिमपि सदावनसरणिसंचरणोत्सुक
Page #39
--------------------------------------------------------------------------
________________
प्रथमलहरी बुद्धिं सुरारिमपि सुरातिप्रीतिं मन्युजन्मभूमिमपि मन्युशनुं तं चंडपराक्रम चंडदंष्ट्रमद्राक्षीत् ।
__तत्रांतरे तरसा तरसादनस्स्संदनोपरि निपत्य समवर्तिसमीपवर्तिनमतानीत्सृतमाजिदुर्मदैर्वाजिभिस्समम् । तत्क्षणमेव शतांगादुत्प्लुत्य क्षितितले स्थितस्य राज्ञः खड्गधारा वाजिधारामयं लोधेति रुषेव तस्य यातुधानस्य शरीराद्रुधिरधारामपारामुदपादयत् । तथापि न्यनत्य क्षतबाधां राक्षसोऽयं रोषादुरिक्षप्तरूक्षाक्षिपक्ष्मा क्षितिरक्षकमुरिक्षप्य रूक्षकराभ्यां निक्षिप्य च कठोरे स्कंधपीठे पादाक्षेपेण क्षोणीतलं क्षोदमिव कुर्वन्नखर्ववर्मा निजगहनगुहाभिमुखं प्रतस्थे। ____तादृक्षं रक्षस्समीक्ष्य समीकदक्षः क्षितीशस्तत्क्षणं कौक्षेयकधारया धरायां तत्कंधरां न्यपातयत् । कृत्तं तदुत्तमांग परिस्रवद्रुधिरकलुषितकंठान्नृत्यगुधिरधारारुणकिरणनिकरं निपतदंगारकग्रहमंडलमिव पपात वसुमत्यां । क्षणादेव गंडूषायमाणबुद्दाकुलरुधिरकलुषितकंठान्नृत्यतः कबंधात्कोऽपि नयनपथार्गलायमानस्तेजस्समुदयस्समुत्थाय प्रस्मरपद्मरागरुचिररक्तादुदयगिरिशिखरादिवाकर इव मुहुः परिचलचामीकरपक्षयुगलं दिव्यमणिमयं कनककलशकांतशिखरं असमरपरिमलाकुलपारिजातकुसुममालातोरणं समुत्कीर्णवर्णचारणं मेरुसमानं विमानं समासरोह। अधिरुह्य च तत्र विराजमानं दिव्यवारसुन्दरीकरारविन्दवीज्यमानचामरं दिव्यालंकारं दिव्यपुरुषाकारं तेजोवारं स नरपतिस्सविस्मयं समवलोक्य प्रणिपत्य च कृतांजलिस्सविनयं समुन्नमितवदनारविंदः देवगन्धर्वयक्षकिन्नरेषु एवंविधनिहीननिशाचरजन्मनः किंवा निदानं ? कस्त्वं निवेदयतु भवान् मदनुजिघृक्षया। श्रोतुकामोऽस्मि । निवेदय दययंति पप्रच्छ ।
तदनु स तेजोमयः पुरुषः प्रत्युपकारार्होऽयमिति मनसि कृत्वा सानुकंपमेवमाह । वत्स ! यदि कुतुकी शृणु तावत् । नक्तमालतमाल
J-2
Page #40
--------------------------------------------------------------------------
________________
जयन्तिका
रसालसालाश्वत्थदधित्थादिविविधवृक्षषडमंडितस्य शुकपिकादिनानाविधशकुनिनिकरकलकलरवमुखरितस्य सुन्दरीमुखस्येव तिलकालंकृतस्य विटकुलस्येव गणिकासनाथस्य मिथिलापत्तनस्येव वैदेहीजन्मस्थलस्य विष्णुवक्षस्थलस्येव लक्ष्म्याक्रांतस्य पाकशासननगरस्येव विरचितरंमावासस्य महेश्वरकेतनस्येव वृषभालंकृतस्य द्वारकानगरस्येव मुसल्यधिष्ठितस्य वैकुण्ठस्येव विराजमानमुकुन्दस्य अलकापत्तनस्येव विलसत्कुबेरकस्य लकापुरस्येव पलाशगणसमाक्रांतस्य नराधिपोत्तमांगस्येव सितच्छत्रालंकृतस्य श्रीनन्दकुमारकरतलस्येव वेणुरमणीयस्य युद्धांकणस्येव विजृममाणशरनिकरस्य राघवबलस्येव मर्कटकुलनिचितस्य पद्माकरस्येव पुंडरीकषंडमंडितस्यापि भयंकरस्य नगरस्येव भूदाररक्षितस्यापि परित्यक्तजनतावासस्य गगनतलस्येव पर्यटदृक्षपतेरपि कृच्छ्रदर्शनीयस्य अवरोधस्येव महिषीमंडलमंडितस्यापि विविक्तस्य विष्णुपदस्येव हरिकृतावासस्यापि पर्यटन्निशाचरवर्गस्य स्वर्गस्येव कौशिकाक्रांतस्य रमणीयाप्सरसश्च पातालस्येव तमालांधकारस्य नागाकुलस्य च शवशतनिचितस्यापि समारब्धशिवामितक्रमस्य च दंडकारण्यस्य मध्ये विराजमानायां गिरिगुहायां वरमालिनी नाम नरपतिदुहिता द्वादशान्ददेश्येन चारुवक्त्रनाम्ना तनयेन सममुवास। पदेपदे स चारुवक्त्रो लवित्रखनित्रपाणिनखंपचरजोराजिरुक्षे आतपतापिते काननकापथे तत्रतत्र पर्यटन्कंदमूलफलान्यन्विष्य पिटकमापूर्य चासाद्य गुहां समर्प्य च तानि जनन्यै तया दत्तैः कंदमूलफलैः सुहितस्तावदविदितनिजामिजात्यमतिररण्यमेव शरण्यं मन्वानः कालमतिवाहयामास ।
एकदा तादृशं भोगेकभाजनमपि कठोरतरे कान्तारे परिभ्रमन्तं तं सुकुमारं राजकुमारं निरीक्ष्य स्मृतिपथाधिरूढनिरतिशयसौधसौभाग्यपरम्परा दुःखैकभाजनं रुदती तैलसंस्कारविहीनतया धूलिधूसरितकेशपाशा विमुक्तमुक्तायामरणा परिधृतधौतांशुका कन्दमूलफलाहारतया कठोरातपसंचारेण चातिकृशग्लपिततनुयष्टिः क्लिष्टा च कांतारवासेन सा वरमालिनी नितरां
Page #41
--------------------------------------------------------------------------
________________
प्रथमलहरी
दुःखिता मलिनमलिनं तनयमाश्लिष्य निरर्गलं निर्गलतातितीक्ष्णतरेण बाष्पपूरेण न्यर्षिचत्कोमलतरं तत्कपोलतलम् । तदा स चारुवक्त्रस्तीक्ष्णतराश्रुसलिलव्यथितकपोलफलकस्सपदि समुत्थाय विलपन्तीं निजजननीमवलोक्य सविनयमम्ब ! कुतो रोदिषि ? कुतो वा विमुंचसि नयनाभ्यां तीक्ष्णतरामश्रुसलिलधारां ? निवेदय मे दयया दुःखनिदानमित्यपृच्छत् । पृष्टा च सा वरमालिनी चेलांचलेन परिमृज्याश्रुधारां समस्तमपि दुःखं गूहमाना गदितुमारभत शोकनिदानं । वत्स ! किमनेन श्रुतेन १ तथापि निवेदयामि शृणु तावत् ।
11
अस्ति हि समस्तोद्भवदद्भुतभूमिरलकेव धनसमृद्धा सुकृतिजन - लालिता च सुरनगरीव शतमन्युपरिरक्षिता दानवारिसंमोदिता च नारायणतनुखि समस्तवस्तुमयी विलसल्लक्ष्मीविलासमंजुला च वैजयन्तीराजिविराजमाना वैजयन्ती नाम राजधानी । यस्यास्सदनशृंगाणि कुर्वन्ति कुशलानुयोगं नाकलोकस्य । यस्यां च कानिचिदगाराणि दूरीकृतताराम - रीचिरुचिरुचिरहोरावलिनिचितानि मेचकजीमूतस्तोमसमावेष्टितावलग्नान्यनुकुर्वति कानिचिन्नीलांबरस्य कानिचित्प्रत्युप्तमरकतमणिनिकरचामीकरप्रसृमरसुषुमाप्ररोहाणि परिहसंति मन्दिराणींदिराकान्तकान्ततनुकांतिम् । यस्यां च विकलांगापत्यात्ययवैधव्यदौर्गत्यदस्यूपनिपतनादिक्लेशानां वार्तापि न याति प्रजानां श्रवणसरणिं । या च रसालबंडीलपाटलवकुलमालिकामलकतिलकपिच्छिला नक्तमालतमालमालतीपलाशनवमालिकाचंपकचांपेयमल्लिकानागवल्लीपूगमागधीकुन्द सिन्धुवारकरवीरकरीरजंबीरफलपूरबीजपूरादितरुलतादिभिरभिरामेष्वारामेषु शुकपिककलरवशिखावलकलविंकादिशकुनि
कुलकलकलनिनदैर्मरन्दनिष्यन्दसुन्दरारविन्दवृन्देन्दिन्दिरराव सुन्दरतटत - टाकतरंगपटलपर्यटत्करेटुचटुलवरटापटलमरालसारसबककोकादिविविधवि
-
चित्रजलचरपतगनिकरारावैः कुसुमापचयोत्सुकललनाजनकरचरणाद्याभरणरणितैः कुसुमपरिसरपरिभ्रमच्चंचरीकचयचारुझंकारैश्च मुखरीक्रियते ॥
Page #42
--------------------------------------------------------------------------
________________
12
जयन्तिका
तस्यामासीद खिलनरपतिमकुटतटघटितरुचिरनवमणिगणकिरण • निकरानुषंगादि वारुणचरणपल्लवः पाकशासन इवाद्भुतायुधविध्वस्तसमस्तमहीभृत्पक्षविजृंभो मेरुरिव रत्नकटकश्शंकर इव राजमौलिस्सवितेवासुलभदर्शनश्शरत्काल इव राजहंससंसेवितस्तार्क्ष्य इव सत्पथसंचारो भुजगवल्लभ इव विधृतभुवनभारः प्रथमयुगविलास इव धर्मैकवसतिः चित्रपटः इव विविधवर्णोपलालितो दशरथ इव सुमित्राविरहितश्चंद्र इवाह्लादितसकलजनहृदयः दर्शनसंदर्शन विमलहृदयो विमतकेसरी नाम राजा तव पिता वृषस्कंधाभिधेन सुहृदा समम् ।
यस्मिंश्च राज्यलक्ष्मीश्चंचलेति चिरकालानुवर्तमानामपकीर्ति परिहर्तुकामेव स्थिरतामवाप । यस्य च कविरिव पदातिचिंतनकृतसंधिविग्रहस्सरित्पतिवि राजलक्ष्म्युदयहेतुश्शुक्लपक्ष इवाभिवर्धितराजो योगीव मंत्रबलप्रत्यक्षीकृतसकलविषयः पूर्णसुधांशुरिव सकलकलास्पृहणीयो निजधिषणान्यक्कृतधिषणधीवैभवो मरुन्मालो नाम भूसुरवरस्सचिववरः । यश्च वृषस्कंधेन विना प्रमदवनविहारं सलिलक्रीडां मधुरतररसभरितमशनं मृगयामक्षक्रीडां मनोहरहारादिभूषणं स्पृहणीयभाषणं स्नानमेवमन्यानि च निजकार्याणि नाचरति स्म भार्यासंश्लेषणावसरमेकमंतरेण ।
एवं स्थिते कदाचित्परिलिप्ससुगंधितैलैः प्रसाधिनीप्रसाधितैश्व केशपाशैर्विरचितभोगिभोगनिभायतवेणीं तदुपरि विनिहितपरिमलस्पृहणीयषट्चरणगणमुखरितपिंडीकृत प्रसूनमालां चूर्णवासितोर्मिंसधर्मललितालका वलिमनेकवर्णमयूखाभिभूतनयनही रमयकर्णिकालंकृतकर्णपाशां मृग - मदतिलकालंकृतविशालललाटफलकां कंदर्पकोदण्डडंबरहरोन्नतभ्रुवमंजनांचितखंजनेत्रीं दर्पकदर्पणायमानकोमलतरकपोलफलका चामीकरचंपककोरककमनीयनासिकां तांबूलचर्वणारुणिमबंधूकगर्वसर्वकष लावण्यमधुराधरां मलयजरसपरिमळीकृतकंबुकंधरां नवरत्नमालामंडितपयोधरमंडलां जातरूपापादितहंसमिथुनसनाथपर्यंतकांतदुकूलालंकृतां मेचककौशेयकंचुलिका
Page #43
--------------------------------------------------------------------------
________________
प्रथमलहरी
वंचितवलाहकसुषुमातिशयां मयूराकारकेयूरभासुरबाहुलतां विविधतनुतरविचित्रमणिमयवलयश्रेणीस्पृहणीयमणिबन्धां विचित्रपत्रभङ्गतरंगितांगुलीय
13
कालंकृतांगुलिपल्लवां चञ्चञ्चञ्चलारुचिकांचनकांचीदामांचितवंचितपंचशरचापलस्तकप्रशस्तावलग्नां नूपुर मनोहरचरणसरोरुहां अवदातदंतसमुत्कीर्णसालभंजिकापुंजमंजुलं समास्तीर्णक्षीरगौरतल्पं रत्नराजिपरिष्कृतपर्यंत पर्यंकमधिष्ठितामेकाकिनीमवलोक्य स वृषस्कंधहतकः पञ्चशरशरविशीर्णहृदयो ममोपकण्ठं कंठालिंगनेच्छया मंदमंदं भीतभीत उपससर्प ।
विलोक्य चोपसर्पतं भीता त्रपयोत्थाय पर्यंका त्किंचिदिव कुंचितवदना मंदमन्यतो गंतुमुद्यताभवम् । स तु तदा मदनमंदीकृतमतिर तिमात्रं प्रकंपमानगात्रः प्रसभमर्गलीभूय साध्वससमुद्गलत्स्वेद बिंदुदंतुरितमुखमंडलः शश्व - दवरोधमभितः पश्यन्नीरसरसनांचलालिह्यमानाधरोष्ठपुटः परिस्फुटित स्खलदक्षरगणघटितमनुलपन्किमपि किमपि मुखवैवर्ण्यप्रकटितनिजदुष्प्रवृत्तिसाध्वसो दैन्यादेवं जल्पितवान् । अयि ! सुधांशुधिक्करणचणवदनारविंदे ! चित्रमेतत्त्वन्मुखचन्द्रदर्शनमात्रेण मोहांधकाराकुलित इतिकर्तव्यतामूढोऽस्म्यहमुन्मत्त इव स्प्रष्टुमुद्यतस्साध्वसेन निर्व्यापारो जोषमस्मि । क्षणादेव शंबरारिशरनिकरविशीर्णहृदयः स्प्रष्टुकामोऽस्म्येवमेव स्प्रष्टुमपि त्यक्तुमप्यनीशस्सांत्वयामि परिक्षुभितं हृदयं । किमु न ते नते मयि कृपा ? क्षणमात्रं निपातय कटाक्षं कृपयेति दुर्विदग्धो दैवदग्धो बहुधा प्रलपन्मत्पादयोः प्रणिपत्य समुदतिष्ठत् ।
तदा किमिदमेवं ? किं कर्तव्यं ? किं वक्तव्यं ? किमति - संधानेन वंचयेयं? किमथवा सांत्वोक्त्या परावर्तयेयं ? कथमीदृशस्संवृत्तोऽयं ! न हि चक्षुः कामस्येति सत्यं । अनेन नावकाशो दीयते बहिर्गन्तुमपीति दुःखेन साध्वसेन कोपेन च जर्झरितहृदयायां मयि चिंतैकतानायां खल ! गोमुखव्यात्र इव शादपिहितकूप इव च प्रदर्शितविभस्सुहृदिव समासाद्यानवद्यहृदयमस्मद्वलभं निर्लज्जो जननीसमानां मामभिलषसि नृशंस ! प्रशं
Page #44
--------------------------------------------------------------------------
________________
14
जयन्तिका
ससि संसदि परिशुद्धात्मानमात्मानम् । कथय विकत्थनपर!कस्मादन्यस्माद्वा परावर्तसे दुष्कर्मणः ? धिग्जीवितमीदृशं । न कदापि भवत श्रुतिपथमागतः किमु परयोषाभिलाषिणां चपलमनीषाणां पुरुषाणां पुरुहूतपौलस्त्यप्रभृतीनामुदंत इति सावेगं निगदंत्यां, तत्रांतरे मत्सखीमापतंती मकरिकामवलोक्य स दुरात्मा त्वरया निरगात् । गते च तस्मिन्नुपविश्य पर्यके रुदती निपतदश्रुकणिकाकुलितकपोलफलका दुःखभरजर्झरिताक्षरा ससांत्ववचनमसकृत्पृच्छत्यै तस्यै मकरिकायै प्रचलितमखिलमपि वृत्तं न्यवेदयम् । ___ सा तु मकरिका समाकर्ण्य कर्णकर्कशं कापुरुषस्य तस्य शाठ्यं साध्वसकंपितहृदया रोषकषायितलोचना गत्वा च सरमसं भवत्पित्रे विमतकेसरिणे निवेद्य मदुःखमात्रं सद्यस्तमानयति स्म मदुपकंठम् । स तु तव पिता रुदतीमवलोक्य च मां मत्पाव एव निषण्णो विषण्णहृदयश्चेलांचलेन परिमार्जयन्कपोलतलपतितं बाष्पसलिलं समुत्सारयन्करकमलैविलुलितां चूर्णकुंतलावलिं निवारयन्मधुरया गिरा हृदयगतमपरिमितं संतापं परामृशन्मृदुलतरेण करकमलतलेन मूर्धानं मंदमप्राक्षीत् । सुदति ! कुतो रोदिषि ? इति ।
पृष्टा चाहं वेपमानहृदया बद्धांजलिपुटा प्रभावमवलान्य नाथ ! सविनयमिदमेकमभ्यर्थय। नितरां बिभेमि निवेदयितुं । स्त्रीहृदयविजंभितमिति नोपेक्षणीयं । चंचलप्रकृतिकृतमिति नाप्यनादरणीयं । परस्परमैत्र्यसहनोक्तिरियमिति नैवाविश्वसनीयं । निजसौन्दर्यदर्पप्रकटनपरीवाह इति न दूरीकरणीयं । असंभावितमिदमिति न तिरस्करणीयं । पैशुभ्यप्रकार इति नाप्युदासितव्यं । अश्रद्धेयमिति नैव निराकरणीयमार्यपुत्रेण मद्वचनं । नाहं मिथ्यावादिनी; न च पश्यामि प्रयोजनमसत्यकथनेन । योषितः पातिव्रत्यैकधना हि ! तद्यथाकथंचिदपि कुलांगनयाभिरक्षणीयं पातिव्रत्यं । तदत्यये त्वभिजातामपि तृणाय मन्यते । सत्पुरुषाः गहँते । नाप्याभाषते। तदहमावेदयामि भवदेकशरणा। शमीतरुरिव
Page #45
--------------------------------------------------------------------------
________________
प्रथमलहरी
15 बहिनिखिलवृक्षसाधारणोऽप्यंतर्निहिततैक्ष्ण्यस्सुहृदाभासस्ते परिपंथी वृषभसधर्मा स वृषस्कंधो मामकामयत। नाथ! कथमहं निर्भयं भुजंगकृतावासे वासे वसामि ? तदद्य बहिनिस्सारय तं । नान्यथा प्राणिमीति न्यवेदयम् ।
निशम्य च कर्णकठोरां गिरमुदीर्णां तव पिता संधुक्षितकल्पानलकल्पानल्पामर्षपरिपूर्णितलोहितलोचनो भ्रूभंगभीकराकारः परस्परसंघर्षणविकटकटकटरटितमुखरितरदनश्रेणिः परिस्पंदमानारुणाधरःप्रादुर्भवद्दिवाकरबिंबः इव ताम्रतरमुखमंडलो गिलन्निव भुवनं तन्वन्निव पादाभिघातेन गर्तमुर्वीतलं चालयन्निव करतलास्फालनरवेण कुलाचलकुलं क्षोभयन्निव हुंकारेण महोदधिं दहन्निव क्रोधानलेन त्रिभुवनं तिरस्कुर्वन्निव प्रलयकालशुलिनं विडंबयन्निव नरकंठीरवं रिपुहननभीकरं निजावलग्नलग्नात्कोशात्सरभसमाकृष्य परिस्फुरती सरीसृपसंकाशां करवाललतां तजिघांसया जांघिको निर्जगाम।
ज्ञातोदंतः प्रविदारणदारुणः कृतघ्नताप्रकटनकटुतरहृदयो दयादूरीकृतः स तु वृषस्कंधहतकः सरभसमापतंतं श्येनपातं तव तातं विलोक्य वेगातिशयेन यावदंतिकाभिगमनं तावदेकत्र निश्चलतया स्थित्वा स्थिरचित्तो निर्मयं क्रोधाधीनचेतसि सन्निहिते तव ताते मल्लतल्लजः इव सरमसमपसृत्य दृढमपरांगे तद्भुजदंडयुगलं पाणिनैकेन गोधारग्रहं गृहीत्वा परेण च करेण भवत्पितृमुष्टिबंधादाच्छिद्य मंडलाप्रमुग्रबाहुस्तेनैवाच्छिनदुत्तमांग तव तातस्य ।
क्षणादेव निजवल्लभात्ययजनितशोकातिरेकोन्मस्तकवैराग्यपरिगृहीतकापायांबरायामिव रुधिरधारासारारुणायां धरायां निपत्य परिस्फुरतं समुद्गलद्रुधिरबुद्बुदबन्धुरां कंधरामसकृद्विवृतवदनकुहरं स्तोकपक्ष्मान्तरितसाचीकृतलोचनकनीनिकं परिलुठत्तव पितुरुत्तमांगं च दर्शदर्श शोकपारावारनीरनिममहृदयेषु तत्रत्येषु सद्यःपाटितवनकरिकुंभपीठास्कंठीरवादिव रोषकषायितचक्षुषस्तस्मान्नृशंसादृषस्कंधाद्भीतभीतेषु बाष्प
Page #46
--------------------------------------------------------------------------
________________
जयन्तिका
सलिलपरि प्लावितलोचनेषु मूकेष्विवोररीकुर्वत्सु जोषंभावं अहं तावत्साध्वसेन शोकेन च वेपमानगात्रयष्टिर्वाष्पधारापूरपरिपूरितनयनतया अदृश्यमानलक्ष्या गाढांधकारमध्यवर्तिनीव निखिलरप्यलक्षिता निजपरिजनैरपि दूरीकृता निरवलंबना लतेव भुवि लुठंती परित्यक्तसकलरमणीयाभरणा हृदयजनितशोकानलेनेव शोषितसलिलतया शुष्करसना परिधृतधवलांशुका निर्गत्य च प्रासादादेकाकिनी तेनैवांशुकप्रांतेनावगुंठितमस्तका विरलतरमनुजसंचारेण नगरमार्गेण निरगच्छम् । तत्रत्याः केचिदप्यपरिचिततया दौर्गत्यसमुचितवेषतया च न मामज्ञासिषुर्नरपतिमहिषीति ।
16
निर्गत्य च नगरादसूर्यपश्याप्यहं गगनमध्याधिगतसहस्रदीधितितया निरंतरापरिमितातपपरितप्यमानमस्तकोन्मस्तकशोकविहस्ता च स्मारंस्मारं भवत्पितरं विदीर्यमाणकठिनहृदया दयाहीनं पापिनं परिपंथिनं तमनुस्मृत्य च भयद्विगुणितस्वेदसलिलस्नापिता तृणेऽपि चलति तमेव पापिनं विशंकमाना पातिव्रत्यैकरक्षणपरा व्यथामंदीभूतगमनापि कथंकथमपि प्रयत्नबलकृतदूरप्रयाणा पदेपदे स्खलंती क्कचिन्नखंपचरजोराजिरूक्षे क्वचिदतिनिशितकंटकपटलकटुतरे क्वचिच्छार्दूलखरतर नखरोत्खातवातायुशोणित बिंदुदंतुरे क्वचिच्छललीशात शिखाशलाकाकंटकिते क्वचिदतिहरितापरिमितशादसंदोहसंदानितमरकतकुट्टिमसंदेहे क्वचिन्नमेरुतरुतलप्रच्छायशयानैः समारब्धरोमंथैः कुरंगमंडलैरुपशोभमाने क्वचित्करिकलभकुलपरिपातितैस्सलकी पलवैररुणीकृते क्वचित्सुदूरं निबद्धपंक्तिभिः पिपीलिकापरंपराभिः कालीकृते क्वचित् कोलकुलकलुषितैः कर्दमप्रायैः पल्वलैश्शीतलतले क्वचिद्विविधकंटकनिचितलताजालजटिलतया दुष्प्रवेशप्रदेशे क्वचिद्विषधरनिर्मुक्तनिर्मोकजालधवलितरंध्रप्रांतैर्वल्मीकैरतिभयानके क्वचिज्जं भारिदंभोलिपातितपक्षैः पर्वतैरिव कंठीरवखरनखरकरताडितकुंभपीठैरुपरतैः कुंजररैराच्छादिते क्वचित्स्थपुटिते कचित्कंटकिते कचिच्छर्कराकुलिते कचिद्गर्तदुर्गमे वनमार्गे सुदुरं धावंधावं
Page #47
--------------------------------------------------------------------------
________________
प्रथमलहरी
17
कृच्छ्रेण स्वेदजलधारास्नापितप्रतीका अप्रतीकारानिर्वचनीयक्लेशा तृषया भिया व्यथया च शुष्कवदना कोष्णबाष्पैकसारा निराहारा खरतरकिरणातपपरितप्ततलपरिस्फुटितचरणतला रोदनैकप्रतीकारा वनभूमिमेनामागमम् ।
आगत्य च पृथुलविद्रुमानुकारिणीभिः फलमंजरीभिरतिरमणीयस्य पाटलफलनिकटसंभूतैरविरलहरित पलाशपटलैररुणचचुपुटानां शुकनिकराणां भ्रांतिमुपजनयद्भिर्भासुरस्य विविधविचित्रशकुनिनिवहकलकलनिनादैश्शब्दापितस्य स्थिरतामाकल्पमुत्पादयितुमिव विरचित पृथुलस्तंभैः प्ररोहसहसैस्सनाथस्य वनदेवतावासविशालशालासंकाशावकाशसमुपशमितदिनेशांशुतापस्य विंध्य - स्यवारविंदबंधुसुधांशुमार्गार्गलीभूतशिखरस्य वटविटपिनोऽवरोधवधूजनमिवासूर्यपश्यं रसातलमिवांधकारपरिवृतममरावतीपत्तनमिव काँशिककृतावासं पृथुलतरं मूलतलमविशम् । प्रविश्य च समुपविश्य मूलशिलातले शीतले परिश्रांता श्रम जलमखिलमपनीय वदनतले समुन्मिषट्सनांचलेन निर्मानुषतया द्विगुणितान्युल्बणशोका भीतभीता परितो दत्तदृष्टिरदृष्टायतिशाता मनस्यैवमचितयम् ।
निखिलजनविगर्हितं दुःखैकभाजनं वंचितसुखलवसंकल्पं मंगलकार्येषु मनसाप्यचिंत्यं महोत्सवेषु कटाक्षेणाप्यनवेक्षणीयं बंधुजनेष्वपि समुपजनितलाघवं पलाशप्रसूनमिव निष्फलसौन्दर्यं चित्रगतयुवतिशरीर मिवोपभोगान यौवनमामरणवतिं वैधव्यं तावदिदं अतर्कितोपनतं मामभ्यभवत् । यदनवरतमपि अबलाजनमत्रणं व्यथयति । अनामयं क्षपयत्यनाश्रयाशं दहति । अविकलांगं विरूपयति । यच्चाभिमतं बंधुजन मिवाभरणजालमपि दूरीकरोति । केशपाशमिव हृदयमपि स्नेहहीनं तनोति । यदभिभूतायाश्च योषितो मुखमंडलं रक्तांबरायाः प्राचीदिशस्समुद्यन्मार्तंडमंडलमिव प्रभाते दर्शनपथात्परिहरति जनाः । यदभिभृताश्च परिमलहृदयंगमानि प्रसूनानि स्मरशिलीमुखभियेव नावेक्षंत मृगेक्षणाः । हन्त ! न जाने दुस्तरं वैधव्यमीदृशमनुभवत्या घृतप्राणया मया यापयितव्याः कति
J.3
Page #48
--------------------------------------------------------------------------
________________
जयन्तिका
समया इति । अथवा कथमपि जीवंती न किमपि प्रयोजनं पश्यामि । किंत्वनर्थमेव । तदधुनैव त्यक्ष्यामि प्राणानिति विचित्य च तस्मादुत्थायेंधनानि तत्रतत्र निपतितानि समाहृत्याहृत्य विरचय्य विशालामुच्छ्रितां च चितां दृषदा दृषदमभिहत्य तज्जनितं तस्यां न्यक्षिपमनलम् ।
18
निक्षिप्ते च तस्यामनिकणे निजसख्यास्सुरापगायाः कुशलानुयोगचिकीर्षया समुद्गच्छन्निव यमुनासलिलप्रवाहोऽत्यधिकतया निर्भिद्य धरणिमपि वेगादूर्ध्वं निस्सरन्निव रसातलादंधकारो नंदनवनश्रीदिदृक्षयेव आस्वर्गमुपचीयमानस्तमालतरुनिकरो मनुजानां दिगंतरालेषु दिगंगनाकेशपाशसंदेहं नीलकंठानां वियदंकणे कादंबिनी भ्रांति घूकानां आमोदं चक्रवाकानां शोकं च समुपजनयन् व्याघ्रचित्रकायप्रभृतीनां वनसत्वानामंतकायमानः कांतारमखिलमपि नीलसांद्रपटावगुंठितमिव वितन्वन् समंतात्समुदचरद्भूमनिकरः ।
तदनु फूत्कारायमाणेन समीरणेन क्रमेण प्रतिबोधितः प्रथमं चितांतरांतरा प्रसृमैरेवलापल्लवैः किसलयशंकामुपजनयन्क्रमक्रमसमाक्रांतसकलेंधनो दिशिदिशि विप्रकीर्णस्थूलस्फुलिंगनिकरो ज्वलदुदग्रशिखरज्वालाकरपल्लवैर्माणिक्यघुटिकानिकुरूंबमर्पयन्निव दिग्वधूभ्यः विजृंभमाणज्वालामालो लिहन्निव गगनतलं चटचटात्काग्वाचालित हरिदंतरालस्समंततः प्रसृमरस्थूलबाहाभिरालिंगन्निव दिगंगनाः विसृत्वररोचिर्दूरीकृतकुंजपुंजांतलींनतमः पटलः पाकशासनचाप इव विविधवर्णस्पृहणीयोऽरुण इव रक्तप्रभाप्रकाशिताकाशतलः विरिंचिरिव कमलयोनिः राधेय इव स्पर्शनलब्धविकासो योध इव प्रकटिततीक्ष्णतरविचित्रहेतिः वारांगनाविलासः इवापहृतपल्लवसौभाग्यश्शाकुनिक इव निहतानेककुलायगतशकुनिनिकरः भीष्मनिशितशरशतहतिकुपितपार्थसारथिरिव प्रदर्शितचक्रज्वालः काभिश्चिदचिर निहतदैत्येंद्ररुधिरसिक्तनरकेसरि केसरकलापानुकारिणी भिरतिरक्ताभिः काभिश्चिन्मरकतशलाकासंकाशा मिर्हरित सुषुमाभिः काभिश्चिदिंद्रनीलद्युतिगर्वसर्वकषाभिः काभिश्चित्सुरापगापरीवाहनिभाभिर्विशदप्रभाभिः
·
Page #49
--------------------------------------------------------------------------
________________
प्रथमलहरी
19
ज्वालाभिः कंदलितविचित्रतरप्रकाशस्संत्रासितपत्ररथजातो वीतिहोत्रो नितरां जज्वाल।
एवं ज्वलंतं तमाश्रयाशं प्रदक्षिणीकृत्य तस्मिन्यदा निपतितुमुद्यताभवं तदा वैहायसं वृत्तमानुष्टुभमिदमश्रौषम्
राकेन्दुवदने ! कुक्षौ तवाद्य निवसन् शिशुः ।
अग्रेऽविष्यति मा भीस्ते तन्मा प्राणानिमांस्त्यज ॥ इत्याकर्ण्य च तदतिविस्मयेनाहमचिंतयम् ।
अहो ! विधिविलसितम् ! विज्ञायते प्राणपरित्यागेऽपि नैवाशयो दैवस्येति । हन्त ! अहं कथमिव पतिविरहिता धृतप्राणा निष्करुणा कान्तारेऽस्मिन्कालमतिवाहयामि । हा ! नियते ! विधाय च मामेवंविधदुःखस्य भाजनमिह मन्निधनमपि नानुमन्यसे । हन्त ! अथवा जन्मान्तरकृतस्य दुरितकर्मणः फलमिदमनुभूयते । न हि रसालफलमुपभोक्तुं शक्यते निम्बबीजमुप्तवतात्र । अहो ! परिणतस्य कर्मणो महिमातिशयः । भोग्यजातोपभोगैकलोलुपां मनसाप्यनालोचितक्लेशां मामचिरादेवं विधायारण्यानीमनीनयत् । न तावत्स्वप्नेऽपि तर्कितमीदृशी दुर्दशा मामभिभवतीति । को वा जानाति भवितव्यतां इति बहुधा विचिन्त्य च दयितशोकदम्यमानकंठा बाष्पकलुषितोच्छूनलोचना कृच्छ्रेण गुहामिमामविशम् । ___ तदनु भगवति माताडे कुट्सलीकृतकमलपंडे चितानलज्वालातितप्ततयेवारुणमंडले रक्तीकृतपश्चिमदिग्भागे अभ्रंकषचितानलज्वालासंतापासहिष्णुतयेव विसृज्यांबरांकणमधिगतवति चरमसरित्पतिपरिसरं समंतादभिपतद्भिरंधकारनिकरैरिव डयमानैर्वायसमंडलैनिजकुलायाभिमुखं प्रस्थितैः कलरवकलविकादिविविधविचित्रपतत्रिवातैर्बहुतरकलरवमुखरितदिगंतरैस्सलिलाोकृतपक्षयुगलैः कदलीवनाभिमुखः के टुबककादंबप्रभृतिभिर्जलचरपतगैश्च वितानितं गगनतलम् । तदनु क्रमेण प्राप्ते च पतंगमंडले सलिल
Page #50
--------------------------------------------------------------------------
________________
20
जयन्तिका
निधि गुहाभ्यंतरेभ्यो बहिनिस्सरतां घूकानां धूंकारघोषैस्तत्रतत्र पर्यटतां वनमशकपटलानां सूक्ष्मतरकलक्कणितैरतिनृशंसानां वनसत्वानां भीकरघोषैश्च मुखरीकृतमटवीतटम् ।
____ अहं पुनः परितो दत्तदृष्टिस्साध्वसेन वेपमानगात्रयष्टिनिराहारतया निरंतरपरिधावनद्विगुणितपरिश्रमतया निरतिशयव्यथाक्वाथ्यमानमानसतया च दीनदीना अविरलमभिपततश्श्रवणयुगलं नयनपथं सशब्दं वनमशकान्वसनांचलेन परिहरंत्युपधानीकृतदक्षिणबाहुतला दरीद्वारशिलातलमधिशिश्य । अहो ! नियत्या निद्राप्यपहता। निर्निद्रवानिर्वाच्यदुःखभरेणनयनकोणद्रोणीनिरर्गलनिर्गलद्वाष्पधारासारपूर्यमाणश्रवणविवरा विधिहतक ! निरनुकोशोऽसि! न हि ते हृदि लेशोऽप्याभावः। यतो निजवैभवापहसितवासवप्रासादे प्रासादे सादरं भुजिघ्याजनपरिकल्पिते तुषारसंततिसोदराविरलजालजटिलतनुतरतिरस्करिणीमध्यवर्तिनि यन्त्रव्यजनजनितमन्दमारुतान्दोलितसितविततशरदभ्रविभ्रमहरमनोहरदुकूलवितानसंतानेकल्पतरुकोमलकिसलयकल्पे तल्पे मधुरगानकुशलकुशीलवकुलविस्तृतप्रशस्तरागपरंपरामाधुरीपरिप्लावितस्वांतं कृतनिद्रामेनां मामेकाकिनीमधुना घोरतरे कांतारे कठिनतले शिलातले शायितवानसि । इति कंचित्कालं विधिमुपालंभमाना वराकि ! वरमालिनि ! न पर्याप्तमिदं तावत् दुःखम् ; क्षत्रावतंसदुहितुः परिगृहीतचक्रवर्तिपाणिपल्लवायास्ते। यतश्च तादृशदयितात्ययक दलितशोकानलसंधुक्षिततापदह्यमानादप्यपरिस्फुटितानाधुनापि तव हृदयादपयांति प्राप्तपुटपाकाः प्राणाः। चिरमनुभव दुरितानुगुणं फलम् । इति कंचित्कालमात्मानं विगहेमाणा नृशंसापशदेन कृतन्नेन तेन निकृत्तं घोरतररुधिरधारासारकल्माषितं दुनिरीक्षविकारप्रमुषितसौन्दर्य दयितवदनं शोकातिरेकात्कंचित्कालं स्मरन्ती निरन्तरप्रसमरतिमिरपटलतया नीलिमसमीकृतगर्तान्तरामुन्नतानेकानोकह निवह निबिडपलाशपंडद्विगुणितनैल्यां नीरंध्रध्वान्तनिरुद्धावकाशतयेव झिल्लिकानिकरतारतारारवकैतवेन विलपंती
Page #51
--------------------------------------------------------------------------
________________
प्रथमलहरी
परिपतद्भासुरतारापदेशेन पतिताश्रुजलबिंदुसंदोहां तिमिरमयतया मियेव संकुचिताकारां निरुद्धश्वसनां निशीथिनीराक्षसीबंदीकृतामिव स्तब्धां अरण्यानी कंचित्कालमालोकयंती मुहुराविर्भवचिन्तासन्तानतरंगितस्वान्ता कथंकथमपि शोकपरंपरामिव चिन्तासन्ततिमिव च दीर्घदीर्घा तां विभावरीमत्यवाहयम् ।
तदनंतरमुषसि प्रसभं प्रलोभितहृदयव्यापारया बलाद्धटितपक्ष्मपुटया निद्रया विस्मारितशरीरां मामुदयगिरिशिखरस्तम्भोत्थिते निजकरालकराग्रविदारितांधकारहिरण्यकशिपौ रुधिररक्तमुखभागे तोषितद्विजबजे नरकेसरिणीव विलसति भगवति भास्वति समुद्भूयमानपक्षपुटाः उन्नमितकंठाः नीलकंठाः केकानिनादैः पक्षत्युदरसमुत्सारितेन निवार्य चरणेन शिरःकंडूं विवल्य च कन्धरां बोटिपुटेन समीकृत्य च बर्हकलापं निजकुलायेभ्यः प्रस्थिताः पत्ररथवाताः श्रवणसुभगैः कलकलरसितैः वंदिनः इव प्राबोधयन्माम् ।
प्रबोधिता च समुत्थाय नातिदूरवर्तिनि शर्करिलायतीरदेशे प्रान्तप्ररूढनलपटलदुष्प्रवेशे संफुलकमलकल्हारप्रसवप्रकरप्रसृमरकषायगंधकल्पितघ्राणतर्पणे जलचरपतत्रिनिकरकलकलरववाचालिते विमलसलिलतरंगशीकरवाहिवातशीतलितप्रांतप्रदेशे सरसि स्नात्वा परिधृतार्द्रवसना कथंकथमपि कान्तारकापथे पर्यटन्ती कन्दमूलफलान्याहृत्य च सुगंधीनि कसमान्यपचित्य निक्षिप्य च पत्रपुटे गुहामेनामासाद्य समभ्यर्च्य च भगवन्तं श्रीमन्तं नारायणं तैरेव कन्दमूलफलैः परिपूर्य च दयितनिधनद्विगुणिताशनायं जठरपिठरहतकं निर्व्यापारतया मदीयामिमां दुर्दशां भावयन्ती कोष्णवाप्पधारास्नापितस्तनमंडला विषण्णहृदया शिलातले सानुकंपमुपकंठमुपेत्य परिपृच्छंतीभ्यः अनतिदूरपक्कणवासिनीभ्यः पुलिंदसुंदरीभ्यः निगदंती विस्तरशो मदुदंतं कालमत्यवाहयम् ।
Page #52
--------------------------------------------------------------------------
________________
22
जयन्तिका
तदनु दशमे मासे मामाश्वासयितुमपारशोकवैश्वानरपरिप्लुष्टाद्भुदयादवतीर्णस्संकुचितशरीरो निजापराधशंकया विमतकेसरीव कर्कशतरदुःखदावानलसमाक्रांततया निरवकाशादभ्यंतरादुत्प्लुत्यागत इवानंदग्रन्थिर्भवानजायत । प्रादुर्भवति त्वयि मन्देतरानन्दतुन्दिलपुरन्दरादिवृन्दारकबृन्दकरारविन्द विमुक्तनन्दनवन भवमन्दार सुमसन्दोहस्यन्दमानमरन्दागतेन्दि न्दिरवृन्दसन्दानितमुदिरसन्देहो गन्धर्वगानपुरन्दरवारसुन्दरीनृत्यबन्धुरो
-
देदीप्यमानारविन्दबन्धुर्मन्दमन्दस्पन्दमानचन्दनाद्रिगन्धवहो ऽमन्दानन्दकन्दलितकुसुमकन्दुककुर्द नस्यन्दमानघर्मजलबिन्दुसुन्दरमुखारविन्द पुलिन्द सुन्दरीसन्दोहस्स वासरो रराज । तदानीं दवदहनपरिप्लुष्टारिष्टत रु किसलयकुटिलतरधूमगन्धेन द्विजवर्गक्रियमाणश्रुतिमधुरनादेन दवदह्यमान सर्पनिर्मोकधूपेन कन्दरद्वारशिखर नतविटपिविटपकोटिरसालपाटलपलव पटलतोरणेन च विधिनैव सौंधसूतिकागृहरक्षानिर्विशेषो विपिनेऽपि रक्षाविधिः कल्पितः । तव तदा स्निग्धमुग्धाश्च शबरललना एव धात्र्यः । व्रततिततिनिबद्धांचलेन चेलेन डोलाकर्म। तारतारकोमलको किलालापा एव निद्रानिदानगानविशेषाः । तत्रतत्र पर्यटंतः खद्योता एव मंगलमणिदीपाश्चाभवन् । क्रमशश्च निजतनुतनुकान्त्यपहसितनवरसालकिसालयलावण्यः कोकनदकोशसंकाशदृढमुष्टिबंधमुकुलित स्पृहणीयपाणिपल्लवः कुटिलीकृतभ्रूयुगलमनिमित्तारब्धरोदनो विलुलितवलिललित मृदुलतरतनुरसकृदधोमुखं निपतन्सादरं शबरनितंबिनीभिरुत्तानितस्सरभसमुद्भूयमानकरचरणसरसिजः करतलतालशब्देन समाश्वासितश्च रविरिवादशनवदनस्सृक्क भागान्निस्सरतं लालाजलबिंदुसंदोहं मुक्ताफलच्छविमपि पद्मरागमणिमिवारुणाधरप्रभया विरचयन्जहसिथ |
एवं वसन्त इव पल्लवारुणः परिस्पन्दमानभ्रमरकावलिमंजुलकमलमुखः कुसुमलोभनीयकान्तिर्निजसौन्दर्यापहृतवनवासिनीहृदयश्च प्रतिदिनमपि पुलिंदनितंबिनीजनाभिलालितोऽभवः । तदनु जानुकरकमलसाह्येन क्रमेणोपक्रांतचंक्रमणस्तत्रतत्र परिपतन्पुलिन्दसुन्दरीभिस्समुद्धृतश्च समा
Page #53
--------------------------------------------------------------------------
________________
प्रथमलहरी
लिष्टश्च समुत्क्षिप्तश्च प्रार्थितःप्रचुंबितश्च सादरं शिरसि समाघातश्च सकौतुकं बाहुलतायां शायितश्च सप्रमोदं सदंतपीडं निजशिरसि समारोपितश्च पीनपयोधरतटे नर्तितश्व संप्लुष्टया मधुरया गिरा मामबेत्यायन्नस्माकमुत्सवमयमिव दिवसमखिलमपि हर्षमयमकार्षीः ।
ततश्च शादलतले क्रमेण पर्यटन्कृकलासकुलमनुकुर्वन्निव वल्गितोत्तमांगो निजबाल्यानुगुणं ससंभ्रमं परिभ्रमन्नात्युन्नतं शिलाशिखरं समवलंब्य बलादुत्थाय च संध्यातपारुणित गगनतले विलसंत्यस्त्रिचतस्रस्तारा इवात्यरुणे वदनतले निर्निमित्तहासावसरे प्रकटयत्रदनकलिकाः समुन्नमितमुखपुंडरीको वल्गितवलिविलुलितमांसलोरुदण्डो मंदमंदं नृत्यस्तासां शबरवनितानां दृढमवलंब्यांगुलिपल्लवं पाणिना व्यत्ययविनिहितचरणकिसलयस्तत्रतत्र समुड्डीयमानानां विचित्रपत्ररथत्रातानां कलकलरसितं श्रावंश्रावं चित्रपतंगवातं दर्शदर्श च हासविकसितवदनकमलस्त्वन्मुखारविन्दसौदर्यापहृतहृदयाभिस्ताभिरेव पुलिन्दसुन्दरीभिश्वारुवक्त्रनाम्ना समाहूतश्व प्रासाद इव कान्तारे सुसुखमवर्धथाः ।
तदनु चरणाभ्यामेव कृतचंक्रमणः काननकटुकुटिलवर्मना संचरमाणः कुंजपुंजोदरेषु शयानैश्शार्दूलकसरिकिशोरकैस्सह कृतक्रीडस्तत्करखरतराग्रस्पर्शक्षतक्षरत्क्षतजधारारुणितं शरीरं स्वयमेव दर्शदर्श रुधिरारुणवर्णवर्णनोदीर्णदीनपरिदेवनो वनोद्देशादासाद्य सद्यस्सकाशमस्माकं प्रदर्शयन्विशीर्णनिजांगमादरार्पितेन स्वादुना फलेन समाश्वासितो हर्षप्रकर्षसंफुलमुखपुंडरिको हृदयमस्माकं स्नग्ध्यदिग्धमिव व्यधाः।
एवं बहुविधां स्पृहणीयां तावकी बाल्यलोलामनवलोक्यैवोपरतं तव पितरं स्मारंस्मारं महाटवीपर्यटनेन निष्ठरं कष्टमनुभवंतं भवंतं दर्शदर्श च दीनदीना दुःखितास्मीत्यकथयत् । निशम्य च परुषतरमेनमुदंतं स चारुवक्त्रो मुहूर्तमिव शोकातिरेकेतिकर्तव्यतामूढतया स्तंभीभूतगात्रो
Page #54
--------------------------------------------------------------------------
________________
जयन्तिका
निष्पंदनयनारविंदनिरर्गलनिर्गलदश्रुजलधारासारपरिबाधमानाधर किसलयः किसलय इवामर्षेणारुणमूर्तिः कंपमानश्च गंभीरप्रकृतिरपि प्रकटितदीनभावो मनसि विचार्य दीर्घमुष्णं च निश्वस्य प्रणिपत्य च जनन्यै बद्धांजलिपुटो दुःखमरनिरुध्यमानाक्षरस्सविनयमंब ! क्रियतामाशीः। भयानकं विरचय्य तपः करुणापूर्णस्य भगवतो नारायणस्य प्रसादेन विजितनिखिलनृपालो निर्जित्य च तं नृशंसं वृषस्कंधं पातयिष्यामि भवच्चरणकमलयोः। करिष्यामि च भवतीं वीरमातरम् । बहुधा जल्पितेन किमिति प्रतिजज्ञे। ____सा तु तदा वरमालिनी दुःखभरदम्यमानकंठा सगद्दं पयोधरतटपरिपतनत्रुटिताश्रुशीकरनिकरपरिषिक्तांशुका वत्स ! जैवातृक ! यत्कृते सोढोऽयं पतिविरहः समनुभूतश्च वनवासक्लेशः रक्षिताश्चेमे प्राणाः कृताश्च शबराबला बांधवाः समाश्रितश्च तापसीभावः तृणीकृता शरीरपीडा समवलंबितं दौर्गत्यं उररीकृतं च वैरूप्यं असह्यमप्युद्व्यूढं वैधव्यं विरुद्धमपि तावदंगीकृतं शरीरपोषणं आभिजात्याननुगुणाप्यनवरतं संतापजनन्यपि स्थितिरनुमता च मया निर्भाग्यया। वत्स! चारुवक्त्र! तव मनोहरं मुखकमलमवलोकयन्ती विस्मृत्य चोपरतदयितशोकं कथंकथमपि कालमतिवाहयामि।
प्रयाते च त्वयि तपसे न जाने कथमतिवाह्योऽयं महान्कालः ; कः पुनरालपनीयः कथं मनो विनोदयितव्यं यद्यपि हृद्योऽयमुद्यमस्तेक्षत्रवतंसेन भवता कर्तव्यमेव विपक्षमूलोत्पाटनं प्रकाशयितव्यं शौर्य समार्जनीया कीर्तिः अनुवर्तनीया कुलमर्यादा प्रकटनीयो वंशमहिमा संपादनीयं प्राज्यं राज्यं आवर्जनीया राज्यलक्ष्मीः अवर्जनीयं प्रजापरिपोषणं लालनीयमाश्रितबंधुवृन्दहृदयसन्तोषणं अनुरंजनीयो लोकः समुत्साटनीयो मच्छोकः क्षिप्रमेव दानवारिप्रसादेन समुत्सारयतु चामरस्तव शरीरोपरि परिपतितमिदं' रजःपटलं; निवारयतु श्वेतातपत्रं चित्रभानुकर्कशमयूखातपसन्तापं प्रशमयतु शतांगः कठोरकान्तारकापथसञ्चारखेदं; अरुणयतु सामंतनरपतिकिरीटकोटि
Page #55
--------------------------------------------------------------------------
________________
प्रथमलहरी
घटितपद्मरागराजिमयूखः विपिनसरणिधूलिधूसरितांश्चरणनखरानवजीमूतवातसच्छायगजघटापुष्करप्रसृमरमदसलिलशीकरतारकिते निशिततरशिलीमुखनिकरकंटकिते करवाललताजालजटिले प्रथननिशीथिनीसमये भवंतमभिसरतु राजलक्ष्मीः; निरीक्षतां भवत्कटाक्षं विपक्षपक्ष्या अपि क्षितीशाः; समुन्नमय धर्मेण समं विजयवैजयन्ती; अवनमयाधर्मेण समं समुद्धतक्षितिपतिततिमूर्धानं ; धवलय भुवनमंडलं यशसा ; अपनय मर्यादारक्षणेन वर्णसांकर्य इत्यभिधाय दृढतरमाविष्य शिरस्याघ्राय च तं चारुवक्त्रं तपश्चरणायानुमेने।
___ लब्धानुमतिश्च बालोऽपि ध्रुव इव निर्भीको निर्गत्य च निपतनिर्झरझरीपरीतोभयपार्श्वतया पार्श्वयुगलडोलायितविशददुकूलालंकृतमिव गैरिकादिधातुरंजिततया नवहरिचंदनचर्चितमिव प्रसूनप्रचुरप्रताननीजालावलोढस्कंधतया कुसुममालामंडलमंडितमिव हरितदूर्वानिवहविच्छुरिताधःप्रदेशतया परिधृतहरितकोशेयमिवेदशेन वेषेण प्रकटयन्तमिव महीभृत्त्वं बृंदारकसेनाबूंदमिव पुरस्कृतगुहं रणांकणमिव प्रसमरसिंहनादं नारायणमिव वनमालालंकृतं चंद्रमिव शशधरं वारसुंदरीविग्रहमिव भुजंगालिंगितं जलनिधिमिव निपतद्भुनीध्वनितं विशालपादमपि विगतसंचारं अत्युन्नतशृंगमप्यवृषभं नात्युन्नतं शिखरिणं समधिरुह्य तत्र च निश्चलविग्रहस्समधिगतेंद्रियनिग्रहः घोरतरं तपश्चचार ।
__ . सुचिरं तपश्चरतश्वास्य तपोवेगेन परिक्षुभिने भुवनत्रये निजपदभ्रंशभिया संत्रस्तस्सुत्रामा गीर्वाणगणपरिवृतो निर्गत्य च निरंतरामेयानिर्वचनीयसुखाकरान्निजनगरात्प्रस्थितश्च अपरिहार्यनीहारराशिनिरुद्धजनसंचारं मदकलकुररकुलचळमाणमरिचिपल्लवं प्रस्मरगंधबंधुरं जाड्यपरिजिहीर्षया समुन्नतशिखरशिलापरंपरासु निषण्णैरासेव्यमानसूर्यातपैः किन्नरमिथुनैरुपशोभमानं तत्रतत्र धवलमृदुललोमकवचितपृथुलतनुमूषिकाविशेषक्रियमाणसुषिरपरंपराकरंबितं तत्रतत्र सुगंधबंधुरविततदलदूर्वाविशेषकृतघ्राणतर्पणं
J.
Page #56
--------------------------------------------------------------------------
________________
26
जयन्तिका कुत्रचित्तुलसीकाननपरिमलाकृष्यमाणजनताघ्राणं कुत्रचिद्विविधविचित्रवर्णप्रसूनप्रकरविडंबितनवरत्नकुट्टिमं कुत्रचित्क्षुद्रशिलोच्चयनिशितशिखरनिकरविशीर्यमाणदिनकरकिरणद्रवीकृतघनतरपालेयप्रवाहरयसमुत्कीर्यमाणशीकरसंक्रांतत्रयीतनुमयूखतया नवरत्नमालालंकृतमिव कुत्रचित्सुरधुनीपरीवाहकलकलनादश्रवणोत्कंठनीलकंठस्तोकाकुंचितकंठं समुपचीयमानहिमानीपिहितगिरिकंदरतया ससंभ्रममन्विष्यमाणनिजकंदरं परिभ्रमद्भिर्वनमानुषैः विशदतुहिनसावाद्रसितानुमेयहंसकुलं कुत्रचिन्मिहिकानिवहावगुंठितसमुन्नतशिखरिनिपतितसूर्यातपतया कनकफलकनिचोलितमिव कुत्रचित्तहिनकरंबितनिपतन्निर्झरझरीनिपतितरविकिरणतया रजतद्रवधुनीशंकामुपजनयंतं कुत्रचिद्विचित्रवर्णशबलितपृथुलमंडूकप्लुतिमुद्रितचरणरेखास्थपुटितकर्दमदेशं कुत्रचिदेलालवंगलवलीपिप्पलिकाप्रायतरुलतासंकटं कुत्रचित्परिणतपतितविततपत्रपटलमर्मररवमुखरिते भूर्जतरुतले शयानैः कोरकितलोचनैः समारब्धरोमंथैः वातायुव्रातैरभिरामं कुत्रचित्पर्यटद्भिर्वालकलापोसार्यमाणनीहारैश्चमरीमृगैरतिरमणीयं कुत्रचिन्मृगयुगणपरिधाव्यमानपरिश्रान्तकस्तूरिकामृगनाभितलप्रसमरगंधसुरमितं कुत्रचिद्भयंकराकारशाखामृगगणपरिचाल्यमानसमुन्नतदेवदारुतरुदीर्घतरपृथुलशाखाशिखरसमुत्सार्यमाणतुषारसंततिं कुत्रचिदुच्छ्रितशिखरादसकृत्सनिर्घोषं परिपतद्भिन्डशैलनिकरैरतिभयानकं कुत्रचित्कुसुमापचयोत्सुकानां कुसुमशंकया लताशिखरलग्नेषु तुहिनपुंजेषु विनिहितकरपलवानां वनदेवतानां हासरवमनोहरं कुत्रचित्तापसपर्णकुटीरवाटीदर्शनीयं कुत्रचिद्धवलभल्लूकपरंपरांबूकृतलालाबुद्दजालजनिततुहिनसंततिशंकं तत्रतत्र कैश्चिदुन्नमितबाहुभिः दक्षिणोरुतलविनिहितवामचरणैरविरलचीरांबरधारिभिः अवनिविनिहितप्रपदैः कैश्चिदाबद्धपद्मासनैः लंबमानपाटलजटैः निभृतोन्नमितपूर्वकायैः बद्धांजलिपुटैः निमीलितलोचनैः कैश्चित्कौपीनमात्रवसनैः पवनाहारतया कृशांगकैः उन्नमितोरस्स्थलास्थिपंजरैरधोमुखं तपश्चरद्भिश्च तापसजनैस्संसेव्यमानं
Page #57
--------------------------------------------------------------------------
________________
प्रथमलहरी कुत्रचित्तिर्यक्चर्चितभस्मत्रिपुंड्धवलितललाटैलॊचनोपांतपरिलिप्तसितभसितैः भस्मोडूलितशरीरैरजिनकृतकौपीनैः परिलंबमानदीर्घकू.श्चक्राकारनिबद्धपाटलतरजटाजटिलोत्तमांगैः रुद्राक्षवलयाश्लिष्टकंधोगदंडशिखरविनिहितबाहुमूलैश्शिवशिव ! हरहर ! शंकर शंकरेत्युचैः कूजद्भिः लब्धरुद्रताद्रुप्यैः शैवैदंतुरप्रांतं, कुत्रचित्तालेयबिंदुसंदोहदुर्दिनतया विटपिपटलांधकारिततया च स्खलंत्या कचिदुन्नतशिलातलात्पतंत्या कचित्कंटकितलताजालोपरिसंचारेण शतधा विशीर्णया अर्णवाभ्यर्णजिगमिषयाभिसारिकयेव कचिच्छिलारंध्रसरण्या निस्सरत्या जलर्निजश्रवणसरण्या मामेवं व्यसजदिति प्रदर्शयंत्येव कचिद्भगीरथप्रार्थनया नाकलोकादवतरंती मां परपुरुषः पस्पर्शेति शंकरश्शिरोरुहेणाबद्धवानिति च लज्जया रुषा च व्यथया च भृगुपतनमाचरेत्येव क्वचिदुन्नतशिलोपरिसमुत्पतंत्या समधिरुह्य चोच्छ्रितं शिलोच्चयं पश्यत्येव निजवलभं उदन्वन्तं कचिन्महागते निस्तरलतया विचिंत्य दयितं संकल्पयत्येव क्वचिदतिघोषतया प्रलपत्येव क्वचिदनवरतसंचारेण दूरीकृतनिद्रयेव क्वचिदासूक्ष्मतरप्रवाहतया लब्धकार्ययेव क्वचिन्मंदगमनतया जगदखिलमपि तृणाय मन्यमानयेव कचिढ़ावंत्या निर्लजयेव क्वचित्खरतरदिनकरकिरणनिकरपरितप्ततया संजातस्मरज्वरयेव क्वचित्स्थपुटिततलसंचारेण प्रनृत्यंत्येवोन्मत्तया क्वचिरिक्षतितले परिलुठंत्या समुगिरद्धवलफेनया विवल्यमानशैवालकचकलापया समुद्भूयमानदीर्घतरतरंगभुजलतया तारतारमाक्रोशंत्या मूर्छितयेव सततमप्यनुभवत्येव मदनावस्थां योगिमनोवृत्त्येव निर्मलया श्रितजनसतापापहारिण्या राज्यश्रियेव राजहससंसेव्यमानया पद्मिन्येव रविकिरणसंवर्ध्यमानया अपहृतत्रिविक्रमचरणारविन्दनखरनिकरप्रभयेव धवलप्रभया सिद्धचारणसुंदरीपयोधरतटपटोरपरिमलवाहिन्या सुरवाहिन्या समावेष्टितं, सिद्धचारणप्रभृतिभिर्देवगणैरुपशोभितं, तत्रतत्र गुहासु सुप्तोत्थितैः कोरकितपिंगललोचनैः करतलमुदरदेशं च शोणतरजिह्वापल्लवाग्रेण शश्वदालिह्य
Page #58
--------------------------------------------------------------------------
________________
जयन्तिका कृतांगभंगतया दीर्घतरविग्रहैः जंभावसरप्रकाशितनिशितनिशाकरकलाकुटिलधवलदंष्ट्ररुपक्रांतमंदचंक्रमणैरसकृद्विवलितकंधरैराकेकरया दृशा दिशमभितो दर्शदर्श पर्यटद्भिस्तारविरावमुखरितहरिदंतगलैः केसरिभिरतिभयानकं, कुमारशरविदारितक्रौंचगिरिविवरसरणिविनिर्गतैश्चंचुपुटलंबमानमानससरोवरसंजातजातरूपतामरसविसरैरुद्धयमानधवलपक्षपुटतरंगपरंपरैर्डयमानैर्गगनतलेऽपि स्वच्छतरसलिलपूरितस्य पद्माकरस्य संदेहमुपजनयद्भिर्मरालमंडलैः परिमंडितं, पूर्वापरपारावारयोः कुशलानुयोगं एकदैव कुर्वतं देवतास्वरूपं भिषजमिव दिव्यौषधिसनाथं हरमिव गंगाधरं पार्थसुतमिव परिगृहीतोत्तरं महान्तं हिमवन्तं ददर्श ।
दृष्ट्वा च तयैव सरण्या प्रस्थितो विलापितरजतद्रवसौभाग्यहरावदातोदकं पर्यन्तारूढसुवर्णसहस्रपत्रतया कनकसमुत्कीर्णपत्रभंगतरंगचित्रितप्रांतं विमलतरं तुहिनमहीभृदवलोकनायोत्तानशायितं मुकुरमिव हरिततरविततनलिनीदलमध्यपतितधौतसलिलबिंदुनिकरतयामरकतफलकान्तरप्रत्युप्त मुक्ताप्रकरनिबद्धभूमिभ्रममुपजनयंतं निरंतरचामीकरमहोरुहनिकरोदरप्रसृमरदिवाकरकिरणगणपिंगलितकांतारप्रांतांतरं हंसचंचुपुटचालितचामीकरसरसीरुहनिवहविनिर्गतपरागपिंजरितावकाशतयानवरतमपि तपनबालातपपरीतमिव कनकवालुकातलनिषण्णमरालपोतपंक्तिकिंकिणीकणितस्पृहणीयरणितरमणीयतटदेशं उषःकालावतीर्णसप्तर्षिमंडलस्नानपवित्रिततीर्थोदकं जलकेल्युत्सुकविबुधनितंबिनी शिथिलितधम्मिल्लविगलितपरिजातकुसुमवासनावासिततटसलिलं सलिलप्लवमानमंदारप्रसूनासवास्वादकांक्षापरिपतदिंद्रनीलकांतिकांतचंचरीकचयझंकारसुभगं भंगुरतरंगपरंपराप्लवमानकलहंसलंबितारुणचरणदीर्घतरप्रतिबिंबसंदानितविद्रुमलतासंदेहं शैत्यसौरभ्यादिगुणापहृतसकलहृदयेन सततपरिभ्रमणखेदपरिजिहीर्षयेव मिमंक्षुणा पद्मिनीवल्लभेन प्रतिबिंबच्छलात्कृतावगाहमिव निरंतरमभ्यंतरसंचरत्कांचनमयपीनमीनसमुदयसमुपजनितसौदामिनीविभ्रममद्भुततरसन्निवेशसौन्दर्यप्रलोमि
Page #59
--------------------------------------------------------------------------
________________
१५
प्रथमलहरी
तजनमानसं मानसं नाम सरोवरमतिक्रम्य,
वप्रक्रीडैकतानैकदंतसंघर्षणजनितसानुगतिलद्विगुणितधवलिमसंक्रांतार्यममरीचिमासुरमभ्रंकषतेजोमयशिखरसहस्रापहसितसवितृकिरणसंपर्कभासुर शरदंबुदबूंदविलास कैलासं समासाद्य, विनायकवाहनाखुनिखातमहाबिलद्वारतलकनकवालुकाराशिमासाद्य च तत्र मणिमयदिव्यपीठसमास्तीर्णशार्दूलचर्मसमलंकृतमिन्द्रायुधपरिगतशरत्कालांबरतल इव रजतगिरिशिखरे निषण्णमूर्ध्वमुखाबद्धपाटलजटापटलजठरविद्योतमानशशांककलालंकृतोत्तमांगमिंदुकलाकलित संध्यातपशोणितान्तरिक्षप्रदेशमिव शिरःप्रासादारोहणाय कलानिधिकलाविलासिन्याः परिकल्पितस्फटिकशिलासोपानैरिव तिर्यक्चचिंतत्रिपुंडूकैरलंकृतललाटं देदीप्यमाननयनभासुरालिकमध्यदेशं विराजमानमार्तडमंडलसमुज्ज्वलन्नमस्स्थलमध्यं शारदं दिवसमिव प्रभुर्मम सप्रतीकः कृपया करणीयः इत्यभ्यर्थनाय नमस्कुर्वत्या द्वैधीभूय तृतीयलोचनाय स्मरचापलतयेव भूलतया विराजमानमुन्नसं आकर्णविश्रांतनयननलिनं विशालश्रवणजाहं लंबमानाहिरत्नकलापप्रतिबिंबितबन्धुराभ्यां चुंबनावसरसंक्रान्तगिरिजाधरपल्लवतांबूलरागद्युतिभ्यामिव धवलतरकपोलफलकाभ्यामुपशोभमानमीषद्विरचितमंदहासतया प्रतिबिंबितधवलदंतपंक्तिं तुषारबिंदुदंतुरं प्रवालमिवाधरपल्लवमुद्रहंत मरकतमणिभरितधवलकाचचषकेणेव गरलसंभृततया मेचकन कंठेन प्रकटितजगदवनधुरंधरभाव भुजांतरमंतरेण धृतगजाजिनतया तत्प्रतिबिंबविच्छुरितार्धभागया पांडरकरोटिमालया परिष्कृतं कैशोरकेलिलोलुपस्य बाल्यानुगुणमुपरिनिपतितस्यैकदंतस्य दंतांकुरकोटिसंघर्षणपरिस्फुरद्वणकिणस्थपुटितमतिविशंकटं विशदतरं वक्षस्थलं प्रतितरंगप्रतिबिंबिताधग्रस्तशशधरमालमच्छसलिलपूरितं सर इवोद्वहंतं विषधरावेष्टिततया चंदनविटपान्विडंबयद्भिधृतशंखचक्रवलयतया नारायणकरकमलमनुकुर्वद्भिदंडधरस्यापि दंडायमानैर्भवानीकंधरायां धवलप्रसूनमालायमानैः पृथुलवर्तुलैश्च चतुर्मिर्भुजदंडैर्विराजमानं शार्दूलाजिनपरिधानं पुरो
Page #60
--------------------------------------------------------------------------
________________
जयन्तिका
विनिहिते वर्तुले प्रसृमरनखरकिरणारुणितप्रांते स्फटिकशिलाफलके पांडररुचियाचनाय चरणपरिचर्यामाचरति चन्द्रमंडल इव विनिहितचरणसरसिजयुगलं निजवल्लभविडंबनायेव मेचककचकलापकैतवेन शिरसा यमुनासलिलमुद्वहंत्या कालिंदीतरंगपरंपराजठरतलतरलेन मृणालेनेव सीमंतेन विलसंत्या पुंडरीकभ्रमेण वदनोपांतमुपागतैः भ्रमरकैरिव भ्रमरकैरुपशोभमानया मृगमदतिलकरेखापरिष्कृतविशालललाटफलकया मेचकलोचनपरिवेषाभ्यामिव श्यामलभ्रूलताभ्यां विराजमानया तरलतरकुवलय रुचिरमेचकलोचनाभ्यां कटाक्षयंत्या चंपककोरकसंकाशनासिकया सुरतावसरमुखकमलसौभाग्यावलोकनाय मन्मथपरिकल्पितहीरमुकुराभ्यामिव दंतच्छेदगौरमसृणलावण्यपूर्णाभ्यां कोमलकपोलफलकाभ्यामतिमनोहरया प्रियस्सकलंक इति विहाय विहायसि दोषाकरं वदनचन्द्रमवलंब्योभयतस्सेवामाचरद्भिस्तारानिकरैरिव भासुरहीरमणिगणरचिताभरणैरलंकृताभ्यां निजवल्लभसमुपदिष्टराममंत्र श्रवणपवित्राभ्यां श्रोत्राभ्यां भासुरया मंदस्मितावसरप्रतिबिंबितावदातदंतकांतिपंक्तिदंतुरितमत्यधिकतयामृतबिंदुसंदोहं बहिस्समुद्भिरंतमिवाधरपल्लवमुद्वहंत्या चर्चितमलयजरससुरभितकंबुकंधरया वलिपरंपराविलुलितसितमृदुलदुकूलावगुंठितेन तरलतराविरलमुक्ताहारमनोहरेण पयोधरयुगलेनोपरिप्रसृमरतरंगपरंपराविलुलितसुरापगास्रोतसा स्वच्छतरबुद्बुदमालाविच्छुरितेन हिमगिरिपरिसरवर्तिना गंडशैलयुगलेनेव प्रकाशमानया शरीर रुचिनीरवीचिरेखाभ्यामिव दीर्घाभ्यामैरावतदंतसमुत्कीर्णाभ्यामिव च बाहुलताभ्यामतिमनोहरया परिघृतधवलदुकूलतया रुचिरुचिरहीरमयाभरणजालपरिष्कृततया च कौमुदीविशदेन भासुरतारा निकर विच्छुरितेन शारदेन सुरसरणिचत्वरेणेव शरीरेण विराजमानया प्रणयकलहावसरप्रणिपतितगंगाधरोत्तमांगमंदाकिनीधुनीप्रक्षालिततयेव धवलतरेण मंदगमनाभ्यसनायेव संक्रांत हंसकालंकृतेन चरणसरसिजयुगलेन विलसंत्या गिरिजया परिमंडितवामपार्श्व, पृथुलकुंभपीठेन मुहुश्चाल्यमान विततश्रवणपुटनिरस्तकरटमदजल
30
Page #61
--------------------------------------------------------------------------
________________
प्रथमलहरी
पानलंपटषट्पदपटलवाटेन कुंतनिभैकदंतेन मोदकभ्रांत्या शशांककलादित्सया शश्वन्नीलकंठमस्तकोपकंठप्रसारितनिजशुंडादंडेन गंडमंडलस्यंदमानदानधाराद्विगुणितसौरभमनोहरमलयजरसावलीढवक्षस्थलेन प्रस्मरामोदमोदकखादनामोदितहृदयेनाष्टमीसुधांशुसन्निभमोदकपरिमंडितपाणिपुंडरीकेण पिचंडिलेन सकलशास्त्रपारदृश्वना विघ्नाचलाशनिना गणाधिपेन परिमंडितदक्षिणपार्श्व समुन्नताभ्यां पृथुलतरमूलाभ्यां कलधौतकलशकलितशिखराभ्यां विषाणाभ्यां रमणीयोत्तमांगेन तुषारगिरिविशालशिलाफलकानुकारि विशदतरमंतरान्तराघटिताष्टमीचन्द्रलेखाभरणपंक्तिभिः कनकशृंखलिकाराजिभिर्मनोहरं ललाटफलकमुद्वहता ललाटफलकेन दर्शनीयेनोन्नमितभ्रतरंगपरंपराभिर्विराजमानेन मेचकतारकाभ्यामसितपक्ष्मांचलाभ्यां दरकोरकिताभ्यां लोचनाभ्यामुपशोभमानेन श्यामलनासिकातलेन रोमंथासक्ततया लंबमानपांडरफेनपिंडपरिमंडिततुंडप्रान्तेन कलधौतघंटापटलवाचालितश्यामलरज्जुनियोजितपृथुलकिंकिणीमालालंकृतमांसलधवलस्कंधपीठेन लंबमानां वलिविलुलितां सुरापगास्रोतस्तरंगमिव बिडम्बयन्तीं सास्नामुद्रहता रजतगिरिशिखरवरसदृशककुदा विशदपट्टांशुकपिहितपुष्टशरीरेण अतिशक्तितया स्थपुटितोरुद्धयेन मांसलतया च सरीसृपाधिपभोगानुकारिनीलतररोमपुंजमंजुलाग्रायतवालेन निषण्णेन वृषभवरेण विराजमानपुरोभागमीशानापदानगानैकताननंदिननिदर्शनजातमंदहासं तेजोमयरजतांचलप्रतिबिंबिततया द्विगुणितैर्विविधविचित्रभेरीपटहपणवादिवाद्यवादनसमुपजनितघोरतारारावशब्दापितदिगंतरालैर्विचित्रनानाविधवन्यमृगमुखैः अद्भुतभयानकवेषभाषैस्तीक्ष्णतरत्रिशूलपाणिभिः प्रारब्धतांडवाडंबरैर्भस्मोद्धूलितदेहैर्भूतप्रेतगणैस्संसेव्यमानं सुरसरिदुपांतप्ररूढपादपमिव गंगातरंगशीकरसिच्यमानजटं शुक्लपक्षमिव चंद्रिकाधवलं त्रिनेत्रमपि दिगंबरं भूत्यवलिप्तमपि भिक्षामटतं श्मशानवासनिरतमपि सदासन्निहितसर्वमंगलं सर्वज्ञमपि पशुपतिं जटाजटिलोत्तमांगमपि वृषाकपि नीलकंठमपि लालितलेलिहानकुलं चंद्रशेखरमपश्यत्।
Page #62
--------------------------------------------------------------------------
________________
जयन्तिका
तदनु नंदिमुखावगतेंद्रागमनश्चंद्रशेखरः किरीटकोटिघटितमणिगणराजिरंजितहरिदंतरैर्विविधभूषणभूषितवर्मभिरतिक्रांतनयनसरणिभिः दिव्यरूपैः बृन्दारकबूंदैः पुरस्कृतमवतंसितसंतानसुमसंततिपरिसरसंचरचञ्चरीकचयरसितवाचालितमौलिं दंभोलिग्रहणकंदलितकिणकर्कशपाणितलं तेजःप्रकाशितत्रिभुवनावनदाक्ष्यं निजरूपप्रकटितद्रष्टजनवैलक्ष्यं समंदस्मितं सहस्राक्षं मधुरया गिरा कृत्वा च कुशलानुयोगमागमनकारणमपृच्छत् । पृष्टश्च पुरुहूतश्चारुवक्त्रवृत्तमुदीरयामास ।
तदनु मृत्युजयो नवांबुदसंदोहश्यामं पुष्करायताक्षं रथांगशंखासिगदादिदिव्यहेतिसमलंकृतचतुर्भुज कमलाविलासविलसद्वक्षस्थलं भक्तवत्सलं श्रीवत्सलांछन नारायणमनुस्मरंतं तं चारुवक्त्रं कथमिव तपसा विघटयितुमीशोऽहमीशोऽप्यनीश एव। तदधुना पितामहमुपेत्य तेन सह क्षीरपारावारतीरमाश्रयाम इत्यभिधायावरुह्य च रजतगिरिशिखरादपरमिवरजतगिरिमुत्थितं वृषभवरमधिरुह्य सुरपतिसहचरः प्रतस्थे।
प्रस्थितश्च समतिक्रान्तभुवस्सुवर्महर्जनस्तपोलोकः तत्रतत्र तत्रत्यैरेतदवलोकनकुतूहलसंभ्रमसंघीभूतैर्देवविशेषैस्समुपलब्धसपर्यो मर्यादातीतप्रमोदो होमधूमलताकुलितशिखरतयानवरतमपि जटामिवोद्वहद्भिः पृथुलमुक्ताफलमालातोरणालंकृततया धृतस्फटिकाक्षवलयैरिव श्रुतिप्रतिरवच्छलेनानायमिवाभ्यसद्भिः शुभ्रांशुधवलभित्तितया विधृतधौतवसनैरिव तपोधनसमुदयमिव विडंबयद्भिस्तेजोमयैरनिर्वचनीयभोग्यवस्तुसंभारदर्शनीयैरत्युच्छ्रितैः दर्शनमात्रसमुपजनितप्रसादैः प्रासादैरभिरामं समस्तशास्त्रपारदश्वमिः पर्यटद्विवि पुण्यप्रकरैः स्त्रीशब्दपराङ्मुखैरपि त्रय्यनुरागिभिः ध्यानाहारैश्च प्रांशुभिस्तेजोमयैर्ब्रह्मनिष्ठैः ब्राह्मणोत्तमैर्विच्छुरितममंदगंधबंधुरस्वादुतरपृथुलविविधफलभारभुग्नलंबमानविटपिविटपकोटिसंकटैरुत्फुल्लामलकलधौतकमलक ल्हारपुंडरीकादिदिव्यकुसुमषंडपरिमंडितसरस्तीरविराजमानराजहंसराजिरावरमणीयैः विविधविचित्रपतत्रिकुलसुभगैः तारतरनादसदानितमधुरगीय
Page #63
--------------------------------------------------------------------------
________________
११
प्रथमलहरी मानसामगानसंदेहैश्वञ्चरीकसंदोहैः परिवार्यमाणदिव्यप्रसूनप्रचुराणां मंदारतरूणां मूलतलनिबद्धदिव्यरत्नफलकवितर्दिकातलनिषण्णैः प्रणिधानपरायणैर्निजतेजःप्रकरतिरस्कृतभास्करतेजःपुंजैस्त्रिविष्टपं तृणाय मन्यमानैर्मानसास्पृष्टमानैस्तपोधनैः पवित्रितैः कीरकायसच्छायप्ररूढदर्भपत्रव्रातजठरप्रविष्टेनाष्टापदमयाजिनतेजःपुंजतिरस्कृततटित्पटलप्रकाशेन कृतसुकृतैरेव जनैः दृश्येन दिव्यकुरंगनिकुरुषेण प्रकाशमानैः परस्परक्रियमाणश्रुत्यर्थसंदेहैः अन्योन्यालप्यमानातिथिसत्कारक्रमैः कीरकुलैरतिहृदयंगमैरुपवनैर्दर्शनीयं सरित्पतिमिवान्तर्निहितबाडबं शुक्लपक्षप्रदोषमिव सुधादीधितिधवलितमत्रिमिवानसूयावर्जितहृदयं हरिश्चन्द्रमिव रोहिताश्वपोषणकृतादरं भारतकथाजातमिव देवव्रतवृत्तपवित्रितं सत्वगुणदूरीकृतनिसर्गवैरं विस्मयावहमवजगाहे सत्यलोकम् ।
यत्र च ब्रह्मनिष्ठाः कोकिलचक्षुरागमपि विनिन्दन्ति । द्विजपक्षपातमपि न सहन्ते ; लताकौटिल्यमपि नानुमन्यन्ते ; धूममालिन्यमपि विगर्हन्ते ; पल्लवचांचल्यमपि धिक्कुर्वन्ति । सलिलमंगमपि नोत्सहन्ते। पादपमूलाधोगतिमप्युद्विजन्ते ; द्विरेफक्रियमाणमधुपानमपि दूषयन्ति । दर्भमुष्टिग्रहणमपि कलहनिदानं जानन्ति। समिन्निमित्तं शस्त्रधारणमपि प्रतिषेधन्ते। 1. प्रविश्य च सुधादाभिषिक्त इव प्रसन्नमानसः क्रमेण कनककवाट* घटितवातायनसहस्रसंकुलं सिद्धपुरुषपरिष्क्रियमाणविचित्रतरदर्शनीयसाल
भंजिकाराजिकरतलनिषण्णैर्निगमपारदृश्वभिश्शुकशारिकाप्रभृतिमिश्शकुनि - । भिरभिरामं क्षौमसहस्रोपशोभितं अब्जयोनिविमानीभूतराजहंससंततिलीलाशातकुंभमयसोपानालिस्पृहणीयसरोवरशतपरिवृतमस्पृष्टदुरितगंधगंधर्वानुभव योग्यभोग्यतरसौरम्यभव्यदिव्य गझंकारमुखरितविचित्रसुवर्णप्रसूनमनोहरमहीरुहाभिरामैरारामैर्हरितायमानमानातीतपर्यन्तप्रदेशं कुत्रचित्प्रत्युप्तप्रत्नJ-5
Page #64
--------------------------------------------------------------------------
________________
34
जयान्तका
नवरत्नप्रसमरप्रभामंडलमध्यविस्तृतबहकलापशिखावलक्रियमाणोंकाररूपके कारवेण कुत्रचिदिंदुधवलस्फटिककल्पितक्रीडाशैलशिखरनिषण्णराजहंसमिथुनततिकारमुखरितेन कुत्रचिच्छीतलसलिलशीकरसिच्यमानलतामंडपकुहरनिलीनशुकशारिकासमारब्धमधुरतरालापेन कुत्रचिदन्तसमुत्कीर्णविचित्र पुत्रिकासहस्रसमुपजनित निरन्तर सन्निहितगृहदेवतासन्देहेनो पप्रासादशतेन परिवृतं देदीप्यमानेन गांगेयप्राकारेण चतुर्मुखदिदृक्षया समयमनुपालयता सुमेरुणेव समावेष्टितसीमाभूमि मेरुमिव कनककलशसहस्रसंकुलं उपरक्तमार्तडमंडलमिव केतुपरिवृतं नारायणमिव कमलासनालंकृतनाभिदेशं कमलासनविमलालयमविशत् ।
__प्रविश्य च तत्रतत्र गौरवप्रदर्शनार्थं स्फीतांसतलाप्तिकरवालैस्ततइतः पर्यटद्भिश्शरदभ्रशुभ्रकौशेयकंचुकपरिष्कृतैः पृथुलमुक्ताफलमालालंकृतकन्धरैर्दीप्रप्रनग्नमकुटोत्तमांगैः केयूरभूषितभुजदंडारपालैर्दत्ताभ्यनुज्ञस्समतिक्रान्ताद्भुततरसप्तकक्ष्यान्तरस्समधिगत्य सभाद्वारं कमलासनाय निवेदयितुमन्तः प्रेषयामास द्वारपालम् ।
प्रेषितश्च द्वारपालो दर्शनावसरमनुपालयन्मंदमुपसृत्य प्रणिपत्य च करतलपिहितवदननासातलस्सविनयमवनमितोत्तमांगस्सपरिवारमागतं ससहस्राक्षं विरूपाक्षं द्वारि स्थितं निवेद्य वेधसे तेन च दत्ताभ्यनुज्ञः पितामहावलोकनकुतुकिनं पिनाकिनं नाकिना पाकशासनेनांतः प्रावेशयत् । प्रवेशितश्च भूतेशः पुरुहूतसमेतः पितामहदर्शनाय समयमनुपालयद्भिस्समाप्रतीहाराभ्यन्तराजिरगतैर्विश्रान्ताधिकारैर्जनोलोकादागतैः पुरन्दरैरभिवन्दितः ससंभ्रममुत्थितैष्षड्दर्शनमार्गदर्शिभिः कपिलकणादप्रभृतिभिः कृतांजलिपुटैमहर्षिभिरनुगम्यमानो निखिलमुनिगणसंसेव्यमानचरणसरसिजं चतुःकिरीटतरणिस्तोमं विशालोन्नतरमणीयशंखंभ्रूपरंपराकल्लोलाकुलमूर्णावर्तसंकुलं चञ्चललोचनराजीवराजिविराजमानसमुन्नतनासिकाद्वीपं दीप्रतररदनपंक्ति
Page #65
--------------------------------------------------------------------------
________________
प्रथमलहरी
मुक्ताफलदंतुरमधरोष्ठविद्रुमलतासनाथ चतुराननमंडलमुदन्वंतमिवोद्वहन्तं आनायचतुष्टयावसथैः कठैरुपशोभमानं निगमशाखानुकारिभिश्चतुभिर्भुजदंडैः परिमंडितं स्वच्छतरानतिस्फीतस्फटिकमालिकाकपटेनान्तःपूर्णश्रुतिवर्णश्रेणिमिव बहिःप्रकटयदायतमुरस्थलमुद्वहन्तं चतुराननकमलतया चतुःकरसरोरुहतया च कमलवनमिव प्रदर्शयन्तं विशददुकूलप्रान्तलंबितमुक्ताफलकलापस्य समुत्कीर्णवर्णमयचारणपाणिलंबितडोलायमानसौरभसमाकृष्टदिव्यचंचरीकनिकरमधुररवमुखरितदिव्यकुसुममालांचितस्य नात्युन्नतविचित्रमणिमयस्तंभचतुष्टयस्य मंडपस्य मध्ये विलसति प्रत्नरत्नप्रभापिशंगे विमलमृदुलतरदुकूलालंकृते कलधौतकमलविष्टरे निषण्णमुभयपार्थोवूयमानकाशकुसुमकेसरसंकाश चामरपवनपरिनय॑मानतनुतरविमलदुकूलपरिधानं ब्रह्मोद्याः कथाः कथयद्भिस्सनकसनंदनसनत्कुमारैः परिचर्यमाणं भुवनत्रयप्रतीक्ष्यैर्दक्षचाक्षुषमनुप्रभृतिभिः प्रजापतिभिस्संसेव्यमानं निरवद्यविद्याहृयैस्सप्तर्षिभिस्समर्प्यमाणया सपर्यया समधिगतमर्यादातीतप्रमोदं कैश्चिदृग्वेदपारायणपरैर्नुतिचतुरैः कैश्विद्यजूंषि पठद्भिः कैश्चित्प्रशंसापरसामगानैकतानैः कैश्चिद्याक्रियमाणक्रतुक्रियामन्त्रतन्त्रैः कैश्चित्प्रकटीक्रियमाणधनुर्वेदैः कैश्चित्परीक्ष्यमाणजीवातुमूलिकास्तोमैः कैश्विनिर्दिश्यमाननवरत्नगुणदोषैः कैश्चिदुपदिश्यमानप्राणिशास्त्रैः कैश्चित्प्रकाश्यमानभूगर्भनिधिदर्शनोपायैः कैश्चिद्विलिख्यमानश्राद्धकल्पैः कैश्चिदुच्यमानग्रहनक्षत्रचारफलैः कैश्चित्प्रदीमानकठोरविषभेदकार्यतदुपशमनविधानैः कैश्चिक्रियमाणाथर्वव्याख्यानैः कैश्चिदुच्यमानकामतन्त्रैः कैश्चिजगदुपकृतिकलाप्रकटनपरैश्चतुष्पष्टिकलापारगैर्जगदुपकृतिपरायणैः महात्मभिर्महर्षिभिः विच्छुरितप्रांतप्रदेश, "आस्तांतावत् ! त्रिदशालयरसातलवैभवम् । कलिपुरुषसार्वभौमवशीकृतस्य मर्त्यलोकस्य किंचिदिव निवेदयामि वैभवम् । तदवधारयतु भगवान् भवान् । तत्र तावचित्रपट इव बहुमन्वते वर्णसांकर्य ब्राह्मणाः । परित्यक्तक्रतवोऽपि स्थपतयः । गृहिणोऽपि वर्णिनः । अद्वैतवेदान्तार्था इव मिथ्या
Page #66
--------------------------------------------------------------------------
________________
जयन्तिका
वादिनः । सोमपीथिन इव सोमसेविनः । निजपरिवेत्तृत्वं प्रागल्भ्यनिदानं कथयति । मनुस्मृतिमरसिकोक्तिं जल्पति । चार्वाकमतमर्वाचीनानुगुणमिति श्लाघन्ते। परसेवामेव जीविकाहेतुमीहन्ते । सौन्दर्यैकसारान्दारानभिलषन्ति । द्रविणमात्रसाधिकां विद्यामभ्यस्यन्ति ; नत्वपवर्गनिदानज्ञानसाधिकाम् । तावदेव पितृगुरुजनविश्वासः ; यावन्न गृह्णन्ति करभोरुकरपल्लवम् । तथाहि निजमत्तकाशिनीविभ्रमवशीकृतहृदयास्तदेकताना ः निजनित्यक्रियामिव जननीमपि दूरीकुर्वति । प्रथमाश्रममिव पितृवचनानुवर्तनमपि परित्यजंति । बाल्यकेलिमिवानुगतां सहोदराव लिमपि परिजहति । आगन्तुकेन तारुण्येनेव भार्याबंधुजनेन समाश्लिष्टा मोदते । द्रविणाय प्रतिनः । जीविकायै यतिनः । रतिसुखानुभवायैव गृहमेधिनः । परित्यक्तनिजधर्मकर्माणः सर्वधर्मान्परित्यज्येति गीताचार्यवचनमुदाहरन्ति । कृतप्रजावती परिग्रहाः द्वैपायनं दृष्टान्तयन्ति । कृतपंक्तिभेदाः विभक्तामृतं नारायणमुदाहरन्ति । मांसाहारपराः पुरातनान्मुनिजनाननुवदंति । गुरुदारसक्ताः द्विजराजं निदर्शयन्ति । प्रयत्नशतालब्धविषयसुखा एव वेदांतिनः । भद्राकरणद्रविणविरहिता एव दीक्षिताः । धृतविहितपुंडूलांछना एवाचारशीलाः । अविनाशितवृद्ध कल्पितधर्मप्रचारा एव धर्मरताः । अनपहृतभगवत्स्वापतेयाः एव वंद्याः । पर्युदंचनवस्तुप्रतिपादनपरा एव वदान्याः । अनुज्झितनिजपितृश्राद्धक्रिया एव कर्मठाः । अभुक्तप्राभातिकाभ्यवहारा एवोपवासिनः । दिवापरिहृतनिधुवना एव जितेन्द्रियाः । दोषाकरा एव दिवोज्ज्वलाः । पद्मिनीवल्लभा अपि नक्तं विलासिनः । सदागतयोऽपि भुजंगस्नेहपराः । तिष्याश्लेषासक्ता अपि पुनर्वसुपराः । हन्त ! बहुशो जनाः कश्यपाः प्रजापतयः कुशासनाश्च । ललनास्तु स्रोतस्विनीस्रोतः प्रान्तशिला इव बहिर्मसृणाः । शाल्मलितूलकल्पितशय्या इवोपभोगकालमृदुलाः । धूमलता इव दर्शनपथं मलिनयन्ति । रक्तानपि धवलयन्ति । आचारशीलं बालिश इत्युपहसन्ति । निजविभ्रमचातुर्येण वल्लभमपि
36
Page #67
--------------------------------------------------------------------------
________________
37
प्रथमलहरी प्रलोभ्य प्रत्यक्ष एव परेण रमन्ते । शुष्के वेणावपि चुंबनेनांगुलिकिसलयास्फालनेन च रागानभिवर्धयन्ति। शुष्कं काष्ठमपि गुणानारोप्य निजांकतले शाययित्वा नखमुखास्फालनेन समुपभोगाईमाकलयन्ति। आपगा इव नीचगामिन्यः। पतिमपि न दीनमुपयान्ति । विश्वस्ता अपि घ्नन्ति निघृणाः भ्रूणं विविक्ते ।
भूदेवेष्वेवं स्थितेषु किंपुनः कथनीयमितरवर्णेष्विति" आवेदयतो नारदस्य गिरमवकर्ण्य वाममुखकमलेनैकेन प्रकाश्यमानमंदहासं सावित्र्या च सरागं परिपठ्यमाने वाल्मीकिमुनिपुंगवप्रेषिते श्रीरामायणे पौलस्त्यापहृतजानकीविरहानलसंधुक्षितदुःखविह्वलितचेतसः उन्मत्तवन्मार्तंडचंडातपपरिक्षुमितकांतारकापथपर्यटनपरस्य दाशरथेः प्रलापप्रघट्टकं निशम्य सानुतापमात्मानमेव परमपुरुषतादृशदारुणशोकनिदानमनुसंधाय बाष्पदिग्धमुखपुंडरीकेणैकेन प्रकटीक्रियमाणवैवयं कालपुरुषवाच्यमानजीववर्गकर्मानुगुणशरीरवितरणप्रकारश्रवणादपरेण मुखांबुजेन प्रदर्यमानानुतापं किंचिदाकुंचितमुखकमलया स्तोकमिव भ्रकुटितभूलतया वीणासोपानावलिपरिचलकोमलांगुलिपल्लवानुगमनकतानतया तरलतराभ्यां स्पृहणीयाभ्यां नयनकुवलयाभ्यां मनोहरया गायत्रीपाणिपल्लववीज्यमानचामीकरचामरसमीरपरिन|मानपूर्वकायसिचयतया दृश्यादृश्यजपाकुसुमसवर्णकौशेयकंचुलिकया करकिसलयास्फाल्यमानवीणातन्त्रीगणतया परिस्पंदमानतुंगपयोधरया निंजांकतलशायितवीणादंडया सरस्वत्या सुमधुरवाधमानानवद्यहृद्यनादं निशम्य दक्षिणेन वदनसरसिजेन समंदस्मितं प्रकाश्यमानश्लाघाप्रमोदं पक्षत्युदरप्रवेशितत्रोटिपुटेन दी(कारुणचरणस्थितेन विमानीभूतेन स्वपता राजहंसेन विद्रुमारुणपादपीठेन कलधौतप्रतिग्राहेणेव विराजमानपुरोभागं पितामहमद्राक्षीत् । दृष्ट्वा च भक्तिभरनम्रोत्तमांगेन निजनामकीर्तनपुरस्सरं पुरंदरेण सह प्रणिपत्य बद्धांजलिपुटस्सविनयमुपससर्प सर्पभूषणः ।
एवमुपसर्पतं कपर्दिनं नारदस्सादरमानीय कुशलानुयोगपुरस्सरं
Page #68
--------------------------------------------------------------------------
________________
जयन्तिका
नातिदूर एव चतुर्मुखपार्श्ववर्तिनि भद्रासने समुपवेश्य च तत्पार्श्ववर्तिनि पीठ पाकशासनमप्येतदागमननिदानं न्यवेदयत्कमलासनाय । स च विरिंचिः समंदमधुरस्मितं स्तनितगभीरयागिरा अपि कुशलं ? किमा - गमनकारणं १ निवेद्यतामित्यपृच्छत् । परिपृष्टस्स पिनाकी सविनयं विदितमेव खलु भगवतो देवस्य सकलमपि ; तथापि किंकराणामस्मादृशामनुगुणमेव हि निवेदनं नाम । तदधुना किंकरता मन्मनः प्रतिबोधयति निवेदयितुम् । भगवन्भुवि चारुवक्त्रतपसा दग्धकल्पमखिलमपि जगत् । अतश्श्रुतिप्रथितनुतिशतैस्समभ्यर्च्य भगवंतं गरुडकेतनं विघटयिष्यामस्तपसस्तं चारुवक्त्रं इति ।
तत्क्षणमेव धात्रा प्रतिबोधितो मरालराजोऽपि मुक्ताफलवलयालंकृतां कंधरामुदस्य सरस्वतीमंजीरमंजुर्शिजितस्पृहणीयनादस्समुद्भूयमानधवलपक्षपुटस्सिद्धोऽस्मि गंतुमिति निगदन्निवाराजत । तदनु समधिरुह्य गीर्वाणगणपरिवृतसहस्राक्षविरूपाक्षपरिष्कृतोभयपार्श्वश्चतुराननस्त्वरया निरगात् । निर्गत्य च पुनरपि मां मथितुमागतस्सुर निकर इति साध्वसादिव कलोल - कैतवेन सुदूरमपसरंतमिव शश्वल्लोलकल्लोलजालैर्धीरतरं चोदिततयेव सनिर्घोषं सामर्षं च युयुत्सया तीरगतान्सुरनिकरानभियांतमिव परस्परतरंगपरंपरास्फालनपरिस्फुरच्छीकरनिकर।सारधूसरितवास रमुत्तुंगशेषफणामंडलायमान फेनोल्लोचनिचिताभोगं निरंतर प्रसृमरपयःपूरधौतश्लक्ष्णतरतीरसैकतं समुच्छ्रितदीर्घतरोमिंशिखरविकीर्यमाणपृथुलमुक्ताफलप्रकरं भयानकगाधेतरावर्तगर्तोदरपरिभ्रमद्विचित्रयादोत्रातं लोकमात्रा श्वशुरेति तातेति चाहूयमानं सगरमिव प्रसूतानंतसंतानं कपर्दिनमिव धृतकपर्द धीवरमिवान्तश्चंचलमत्स्यजालं वर्षर्तुमिव घनतरंगविकीर्यमाणशीकरदुर्दिनीकृतं मूर्छितमिव समुद्भिरद्धवलफेनं प्रासादमिवाभ्यंतरावासितमहीभृत्कुलं विलासिनीहृदयमिव चन्द्रोदयदर्शनानंदतुंदिलं आनकदुंदुभिमिव विधुजनकं शिशुवतीपयोधरमिव क्षीरपूरितं बालकमिव सततचञ्चलं तरुणमिव गभीरतरं
38
-
Page #69
--------------------------------------------------------------------------
________________
प्रथमलहरी
स्थविरमिव वलितरंगाकुलं नारायणमिव धृतावर्तचक्रं सततविद्रुममपि प्रसूतकल्पद्रुमं प्रह्लादजनकमपि नरसिंहोपलालितं कृष्णाक्रांतमपि सुधाधवलं धृतविविधानर्धरत्नराशिमपि दरिद्रमिव बहिः प्रकटितवराटिका शुक्तिशङ्खमालं नितांतजलजंतुसंतानाकुलितांतः प्रदेशं अपारं क्षीरपारावारमद्राक्षीत् ।
दृष्ट्वा च सरसिजासनो हरिदंतर प्रसृमर किरीटकोटिघटितपृथुलपद्मरागारुणकिरणद्विगुणितशोणिमभिः पाणिपल्लवैः मूर्तिमद्भिरुन्मस्तकानुरागैरिव कृतां - जलिपुटैर्निभृतगात्रयष्टिभिर्भक्तिसमाश्लिष्टांतरं गैर्गीर्वाणसं धैरित्थमस्तावीत् ।
जयजय देव ! संसाररोगापहारातिधीरत्रयीदिव्यजीवातुसंरक्षणायातिकल्लोलमालाकुलीभूतरत्नाकरांतः परिभ्रांतलक्ष्मी विशालाक्षिसंकाशकांतोचकायप्रकाशप्रकाशीकृताशामुखाश्चर्यचर्या निदानांडजातप्रकांडावतार ! जयजय देव ! भगवन्कूर्मावतारात्युदारायतोच्छूनजीमूतसच्छायबंहिष्ठपृष्ठप्रदेशोढमंथानशैला तिसंभ्रांतिसंभूतपूतप्रभूतामृतादानदत्तावधानाननार्यान्प्रता र्यादितेयाभियातीन्सुधासंविभागेऽतिगांभीर्यसौंदर्यसंपूर्णनिर्णिक्तपूर्णेदुवक्त्रावतारेण चावर्तगर्तादुपारूढया प्रौढया सारसागारया पद्मया विद्युदुद्योतितांभोदसंकाशबाहांतराल ! जयजय देव ! भगवन्नकूपारभग्नस्थिरामंडलोद्धारकालप्रलोलस्फुरद्दीर्घघोणातिनिर्घोषसंघूर्णिताशेषलोक ! जयजय देव !
39
-
भगवन्देत्येंद्र वक्षोनिखातातितीक्ष्णाग्रधाराकरालात्यरालातिभाखन्नखाग्रोद्गल द्रक्तधाराच्छटास्वादमोदोद्वमन्नाद भी ताष्टदिग्दंतिसंदोहसंचालितोदंड कुंभाग्रसंस्रस्तविश्वंभरामंडल ! क्रूरसिंहावतार! जयजय देव ! भगवन्खर्वावतारेण गीर्वाणवर्गेशनिघ्न ! प्रणष्टां त्रिलोकोमधीनां विधातुं महाधर्मचित्ताद्बलीड्यात्मवीर्याद्वलीशाङ्गृहीत्वा त्रिपादैकमेयस्थलीं पादपद्मत्रयाक्रांतलोकत्रय ! जयजय देव ! भगवन्कठोराग्रधारेण भास्वत्कुठारेण शश्वद्विदार्याप्यमर्यादवीर्यातिदृप्तप्रमत्तक्षमानेतृवर्गोत्तमांगान्यतीव क्रुधानेकधा निस्सरद्रक्तधारापरीवाहवांतारुणिम्नातिभीमेन संवर्तसंजातसंध्यायमानं मुदा कालमालोक्य भीमाट्टहासेन नृत्यप्रवृत्तेन कृत्त्यम्बरेणाशु संश्लाघ्यमानाति
-
Page #70
--------------------------------------------------------------------------
________________
जयन्तिका
घोराकृते ! राम ! जयजय देव ! भगवन्दशाशाप्रशांतीकृताशेषराजत्पलाशेशपीडातपोदंडकोदंड ! देवेशकांडासनाश्लिष्टसीतातटिलिकांतातिनीलाभिरामोल्लसद्रामजीमूत ! जयजय देव ! भगवनिजास्येंदुसंदर्शनाधीनगोपांगनाश्लेषपीनस्तनाभोगजाज्वल्यमानार्द्रमीनांचितोरस्स्थल ! भक्तावनायैव दुग्धाब्धिमध्ये फणींद्रे शयानाय नारायणायास्तु तुभ्यं नमो देवदेव ! प्रदेह्यद्य संदर्शनं ते कृपांमोनिधे ! वेदवेद्यानवद्यांबुदद्योतहृद्यांगकांत ! पद्मालयाकांत ! नमस्ते पुनस्ते नमः।
इति स्तुत्वा च बहुधा भक्तिसमासक्तखांतश्शतानंदःश्रियःपतिसुंदरदिव्यमंगलमूर्तिमनुध्यायन्बद्धांजलिपुटः क्षणमिव स्थाणुवत्तस्थौ ।
तत्क्षणमेव सहस्रकिरणसहस्रतेजःपुंजसंकाशं शून्यीकृतनिखिलदिक्चक्रवालंविदधदमरान्परस्परस्पर्शानुमेयानुदतिष्ठत्क्षीरपारावारोदरात्किमपि तेजः। उत्थाय च समवगतं भवदागमननिदानं ; गच्छन्तु भवन्तो निवारयाम्यधुनैव वरप्रदानेन तस्य नरपतिसुतस्य तपोवेगमित्यभिधाय क्षणादेवांतरधात् । अवर्ण्य च कर्णाभ्यर्णावकीर्णपीयूषशीकरं मधुरतरं गभीरं भगवतो भाषितममंदानंदतंदिलास्सर्वेऽपि शतानंदप्रमुखाः बृन्दारकाः निजावासमयासिषुः । अथ च पुंडरीकाक्षः पक्षिपतिमधिरुह्य प्रस्थितस्त्वरया समुन्नमितबाहुयुगलं कुशेशयकोशनीकाशबद्धांजलिपुटं तपोनलज्वालाभिरिव पाटलतरजटाभिरतिगहनोत्तमांग निमीलितनयनयुगलं सर्वदापि परिस्फुरदधरोष्ठपुटमतिकृशतर्नु परिधृतवल्कलं दक्षिणोरुमूलविनिहितवामचरणतलं क्षितितलनिक्षिप्तदक्षिणप्रपदं वैश्वानरमिव समुज्ज्वलन्तं भुजगमिव वाताशनं दिवाकरमिव द्विजवजसेव्यमानं पशुपतिमिवाहिततिसमावेष्टितविग्रहं हिमशैलप्रांतमिव हंसधवलमानसं तं चारुवक्त्रमद्राक्षीत् । दृष्ट्वा चानुकंपया तात! चारुवक्त्र ! प्रसन्नं पश्य मामेनम् । तन्निवेदय यदभिमतं ते दित्सुरस्मीत्यब्रवीत् ।
श्रुत्वा च घनरवगभीरां मनोहरां गिरं हर्षोत्फुलनयनकमलस्सोऽपि
Page #71
--------------------------------------------------------------------------
________________
प्रथमलहरी
4 t
नरपतितनयो विस्मयाश्लिष्टमानसो मकुटमकरकुंडलयैवेयककेयूरहार नूपुरादि दिव्यमंडनपरिमंडितसमस्तप्रशस्तदिव्यप्रतीकं सवर्णतया प्रीत्या शिरस्याप्रायांसतलास्फालनमाचरंतीभिरिव कादंबिनीभिर्भुजशिरसि लंबमानामिः कुटिलतरचि कुरमाला भिरलं कृतोत्तमांगमलिकतलमर्यादातीत सौंदर्यदिदृक्षया वक्षस्थलस्थिताया लज्जया स्तोकोन्नमितवदनकमलायाः कमलायाः कटाक्षकांतिलेखयेव दिव्यमृगमदतिलकलेखया समलंकृतमष्टमी शशांकसंकाशं ललाटफलकमुद्रहंतं प्रह्वभावेन सूर्याचन्द्रमसोरपि धुरि निजस्थितिमभिलषंतीभ्यां तनुतराभ्यां तिमिरपंक्तिभ्यामिव नीलाभ्यां भ्रूलताभ्यामुपशोभमानं तिरस्कुर्वद्भयां पुंडरीकमीननिवहान्सौंदर्यमिव वमद्भयां करुणारसमिव संकिरद्भयां क्षीरपारावारे नीलमेघश्यामोऽयमेवमेव पांडरतरकुंडलिपतिभोगमंडलमधिशेत इति धवलतरतारक। मध्यविलसत्कृष्णकनीनिकाकैतवेन शेषशायिनमेनमेव प्रदर्शयद्भयां दिवाकरनिशाकरात्मकाभ्यां आकर्णविश्रांताभ्यां भक्तजनहृदयहरिणवागुरायमाणाभ्यां नयनपुंडरीकाभ्यां विराजमानं नयनतटाकप्ररूढाधोमुखा वनतस्तोक विकसित शिखर नीलोत्पल कुसुम सम समुन्नत - नासिकं मकरकुंडल भारासहिष्णुतयाधः पतनभयादिव समवलंबितस्कंधाभ्यां भक्तजननुतिगानश्रवणकुतुकाभ्यां श्रवणपुटाभ्यां विलसतं प्रतिबिंबित कर्णा - वर्तसितकनककमलाभ्यां मरकतफलकानुकारिभ्यां कुंडलप्रतिबिंबच्छलेन कांतिसलिले प्लवमानाभ्यामिव मकराभ्यां कोमलाभ्यां कपोलफलकाभ्यां स्पृहणीयदर्शनं कृतमंदहासतया प्रतिबिंबित रुचिररदनराजितया पुरानुभूतं दुग्धपानैकलंपटं कृष्णत्राल्यमिव प्रदर्शयन्तमरुणतरमधरपल्लव मुद्रहन्तं दिव्यपरिमलपरिभ्रमद्भमर झंकार मुखरित कांति कमनीय वनमा लालंकृत कम्बु कन्धरं प्रसारितकरेण भगिन्याः कमलायाः कुशलानुयोगं कर्तुमागतेन बालचन्द्रमंडलेनेव कौस्तुभेन कौस्तुभरश्मिनियंत्रिततयेव निश्चलया सुवर्णवर्णया
J-6
Page #72
--------------------------------------------------------------------------
________________
42
दारिधदुस्तरगहनस्य दवज्वलनज्वालायमानया कमलया च समालिंगितवक्षस्थलमधिकतरापीतपौंड्रकवासुदेवशिशुपालवाणादिदुर्दमनदुष्टदैत्यकंठबाहुसहस्ररुधिरतया समुज्ज्वलज्ज्वालामिषेण शोणितधारामिव वमता नारायणोपरि अपायसमुदायानिष्पतनायेव जागरेण निरंतरमपि परिभ्रमता सर्वदानुसृतनारायणाशयेन भानुसहस्रभासुरेणातिकृच्छ्रदर्शनेन सुदर्शनेन नारायणाध्मातवातबलपारदृश्वना कररुहकिरणद्विगुणितधवलिना निजांतःप्रवेशितनारायणकरांगुलित्रयरेखाभिरिव त्रिरेखाभिस्समलंकृतेनाकीटजन्यन पांचजन्यनापहृतपूर्वदेवजनितानिमिषभीतिगदया गदयात्यमलेन कमलेन परिमंडितमांसलवर्तुलचतुर्भुजदण्डं संध्यारागरंजितांबरडंबरहरपीतांबरपरिधानं दिव्यनवरत्नखचितकनकमेखलं वेदात्मना स्वर्णवर्णेन सपक्षेणेव कनकगिरिणा मयैवास्य महिमा प्रतिपाद्यते इति प्रदर्शयतेव करकमलाभ्यां हरिचरणसरसिजयुगलमुरहता गरुत्मता समूह्यमानं वर्ष सुरपथमिव नीलमेघश्यामलं क्षितितलमिव वनमालालंकृतं वनजाक्षमप्यवनजाक्षं वनतेयवाहनमपि विनायकवाहनं काकोदरशायिनमपि पवित्रतरं अजमपि प्रकटितविश्वरूपं विधुमपि विधुजनकजामातरं सर्वाभीष्टफलप्रदं भगवन्तं श्रीमन्तं नारायणमपश्यत् ।
दृष्ट्वा चामंदानंदसुधासिंधुपरिप्लावितहृदयं तस्मिन्नमस्कुर्वति चारुवक्त्रे करुणापूर्णहृदयो नारायणस्सरभसमुत्थाप्य तं वत्स ! यदभिमतं ते तदधुनैव दित्सुरस्मीत्यब्रवीत् । तदवकर्ण्य कृतांजलिपुटस्स चारुवक्त्रस्सविनयं देवदेव ! सर्वज्ञोऽपि किमप्यजानन्निव परिपृच्छसि मामेवम् ? भवतु नाम; न कदाप्यनुलंघनीया खलु भवदाज्ञा ! तदेहि देव ! विजिगीषवे मह्यमप्रतिहतं प्रहरणमिति प्रार्थयामास । एवं प्रार्थितस्समंदस्मितं मुकुन्दो घंटासहस्ररसितवाचालितदिगंतरमत्युदंडं कोदंड निशिततराप्रतिहतशर
Page #73
--------------------------------------------------------------------------
________________
प्रथमलहरी मरितमुपासंगं च वितीर्योदंडदोर्दडाखंडबलखंडितविपक्षमंडलः चिरं परिपालय विश्वंभरामंडलमिति अभिधायांतरधात् ।
इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशाग्द, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, गष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूरनाल्वडिकृष्णभूपसुवर्णपदक-साहित्यपरिषद्रजतपदकसमलङ्कत–जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां
प्रथमलहरी मम्पूर्णा ॥
Page #74
--------------------------------------------------------------------------
________________
॥ द्वितीयलहरी ॥ तदनु स चारुवक्त्रस्त्वानंदोच्छूनगात्रयष्टिदक्षिणपाणिपुंडरीक कृतोदंडकोदंडो दक्षिणापरांगघटिताक्षयतूणीरस्साक्षाद्दाशरथिरिव प्रस्थितशिशखरिशिखरादुपेत्य च गुहामेकाकिन्यै पुत्रविश्लेषविक्लबायै तनयमुखकमलदर्शनोत्कंठितमानसायै निरंतरकांतारसंचारपरिक्लेशितशरीरायै सममिवन्ध जनन्यै सविनयमंब ! परमकरुणापरिपूर्णस्य पुराणपुरुषस्य भगवतो नारायणस्य प्रसादोऽयमिति प्रदय तूणीरशरासने विजितनिखिलभूमंडलोऽयमहं यावत्पातयिष्यामि तं नृशंसं वृषस्कन्धहतकं त्वचरणसरसिजयोस्तावन्न प्रवेक्ष्यामि नगरं न भोक्ष्ये स्वादुतरोदनं न प्रसाधयिष्यामि जटाजटिलमिदं शीर्ष न त्यक्ष्यामि वल्कलं नाचरिष्यामि स्नानविधि नाधिरोक्ष्यामि वाहनं न वारयिष्यामि श्वेतातपत्रेण तीक्ष्णतरं सूर्यातपं न धास्यामि शिरस्युणीषं न वक्ष्याम्यात्मानमितरेषां न प्रकटयिष्यामि राजभावं न मनसापि चिंतयिष्यामि सुखगंधमपि न गणयिष्यामि शरीरमिदमिति बहुधा विधाय च प्रतिज्ञां देहि मे दिग्विजयायानुमतिमिति प्रार्थयामास ।
एवं प्रार्थिता च तेन सा वरमालिनी स्वप्नावस्थामनुभवन्तीव विसंभशून्यहृदया दृढतरं परिभ्य निजभुजलताभ्यां तं चारुवक्त्रं निजांकतलमारोप्य च शिरसि करेण परामृशन्ती हर्षभरगद्गदकंठी, वत्स! दिष्ट्या वर्धसे । नारायणकरुणापात्रमसि । तादृशस्य ते न किमप्यस्ति वक्तव्यम् । क ते बाल्यं ? कच तपः ? प्रणिधानपराणामपि तपोधनानां दुर्लभं खलु चित्तस्थैर्यम् । दिष्टया योगिजनैकसाध्यं कर्म समाचरितं भवता। महति कर्मणि च प्रतिज्ञातम् । तदधुना वात्सल्यप्रेरितहृदया कथयामि हितम् । तदवधारय । शठप्रायं जगत् । खापतेयदासो लोकः । खलबहुला भूतधात्री। कृतघ्नताकलुषितं जनहृदयम् । नैपुण्यकठोरः प्रपञ्चः । वंचनैकताना बंधुता । शूरप्रणयिनी लक्ष्मीः। प्रणिधिचक्षुषः क्षितिभृतः । तदस
Page #75
--------------------------------------------------------------------------
________________
द्वितीयलहरी
कृदावेदयामि । क्षौद्रपटलमिव राज्यं नाम दुर्ग्राहम् । तथाहि - मधुलोलुपास्सरघा इव तत्र प्रतिवसंति वित्तैकसक्तचित्ता दुर्जनाः । दुर्गमस्थानस्थापि - तमपि कंटकनिचितमपि तदपहरणाय धीरास्समयमनुपालयंति । वत्स ! सर्वेऽपि भूमिपालाः पापिनः तस्य वृषस्कंधहतकस्य वशवर्तिनः ; सततमपि तत्प्रियप्रतिपादनैकतानाश्च । तदधुना भवता पराक्रमेण विजित्य स्वायत्तीकृताः अपि राजानो गूढं विप्रियकारिणः तदधिगतापरिमितद्रविणाश्च शुका इव मुखमात्र प्रकाशितरागाः छिद्रान्वेषिणः काठिन्यमाश्रयिष्यति । तत्साहचर्यकंदलितरागाः प्रजा अपि भवंतमभिनवं नानुवर्तिष्यंते । लुब्धाः मधुरतरेण गानेनेव कुरंगं घनलुब्धा दुर्जना मधुरालापेन वशीकृत्य भवंतं व्यापादयिष्यति । तदायुष्मता भवता तथानुष्ठेयम्; यथा च छिद्रान्वेषिणः प्रयत्न - शतेनापि न लभेरन्नवकाशम् ; यथा च तद्वशवर्तिनस्सर्वेऽपि भवदधीनाः भवेयुः ; यथा च प्रकृतयः निर्जीवमिव तं पापिनं जघुः ; यथा च बांधवास्तत्सान्निध्यं श्मशानमिव परिहरेयुः ; यथा च तत्पक्ष्याः तदाज्ञां कुणपकुसुममालामिव त्यजेयुः; यथा च धनलुब्धाः तद्धनं विषमिव पश्येयुः यथाच तत्प्रणिधयोऽपि भवते प्रीत्यतिशयेन गूढं तदुदन्तं निवेदयेयुः, यथा च शूराः पितृतुल्याः भवंतमभितः सरीसृपा इव निधिं परिरक्षेयुः यथा च राज्यलक्ष्मीः दिवाकरोदयं लब्धविकासं सहस्रपत्रमिव जयोदये भवंतं सादरमाश्रयेत् ' याहि जैवातृक ! चारुवक्त्र ! जय जीवेत्यकथयत् ।
;
तदवकर्ण्य चारुवक्त्रस्सविनयमंच ! नारायणकारुण्यैककव चितस्य में न कस्मादपि भीतिरित्युत्थाय पुनः प्रणम्य चावतंसितजनन्याशीस्त स्मान्निर्गत्य चांगवंगकलिंगकांभोजघूर्जरगांधार कुरुकाश्मीरतुंडीरपांड्यकिरातकुऌतसौराष्ट्रमहाराष्ट्रमगधलंपाकतुलवचोलवंगालपांचालनेपालमलयालकेरल कोसलकुंतलसिंहलकेकयविदर्भविदेहार्द्रानर्तमद्रद्राविडलाळराढागौडसूरसेन
सिंधुयवन व नायु हूण कोंकण मत्स्य पारशीकार्बकबर्बर चेर चीन महाचीनकटककल्याणकान्यकुब्जकर्णाटादिदेशाननेकान्द्वीपांश्च विजित्य क्कायं मुनिजन
45
Page #76
--------------------------------------------------------------------------
________________
46
जयन्तिका
समुचितवेषः क्व चेदं चक्रवर्तिलक्षणं व कंदमूलफलाहारः क्व चेयमप्रतिहता शक्तिः क वा बालभावोऽयं क पुनः सकलराजलोकवशीकरणं अहो ! धीरता बत । निस्पृहता हंत ! गांभीर्य बत सौंदर्यमिति परस्परं सविस्मयमनुलपद्भिर्लज्जाभरावनमितोत्तमांगैश्चतुरंगबलपरिगतैर्धरणिपतिभिः अनुगम्यमानो घटितविचित्रोदंडकांडवैजयन्तीं वैजयन्तीमाससाद ।।
आसाद्य चानतिदूरे परिजनविरचितानां प्रस्मरनिजमूर्तिमत्कीर्तिमयानामिवांतर्विधृतविविधरमणीयरत्ननिकरतया महीभृत्कुलाकुलिततया चानेकोर्मिसंकुलं दुग्धाब्धिमिव विडंबयतां पटमंदिराणां मध्ये धवलधाराधरनिकुरुंबपरिगतं रजतगिरिमिव विगजमानमास्वर्गमुन्नमय्य समुदंडध्वजदंडभुजदंडं तरलतरपाटलपटपाणिपल्लवेनाद्भुततरायोधनावलोकनाय गीर्वाणगणमिव समाह्वयन्महेश्वरमिव विभूतिविशदं चित्रभानुमिव प्रस्मरानेकरश्मिजालं वैजयन्तीसौंदर्यदिदृक्षया सपरिवारं सन्निहितमिव श्वेतद्वीप दृष्यमपि महाराजसेव्यमानमत्युन्नतफेनपिंडमयमिव काशकुसुमराशिमयमिव पुंजीभूतकौमुदीमयमिव, सिताभ्रक्षोदमयमिव पालेयपुंजमयमिव सुधाधूलिपटलमयमिव धवलतरमतिविशालं समुत्तुंगशिखरं पटमंदिरं प्राविशत् ।
तदनु समाविशत्सु स्वखपटालयं महीपालेषु सोपरक्षणासु च शिबिरवीधीषु चारुवक्त्रेणाभ्यनुज्ञाता योद्धारो युद्धोद्यता बभूवुः । तदनु प्रथनशंसिभिर्भेरीपटहपणवादिवाद्यध्वानवियदध्वा मुखरितोऽभवत् । श्रुत्वा च तदतिभयानक बधिरीकृतश्रवणविवरं वादिवरसितं सिझनादं च स वृषस्कंधः ससंभ्रममधिरुह्य प्रासादशिखरं परितो दत्तदृष्टिः पूर्वस्यां दिशि नातिदूरे महीपालकरैरिव सदा स्रवदानधारातरलकटकालिभिः किंराजपरिपालितविश्वंभरामंडलैरिवोइंडावग्रहभयंकरैः कुबेरवद्धृतपयकैः गगनांकणवरलाहकनिवहमलिनैः सुन्दरीमस्तकैरिव प्रवेणिपरिष्कृतैः शिबिरदेशैरिव निबद्धदूष्यैः कुलालभवनैरिख मृत्तिकापुस्तपृथुलकुंभैः वर्षादिवसैखि
Page #77
--------------------------------------------------------------------------
________________
द्वितीयलहरी
47
घननिस्सरच्छीकरनिकरकरंबितपुष्करैः पृथुलकरकैश्च साह्यकृते सन्निहितैः कुलाचलैरिव कुंजरसहस्रैस्समावृतं आयोधनसमुचितपर्याणास्तीर्णपृष्ठैः स्तोकमिव अवनमितमुखैः किञ्चिदिवावनमितकश्यैरेकपुरुषप्रमाणैर्विविधवर्णैरनवरतप्रचाल्यमानवालकलापचामरैः हेषाघोषदूषिताशेषाशादेशैः खरतरखुरशिखरनिकरत्रुटितधरित्रीतलप्रसृमररजः क्षोदधूसरितवासरैस्सत्कुलीनै - र्वनायुसिंधुपारशीकबाह्लह्रीकादिदेशजातैरपरिमिततुरंगमसहस्रैः दन्तुरितं निजाकारतिरस्कृतयमकिंकराकारैश्शतसहस्रसाहस्रैः परिवृतं उद्दंडकतुदंड - कोटिप्रचलत्पटपटलैः दृढतरावस्करैः अतिगतगंधवहगरुडवेगघोटकपरिष्कृतपुरोभागैस्स्यंदनैर्विच्छुरितं धृतदृढतगयोमयवारवाणैः रावणवदधिकांगभयानकैः गोधातलपरिष्कृतकरैरपरांगनिषंगिनिषंगैः लस्तककृतहस्तैस्स्यंदनाभ्यंतरनिषण्णैस्संग्रामोत्सुकैः क्षितिपतिसहस्रैनींरंक्षितं कैश्चित्सखङ्गैः सफलकैः कैश्वित्समुद्गरैः कैश्वित्सकरवालैः कैश्वित्सभिंडिपालैः कैश्चित्सपरिघैः कैश्चित्सकुठारैः कैश्चित्सतोमरैः कैश्चित्सकुंतैरतिभयंकरैः उरसि - लैर्भटैस्समाकुलितं क्रमशस्स्थापयितुमभ्यनुज्ञातानां सेनाधिपतिभिरेकँदै व तालानुगमनतया सैनिकानामुपानदभिरक्षितचरणविन्यासजर्झररवजर्झरीकृतोर्वीतलं प्रतिकरवालतलप्रतिबिंबितरविमंडलतया जयलक्ष्मीसमागमनात्प्रागेव कृतसान्निध्यैर्विकचपुंडरीकैरिव भासुरं विविधवर्णवसननिचिततया पाकशासन चापमयमिव निबिडतरतुरंगमनिकुरंबतया समास्तीर्णकुथालंकृतमिव समुद्धृतवातोद्धूयमानध्वजपटपटलतया वियत्तरंगिणीत रंगसंकुलमिव शुक्लपक्षयामिनीसमयमिव परिस्फुरच्चंद्रहासं ललनावलग्नमिव मेखला - परिष्कृतं वनस्पतिनिकुरूंबमिव फलदंतुरं वर्षर्तुगगनतलमिव घननिबिडितं महावनमिव प्रचलत्खनं महानगरमिव परिघाक्रांतं सुकविकाव्यमिव प्राससम्पूर्ण महासर इव परिभ्रमचक्रं भूमंडलमिव वाहिनीपतिपरिवृतं सत्यलोकमिव बाडबबंधुरं ग्रहमंडलमिव केतुमंडितमतिक्रांतनयनपातं सैन्यमपश्यत् ।
Page #78
--------------------------------------------------------------------------
________________
48
जयन्तिका
दृष्ट्वा च मनस्येवमचिंतयत् । किमिदमदृष्टपूर्वम् ! नहि जगति कोऽपि प्रतिभटो मे; कथमिदमाविर्भूतं कुत्र वा संचितमियत् ? केन वा प्रोत्साह्य प्रेषितम् ? कथमियतस्संघीभूतस्य भूतगणस्य भारमुदहति विश्वंभरा ? महदिदमाश्चर्यम् ! यदतर्कितोपनतं शलभबृन्दमिव सैन्यमिदम्। अस्मद्विभीषिकया विधिना परिकल्पितं किमिदमिंद्रजालम् ? आहोखित्वानिकप्रपञ्चः ? कथमवधारयेयं कस्मै कथयेयम् । कथं वा कालयेयमेतदिति सुचिरं विचिंत्य समुद्विग्नहृदयस्ससंभ्रमं विलोक्य पार्श्ववर्तिनं हेमांगदनामानं कंचुकिनं मद्वचनादाहूयतां मलयवातनामा सेनापतिरित्यादिदेश ।
आज्ञप्तश्च हेमांगदो द्रुततरं प्रस्थाय तं मलयवातमानिनाय वृषस्कंधसकाशम् । ततश्च तस्मिन्मलयवाते प्रणिपत्य सविनयं समाज्ञापयतु देव इति निवेद्य नातिदूरवर्तिनि स वृषस्कंधस्सेनापते! अपि नाम दृष्टं बलमिदं भवता; पश्य तावत्परबलमाश्रित्य मदधीनास्सर्वेऽपि प्रतिकूलतां प्रकाशयन्ति । इतः पश्य यश्च सौधद्वारि मद्दर्शनावसरमनुपालयन्मदाज्ञामेव कुसुममालामिव समूह्य शिरसा प्रागपश्यन्मां स कुलूताधिपस्सखड्गस्तुरगाधिरूढस्ततइतः पर्यटति । यश्च प्रस्मरपरिमलपरिकल्पितघ्राणतर्पणमपहसितसंध्यारागरामणीयकं कुंकुमकेसरसंभारं दूर्वासंभारमिव विनयावनतमौलिरुपायनीकृतवान्सोऽपि काश्मीरधराधिपस्सेनां क्रमशस्स्थापयति । इतः पश्य ; यश्च सत्कुलीनं मणिवरविभूषितसर्वांगं तुरंगमनिकुरुंबं उपग्राह्यमकल्पयत् ; सोऽपि सिंधुपतिर्मगधाधिपति प्रति किमपि सल्लपन्विहसति । यश्व रसितानुमेयगंधलुब्धचञ्चरीकसञ्चयं शातकुंभकुंभसंभृतमानीय घनतरमृगमदमर्पयांबभूव सोऽपि नेपालभूपालः कोसलेशशतांगाधिरोहिणीफलकतलविनिहितवामचरणो धरातलविन्यस्तदक्षिणांघ्रिश्वावस्करन्यस्तहस्तयुगलस्तत्कणे किमपि जल्पति ! यश्च प्रह्वभावेन धवलातपत्रतपनीयदंडं जग्राह करयुगलेन स मलयालनृपालस्तूदंडकोदंडदंडं दधाति । यौ तु पार्श्वयोरकुरुतां करे चामरं तौ च कुरुकेरलनरपालौ पुरतः कुरुतस्तोमरम् ।
Page #79
--------------------------------------------------------------------------
________________
द्वितीयलहरी यश्च वन्दीवोन्नमितबाहुदण्डो नुतिशतैरभ्यनंदयच्छ्रवणयुगलं सोऽपि कोसलपतिरिंशजानैः क्लेशयति श्रवणविवरम् । क्वापि प्रस्थिते मयि विनयविनतपूर्वकायः पुरःप्रसारितपाणिर्यस्तु मार्गदर्शी बभूव सोऽपि बर्बरपतिस्तावदिदानी मार्गणदर्शी वर्तते इति प्रसारितभुजदण्डो निर्दिश्यांगुलिशिखरेण तवत्यान्नरपतीन्प्रदर्य च किंचिदिव विचित्य दीर्घमुष्णं च निश्वस्य हेमांगदमादिदेश ; क्षिप्रमानीयतां मद्वचनान्मरुन्मालनामा सचिववर इति। ____ हेमांगदस्तु प्रासादशिखरादवरुह्य सत्वरं सचिववरं मरुन्मालमानिनाय । आगते च तस्मिन्मरुन्माले स्वस्ति भवत इत्यभिधाय समुपविशति च समुचित विष्टरे सोऽपि वृषस्कंधः परिगृहीतासनः सचिववराप्यवलोकिता भवता भयजननी वाहिनी । वर्षादिवसविगंभितनवघनौघनिभा इमाः कति ? सुपर्वसार्वभौमाखर्वगर्वसर्वकषवीर्या गन्धर्वाः कति ? कति वाकुंठितविज़ंभमाणप्रत्यर्थिविजयमनोरथा रथाः ? प्रकटितपरपराक्रमणनिपुणरूपाः नृपाः कति ? निजास्त्रमथितपरवरूथिनीस्रावितास्रास्साहलाः कति ? समरोद्भटाः भटाश्च कति ? द्रष्टुमपि गदितुमपि श्रोतुमप्यशक्यम् । सम्यगवलोक्यताम् ? किमद्य कुर्म इत्यब्रवीत् ।।
निशम्य च वृषस्कन्धभाषितं कूपरोपधानतलविनिहितात्मभारस्स्तोकमिवोत्थायासनान्मरुन्मालो विवलितकंधरस्समवलोक्य बलमपरिमितं मनस्येवमचिंतयत् । चिरात्पापमेनं निहंतुकामेन प्रयत्नपरेण मया तावदवकर्णितं परितः परिचोदितप्रणिधिमुखाद्विमतकसरिणस्तनयो विनयोज्वलो वरमालिनी जठरसंभवश्वारुवक्त्रनामा तपोबललब्धशरासनतूणीरो जगदखिलमपि वितनोति वशमिति । अस्मत्स्वामिनो विमतकेसरिणो मरणमारभ्य नाशयितुमेनं दुरात्मानं नृशंसं बहुधा चिंतयतापि न मया समुपलब्धः कोऽपि पन्थाः । दिष्ट्या समुपनतः कालोऽयम् । हतायमेव स्यात्स चारुवक्त्रः जेताप्यतेषां । तदधुनैव विधाय पापर्मनं प्रकुपितं समीकदवपावकशिलीमुखशिखावलि: कावलीढं शलभमिव कारयामि । नश्यतु पापीयानिति विचिंत्य च
J-7
Page #80
--------------------------------------------------------------------------
________________
जयन्तिका
तस्मिन्नेव विष्टरे जोषंभावमाश्रित्यावनमितमुखो निरुत्तरस्समुपाविशत् ।
समुपविशति च तस्मिन्स वृषस्कन्धः किं वा चिन्तितम् १ किमिदानीमपि शक्यं जेतुमेतद्बलम् ? किमद्य कर्तव्यम् ? मदधीनास्सर्वेऽपि राजानस्संघीभूय निजबलपरिगतास्तत्र तिष्ठन्ति । को वा स्यादेतेषां जेतेत्यप्राक्षीत् । पृष्टश्च स सचिववरस्सवितर्क देव ! चिन्तितमिदानीम् । बलमिदमदृष्टपूर्वमश्रुतपूर्वञ्च । कतिपयबलपरिगतैरशक्यमस्माभिर्जेतुम् । यतश्चास्मदधीनास्सर्वे तत्पक्ष्यास्संवृत्ताः । तत्संप्रति समाश्रयणीया वैतसी वृत्तिरेव । कथयाम्यहमर्थशास्त्रमनुरुध्य । न पुनर्विपक्षपक्षपातेन । तर्कयतु भवानपि शुभोदर्कम् । सन्धिमन्तरा नान्यमुपायं पश्यामि । जानीहि तावदिदानीं विग्रहाकरणं भवद्विग्रहपोषणमिति । सैकतसेतुना वाहिनी - वेगनिरोध इव भवदल्पबलेनास्या वाहिन्या वेगनिरोधः । तदधुना तावन्मा नमय धनुः ; किन्तु शिरः । मा च प्रेषय शरम् ; किन्तु करम । हितमुच्यते मया ; न तु प्रियमित्यकथयत् ।
50
श्रुत्वा च सचिववचनमतिपरुषं रुषा स तु वृषस्कन्धो भ्रुकुटितभ्रूलतो रेखावलितरङ्गितललाटः पावकज्वालामिव वमद्भयां रुधिरच्छटामिव संकिरद्भयां विरूपाक्षरूक्षतरतृतीयनयनमिव विडम्बयच्यां परिघूर्णिततया तटिलतामिवानुकुर्वच्यां पिङ्गलाभ्यां लोचनाभ्यां प्रकम्पिताखिलपरिजनहृदयो दीर्घदीर्घ सर्प इव निश्वसन्परिस्फुरदधरोष्ठपुटः स्खलदक्षग्गणः, तिष्ठ तावत् ; अलं विकत्थनेन । न वयं परमपुरुषस्य मन्दस्मित स्पृहणीयान्मुखकमलाल्लब्धजन्मानः । किन्तु दुर्दान्तदानवदर्पदमनदक्षादोर्दण्डात् । न निमन्त्रणस्थानमिदम् । किन्तु नियन्त्रणस्थानम् । न वयमाज्याकर्षणनिपुणाः । किन्तु ज्याकर्षणनिपुणाः । नापि पुस्तकहस्ता वयम् । किन्तु लस्तकहस्ताः । न वयमक्षगणनासक्ताः । किन्तु अक्षहननासक्ताः । न तावद्वयं मन्दहासवशीकृतविपक्षाः । अपि तु चन्द्रहासवशीकृतविपक्षाः ।
Page #81
--------------------------------------------------------------------------
________________
द्वितीयलहरी
नापि स्वस्तिवाचनवाचालितकण्ठाः । अपि तु वीरवादकुण्ठितकण्ठीरवकण्ठरावाः। अनवगतप्रथितप्रथनवैभव ! दूरे भव । भवद्विकत्थनस्य न ह्यत्रावकाशः । न वयं सचिवायत्ताः। जानीहि मां जन्यजागरूकजन्मिजातप्रशमनशमनम् । कतीदृशानि दृष्टानि बलानि । द्रष्टव्यानि च कतीत्यभिधाय सचिवमभिभूय च पार्शमवलोक्य याहि मलयवात ! सजीकुरु बलमखिलमपि परपक्षपरिक्षोभणविचक्षणम् । गच्छ हेमाङ्गद ! विविधविचित्रप्रहरणविच्छुरितं समुच्छ्रितकुञ्जरकेतुमञ्जुशृङ्ग तुङ्गतुरङ्गमतरङ्गितपुरःप्रदेशं रोमशाभिधानेन सूतेन समलङ्कतं भृङ्गराजनामानं विमतकेसरिणो रणरथं स्थापय द्वारीत्यादिदेश ।
समादिश्य च स्वयमपि समीकसमुचितपरिकरपरिमण्डितः प्रासादशिखरादवरुह्य च द्वारि स्थितं शताङ्गमधिरुह्य तुरङ्गबलपरिवृतस्सेनानशब्दापितवादित्ररसितमुखरितहरिदन्तरो निरगात् । चोदिताश्च सूतेन तुरङ्गमास्त्वेकपद एव प्रबलाय विपक्षाय तावदेवं प्रणमेति वृषस्कन्धं शिक्षयन्त इव क्षितितलनिक्षिप्तजानुतलाः न्यपतन्नधोमुखम् । राज्याधिकारावसानावसरस्त्वयमेवेति सत्कुर्वन्निव धृतशर्करः पवमानो मानोद्धतमेनं सवेगमभ्युजगाम । को दण्डं कोदण्डं त्वमितः परं विधातुमिति च्युतिकाले शिञ्जिनीनिनादकैतवेन निगददिवाच्यवतास्य पाणितलात् । वामलोचनानामितः परं ते हृदयमेवमेव शोकातिरेकात्परिस्फुरतीति सूचयदिव प्रास्फुरदस्य वामलोचनम् । काष्ठान्तरप्रसृमरो निजप्रतापवैश्वानरोऽप्यलाततामुपगत इव न्यपतदभितोऽलातततिः । अश्रौषीच्छिवारवमप्यशिवारवम् । एवमधिगतानर्थसार्थोऽपि स वृषस्कन्धो भुजबलावलेपान्धश्च दैवमन्दीकृतप्रज्ञस्त्वरिततरमभ्यपतत्परबलम् । अभिपतति च तस्मित्रणाङ्कणं समीकदिदृक्षयाहमहमिकया स्थलाक्रमणाय ससंभ्रममभिपततां सुरनिकराणां परस्परभाषितैः निबिडतरानिमिषसङ्घसङ्घर्षणचालितबलारातिकण्ठोपकण्ठडोलायमानसन्तानसुममालासन्ताननिस्सृतचञ्चरीकचयचारुझङ्कारैः वीरवर
Page #82
--------------------------------------------------------------------------
________________
52
जयन्तिका
णागतगीर्वाणगणिकागणकरचरणाभरणरणितैश्च वाचालितं विबुधविविधविभूषणभासुरमणिनिकरमरीचिभिः पारिजातप्रसूनप्रकरप्रसृमरचामीकररागपरागपूगैः बृन्दारकवारसुन्दरीन्दुवदनसन्दोहकन्दलितमन्दहासद्युतिभिः परिभ्रमद्दीप्रवर्णभ्रमरनिकरैः च शबलितमभवन्नभोंकणम् ।
तदनु प्रवृत्ते चोभयतो भयानके सांपरायके कुत्रचिज्ज्यारववाचालितं कुत्रचिद्धन्यमानसैन्धवसहस्रं कुत्रचिदसिधेनुधेनुकाविदार्यमाणधेनुकानिकरं कुत्रचिच्छिली मुखजालतिरोहितमार्तंडमंडलं कुत्रचिदायोधनधीरयोधचातुर्यदर्शनप्रमुदितादितेयसमुदयपरिवृष्टमन्दारप्रसूनवासितं कुत्रचित्परबलोत्पाटितकुंत निभे भदंतहति निहताधोरणसमाक्रांत कुंभिकुंभपीठं कुत्रचिदुत्पतत्कबंधबंधुरं कुत्रचिन्निपातितपताकावितानं कुत्रचित् त्रुटितशतांगशतं कुत्रचित्तरवारि निकृत्तकंका पहियमाणनृपोत्तमांगं कुत्रचिन्निपातितानां क्षितितले चरणतलनिष्पीडितानां भूपानां तारतरदीनरावमुखरितं कुत्रचित्परस्परप्रहरणसंघर्षणपरिस्फुरत्स्फुलिंगप्रकाशपुंजं पथिकजनमिव चन्द्रहासपातमूच्छितं भारतयुद्धमिवार्जुननिशितशरनिकृत्त सैंधवं विराटनगरमिवोपभुज्यमानामिषपुष्टवृकोदरं कर्णभवनद्वारमिव मार्गणवर्गविच्छुरितं वर्षादिनमिव घनपातितश र संकुलमहीभृत्स्कंध स्यंदमानकीलालपूरितवाहिनीतटं वसंतदिनमिव पलाशपक्षिवाचालितं संध्यांकणमिव रक्तांबरं कलिभुवनमिव संचरद्वंचकसंचयं सुयोधनघोषयात्रादिनमिवार्जुन तीक्ष्णशरानुविद्धगंधर्वकुलं नगरमिव नवोन्मिषन्महीपालक्षयं दवानलमिव दिगंतर प्रसृमरतीक्ष्णतरहेतिजालं सर इवोत्पलबहुलं मथ्यमानक्षीरपारावारतीरमिव काकोलकलुषितं विराटभवनमिव सदा सन्निहितकंकचाल्यमानाक्षगणं शिशुपालहृदयमिव शूरजातहननकुतुकं राघवबलमिव अंगद - मंडितं ग्रहणदिनमिव केतुसमाक्रांतहरिमंडलं क्षपितानेकविग्रहमपि विजृंभमाणविग्रहं आविर्भूतरक्तारुणमपि विघटितचक्रयुगं रक्ताक्षनादपूरितमपि पिंगाक्षनादपूरितं वृषस्कंधरसवेगं रणांकणं प्रविवेश ।
-
Page #83
--------------------------------------------------------------------------
________________
द्वितीयलहरी
प्रविष्टं च सरभसं ततइतस्स्यंदनेन पर्यटन्तं क्षपितानेकविपक्षबलं प्रकीर्यमाणशरनिकरतया सहस्रकिरणमिवोज्ज्वलन्तं तं वृषस्कंधं विलोक्य स चारुवक्त्रोऽयमेय स्यात्स वृषस्कंधहतकः ; यज्जनन्या पदेपदे अभिहितं दुरात्मनो लक्षणं तावदिति मनसि विचित्योच्चैस्तिष्ठ रे ! विस्रब्धधातुक ! त्वं तावदुरसिलेष्वग्रगण्य इति निस्त्रपः पर्यटसि ; निर्मर्याद ! अपि नाम जानासि माम् ? अपि ते श्रवणपथं वा किमहं प्रविष्टः ? शृणु तावद्विमतकेसरिणः पुत्रः चारुवक्त्रनामाहम् । यद्यस्ति धाष्टये धनुरिदमाच्छियतां मत्कराद्यथा पुरास्मत्पितुः करात्करवालं; आयाहि अप्रतिहतमवेहि सायकं मदीयम् । दिष्ट्या दृष्टिगोचरोऽसि । विलसतु रणधरणिरियं क्रव्यगृध्नुगृध्रव्रातनिशिनतरत्रोटिकोटिसमुत्पाटितभवच्छरीरप्रसृमरसिरासरविसरपरिष्कृता । शरविदारितं परान्नपुष्टं भवच्छरीरं भोक्तुमपि फेरवोऽपि परावर्तते ; यतः कृतघ्नस्य शरीरं इति । प्रलोभनशील ! परस्त्रीलुंटाक ! कृतन्नतायास्ते फलमिदानीमुपनतमिति जानीहि शठेति जगर्ज । तदवकर्ण्य कर्णकर्कशं कटुवर्णविशीर्णहृदयस्स वृषस्कंधस्तापसजनसमुचितवेषं परित्यक्तभूषं कटुतरभापं धीरधीरं चरणाभ्यामेव संचरंतं निर्वर्ण्य तं बालं मनसीत्थमर्चितयत् । हंतायमेव किं विमतकेसरिणः तनयः ? जेता च भूपानामेतेषाम् । क पुनर्जातोऽयम् । कुतो वैतादृशो वेषः । कुत्र वास्मच्छ्रवणपथमनारूढ एव प्रवृद्धः । स्यादेवं ; निहते च मया तस्मिन्विमत केसरिणि भीता तदा क्वापि गता सा वरमालिनी । सा तु तदा स्यादापन्नसत्त्वा । सत्यमिदं तत्प्रभवः । ततश्चावगतमदुदंतेन तेन विरचितं स्यान्महत्तरं तपः । अतः एवायं तापसवेषः हंत ! धिगनवधानतां मम । इतो गताया वरमालिन्याः प्रवृत्त्यधिगमाय नैव प्रेषितवान्प्रणिधीन् । तया तु धृतदृढसंकल्पया भवितव्यं मन्निषूदने । पतिमरणेऽप्यदग्धहृदया विदग्धा कुत्र वा निगूढं व्यवसत् । केनापि वंचकेन मत्पक्ष्येणैव साह्यकृता भवितव्यम् । वंचितोऽस्मि विधि - नेति चिंतासंताननिश्चलगात्रे तस्मिन्वृषस्कंधे, स चारुवक्त्रः सस्मितं
53
Page #84
--------------------------------------------------------------------------
________________
जयन्तिका
1
रे ! कृतघ्नशिरोमणे ! कुतश्चितयसि ? किं चिंतयसि ? किमनुतपसि ? अपि नामानुतापोऽपि त्वयि ? कृतस्य फलमनुभोक्तव्यमवश्यम् । इतः पलायितुमपि न शक्नोषि ? मद्वशगोऽसि । पश्य तावत्प्रथनप्राप्तप्रथाप्रमत्तप्रत्यर्थिसार्थप्रमथनसमर्थं प्रहरणमिदम् । नाप्ययं प्रलोभनकालः । प्रदर्शय सांपरायकसामर्थ्यम् । सार्थय पृथुलतरं भुजदण्डम् । मित्रकरलब्धजीवनस्समुपचीयमानस्पृहणीयावयवसन्निवेशश्च जीमूत इव मित्रमेवाभिभूतवान्किल ! ममेदानीमाशुगोऽयमाशुग इव जीमूतं दूरमुत्सारयति भवंतमिति व्याहरन्नेव प्राहिणोद्वाणमेकम् । प्रणिहितश्च विपक्षतक्षणविचक्षणो बाणो विवर्धितशोणितो बभूव । तदनंतर मुभावपि भयानकावस्थूललक्षावंगच्छेदकृतादरौ च भयानकानीकिनीनायकौ कोपकषायितकनीनिको गुणाकृष्टमार्गणसन्निधापितकर्णौ गृहीतविनतधन्वानावपि विजृंभमाणानेकफलौ विमुक्तोपचीयमान शिलीमुखध्वानावपि क्रमव्यत्ययपरिहृतशिलीमुखाध्वानौ स्पर्धयोद्धतौ युद्धमतनु तावतनुताम् ।
तदनु स चारुवक्त्रो ज्यानुन्नैर्वाजिभिरेव तस्य वृषस्कंधस्य स्यंदनवाजिनो ज्यामधिशाययामास । सायकयुगलेनाभांक्षीत्सारथिमनोरथमिव वृषस्कंधरथमपि । सहसा सायकाभ्यां सूतं शरासनं च निर्जीवमपातयत् । अथ स वृषस्कंधस्तु खड्गी खङ्गीव विसृष्टसाध्वसस्सनिर्घोषमभिपतन्प्रकटयंश्च सांयुगीनतां परिभ्रामितमंडलाग्रतया तद्विलयावेष्टित इव धूमयोनिसहसा समाससाद चारुवक्त्रसमीपम् । तदा तु चारुवक्त्रो रोष - लोहितवक्त्रो निस्त्रिंशस्य तस्य निस्त्रिंशं शकलीकृत्य निशितमुखेन शिली - मुखेन हस्ते गृहीततत्कंशहस्तो विहस्तं नतमस्तकं निरस्तसमस्तधैर्यमनाहत सर्वशस्त्रं वृषस्कंधं कृतांजलिबंधं बलादपरांगवलितभुजयुगलबंधं विधाय नया सस्मितमित्थमकथयत् । तिष्ठ रे ! परदारपरिग्रहलंपट ! केदानीं निलीना तवानुकामीनताप्रथा ? क्ववा गता ते सांयुगीनता ? किमु भग्ना साप्यसिलतया सममुरसिलतापि ? दुरात्मन्निति बहुधावहेलयन्सेना
54
Page #85
--------------------------------------------------------------------------
________________
द्वितीयलहरी पतिसात्कृत्य कृत्याकृत्यविवेकशून्यं प्रकाशितदैन्यं तमेनमानय नयहीनं क्षिप्रमस्मत्पटागारमित्यादिदेश ।
तदन्वायोधनामर्यादचातुर्यावलोकनकंदलितामंदानंदैस्साधुसाध्विति तारतारं व्याहरद्भिर्दिविषद्भिस्सहस्ततालं विकीर्णेषु स्यंदमानमरंदलुब्धमिलिंदेषु मन्दारकुसुमसंदोहेषु भवानेवास्मभ्यमानंदप्रदातेति रोलंबझंकारकैतवेन निगदत्सु स्यंदमानानंदजलविंदुदंतुरेषु चारुवक्त्रमस्तकाजिघ्रासया देवनयननिकरेष्विव निपतत्सु चारुवक्त्रशिरस्यनुपदमेव भेरीपटहपणवादिवाद्यनिनदैस्समुच्चालितकेतुदण्डपंडकिंकिणीकणकणरणितैश्कदैव कृततालशब्दैरुद्भटभटाट्टहासैरहो ! चातुर्य चास्वक्त्रस्य । हन्त ! धैर्यम् । बत ! शौर्यम् । अहो ! पटुता। हन्त ! लक्ष्यवेधननिपुणतेति परस्परभाषमाणभूपालालार्जयघोषैश्च विदारितमिव भुवनतलम् । विघूर्णिता इव कुलाचलाः । विक्षोभिता इव महोदधयः । प्रचालितमिव वनतलं पातालफणिपतिफणामंडलञ्च । पिहितानीव दिक्कुंजरकर्णतालविवराणि । वाचालितानीव नाकलोकसौधवातायनविवराणि बभूवुः।
तदनु चारुवक्त्रो जननीसमानयनाय कतिपयबलपरिवृतां कनकमयी शिबिकां विभीतकनाना सेनापतिना समं दंडकारण्यमध्यवर्तिनी गुहां प्रति प्राहिणोत् । संप्रेष्य च विजितनिखिलनरपतिचक्रः विमतकसरितनयश्चारुवक्त्रः श्वः प्रवेक्ष्यति वैजयन्तीमिति घोषयित्वा निवेदयतु भवान्पोरेभ्य इति विनयावनतमौलिमादिदेश मलयवातम् । आदिश्य च प्रविश्य स्वं पटवेश्म भटैरानीतं त्रपयावनमितस्वेदबिंदुतारकितवदनं किमधुना करोतीति भिया वेपमानं निर्गलितमानं तं वृषस्कंधं समुपलभमानः क्षितितल एव समुपाविशत् । उपविशति च तस्मिन्सर्वेऽपि भूपालाः भूतले एव तमभितस्तदाज्ञया न्यषीदन् । इतस्तावत्रस्थितो वन्यवर्त्मना सैन्यपरोतो विभीतकस्तत्रतत्र दंडकारण्ये प्रतिगुहं प्रतिशिलोच्चयं प्रयासेनाविष्यान्विष्य क्रमेण कथमपि वरमालिनीगुहापरिसरसरणिमाससाद । सा
Page #86
--------------------------------------------------------------------------
________________
जयन्तिका
तु वरमालिनी दंडकारण्यशरण्या समाकर्ण्य बलकलकलरसितं गुहायाः बहिरागत्य समुन्नतमधिरुह्य शिलोचयशिखरं विलोक्य च दूरादापतत्तद्वलं भयविह्वलाबला वेपमानगात्रयष्टिरितिकर्तव्यतामूढा मनस्येवमचिंतयत् । हा! हतास्मि । हन्त ! ममैव मारसुकुमारः कुमारो विपक्षरुक्षक्षुरप्रक्षतकोमलशरीरः भवेत् । अन्यथा कथं सैन्यमिदमापतेत् । इह स तु सांयुगीनः खलु दुरात्मा रंध्रान्वेषी वृषस्कंधहतकः । हन्त ! स तु बालमेनं स्वायत्तं विधाय हिंसां कृत्वा तन्मुखादवगतमदावासकंदरो भवेत् । अथवा निहत्य तं मजिघृक्षया समायाति यातुधान इव । हन्त ! कथमनुभूतो निषूदनावसरे वत्सेन क्लेशः। किमशरीरिणी वाण्यपि निरर्थका ? कथमितःपरं क्षुद्रस्य करहृदयस्य तस्य वशवर्तिनी भवेयम् ? इति बहुधा विचित्य दुःखभरगद्गदकण्ठी अंब! भूतधात्रि ! देहि मे विवरं मंदभागधेयाय । हा! नियते ! यतसे किमु कांतारादपि कालयितुमेकाकिनी माम् । हन्त ! वैहायसस्य किमिदमेव फलं भाषितस्य । तत्प्रत्ययादेव रक्षिप्यति पुत्रो मां कंप्यति शत्रु विजित्य च पुनरप्यासाद्य हृद्यमुखारविंदो मां प्रासादं सादरं नेष्यति इति बहुविधसङ्कल्पकल्पनापरंपरयैव मया निर्भाग्यया यापितः कालः । बत! नायातः तनयो विनयोज्ज्वलः । हा! वत्स ! चारुवक्त्र! कथमिवानुभूता भवता भयानके सांपरायके सायकहतिवेदना। कथमिव भवेत्तदा रमणीयमाननं निशिततरशरनिकरविशीर्णस्य ते। वत्स ! तदधुना स्मृतिपथमधिरोहति । संग्रामप्रयाणात्यागासाद्य मां मंदस्मिताकुरितरुचिररदनमरीचिकिंजल्कं यन्मनोहरमाननसरोरुहं प्रादर्शयः । हा! चारुवक्त्र ! क्वासि ? कथमसि विहाय मामेकाकिनी कानने। किमु पितृदिदृक्षया गतोऽसीत्यतिचपलचित्ततया वात्सल्याविष्कृतहृदयतया च बहुधा विलपन्ती प्रेमातिशयनाशुभमेव भावयन्ती चिरमनुभूतकष्टतया कष्टमेव विचिंतयन्ती स्त्रीस्वभावतयातितरामधैर्यमेवारोपयन्ती कापि गन्तुमपि स्थातुमपि नितरामनीशा साध्वसातिरेकादधतमः प्रविष्टेव तत्रतत्र स्खलन्ती
Page #87
--------------------------------------------------------------------------
________________
द्वितीयलहरी
57
समवरुह्य मन्दं महीध्रशिखरात्तस्यामेव गुहायां निश्शब्दा निलिल्ये। स तु विभीतको गहनमभितो दत्तदृष्टिः पर्यटन्नन्विष्यान्विष्य प्रतिकन्दरं प्रतिसरस्तीरं प्रतिमहीरुहमूलं प्रतिप्रताननीगुल्ममनवलोक्य च तां वरमालिनी नीरंध्रनमेरुतलबहुलोपकण्ठतया अलब्धदिवाकरमरीचिनिचयप्रवेशावकाशां क्षितितलनिहितनारिकेलकमण्डलु शंकुलंबितधवलचेलां दर्भासनसनाथां एकदेशनिक्षिप्तकृष्णाजिनभस्त्रिका कन्दमूलफलकल्पितैकदेशां व्रतमाचरंती तापसीमिव विलोक्य तां गुहां भवेदत्र सा तु वरमालिनीति विचित्य नातिदूर एव विसृष्टनिखिलबलः मृगेन्द्र इव स्वयमेक एव प्राविशत्तां गुहाम् । समुपस्थितमवलोक्य च तं विभीतकं सा वरमालिनी वेपमाना वैवर्ण्यदीनवदना हन्त ! कथं सन्निहित एव पापोऽयं । किमधुना कर्तव्यम् । कुत्र वा गन्तव्यम् । किमद्य करोत्ययं न जाने। हा ! रुक्मिणीजाने ! त्वं खलु दुरात्मना दुश्शासनेनापह्रियमाणदुकूलां पराधीनामाक्रन्दन्तीं दीनामपालयः पांचालीम् । अहमपि लब्धपांचालिकादशास्मि । विवशास्मि । पाहि मामनाथामिति रुदती विभीतकमभाषत । तात ! कस्त्वम् ? कुतो वा घोरतरमिदं कांतारमभ्यागतोऽसि ? समुपलब्धराजवालभ्यः प्रभुमनस्संतोषसंपादनैकतान इव लक्ष्यसे। न हि किमु मयि दुरध्यवसायः ? अबलाहमनाथैकाकिनी निराश्रयारण्यवासिन्यस्मि । पातिव्रत्यरक्षणायापिनाम न मामनुकम्पसे ? सत्यमावेदय । कुतस्समागतोऽसि ? दयया निवेदयेति । तदवकर्ण्य तस्याश्च तादृशीमवस्थां विलोक्य स विभीतकः कृतप्रणामो बद्धांजलिपुटस्सविनयं स्थित्वा च नातिदूरे देवि ! न भेतव्यम् । विभीतकनामाहं सेनापतिः वृषस्कन्धस्येति निवेदयंस्तत्रांतरे स्त्रीसमुचितमतितया कातर्याच्च हा! वत्स ! चारुवक्त्र ! कीदृशीमवस्थां प्रतिपन्नोऽसि ? महदिदं कष्टमिति तारतारमाक्रन्दन्ती मूर्छितां तां वरमालिनीं विलोक्य क्रमेण सावेगं ससंभ्रमं च चेलांचलेन वीजयन्नचिंतयत् ।
अहो ! चक्रवर्तिमहिष्यपि महतीमीदृशीमवस्थामनुभवति । हन्त !
Page #88
--------------------------------------------------------------------------
________________
जयन्तिका
दैवविलासितम् ! कोवा जानाति कदा वा कथं वा पतिष्यति द्वन्द्वपरं परेति । पुरा की हगनुभूतमनया राज्यसौख्यम् । कीदृगनुभवत्यधुना दैवदुर्विपाकाद्दुःखमियम् । हन्त ! अग्रे कथमनयानुभोक्ष्यते च । को वा शक्नोति निर्णेतुमिदमित्थमिति । दैवाधीनं किल जगदखिलमपि । हन्त ! विचित्रो हि जगन्मोहः । यदापदि सर्वेष्वपि विषयेष्वस्थिरता संपदि च स्थिरता जनैरारोप्यते। वस्तुतः अस्थिरमेव सर्वम् । तथाहि स तु वृषस्कन्धो निहत्य च विमतकेसरिणं विषयसुखेषु स्थिरतां भावयन्तीमेनां निष्कासयामास नगरात् । इदानीं तु चारुवक्त्रो राज्ये स्थैर्यमाशंसमानं मानोद्धतं तं वृषस्कन्धं निर्जित्य सर्वमप्यपजहार । अतो दैवविलसितस्य वेत्ति न कोऽपीति विचिंतयन् शिशिरोपचारेण तस्यास्संज्ञामुदपादयत् । लब्धसंज्ञा च सा वरमालिनी मंदमुत्थायापि कुशली ? वत्सश्चारुवक्त्रो दयया निवेदयेत्यप्राक्षीत् । पृष्टश्च स सेनापतिः देवि ! समाश्वसिहि । कुशली वृषस्कन्धस्य जेता मध्यमलोकस्य च नेता भवत्याः पुत्रश्चारुवक्त्रः भवदागमनमेवानुपालयति । तदागच्छतु भवती; शिबिकामेनामधिरोहतु । आनन्दयतु तनयनयनयुगलम् । पश्यतु भवती तनयमुखकमलमिति न्यवेदयत् ।
58
निशम्य च तद्वचनं वरमालिनी तात ! कथमिव तथ्यमित्यवगच्छामि भवद्वचनम् । दुरितकर्मैकतानस्य तस्य वृषस्कन्धहतकस्य दौरात्म्यमनुचिंत्य दुःखभरजर्झरितहृदया भवामि । निरवलंबनास्मि । कदाप्यसंस्तुतं भवन्तं कथमिवास्मत्पक्ष्यमिति प्रत्येमि । तदपसर दूरं ; नाहमारोहामि शिबिकामिमामित्यब्रवीत् । तदा स विभीतकस्सविनयं बद्धांजलिपुटः देवि ! यद्यहं नराधमस्य तस्य वृषस्कन्धस्यादेशानुरोधी तदैव बलाद्भवतीमारोपयेयं शिबिकामेनाम् । यदा च भवती गतचैतन्या क्षितिशायिनी परवशा तदैव शाययेयं भवतीं शिविकायाम् । यद्यप्यनुभूतापरिमितदुःखतया जगतो वञ्चनाबहुलतया जनानां कृतघ्नतया च भवन्मानसे तावदीदृशी समुदेत्यचिकित्स्या विचिकित्सा । सत्यमावेदयामि ।
Page #89
--------------------------------------------------------------------------
________________
द्वितीयलहरी
नैवावकाशोऽत्र तादृशसंदेहस्य। किंचेदमभिज्ञानं सुदूरमुत्सारयति ते विचिकित्साम् । यत्ते पुत्रेण तपसः प्रतिनिवृत्तेन भवत्सन्निधौ प्रतिज्ञातं नृशंसं तं वृषस्कन्धहतकमहत्वैव जीवग्राहं गृहीत्वा भवचरणसरसिजयोः पातयिष्यामीति । तथैव कृतवता महात्मना तव पुत्रण प्रेषितोऽहम् । किंचापि स्मरसि ? चिताश्रयाशप्रवेशावसरे समुदीर्णामशरीरिणीं वाणीम् । एतदुदंतनिवेदनेन विलंभय मम जननीमित्यभिहितं चारुवक्त्रेण । तदिदानी भवत्पुत्रेणैवाज्ञप्तस्त्वदानयनायागतोऽस्मि । तदूरीकुरु शंकामलंकुरु शिबिकामिति प्रार्थयामास।
___ एवं प्रार्थिता च बहुधा विस्रभवितस्तविचिकित्सा हर्षभरकंदलिताश्रुजलबिंदुमालिनी सा वरमालिनी हन्त ! असमीक्ष्यकारिण्या मया तावदाशंसिता मुधैव वत्से तस्मिन्नमंगलपरंपरा । यदभिदधति विबुधाः स्त्रिय एवाशेषानयति । तत्तथ्यमेव । धिगीदृशीं मामशुभोदर्कसंतर्ककर्कशहृदयामिति बहुधा विचिंतयन्ती प्रमोदभरकंटकितकपोलफलका विनमितवदना संस्तुताभिर्मुग्धाभिर्लुब्धकवधूभिस्सबाष्पं कथंकथमपि लब्धानुमतिः सन्निहितां शिविकामारुरोह । आरुह्य च समुपविष्टायां तस्यां विधाय च तां शिबिकां धवलदुकूलावगुंठितां परिजनाः निन्युः तां पटकुटीरोपकण्ठम् । तदनु विभीतकस्त्वरया बलपरिवृतया शिबिकया सह चारुवक्त्रपटनिकेतनसकाशमासाद्य, - “निरवद्यमाचरितं किल कर्म भवता । महती भीतिः खलु दुष्कर्मणि । न हि किमु मनागपि त्वयि धर्मच्युतिः। ननु भवता जगतीह महती कीर्तिरार्जिता। निर्जिता हि भुजबलेन वसुमतीयम् । विलब्धे सुहृदि प्रकटितविलंभोऽसि । नयविदामग्रणीरसि । जंबुक इवान्योपभुक्तोज्झितमामिषमभिलषसि । न पुनर्पगेन्द्र इव स्वपराक्रमार्जितम् । दुरितकभाजन ! निखिलजनविगर्हित ! अपि जानास्सशस्त्रवश्यं किंतु शास्त्रवश्यं परलोकम् । निस्त्रप! भवतस्तावत्परदारपरिग्रह एवावदातं कर्म ; देवतासपर्या,
Page #90
--------------------------------------------------------------------------
________________
जयन्तिका
सत्पुरुषसहवासश्च। तासां परयोषितां दर्शनमेव दर्शनदर्शनम् । तासां उदंतश्रवणमेव पुराणेतिहासादिकथाश्रवणम् । तासां स्मरणमेव पवित्रहरिचरणस्मरणम् । तासु रतिरेवापवर्गः। तत्रापि विसन्धमित्रभार्यायां निरर्गलोऽसि ? यदि ते जननी जीविता भवेत् सापि जाया भवितव्या । धिगनवधानतां विधातुः । यत्तव कृते भुवनमंडलमखिलमपि नैवासृजललनामयम् । वैधेय ! कथमिव प्रगल्भसे योद्भुमिह विषयग्रहणलंपटानिन्द्रियहयान्मनःप्रग्रहेण वशीकर्तुमसमर्थः। किञ्च मनोभवपरवशस्य तवेदमप्युचितम् । यदात्मपोषकस्य मनसोऽप्यपहर्ता काम इवास्मत्तातानुजीवी भवानपि तमेव निहतवान् । अत्र तावन्नियो नासि। स तु मे पिता निंद्यः । यस्तावदाबाल्यादात्मनिर्विशेष पापिनं त्वां पोषयामास।" इति बहुधा वेपमानं समनुभूयमानावमाननं तमनतिदूरे स्थितं वृषस्कन्धमसकृदुपालभमानं सामंतनिखिलनरपतिपरिवृतं चारुवक्त्रमद्राक्षीत् ।
___ दृष्ट्वा च सविनयमुपसृत्य कृतांजलिपुटो देव ! समागता देवी भवतो जननीति न्यवेदयत् । तदनु विविक्तं पार्थवर्ति वसनोदवसितं प्रवेशय जननीमिति विभीतकमभिधाय समुत्थिते च तस्मिन्सर्वेऽपि सत्वरमुदतिष्ठन् । समुत्थितश्चारुवक्त्रः त्वरिततरमानय तमविनीतमेनं तत्पटकुटीरमिति भटमादिश्य विसृष्टसकलराजलोकः स्वयमेकाकी प्रविश्य च मातुः पटकुटोरं सुतमुखकमलावलोकनकुतूहलिनी जननीमपश्यत् । दृष्ट्वा चांब ! पराजितारातिश्चारुवक्त्रः प्रणमतीति पादयोः पतन्तं तं पुत्रमुत्थाप्य बाहुलताभ्यां सा वरमालिनी दृढतरमाश्लिष्य परामृश्य पाणितलेन शरहतिक्षतान्यंगानि वत्स ! चिरं जीवेत्याघ्राय तदुत्तमांगममंदानंदसिंधुतरंगपरंपराभिहतेवेतिकर्तव्यतामूढा बाष्पसलिलप्रक्षालितकपोलस्तनमंडला वत्स! अपिनाम हतस्स पापैकतान इत्यप्राक्षीत् । पृष्टस्सः मातः ! जीवति स नृशंसो भवच्चरणसरसिजनखमयूखोदकधारामवगाह्य शिरसास्मानं पावयितुमिति निवेदयन् स्वयमेव स्तोकमिव द्वारदेशमासाध
Page #91
--------------------------------------------------------------------------
________________
भटाभ्यामसकृत्परिगृह्यमाणमपि त्रपाभरात्पदेपदे च्यवमानं गलितमानं मुहुर्मुहुर्नुद्यमानं याहियाहीति प्रतिपदं चोदितमपि ग्रामदेवतायै बल्यर्थ नीयमानमजमिव दृढनिहितावष्टब्धचरणं निश्चलं तिष्ठन्तं तं वृषस्कन्धं विलोक्य क्रुधा भृकुटितभूलतस्स्वयमेव सरभसमनुधाव्य दृढमुष्टिगृहीततत्केशपाशो गच्छ रे ! वैधेयेति बलासुदन्वरमालिनीपटागारं प्रावेशयत् ।
प्रवेशितस्य तस्य पापिनो दर्शनमात्रेण स्मरणपथाधिरूढनिजरमणमरणतया समुद्भलत्कदुष्णबाष्पधारापरिबाधमानाधरा धरातलमवलोकयन्ती निश्शब्दं रुदती वरमालिनी सगद्गदं वत्साभीकं भीकरमभिकं तं क्षिप्रमपसारय मन्नयनपथात् । एतद्दर्शनेन स एव समयस्स्मृतिपथमधिरोहति । यत्समय निकृत्तभवपितृकंधरारुधिरधारारुणितधरासिधेनुकापाणिरकरणो दुरात्मा दंडधरचंडतररूपोऽयमनाथाया मे हृदयं जरितमतानीत् । किमर्थमधुनापि नायं प्राणैर्वियोजितः ? न कार्यों हि शत्रुशेषः । इति दीनदीना अकथयत् । तदवकर्ण्य चारुवक्त्रस्सविनयमंब ! मा भूदयं दुरात्माभिको रणशिरसि निशितशरनिशारितो वीरस्वर्गमासाद्यानवद्यरूपस्पृहणीयाप्सरोगणपरिष्वंगपात्रमिति मया जीवग्राहं गृहीतः । इति निगदन्गलहस्तिकया विहस्तं तं बलात्पातयित्वा जननीचरणसरसिजयोः खयमेव सत्वरमनीनयन्निजदूष्यम् । तदनु श्वः कल्य एव प्रवेक्ष्यति नगरी चास्वक्त्रस्तदलंकरणीया वैजयन्तीत्युद्धष्यतां भवतेति पार्श्ववर्तिनं विभीतकमादिश्य प्रविश्य च निजपटनिकेतनं तैर्नरपतिमिः परिवृतः समुपविश्य च चामीकरविष्टरे तास्ताः निजदंडकारण्यवासकथाः वृषस्कंधोपालंभगर्भाः कथाश्च व्याहरन्वृषस्कंधानुगतपरिहासवार्ताभिर्हासयन्महीपालान्कालमत्यवाहयत् ।
अथांशुमाली बहुजुगुप्साकरां द्रष्टुमपारयन्निव रणधरणिं समाश्रितचरमगिरिचरमसानुररुणकिरणारुणितरमणीयविचित्रगन्धर्वनगरतया स्वच्छतराकाशदर्पणे विचित्रतरविदारितानां रणांकणनिपातितानां रुधिरसिक्ता
Page #92
--------------------------------------------------------------------------
________________
62
जयन्तिका
वयवानां प्राणिगणानां प्रतिबिंबभ्रांतिमुपजनयन्वरुणाय चारुवक्त्रजयवाता निवेदयितुमिवावततार वरुणलोकम् । अवतरति च मार्तडमंडले नातिदूरवर्तिन्या वैजयन्याः प्रस्मरस्पृहणीयमणिदीपगणकिरणद्विगुणितदीप्तिप्रमीतनृपतिभूषणरुचिरमणिप्रकरविच्छरिततया निजवल्लभसदृक्षचारुवक्त्रवक्त्रदिदृक्षया क्षोणीतलावतीर्णतारानिकर इव, रणांकणे तत्रतत्र खण्डितगोइंडशुंडादंडपंडरंध्रप्रणालिकागलद्रुधिरधारागलगलनिनदैश्शोणितस्रोतः प्लवमानतुरंगमखलीनवलयगणसंघर्षणकणकणरसितैरस्थिपंजरचर्वणैकतान - वृकतीक्ष्णदंष्ट्राकटकटात्कारैः पललातिलुब्धफेरवदूराकृष्यमाणतुरगजंघाकांडयुगलतया परस्परताड्यमानखुरपुटरटरटरटितैःशुनकचळमाणक्रव्यकचकचात्कारैः पिशितातिगृभतया शर्वर्यामपि स्थितानां गृध्राणां दृढतरचंचुपुटसमाकृष्यमाणखंड्यमानधमनिजालचटात्कारैः मस्तिष्कमग्नकंकत्रोटिपुटाकृष्यमाणदीनफेरवारावस्तृषितवेतालांजलिपुटपीयमानरुधिरचूषणनिस्वानैश्च वाचालितायां रजन्यां चारुवक्त्रेणाभ्यनुज्ञातास्सर्वेऽपि राजानः प्राविशन्संवेशाय निजनिजपटवेश्मानि। तदनु सैंधवेभ्यः पच्यमानहरिमंथकानां क्रमेलकचळमाणनिंबपत्राणां सिंधुरग्रस्यमानसलकीपलवानां भटवर्गकाथ्यमानोदनानां च चित्रगन्धैर्वासितमभवच्छिबिराजिरम् ।
____ ततश्च भुक्तेषु सर्वेषु क्षितितलनिखातकुंतयष्टिपंक्तिघटितदीर्घपृथुरज्जुनियंत्रितशिरोधिचरमचरणेषु निष्कंपश्रवणप्रोथेषु स्तोकमिव कुंचितैकखुरपुटेषु निश्चललंबितवालकलापेषु विपुलनीलकंबलावगुंठितगात्रेषु घोटकपटलेषु विटपिमूलावेष्टितशृंखलाबद्धचरमचरणस्तंभेषु निश्चलकर्णतालेषु आक्षितितललंबितशुंडादंडेषु निद्राविद्राणेषु सामजव्रजेषु पर्यायेणोभयतो डोलायमानाधरपुटं कोरकितोच्छूननयनपुटं च रोमंथासक्तेषु क्षितितलशयानेषु क्रमेलंकषु तत्रतत्र समास्तीर्णपर्याणपरंपरामधिशयानेषु रणांकणप्रमीतात्मबन्धुपुत्रमित्रभागिनेयादिजनस्मरणपरस्परभाषणदूयमानेपु योधयूधेषु रथान्यन्तरप्रसुप्तेषु रथिकेषु पटमंदिरे सुसुखं नरपतिष्वनुभवत्सु
Page #93
--------------------------------------------------------------------------
________________
द्वितीयलहरी
63
निद्रां निनिंद्र एव च निजदुर्दशाचिंतापरंपराव्याकुलितमानसे वृषस्कंधे प्रतियामं क्रमशो नलिका भुजैस्ततइतः पर्यटद्भिः रक्षिपुरुषैरभिरक्ष्यमाणे च शिबिरदेशे चारुवक्त्रो निजजननीदूष्यमासाद्य परिजनपरिकल्पिते तल्पे शयानः पार्श्ववर्तिनि शयनीये शयानायै जनन्यै निजजैत्रयात्रावार्तां कथयनेव विभावरीमनारूढनिद्र एवात्यवाहयत् ।
अथ सप्तसप्तिर्मृगयुरिव प्रधाविततुरगः खर्वेतर पूर्वपर्वतवर्त्मना अंतरिक्षकांतारं प्रविश्य तत्र विलसंतमृक्षगणं विनाश्य निजनिशितकर भलैः रक्ताकुलितमतानीत्प्रांतदेशम् । प्रादुर्भवति गभस्तिमालिनि, कराञ्चलपरिमृष्टाक्षियुगलानां जृंभाविवृतवदनकुहराणां कृतांगभंगानां उत्तिष्ठतोत्तिष्ठतेति प्रसुप्तान्प्रबोधयतां योधानां भाषितैस्समुद्धूयमानधरणितलधूलिधूसरितशयनीयफटात्कारैरसकृन्मूत्रशकृत्कर्दमितखुरपुटकुट्टनम्थपुटितावनितलानां समुन्मीलितस्फीतनयनानां फुत्कारपरिस्फुरत्प्रोथानां समुद्धीवाणां वाजिनां हेषाघोषः, प्रबुद्धानां कर्णतालताड्यमानगण्डमंडलानां मन्दांदोलितगात्राणां मुहुश्शुण्डादण्डा व कीर्ण तुहिनशीकर शिशिर नलपूलिका कलुषित कुम्भपीठानां स्तंबेरमाणां घंटाटंकारैः सुप्तोत्थितानां बुभुक्षयाभीक्ष्णं परिजनानीतनिंबपत्रसंभारबंधुर प्रदेशविवलितायतकंधराणां जृंभावसानप्रलंबमानाधरोष्ठपुटानां क्रमेलकानां काहलसंकाशकंठतार निस्वानैः, कुटोरेषु शयानान्क्षितीशान्प्रबोधयतां वंदिनां स्तोत्रजालैः च स्कंधावाराजिरमा पूरितमभवत् । उत्थाय च सर्वेऽपि निंबशलाका धावनधौतदंताः सलिलप्रक्षालितमुखमंडलाः अनतिगृहोताभ्यवहाराः हयान्हरिमंथकैर्दं तावलानिक्षुभारैरुष्ट्रान्निबपत्रैः लवणैश्च विधाय प्रशमिताशनायानुत्सवसमुचितानल्पाकल्पपरिष्कृतांश्च स्वानुगुणालंकरालंकृतास्सैनिकाश्चकाशिरे । नरपतयोऽपि परिजनदीयमानोदकक्षालितमुखकमलाः निर्वर्तितस्नानक्रियाः परिगृहीताभ्यवहाराश्च हारादिमनोहर - परिष्कारपरिकर्मिताः भुजिष्याजनदीयमानतांबूलादानमोदितमानसाः पुरप्रवेशोत्सवकृतादरा रेजुः ।
Page #94
--------------------------------------------------------------------------
________________
जयन्तिका
इतस्तावद्वैजयन्त्यां मरुन्मालस्सचिववरः साचिव्यसमुचितालंकारालंकृतः मलयवातेन समं समुपविश्य स्यंदने निजबलानुगम्यमानः काभिश्विद्विविधविचित्राभरणभरितभासुरशातकुंभभाजनविराजमानपाणिपल्लवाभिः काभिश्चिन्नरपतिभोग्यगुंभितमनोहरसुमनोहारसौरभभरसन्निहितचञ्चरोकचयशंकार - मुखरितपत्रभङ्ग-तरंग कमनीयतपनीयसम्पुटकमुखव लयप्रोतकूर्पराभिः काभिश्चित्सितदूर्वासितकुसुमकलित लाजपुंजधवलितकलधौतपात्रांचितकर किसलयाभिः काभिश्चित्सुवर्णतन्तुसन्ततिकल्पितविचित्रपत्रभंग भासुरपर्यंतैरनेकधा पुनरुक्तीकृतैः विविधवर्णदर्शनीयैः कौशेयैरलंकृतशयकुशेशयाभिः काभिश्चित्कनककलशोदरतलविनिहितकरकमलतया बहिः प्रकटिताभ्यंतरविनिहितपल्लवैखि विशदतरकुसुमावेष्टितकण्ठैरेलाकुंकुमघनसारपटीरादिद्रव्यदिव्यसौरभसम्भृतांभः पूर्णैः नारिकेरफलपिहितमुखविवरैश्शातकुंभकुम्भैः परिमंडितोरुतलाभिः काभिश्चिन्मलयजरस भरितकांचनचषकग्रहणव्यग्र कर किसलयाभिः परिघृतधवलकोमलकौशेयाभिः तुंगपयोधरकुंभतटडोलायमानमौक्तिकमालाभिः लावण्यस्पृहणीयकोमलतनुयष्टिभिः मंगलमयीभिरिवोत्सव वैजयन्तीभिरिव चारुवक्त्रवक्त्रदर्शनकुतूहलालिंगितांतरंगाभिः वारसुन्दरीभिः विराजमानाभ्यंतरैः कतिपयैश्शतांगैः परिष्कृतोभयपार्श्वः यन्त्रविकीर्णार्णश्शीकरनिकरसिक्तेन स्तोकमिव वामकूर्परसंदंशितक्षितितललम्बमाननीवीकलापाभिः अवनमितपूर्वकायतया स्कंधतलादापयोधरमण्डलं लंबमानां कृष्णभुजगभोगमसृणदीर्घा पिंडीकृत प्रसूनमालामंडितमूलां वेणीं दक्षिणभुजादसकृच्चरमांगदेशं प्रति नुदन्तीभिः कौशेयमयतयासकृत्स्रस्तमुद्गमनीयं मुहुर्डोलायमानविचित्रतररत्नहारमंडलमंडितं वक्षोजमंडलं नयन्तीभिः वामहस्ततलविन्यस्तरंगवल्ली भाजनाभिस्ततइतः परिस्पन्दनेन रणरणायमाननूपुरगणपरिष्कृतचरण पंकजाभिस्सावधानं धरातलदत्तनिस्तरलायतनयनेन्दीवराभिर्दक्षिणपाणिपुंडरीकदलाग्र क्रियमाण धवल मृत्तिका क्षोदरेखा राजितया प्रसृमरकरनखररुचिरकिरणैरेव विरचयन्तीभिरिव रंगवल्लीमात्मनैपुण्यप्रकट
64
Page #95
--------------------------------------------------------------------------
________________
द्वितीयलहरी
65
नव्यग्राभिः पौरसुन्दरीभिः विचित्रपत्रमङ्गभङ्गभङ्गया रंगवल्ल्या समलंक्रियमाणेन, विस्रंसितानां स्कंधावाराणां दारुसंभारपटपटलरज्जुजालजटिलानि वस्तुन्यवशिष्टहरिमंथकादिधान्याशन्याः गोणीश्च समहद्भिः क्रमेलकैर्दैतुरेण प्रागेव चारुवक्त्रदिदृक्षया सकौतुकं संघशः समागतान्पौराक्रमशः स्थापयितुं तत्रतत्र सादिभिः प्रधाव्यमानानां सैंधवानां खुरपुटरवमुखरितेनोभयपाक्षितितलनिखातोच्चतर सिंधूरसुधापट्टशबलितस्तंभपंक्ति घटितपताकादण्डनिकटनिबद्धरसालपल्लवतोरणपरंपरावितानितेन दीर्घतरेण राजमार्गेण प्रस्थितश्चारुवक्त्रपटसदनमाससाद ।
आसाद्य च कुत्र युवराज इति पृष्टैः परिजनैरितइत इति प्रदर्श्यमानमार्गो मरुन्मालो द्वारदेश एवं शतांगादवतीर्य रथेभ्योऽवतीर्णाभिर्वारांगनाभिस्समं पुरस्कृतमलयवातः प्राविशत्पटमंदिराभ्यंतरम् । प्रविश्य च निषण्णं चामीकरविष्टरे चिरकृतस्नानविधि परिजनविशोध्यमानजटाजटिलपाटलकुटिलशिरोरुहं विशदांशुकावगुंठितशरीरं दुग्धाब्धिकल्लोलच्छटाविच्छुरितमिव मन्दरं सौन्दर्यराशिमिव पुरुषतामापन्नं तं चारुवक्त्रमद्राक्षीत् । दृष्ट्वा चोन्मीलितलोचनपुटे विस्मयस्तिमितमानसे तस्मिन्मरुन्माले नातिदूर इव स्थित्वा अहो ! सौन्दर्यमहो ! सौकुमार्यम् । हन्त ! कोमलता ! बत! लावण्यम् । अद्भुततरं गांभीर्यम् । सद्यस्सूर्यमरीचिविकसितनवसहस्रपत्रपत्रविशालं नयनमस्य पिशुनयति चक्रवर्तितां ; धन्या खलु राज्यलक्ष्मीः ; यतस्सततमपि सेवते कुमारमेनं वल्लभम् । हन्त ! रूपमस्य विलोडयति पुरुषाणां च हृदयं किमुत स्त्रीणां? दर्शनादस्य मुह्यति मे मनः । जहाति लोचनं निमेषस्पंदनम् । यदि पश्येयुः ललनाः सशरीरं मन्मथमिव एनमनुपदमेव मुह्येयुरुन्मत्ता भवेयुः। हंत ! विमतकेसरी तावदीदृशं पुत्रमनवलोक्यैव कालवशं गतः । वयमेव सुकृतिनः। धन्या वरमालिनी। समधिगतभाग्याः प्रजाः। यतः प्राप्तवान्दिष्टया स्वकीयं राज्यं सोऽयमिति चिंतयति सति, स्तोकमिव मलयवातः चारुवक्त्रमुपसृत्य बद्धांजलिपुट
J-9
Page #96
--------------------------------------------------------------------------
________________
66
जयन्तिका स्सविनयं देव ! देवैः भवत्तातपादैः मंत्रिपदे अभिषिक्तोऽयममात्यवरो द्विजोत्तमो मरुन्मालनामा भवदिक्षया भवत्सन्निधिमायात इति विज्ञाप्य विरराम ।
तत्क्षणमेवोत्थाय चासनात्सविनयं विमतकेसरितनयश्वारुवक्त्रः प्रणमतीति प्रणिपतंतं तं कुमारमुत्थाप्य दोभ्यां मरुन्मालो विजृभमाणवात्सल्यसमाश्लिष्टांतरंगतया इतिकर्तव्यतामूढो भद्र ! तात! कुमार ! चारुवक्त्रेयनुलपन् परिरभ्य दृढतरं शिरस्याघ्राय च अमन्दानन्दकन्दलितबाप्पप्रक्षालिततत्केशपाशः परामृशन्नसकृत्तदुत्तमांगं गद्गददम्यमानस्खलदक्षरैर्भाषितैः कुमार ! दिष्ट्या वर्धसे । नैव विमतकेसरिवंशकरीरोऽपि इति निश्चित्य दुःखितस्य मम मानसं तस्माद्यत्त्वमेको जात इति तदेवानंदयति । तत्रापि यद्वाल्ये एव विजितनिखिलभूमण्डलोऽसीति तदधिकतरमाह्लादमुत्पादयति । तत्रापि यद्रूपौदार्यादिसद्गुणानां विधात्रा पात्रीकृतः इति तत्तु तरणाचार्य इव नितरां प्रमोदपयोनिधौ मज्जयति प्लावयति चेति निगदन्सबाष्पं कुमार ! भवत्पितुराभरणजालमिदम् ; राजयोग्यमंशुकमिदम् ; माल्यमिदममूल्यम् ; भवता तावदेतदखिलमपि अंगीकरणीयं इत्यभिधाय विरराम ।
ततश्च स चारुवक्त्रो निर्वाभरणजालमश्रुकलुषितलोचनोऽन्तविलसन्मकर इव पद्माकरः क्षणमिवावनतमुखः स्थित्वा त्रपया किंचिदवनमितमुखपंकजाभिः कृतमंदहासतया स्तोकमिवोन्नमितकोमलारुणकपोलफलकाभिः अपांगवीक्षणेनैव कर्णमूलावतंसितनीलोत्पलाभिः पाणिपल्लवकृतोज्ज्वलपूर्णकुम्भविलसन्निजप्रतिबिंबकैतवेनात्मानमिवाऽर्पयन्तीभिः वारनारीभिः पुरः प्रसारितान् सुवर्णपूर्णकुम्भान्स्पृष्ट्वा पाणिभ्यां परिजनसमुपनीते समुपविश्य च तपनीयपीठे मरुन्मालमप्यन्यस्मिन्पीठे समुपवेश्य च तन्मुखसौन्दर्यावलोकनांतर्जातमनोभवद्रुमपल्लवाभिरिव सविभ्रमं परस्परसखीजनमुखावलोकनजनितलज्जारुणवदनारविंदाभिः क्षौमाच्छादनेन
Page #97
--------------------------------------------------------------------------
________________
द्वितीयलहरी
____67
तत्सुकुमारशरीरस्पर्शकन्दलितपुलकनिकरानसकृदपवारयन्तीभिः कपोलफलकोद्वमत्स्वेदकणिकाश्चेलांचलेनाभीक्ष्णमपनयन्तीभिस्स्मरपराधीनाभिः कृच्छ्रेण मिया च स्वायत्तीकृतहृदयाभिः सावधानमलंकुर्वतीभिस्ताभिर्वारसुन्दरीभिः समलंकृतो राज्यलक्ष्मीपाणिग्रहणायावतीर्णः पुंडरीकाक्ष इवाराजत।
मरुन्मालस्तु कुमार ! क ते तपखिनी जननी । या च निलिंपधुनीव वनाध्वनीना पावनीकृतवनीतटावनी रत्नगर्भव भूपालपालिता निजोदरधृतनायकरत्ना च कुंतीव पतिविरहासहिष्णुतया परित्यक्तराज्यसुखा, धर्मपथानुगार्जुनभीमव्रतैकताना च । बलवती मे तदिदृक्षेति पप्रच्छ । पृष्टश्च विसृष्टविष्टरश्चारुवक्त्रः प्रविश्य मरुन्मालेन समं मातृपटकुटीरं कृतप्रणामोऽम्ब ! अस्मत्कुलयोगक्षेमदत्तदृष्टिरमात्यवरिष्ठो भवद्दिदृक्षयायातः इत्यवदत् । वरमालिनी मरुन्मालमालोक्य लोचनयुगलगलदमिताश्रुसलिलक्षालितकपोलफलका किमपि किमपि गदितुकामापि दुःखभरनिरुद्धाक्षरा विलापमेव सल्लापपदे समभिषिचंती प्रणिपातमात्रदर्शितादरा धरातलदत्तदृष्टिः तस्थौ।
मरुन्मालस्तावदेनामीदृशी निरीक्ष्य शोकभराभिभूतोऽप्यपरित्यक्तपुरुषस्वभावो दमितामितदुःखतया कंठतलदम्यमानाक्षरः कथं कथमप्यम्ब ! यद्यपि वाचाप्यवर्णनीयं दुःखमनुभूतवती भवती । तथाप्यधुना अभिधीयमानमवधारय मदीयं वचनम् । इह जगति लब्धजन्मा कोऽपि निरंतरं सुखपरंपरां नैवानुभवति । किंचानुभूयमानं तदपि दुःखसंवलितमेव । यदिह निरंतरं चिरंतनसुकृतविशेषाद्विषयबृन्दमनुभवति कोऽपि सुखमिति धिया कृतामितसुकृतः कृती निरतिशयशर्मनिवेशं सौदामनीसमानतनुकांतिभिस्सुरकांताभिः कांततरं त्रिदशालयमितः प्रयातो वाचामगोचरं दिव्यमनुभवन्नपि विषयसुखं क्षीणपुण्योऽहं पुनरपि प्रवेक्ष्यामि मर्त्यलोकमेव इंतेति चिंतयन्निरंतरं ततोऽप्युत्तममदृष्टचरं विषयव्रातमितरानु
Page #98
--------------------------------------------------------------------------
________________
जयन्तिका
भूयमानं निर्वर्ण्य निर्निवार्यमात्सर्यविशीर्यमाणहृदयश्च दुःखेनैवानुभुङ्क्ते स्वर्गसुखमपि । तदनवरतमपि स एव सुखी ; यश्च प्रशांतमनाः मनागप्यस्पृष्टान्य शुभद्वेषदोषस्त्रिविष्टपमपि तृणाय मन्यमानो लब्धतुष्टिर्विष्टरश्रवःप्रकृष्टपदपंकेरुहविनिहितस्वांतः कालयापनपरो वरीवर्ति । तदिदानीं दृगासेचकसौन्दर्यं निराकृतशंबरारिसौन्दर्यवैभवं वसुंधराधिपबृंद वंद्यमानचरणारविंदं प्राज्यराज्यलक्ष्मी प्रणयपात्रं पुत्रमवलोकयंत्यतीतामखिलामपि विस्मृत्य क्लेशपरंपरां कुमारशुभोदर्काशंसनपरा भवतु भवतीति न्यवेदयत् ।
तदनु चारुवक्त्रोऽप्यंब ! स शठो वृषस्कंधः प्रदीप इव स्वप्रकाशमेवाशंसमानः स्वप्रभया सकलजननयनमावर्जयन्प्रपूर्ण स्नेहमपि क्षपयित्वा स्वाश्रयमपि विनाश्य स्वयमपि क्षयिष्णुरभवत् । तत्किमितोऽतीतवृत्तानुशोचनेन । स्थितिमिदानींतनीं अनुस्मरंती विस्मृतचिरंतनक्लेशपरंपरा भवितुमर्हतीति निवेद्य प्रणिपत्य च निजपटनिकेतनमेव मरुन्मालेन समं प्राविशत् । अथ विभीतकः प्रविश्य विष्टरे निषण्णं हीरमणिखचितमकुटमंडितोत्तमांगतया रोहिणीताराधः प्रदेशगतं सुधांशुमंडलमिव मुखमंडलमुद्वहंतं मृगमदतिलकालंकृतललाटफलकं पट्टबन्धनकृते मानरेखाचिह्नितमिव दधानं हीरकुण्डलप्रकीर्यमाणविविधभासुरवर्णसंकीर्ण किरणगणबंधुरतया समालिखितेन्द्रचापमिव कपोलफलकं बिभ्रतं, मरुन्मालं प्रति किमपि भाषमाणतया प्रसृमराधरकिसलयारुणिमशबलितरदन रुचिभिः वक्षस्स्थलविलसद्गारुत्मतरत्नं शारवर्णमिव कुर्वतं भुजशिखरविराजमानराज्यलक्ष्मीपादांगदाभ्यामिवांगदाभ्यामलंकृतभुजदण्डं कनकमय कवचाश्लिष्टं डोलायमान पृथुलमौक्तिकमालालंकृतं विशालं वक्षस्स्थलमुद्वहन्तं तनुतरनिर्झरपरीतसानुं रत्नसानुमिव प्रत्युप्तमरकतमणिमंजुलवलयालंकृताभ्यां पाणिभ्यां चञ्चरीकपरिगताभ्यां कमलाभ्यामिव विराजमानं भासुरैर्नवरत्न - मयैरंगुलीयकैर्विविधवर्णकुसुमैर्नवपल्लवैरिव पारिजातं समलंकृतांगुलिपल्लवं प्रत्युप्तामलकफलपृथुलामलमुक्ताफलया चतुरश्रेणानत्यायतेनेंद्रनीलफलंकेन
68
Page #99
--------------------------------------------------------------------------
________________
द्वितीयलहरी
समलंकृतमध्यभागया हेममय्या मेखलया समालिंगितावलग्नं समुद्तहालाहलोभयपाईकन्दलितया धवलपृथुलबुद्दमालया समावेष्टितमध्यं मथनकालिकं दुग्धाब्धिमिवागुल्फासक्तेन भुजगराजनिर्मोकनिर्मलेन चामीकरतंतुरचितपत्रभंगतरंगपर्यंतेन कौशेयचंडातकेन मंडितोरुदंडं तनुतरेण सर्षपप्रमितभासुरहीरमणिमयेन वलयेन अंचितदक्षिणचरणं मृदुलतरपादपीठप्रतिष्ठापितवामपादं नंदकुमारकरतलमिव धृतलंबमानगोस्तनं कौशिकयज्ञवाटमिव प्रतिभटविग्रहभयानकसुबाई, हिमांशुमिव नक्षत्रमालामनोहरं समीकनिकटदेशमिव कटकपरिष्कृतं नंदनवनमिव हरिचंदनांचितं, वसंतमिव तिलकोपकंठपरिभ्रमअमरकं चक्रवर्तिनमपि कंचुकिनं चारुवक्त्रमपश्यत् ।
दृष्ट्वा च कृतांजलिपुटः स विभीतको देव ! सर्वेऽपि भूवलमाः निजवाहनाधिरूढाः भवदागमनमेव प्रतिपालयन्ति । पारियात्रकनामा गजराजोऽपि द्वारि सज्जस्तिष्ठति । धामनिधिरपि देवस्य यात्रोत्सवदिदृक्षयेव निजकरधवलीकृतांबरभासुरः तारापथमधिरूढः इति सप्रश्रयं सगम्भीरं न्यवेदयत् । तदवकर्ण्य चारुवक्त्रो मरुन्मालमवलोक्य किमु यामो राजधानीप्रवेशायति पृष्ट्वा तेनाभ्यनुज्ञातश्च समुत्थायासनात्पार्थवर्तिनं मलयवातमादिदेश । तथा कर्तव्यं भवता यथा च यात्रोत्सवावसरेऽस्मज्जननी शुभ्रकौशेयावगुंण्ठितां शिबिकां समधिरूढा पश्चादनुव्रजेत् । सोऽपि पापीयान्वृषस्कंधः चरमांगनिबद्धबाहुयुगलः चरणाभ्यामेवास्मत्पुरतः समागच्छेत् । इति ।
आदिश्य च पटनिकेतनान्निर्गत्य द्वारि स्थितं समुत्कीर्णनक्षत्रेशचित्रभानुचित्रेण विचित्रपत्रभङ्गविच्छरितेन कनकविततफलकेनाच्छादितविशालललाटदेशं सिंदूरालिखितलताविशेषपरिमंडितगंडमंडलं कर्णतालचाल्यमानावचूलनकलापं स्कंधदेशादापादमांदोलितपृथुलमुक्ताफलकलापं कर्णमूलतलनिहितनिशिततपनीयांकुशं, कलधौतशृंखलालंकृतग्रीवं, सुवर्णोत्कीर्णकंठीरववदनप्रांतेन स्थूलतरेणात्यायतेन पट्टमयेन बंधूककुसुमरक्तेन
Page #100
--------------------------------------------------------------------------
________________
जयन्तिका कुथेनावगुंठितसर्वगात्रं विचित्रतरचामीकरसालभंजिकापुंजमंजुलस्तंभेन स्तंभोपरि समुत्कीर्णसुवर्णकेसरिणा केसरिपृष्ठप्रतिष्ठापिताष्टापदाच्छादनेन, तदुपरिघटितजातरूपपंचकलशांचितेन वितानितविततसितकौशेयेन, परितः पर्यंतडोलायमानमौक्तिकमालाकलापतोरणेन समास्तीर्णशशोदरलोममृदुलकुथालंकृतमध्यतलेनानत्युन्नतेन मंडपेनाविरहितपृष्ठदेश मुहुः परितः प्रसारितशुंडादंड, विपुलपादांगदालंकृतांत्रिस्तंभ, उत्सवसमुचितालंकारालंकृताभ्यां आधोरणाभ्यां सनाथोभयपार्श्व, लंकानगरमिव विपुलकुंभकर्ण, दुर्योधनसमांकणमिव गांगेयालंकृतं, स्तेनमिव शृंखलावलितचरणं, मातंगमपि राजसेवितं सन्निहितदानवारिदृप्तमपि दूरीकृतहरिसान्निध्यं, करिवरं पारियात्रकं ददर्श । ___मरुन्मालम्तदानीं मदावलावलोकनैतानं तं चारुवक्त्रमकथयत् । कुमार ! तमेनं भवत्तातपादौपवाद्यं प्रशस्ततमं हस्तिनमधिरुह्य पुरप्रवेशो त्सवमनुभवतु भवान् । यश्च मंदांदोलितचालितघंटाघोषेण वारणनामभागपि अन्यैरनिवार्योऽहमिति निगदन्निव नतपृष्ठप्रतीकतया समुन्नतपूर्वकायतया च पातालतलात् भवदुद्वहनाय समुद्गच्छन्निव दिग्गजः मुहुः मुहुः परितः प्रसार्यमाणशुंडादंडतया भवद्वहनभागधेयमधिगतवतः स्वस्यावलोकनाय दिगंतदंतावलावलिं आह्वयन्निव दीर्घतरपुथुलावदातदंतकुंतकैतवेन दधदिव वदनतले गिलनायैरावतचिरार्जितयशःपुंज पुष्करतलविकीर्यमाणशीकरनिकरतया नवजीमूतसच्छायतां प्रकटयन्निव विलसतीति।
तदनु समारोहणसौकर्यापादनायाधोरणे तं पारियात्रकं समुपवेशयितुमुद्यते, स चारुवक्त्रस्स्तोकमिव पाणिमुदस्स मेति संज्ञयैव निवारयमुपसृत्य स्थूलकनकवलयालंकृतौ दंतमुसलाववलम्ब्य पाणिभ्यां समुलंघ्य च भुजबलाद्विस्मयमुपजनयन् सर्वेषां क्षणादेव समुपाविशत्तस्मिन् मंडपे । उपविशति च तस्मिंस्तत्क्षणं विचित्रतराणां श्रोत्रहारिणामश्रुतपूर्वाणां
Page #101
--------------------------------------------------------------------------
________________
द्वितीयलहरी
अनवद्यानां वाद्यानां तद्विद्यापारगैराध्मातानां निर्हादाः निष्कलंकस्य चार वक्त्रमुखचंद्रस्य दिदृक्षया समागतैरुद्धीवैः कुवलयवनैरिव सेंधवसैनिकानां असंख्यातैरसितकांतिभिः अतिक्रांतनयनपलैस्समं समुदचरन् । ___ अथ चारुवक्त्रवक्त्रसुधांशुदर्शनादिव कुट्सलीभूतकरसरोरुहैः तुरंगमाधिरूढः परस्परभाष्यमाणचारुवक्त्रसौंदर्यातिशयैः मंधरतामापादयितुं धवलतलपिहितकरतलाकृष्टखलीनतया पदेपदे चालितकसरकलापां कंधरामुदस्य फेनाकुलितां प्रसार्य च रसनामुच्चलतो निजतुरंगमान् करतलास्फालनेन बलादायत्तीकुर्वद्भिः नरपतिभिः परिवृते चारुवक्त्रे प्रस्थिते च वैजयन्ती मंदमारुतांदोलितायतसरोवरतरंगपरंपराडंबरहारिणि सर्वाण्यपि बलानि चेरुः । एवं पुरतः पश्चात्पार्श्वयोश्च समतिकांतनयनपथानि गजरथतुरगपदातिमयानि बलानि क्षेत्रपालस्समधिगतोन्नतदेशः केदारनिबिडप्ररूढफलेग्रहिसस्यजालानीव सहर्षमवलोकयन्नटवीमिव सालावृतामरुणप्रभामिव निशांतदर्शनीयां कांततरायतकायमानालंकृतशृंगाटकामुइंडदंडवैजयन्तीं वैजयन्ती प्रविशन्वादिवरसितावकर्णनादुत्सवदिदृक्षया ससंभ्रम प्रतिहम्यं स्थलाक्रमणाय समापतंतीनां पौरविलासिनीनां नालापानेवमशृणोत् । ___अयि ! नितंबिनि ! विधुमिव गुरुकलत्रसक्तं कांचीदाम समुत्कुरु । व्यामग्राह्यपयोधरे ! दूग्मपसर । भवत्पयोधरभरभुनभुजशिखराऽस्मि । नीलवेणि ! कस्मै कुप्यसि ? कृष्णभुजंगमभोगभ्रांत्या ते कर्षति वेणी गृहमयूरः । गुर्विणि ! किमु मुधा जनसम्मर्दप्रवेशेनात्मानमायासयसि । सौदामनि ! क्षणमिवेन्द्रनीलभित्तिमवलंब्य स्थित्वा नवपयोधरोदरविलसत्सौदामनीडंबरमपहर । मालति ! मालतीकुसुमपरिष्कृतं धम्मिल्लमवगुंठय सिचयांचलेन । तत्सौरभसन्निहितो मधुकरनिकरः समारटति मत्कर्णाभ्यणे । भासुरकर्णिके ! मुखकमलं ततः परिवर्तय । भवत्कर्णकर्णिकाहीरमणिगणप्रसमरः किरणनिकरो मन्नयनमार्गस्यार्गलीभवति । उज्ज्वल
Page #102
--------------------------------------------------------------------------
________________
72
जयन्तिका कोमलकपोले ! तिष्ठ तावत्क्षणमिव निश्चला। यावत्ते कपोलदर्पणे मन्मुखमवलोकयन्ती समीकरोमि विलुलितं तिलकम् । भ्रांते ! इत एहि । भित्तितलघटितायतमुकुरतलपतितमात्मनः प्रतिबिंबमेव याचसे मार्गावकाशम् । पक्ष्मलाक्षि ! राजकुमारमेनं वशीकर्तुमलिकतलकुटिलीकृतभ्रूचापलता किमु प्रयुंक्षे पञ्चशरस्य पञ्चमं सायकं अपांगवीक्षणकैतवेन ? गुरुजनभीते ! द्रष्टव्यमवलोक्य निश्शंकं सफलीकुरु नयनवैपुल्यम् । असित नयने ! किमिदं नरपतिकुमारावलोकनेन ते चक्षुरभिरागाक्रांतम् ? तरलिके ! वेश्मनि डोलाशायितं शिशुमनुस्मृत्य मुक्तालतेव तरलहृदया नैव पश्यस्यदृष्टपूर्व सार्वभौमम् । चारुहासिनि ! पश्य तावत्कोऽपि कमनः कमनीयवेषो भवदवलोकनाय क्षौमदेशदत्तदृष्टिः मार्गगामी परेणाभिपतता संघट्टितः समुपालब्धश्च कृतमुखविकृतिः परावर्तते । नीलकुंतले! कुंतलमुल्लासय जनसम्मर्दविलुलितम् । मदिरेक्षणे! समवेक्षस्व । पुरोवर्तिनो जनाः पथि परिसरपर्यटत्घोटकखुरकोटिसंघट्टनभिया कृतमुखविकाराः निजपृष्ठवर्तिनि जनसंघे विलीना भवंति । कोमलहृदये ! किमु मुधा खिद्यसि ? बद्धभुजयुगलं विलोक्य नतमस्तकं पदातिमध्यगामिनं वृषस्कंधं । निजकर्मानुगुणं फलमनुभवत्ययम् । अहो ! समायातोऽयमैरावतारूढः पुरंदर इव राजकुमारः। यदस्य दर्शनादनिमिषास्संवृत्ता वयम् । हंत ! वरमालिन्या पुराकृतस्यावदातकर्मणः फलमिदम् । यदीदृशं अनिर्वचनीयसौन्दर्यमसूत कुमारम् । नूनमस्यावलोक्य सौन्दर्य मन्मथस्त्रपयागमदनंगताम् । हंत ! तपस्वी विमतकेसरी पुत्रमीदृशमनवलोक्यैव परलोकं गतः । धन्या खलु राज्यलक्ष्मीः। यदस्याधिरोहति भुजशिखरक्रीडाशैलशिखरम् । इतः परं वसुमती पातिव्रत्यधर्ममनुतिष्ठति । यदेनमाप पतिम् । धन्या च गरीयसी नगरीयम् । यदस्य राजधानी । कीदृशं प्रजाभिर्विरचितं तपः ! यतस्ताः कुमारमेनमनुभवंति राजानम् । हंत ! कृतनिरतिशयसुकृतान्यस्मनयनानि । यदेनं निरंतरायं निरंतरं निनिमेषमवलोकयति। किमयमुप
Page #103
--------------------------------------------------------------------------
________________
द्वितीवलहरी
संहृतमुजयुगलः पद्मालयावल्लमः ? आहोखिदधिगतविग्रहो रतिपतिः। बहो सौन्दर्यमदृष्टपूर्वमिदम् । हंत ! पुरः प्रचलत्येव हगासेचनकरूपो भूपोऽयं तदवलोकय लोचनमस्य लक्ष्मीविलासावाससहस्रपत्रत्रपाकरम्। पश्य ललाटमस्याष्टमीशशांकसंकाशमिति। किंच ललनाजनमध्यात्कथंकथमपि समागतां क्षौमसालतलसमुत्कीर्णदंतसालभंजिकापृष्ठगततया सखि ! देहि मे किंचिदिवावकाशम्। अहमप्यवलोकयामीत्यभिधाय निश्चंचलतानिवर्णनेन पुत्रिकेति त्रपया नम्रताम्रमुखोमन्यतः प्रस्थितां कांचिन्मुग्धां समीक्ष्य कृतहासतया कुत्रचित् प्रणयकलहकुपितकामिनीप्रसादनधोरणी प्रकाशयतः प्रणिपतनपरस्य कृतकपुरुषविग्रहस्य पार्श्ववर्तिन्यां कस्यांचित् सखि ! किमिदमिहापि वल्लभस्ते भवत्सपत्नीप्रसादनाय समस्तजनसमक्षं चरणयोः प्रणिपततीति निगदितं सखीभिर्निशम्य वचनं प्रकाशितमात्सर्यायां समुत्सारिततत्सन्निधानायां सतालं कृतपरिहासतया, किं न जानासि मुग्धे ! पार्थवर्तिनमपि गुरुजनं ? विजुभते स्वेच्छालापः। मास्त्विति परिहासाय निगदत्सु सखीजनेषु क्षेतव्योऽयमपराध इति निकटवर्तिनस्समुत्कीर्णपुरुषविग्रहस्य पादयोः प्रणिपतन्ती सखीमवलोक्य कृतादृहोसतया, सखि ! विलासिनि ! किमु नावेक्षसे कथंचित्पंजरादायातस्ते शुको गृह्यते बिडालेनेति कृतकपृपदंशकोपकंठगतं सखोजनदर्शितं निर्वर्ण्य मरकतमयं कीर तज्जिघृक्षया तां सरमसमनुसरंती विलोक्य कृतपरिहासतया, च परिहासमयानीव, निबिडनिचितमुखकमलनिकरतया कमलबनविराजितानीव उन्मोलितायतनयनकुवलयतया कुवलयतोरणमयानीव प्रतिगवाक्षं प्रतिभवनद्वारं प्रतिक्षामं प्रतिस्तंभं प्रतिशिखरं अविरलसंभृतसुन्दरीसमूहतया सुन्दरीभिरेव विरचितानीव विस्मयमुपजनयंत्यदृष्टपूर्वाणि हाणि विस्मयसंस्पृष्टहृदयोऽपि गंभीरस्वभावतयाप्रकटितमुखविकारः कटाक्षेणैवावलोकयन् स्वयमेव सुन्दरा इति भावनया भ्रूभंगाधरदशनादिमुखविकारेण श्मश्रुलताशिखरसमुन्नमनेनापांगावलोकनेन शिरःपुरोभागललाटतटलंबितकेशकलापेन
J-10
Page #104
--------------------------------------------------------------------------
________________
'जयन्तिका
मलिनीकृतपुंड्रचिह्नेन वेत्रलतापरिभ्रमणेन गुल्फाधोभागलंबितपरिधानेन च सुंदरतामारोपयद्भिरसुंदरीजनाव लोकतानतया प्रतिक्षौमं दत्तलोचनैः परस्परसुहृज्जनावेल्लितबाहुदंडैर्नागरिकैर्निबिडितेन राजमार्गेण गत्वा प्रासादद्वारि पारियात्रकादवततार ।
अवतीर्य च स चारुवक्त्रो वृद्धपुरंध्रीजनक्रियमाणन राजनविधिः मरुन्मालप्रसारितं करकमलमवलंब्य दक्षिणपाणिना मलयवातप्रदर्श्यमानमार्गः परिजनोच्चालिततपनोयवेत्र लतादूरी क्रियमाणजनसंमर्दः सितोन्नतोष्णीषैर्मेचककवचालंकृतैरागुल्फावसक्तधवलचंडात कैस्समुच्छ्रितैः कपोलतलपरिवर्तितपृथुलश्मश्रुकलापभयानकैः कोशविरहितकुंड लिनिभमंडलाग्रलतावतंसितांसपीठैः ततइतः पर्यटद्भिः रक्षिपुरुषैरभिरक्ष्यमाणद्वारदेशं विपुलकनकप्रतिग्राहनिभभाजनोत्पादितकुसुमितविचित्रस्पृहणीयप्रताननीनिरंतर निचिताभ्यां यंत्रसालभंजिकाकरकुंभसलिलशीकरसिच्यमानतया मसृणतरतया च दर्पणायमानाभ्यां आयतोच्छ्रिताभ्यां स्फटिकवेदिकाभ्यामलंकृतद्वारोभयपार्श्व विघटितविशंकटहाटककवाटपुटं नासोभयप्रांतविनिहितचामोक़रचारणपाणितललंबितकनककुसुममालातोरणभासुरं स्फटिकमयसंजवनचतुष्कोण प्रतिष्ठापितानामिंद्रनीलमय शिलासमुत्कीर्णानामुन्नमितवालानामुन्मुखानां शार्दूलानां वक्त्रकुहरोदरादुद्गतां परिमलप्रसूनप्रचुरां प्रताननीं परितः पर्यटतां षट्चरणगणानां गम्भीरझंकृतिमनोहरं निजक्रियाव्ययैस्संचरद्भिः परिजनैराक्रांतानेककक्ष्यांतरं कैश्विद्विचित्रचित्रितचंदनदारुमयद्वारैः कैश्चिद्दतसमुत्कीर्णपत्रभङ्गसुभगस्थूलोन्नतस्तंभैः कैश्चिद्रजतापहसितकैलासविलासैः कैश्चित्तपनीयकांतितनूकृततपनबालातपद्युतिभिः कैश्चित्प्रत्युप्तनवरत्नतिरस्कृतनक्षत्रप्रपंचैः कैश्चित्स्फटिक फलकविफलीकृतशुभ्राभ्रविभ्रमैः कैश्चिद्दर्पणमंडलधिक्कृतविधुमंडलैः कैश्विदालिखित विविधविबुधगंधर्वगणविडबिताखंडलप्रासादडंबरैर्भवन विशेषैर्दर्शनीयं सामंतनृपालोपायनीकृतामूल्य वस्तुसंभारसंभृतैकदेशं मसृणतरस्फटिकसोपानपरंपरामनोहरैः
74
❤
Page #105
--------------------------------------------------------------------------
________________
द्वितीयलहरी विचित्रतरैः क्षौमैरभिरामं ससंभ्रमं परिभ्रमद्भुजिष्याजनचरणाभरणरणरणितमुखरितावरोधं कलानिधिकांतशिलाकल्पितसालभंजिकावलिकरतलकलितानिलडोलायमान मनोहर सुमनोमालापरिमलाकुलाभिश्चन्द्र शालाभिरति गम्भीरं गारुत्मतमयतया रसातलशंकया सन्निहितैराशीविषरिख भयानकैः पंक्तिशो भित्तितलशंकुलंबितैर्विचित्रतैरैरायुधविशेषैर्विच्छुरितायुधागारं सितासित - पट्टयवनिका परिष्कृतामितविततवातायनतया चारुवक्त्रसौन्दर्य दिदृक्षया परिगृहीतानेकनयनमिव मृद्वीकैलालवंगनागवल्लीपूगपूगमंजुलेन नारायणे - नेव भार्गवीमनोहरेण स्वर्गेणेव विराजमानदेववल्लभेन पाकशासनेनेव सन्निहितैरावतेन कैलासेनेव शिवाकांतेन घनदिवसेनेव करकदंतुरेण वर्ष - र्तुगगनतलेनेव विलसज्जीमूतेनारामेणाभिरामं नारीविग्रहमिव विधृतक्षौमं वामदेवमिव महीभृज्जाताक्रांतवामदेशं नारायणमित्र लक्ष्मीनिवासं संयमनीनगरमिव दंडधरमंडितं पातालमित्र नागपरिवृतं शिशुपालभिव कृष्णवार्तासहिष्णुं द्रुपदमिव समुत्पादितरमणीयपांचालिकं कृष्णमिवोपदिश्यमानगीतं आंजनेयमिव निरंतरहृदयसंचारितरामांत्रिकमलं ब्राह्मणमिवाकलुषसुवर्णजातं भारतमित्रार्जुनचरितमनोहरं शुक्लपक्षनिशीथमिव विराजमानचन्द्रक्रांतं केतुसमाक्रांतमपि विष्णुपदविलसद्दिजराजं जनपरिवृतमपि विविक्तं धनबन्धुरानेकनिकेतनमपि समुद्रं धार्तराष्ट्रविहारावासमपि धर्म परिपालनदत्तावकाशं प्राविशत्प्रासादम् ।
प्रविश्य च प्रापय्य जननीमवरोधं विसृष्टनिखिलराजलोको मरुन्मालद्वितीयः प्रथमं प्रविश्य देवतावसथं तत्र प्रणम्य च भगवन्तं नारायणं पाणितलविनिहिताक्षतैस्स्वस्तिवाचनपरायणैर्द्विजोत्तमैः कृताशीः निर्गत्य च तस्मादार्द्रालक्तकरसालंकृतचरणकिसलयानां ललनानां संचारणांकितारुणचरणपंक्तितया समास्तीर्णकिसलयामिव सरभसमारोहणावरोहण श्रमजनितविकीर्णस्वेदशीकरनिकरतया कुसुमितामिव श्रवणशिखरपरिच्युतावतं सितनीलोत्पलदलतया निषण्णभ्रमरप्रकरा मित्र मसृणतरावदातस्फटिकफलक
75
-
Page #106
--------------------------------------------------------------------------
________________
जस्तिका कल्पितामधिरुख सोपानपरंपरां अवतसितसितोष्णीषतया धृतधवलतराजानुलंबमानवारवाणतया च मूर्तिमत्या जरया समाश्लिष्टैरिख तिमिरतिरस्कृतलक्ष्यतया दर्शनसौकर्यापादनायेव नयनवलभीकृतवलिलंबितपलितभूलोमावलिभिस्तांबूलरसारुणितशिखरावलिश्मश्रुकलापैत्रदंडमंडितवेपमानपाणिमिः वृद्धभावकंपितेनोत्तमांगेनैव प्रकटितेतरजनांतःप्रवेशनिरोधैरिव सौविदल्लैरलंक्रियमाणद्वारदेश निजकार्यकलापव्यप्रैस्ततइतस्संचारशीलैः विचित्रवेषभाषैः किरातवामनपंडषडमंडितपरिसरं प्रविश्य अवरोधं निरंतरं पराजित बल्लभमनुचिंत्य परिदेवनपरान्प्रणिपतनपुरस्सरं मुहुर्वरमालिनीमन्यर्थयमानान्जीवितेशसान्निध्यं वृषस्कंधदारानारान भेतव्यं, वो वल्लभः प्राणितीति समाश्चास्स सांत्ववचनैर्वृषस्कंधबन्दीकृतानितरवसुंधराधिपसुन्दरीजनाविमोच्य च बंधनान्निरगच्छदवरोधात् ।।
निर्गत्य च विश्रांतिनिशांतं प्रविश्यावतारितनिखिलभूषणसंभारः समास्तीर्णविचित्रचित्रमृदुलपृथुलकुथालंकृते मृदुलवर्तुलपट्टोपधानभोग्ये मद्रासने सुखासीनः इतः परं सभार्योऽयमनार्यों वृषस्कंधो नेतव्यो दीपांतरमिति कतिपयान्परिजनानादिश्य, निजनिवेश प्रति संप्रेष्य मरुन्मालं, कञ्चित्कालं विश्रांतिसुखमनुभूय तस्मात्प्रस्थितो निर्वर्तितस्नानविधिःभुक्त्वा च श्रमापनोदनाय किंचिदिव निद्रासुखमनुबभूव । तदनु सप्ताश्वपरिष्कृतस्यदनाधिरूढे निरतिशयवसुनिकरे पमिनीवल्लभे निरंतरं भूभ्रमगैकताने क्रमादलितामितवसुनिकरतयेवाधिगतवैराग्ये रक्तांबरपाटलिते चरममहीधरप्रस्थात्प्रस्थिते च पाथोनिधिवनं दिवाकरे तपनात्ययसमयमनुपालयतः उदयोन्मुखस्य जैवातृकस्य करप्रसरणमनुचिंत्य भियेव निमीलितकमलनयनासु पद्मिनीषु विष्णुपदमलंकृतवति द्विजराजे चारुवक्त्रः प्रणम्य च विष्णुं द्विजांश्च परिगृहीताहारः समाहूय मरुन्मालं तेन सह प्रविश्य संवेशनिवेशं सुखासने समुपविश्य च परिगृहीतासनममात्यावर्तसमित्थमकथयत् ।
Page #107
--------------------------------------------------------------------------
________________
द्वितीबलहरी
आर्य ! विजने वने लब्धजनितया कालमेतावतं क्षत्रवर्णोचितस्य चौलोपनयनादिसंस्कारस्य नाहं भाजनमभवम् । तद्वृषलकल्पोऽस्मि । कृतः खलु कालातिपातो नियतिबलेन न तु पुरुषप्रमादेन । तदभ्यर्थये तथानुष्ठेयं भवता यथेदं न भवेद्विमत केसरिराज्यं नंदराज्यमिव वृषलवशवर्तीति निवेद्य समधिगततल्पः शयनीयशायिनं मरुन्मालमसकृत्परिपृच्छन्निजपितृवृत्तान्तं कथंकथमप्यनारूढनिद्र एव निशामत्यवाहयत् ।
अथ हरिदश्वे समधिगतशुनासीरसमाननामतयेव प्रकटितरागे दिगंगनार्मेंद्री मालिंगितवति निशम्य च प्राभातिकमंगलवादित्रगभीरनादं वंदिबृन्दपरिपठ्यमानबिरुदावलिं चोत्थाय तल्पात्समुत्थितं मरुन्माल विसृज्य च निजसौंधं प्रति विरलतरपरिजनप्रचारं मसृणचन्द्रकांत शिलाफलकमयमार्ग स्फटिकटपदभिरामभित्तिरुचिप्रमुषितदोषाकरप्रभमूर्ध्वदेशप्रकल्पितस्तंबेर मशुण्डादण्डनिभेन चन्द्रकांतशिलामयेन स्तोकावनमितशिखरेण सलिलयंत्रेण निपातिताभिर्जलधाराभिरापूर्यमाणशातकुंभकुंभपरिमंडितकरपुंडरोकाभिर्वारनारीभिनरिंश्रिताभ्यंतरं विपुलाभिस्सलिल नूरिताभिरपि स्वच्छतया स्पर्शानुमेयतोयाभिः पंक्तिशस्स्थापिताभिस्स्फटिक - द्रोणीभिरतिरमणीयं उत्पिष्यतां घनसारस्संमर्धतां कुंकुमकेसर विसरस्समानीयतामुशीरमुष्टिः वास्यतामेलानोदेनोदकं मदलेखे ! याहि स्नानचूर्णाहरणाय । चित्रलेखे ! कुत्र पत्रभंगचित्रितपर्यंतं सितांशुकम् । देहि मंदारिके ! पटोरपिष्टम् । तरलिके! परिमलद्रव्यचूर्णेनावलोडय द्रोणीसलिलम् । मुग्धे ! समायात एव कुमारः । तदुत्कुरु स्तोकमिव लंबमानं नीवीकलापम् । कांचनमालिनि ! कांचनकांची दामसंदंशितदुकूलांचला मव । चञ्चले ! गृहाण जलपात्रम् । तिग्मतरं नीरं शोतलवारिणा कुरु तावदुपभोगक्षमम् । किमयि ! कोमलांगि ! कर्मणैतावतैव कोमलकपोलतले कंदलिताभिश्श्रमजलकणिकाभिः कर्णावतंसलीलां कलयसि । त्वरितगमने ! पश्य पदपंकजमंजीरमंजुर्शिजितवंचितं परिचितं तिर्यक्संचरतं कलहंसे
N
Page #108
--------------------------------------------------------------------------
________________
· जयन्तिका
कार्यैकचित्ततया परिस्खलनेन मा पीडय तम् ! किमयि ! पेशलालापे ! नर्मवचनेनैव कालमतिवाहयसि । द्रोणीसलिलेनापूरय कनककलशमित्यादिपरस्परभाषमाणवाररमणीरमणीयवाणी श्रेणी पीयूषवेणीप्रीणितश्रवणसरणि र्मज्जनसदनमाससाद ।
आसाद्य च स चारुवक्त्रः चेलांचलसमुत्कृतनीवीकलापपिंडाभिः समुत्सारितनोरवकरवलयालिभिः मृदुलांशुकदृढतरोद्धद्धकुंभिकुंभ निभपयोधरभाराभिराकर्णमूलसमुत्सारितडोलायमानकुटिलकुंतलपंक्तिभिस्समुद्धद्धपयो घरतटलंबमान भुजगभोगनिभवेणीभिः पर्यटनशब्दायमानचरणाभरणाभिर्यदायदा यद्यदभिलषत्ययं तदातदा तत्तद्दातुं काभिश्चिद्गृहीतोष्णोदककलशाभिः काभिश्चिच्चन्दनरसशीतलितसलिलपात्रपाणिभिः काभिश्चित्करतलविनिहितस्नान चूर्ण भाजनाभिर्यथासुखं स्नापितश्च स्वयमपि जलयंत्रा - न्निपतंत्यां वारिधारायां च द्रोणीसलिले च स्वैरं स्नात्वा धीतांशुकप्रसृष्टप्रकृष्टप्रतीकः शंकर इव केशपाशबद्धसितांशुकोऽथ शुको दर हरितपट्टपरिधानो विष्णुरिव भुजलंबितपीतांबरः कुंकुमस्थासकचिह्नितललाटफलकस्सवनसदनं प्राविशत् । एतावता कालेन त्रयीतनुरपि तापस इव मन्दंमन्दं क्रमेण परित्यक्तपूर्वाशः वीतरागः मोलिततारको विष्णुपदासक्तश्वाभवत् ।
तदनु स कुमारस्तत्र मारोपमरूपो वयसा ज्ञानेन च लब्धवृद्धभावं रोहिताश्वाभिधं कुलपुरोहितं पुरस्कृत्य कालातिपातदोषप्रशमनपटुतरप्रायश्चित्तपुरस्सरं मरुन्मालाज्ञया निर्वर्तितचौलोपनयनादिकर्मा तैजसं शरीरं प्रविष्ट इव प्रकाशमानो द्रविणौदनादिदानेन तोषितभूदेववर्गः परिगृहीताहारः कदाचित्प्रासाद शिखरमारूढः वैजयन्तीरामणीयकावलोकनेन कदाचिद्रथाधिरूढः पंजरगतादृष्टपूर्वविचित्रतरखगमृगव्रातक्रीडादर्शनेन कदाचित्स्पृहणीयविचित्रवर्णपूर्णनिकृंतनकलाकौशलदर्शितवैचित्र्यतरुलताकुंजपुंजालंकृता।मावलोकनेन कदाचित्तुरगवराधिरूढः समुचित -
78
·
Page #109
--------------------------------------------------------------------------
________________
79.
द्वितीयलहरी मितमित्रवर्गपरिवृतः समासाद्य हृद्यां विहारभृमि विविधाभिः क्रीडाभिः कदाचिद्वंधुजनवृन्दबन्धुरायां चन्द्रशालायां चन्द्रोदयशिशिरतरचन्द्रकांतशिलाफलककुट्टिमायां सजग्ध्या च सानन्दं कालमत्यवाहयत् ।
एवं व्यतीतेषु कतिपयेषु दिवसेषु मरुन्मालः चारमुखादाबापयपौरानिभ्यान्वृद्धानपि । तदनु ज्ञातोदन्तेषु पौरमुख्येषु परस्परमेवमाविरासीव्याहारः। किमु तवापि प्रासादप्रवेशायामात्येन प्रेषिताह्वानपत्रिका ? अथ किमहमपि प्रस्थितोऽस्मि प्रासादप्रवेशोचिततनुत्रसंपादनाय । तात! ममापि प्रासादाभ्यंतरदिदृक्षा बलवतो। तदहमप्यनुयामि भवन्तम् । वत्स! बालानां न प्रवेशाधिकारः । तदलमनेन यत्नेन । प्रिय मालति ! सन्निहितः प्रासादगमनावसरः । तत्सज्जीकुरु तदुचितमुपकरणम् । नाथ ! प्रातिवेशिनी निजवल्लभलब्धानुमतिर्याति सौधमिति श्रुतम् । न किमु ममापि सौधदिदृक्षा ? तत्कथमपि प्रवेशय मामपि। मुग्धे ! स्त्रीणां नैवावकाशः । तन्मां मा पीडय। समयानभिज्ञो हि रजकहतकः । चिरदत्तमपि नानीतवान्धीतं परिधानम् । प्रिये ! मुकुरमुपनय । पश्यामस्तावच्छिरस्त्राणम् । नाथ ! तत्रत्यास्सर्वेऽपि भवन्तमेव राजानं मन्यन्ते । तदलं मुकुरदर्शनेन । नाथ ! चिरादायासयति मामयं वत्सः। तद्भवंतमेकोऽयमनुयातु नामेति ।
तदनु विचित्रोष्णीषपरिष्कृतोत्तमांगास्सोधप्रवेशसमुचितांशुकालंकृताः केचिद्रथाधिरूढाः केचिचरणाभ्यामेव प्रयाताः । केचिद्विचित्रशकटोपविष्टाः सकौतुकं निजदयितामिभवनद्वारदेशस्थिताभिरवलोक्यमानाः मानातिरेकसमारोपितगांभीर्यास्संघशः प्रस्थिताः। प्रविश्य प्रासादमधिकारिजननिर्दिष्टेषु स्थानेषूपविष्टाः निश्शब्दं समांकणमलंचक्रः । तदनु सचिववरस्संसदमासाद्य समुन्नतमासनमधिरुह्य च गभीरया गिरा भोस्सभास्ताराः। तारावल्लभनिभयशोराशिविशदीकृताशेषाशामुखस्य चारुवक्त्रस्य विषयमधिकृत्य विवक्षुरस्मि । तदवधारयन्तु भवन्तः। विदितमेव खलु भवतां यद्धर्मराजसधर्मा निजप्रजानिर्विशेषं प्रजापोपणपरो राजा विमतकेसरी
Page #110
--------------------------------------------------------------------------
________________
जपन्तिका मैत्र्यातिमात्रप्रीतिपरतन्त्रांतरंगो भुजंगमिव पयःप्रदानेन नृशंसं वृषस्कंध विविधभोग्यवस्तुप्रतिपादनेन परिपालयंस्तेनैव स्तेनेन दुरात्मना निरस्तमस्तकोऽस्तमुपगत इति । तदा विहस्तेषु समस्तेषु पतिदेवता वरमालिनी निजपातिव्रत्यात्ययभिया परित्यक्तप्रासादा भगवत्प्रसादांकुरितापत्यालंकृतोदरी निरीश्वरां गरीयसी नगरी परित्यज्य तपस्विनी तावदरण्यानीमवजगाहे ; इति च । दवदहनपरीतकांतारांतरनर्तिनां केकिनामिव नृशंसवृषस्कंधवशवर्तिनामस्माकं दिष्ट्या नीलनीरंधनीरदोदय इव कुमारोदयो हृदयमानंदयति । अयं तु पराक्रमाक्रांतदिक्चको बली गांभीर्य महोदधिरिव स्थैर्य कुलाचल इव यशसि कलानिधिरिख प्रकाशते। किंबहुना ! रूपमेवास्य समावेदयति सद्गुणगणमणिरोहणाद्रिताम् । तदिदानी उपरतनरकेसरितया विमतकेसरिधर्मदारैरभिहितामाज्ञां शिरसा वहन्नहं निजप्रतापवशीकृतां राज्यलक्ष्मी चारुवक्त्रांसपीठमारोपयितुमभ्यर्थये । अपिनाम समतिर्भवतामित्यकथयत्।
तदवकर्ण्य कर्णामृतं तद्वचनं तत्रत्यास्सर्वेऽपि सादरमेककण्ठं वयमपि कुतुकिनः कुमाराभिषेकमहोत्सवसंदर्शनेन नयनानि सफलयितुमिति व्यजिज्ञपन् । तदनु यथोचित सत्कृत्य सर्वानपि विसृज्य च मरुन्मालस्सप्रमोदं सरित्पतितीर्थोदकाहरणाय चतुर्भिस्स्पंदनैः चतुरः चतुरान्भूसुरान्प्राहिणोत् । अथामात्यादेशेन सत्तमोपायनपाणिषु समायातेषु सामंतनरपतिषु द्विजपुंगवैराहृतेषु तीर्थोदकेषु विचित्रवितानरंभास्तंभसंतानप्रसूनतोरणपरंपरापताकापंक्तिभिरलंकृते पट्टाभिषेकमंडपे परिमलहृदयंगमागरप्रभृतिधूपविजेममाणधूमलतासमालिंग्यमानेषु विचित्रोन्नतमंडपस्तम्भेष ससंभ्रममहमहमिकया समायातासु पौरजनतासु समुद्यदनवद्यातोधनादमनोहरे संधद्वारे शुभंयुमुहूर्ते सन्निहिते च चारुवक्त्रो निर्वर्तितदेवतासपर्योऽपर्याप्तप्रमोदमेदुरहृदयां प्रणम्य जननी तदनुज्ञया च प्रस्थितो नम्रतर-चामरग्राहिणीप्रसारित पाणिपल्लवतल-विनिहितदक्षिणपाणि-पुंडरीका
Page #111
--------------------------------------------------------------------------
________________
द्वितीयलहरी असिलतावतंसितांसतलैश्चतुर्भिरंगरक्षकैरभिरक्ष्यमाणोभयपार्श्वभागो वंदिवृंदपरिपठ्यमानमनोहरबिरुदावलिमुखरितपुरोभागो नीरवं गभीरतरं निश्चंचलं च स्वस्वस्थानेषु पंक्तिश स्थितान्मुकुलित करसरोरुहान्सभास्तारान्कटाक्षेणैव संभावयंस्तपनीयसोपानपरंपरामनोहरं शिखरघटितमुक्तातपत्रापहसितफणिपतिफणामंडलाभोगवैभवं स्पृहणीयनवरत्नमय विचित्रपुत्रिकापंक्तिसमाकृष्टसकलजननयनहृदयहृदयंगमं हेममयोद्दंडदंडपाणिभिर्मेचकविशंकटकंकटककमनीयनिभृतकायैः पीतपट्टपट्टिकाकल्पितमेखला वेष्टितावलग्नैः पृथुलपाटलहाटकांचलोष्णीषैरष्टभिर्भटैः परिवृतं सिंहासनमारुरोह |
अधिरुह्य च श्रोत्रियकरावर्जितशातकुंभकुंभपूततीर्थोदकैरभिषिक्तो मंगलवेषाभिः कन्यकाभिश्च प्रोक्षितश्विरत्नरत्नदीप्रकोटी र परिष्कृतोत्तमांगः सामंत नरपतिमकुटकोटिपद्मरागराजिनीराजितचरणनखराजिः परिगृहीतमहीभृदुपग्राह्यः सुधर्माधर्मासनाधिरूढो बिडौजा इवामितौजा रराज स राजा ।
81
इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशारद, संस्कृतसेवासक्त, कविकुलतिलक, राज्यप्रशस्ति, राष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूर नाल्वडिकृष्णभूपसुवर्णपदक - साहित्य परिषद्रजतपदकसमलङ्कृत - जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां द्वितीयलहरी सम्पूर्णा ।।
J-11
Page #112
--------------------------------------------------------------------------
________________
॥ तृतीयलहरी ॥
अथ कदाचित्स चारुवक्त्रो मृगयोचितवेषस्तदनुगुणपरिकरपरि - कर्मि तैस्तुरगवराधिरूढैः कतिपयबलैः परिवृतः तुषारसारविरचितमिव कलानिधिकलाकल्पितमिवामृतक्षालितमिव मल्लिकापरागपरिलुठितमिव विमलतरचीनांशुकावगुंठितमिव समुद्धूलितघनसारक्षोदमिव क्षीरोदधिवीचिच्छटास्नापितमिव मुषितादिशेषभोगसुषुममिव सुधांशुमयूखकलापसंमार्जित - मिव सुरापगाफेनपरिलिप्तमिव पटीररसमचर्चिकाचर्चितमिव शरदभ्रकवचितमिव धवलतैरैरावतदंतच्छेदघटितमिव शुचिरुचिररुचिपरिगततया विशदतर तिरस्करिणीतिरस्कृतमिव स्फटिकसदनमध्यगतमिव सुधारसस्नापितमिव लावण्यानामाकरं सुलक्षणानामावासस्थानं नैल्यानां प्रत्यादेशं धवलिम्नां कुलभवनं तिरस्कुर्वत्पर्वतारिमहार्वसर्वगर्वं महापुरुषप्रमाणमतिविनतानंदनगंधवहमनोजवं पृथुलमुक्ताफलमालाकलितकंधरं धरातलकुट्ट - नैकतानखुरपुटं महावदातनामानं तुरगवरमधिरुह्य मृगयायै जगाम महारण्यम् ।
प्रविष्टे च तुरगखुरपुटघट्टनचूर्णीकृत पथधूलिपटलोद्धूलितगगनतलं तुरगरयप्रसरणशीलशुष्क पर्णसमाकीर्णपर्यंतं निबिडतरतरुनिकरशाखा शिखरांतर प्रसृमररविकिरणतया सितासितस्थपुटितपथे कांतारांतरं भयविततनेत्रेषु कुरंगसंघतरंगेषु परिप्लुतिवेगेन गिलत्स्विव गगनतलं परिधावत्सु, भल्लूकेषु रोषफूत्कारगललालाजलशीकरसिक्तनासातलेषु लीनेषु कुंजपुंजोदरे, शार्दूलेषु च भयामर्षतरलितपिंगललोचनेषु चालितदीर्घतरवालेषु धावंधावं गिरितटसमुल्लंघनपरेपु, बृंहितप्रकटितामर्षेषु त्वरितप्रचालितकर्णतालेषु फूत्कारप्रसरनीरशी कराद्रकृत पुष्करेषु सार्भकं प्रधावत्सु स्तंबेरमयूधेषु दीर्घदीर्घनिश्वासगलच्छिखाणकलुषितनासापुटेषु वनमहिषेषु रोषकषायितस्थूलायतनेत्रेषु सुदूरं प्रधान्य निष्कंपकर्णं निश्चलगात्रं च पश्यत्सु, समाकुंचितजानुषु
82
Page #113
--------------------------------------------------------------------------
________________
तृतीयलहरी
83
गवयेषु समुल्लंघनदर्शितवेगेषु, पल्वलकर्दमक्रीडामपहाय सचीत्कारं संघशो धावनपरेषु वराहेषु, क्रोधसाध्वसनिर्दयोद्भूतविलुलितव्रततिततिवलयितमुखतटभंगेषु खड्गमृगेषु, किचकिचात्कारप्रकटितभयेषु लंघनोद्वल्गनप्रचालिततारतारविटपिविटपकोटिषु मर्कटेषु, भयपरिप्लुतिवेगगतिशशनिकरग्रहणव्यग्रेषु गगनतलडयनपरेषु श्येनगृध्रनिकुरुंबेषु, साध्वसगर्जनतर्जितजरितवनपशुविशेषहृदयेषु समुलंघनप्रकटितकायलाघवेषु चित्रकायेषु, निद्रोत्थिततया द्विगुणितपिंगलिमभयानकदीप्रनेत्रेषु जिह्वांचलसमालिह्यमाननासातलेषु गुहोदरअसमरप्रतिरवद्विगुणितनादेषु क्रोधाभिमुखदत्तदृष्टिषु केसरिनिकरेषु, तरुशिखरसमुड्डीनविविधविचित्रपतत्रिनानाविधनाददंतुरेषु दिगन्तरेषु,
विचित्रतरमृगचर्म वसानैरनवरतमपि दुर्गदुर्गममार्गपरिभ्रमणकठिनतरकिणस्थपुटितजंघाकाण्डैः विकर्तनकर्कशातपकृतसंचारतया कालरात्रिसंकाशकायकांतिभिः निरंतरधनुाकर्षणकर्कशकरतलैरंसतलघटितधनुर्दर्डरर्धजग्धसाचीकृततांबूलपिंडपरिपुष्टकपोलगतैश्चित्रकायचर्मकृतोष्णीषैः किरातैः प्रसारितवागुराभ्यंतरपतितानां वनकुसुममालिकोद्वद्धधम्मिल्लाभिर्विचित्रप्रसूनाकलिताकल्पाभिः पीनपयोधरोद्वद्धधवलांशुकपरिकराभिर्जानुतलोद्वद्धनिबिड-पाटलचेलाभिश्शाल-चर्मपट्टिकाकृतमेखलाभिर्घर्घर-रवमुखरित - पृथुलरजतपादांगदाभिश्शरासनपाणिभिस्स्पृहणीयतारुण्याभिः यवनीभिः क्रमशः प्रदर्श्यमानानां वनसत्वानां साध्वसकोधकंदलितांश्चेष्टाविशेषानवलोकयन्परिजनानादिदेश।
विमुच्यतामेते मृगा वागुराबंधनात् । काल्यंतां कौलेयकास्तान्प्रति । विस्तार्यतामन्यत्र वागुराः । छिद्यन्तामच्छभल्ला भल्लैः। निष्कास्यन्तां कासारात् कासराः। चित्रकायानामर्गलीक्रियतां सारमेयाः। प्रबोध्यन्तां गुहासु प्रसुप्ता मृगाधिपाः। पात्यन्तां खङ्गेषु खड्गाः । वध्यंतां शार्दूलाः। छिद्यन्तां चमराः। उच्चाट्यन्तां शशवाताः। ताड्यंतां पटहाः। पाल्यंतां कुरंगाः । बध्यतां गवयाः। रुध्यतां मतंगजाः । इति । एवं समादिष्टाश्च
Page #114
--------------------------------------------------------------------------
________________
84
जयान्तका
भटाः समुपक्रांतमृगयाव्यापाराः पश्यत कण्ठीरवकण्ठारावकुंठितोपकण्ठमिदम् । निशितशललीशलाकासमाकुलितमिदम् । पर्यटक्करटिपटलामर्दितलतागुल्ममिदम् । ललायकर्दमितकासारमिदम् । वातायरोमंथफेनपिंडपंडमंडलमिदम् । शिखावलचन्द्रकचयनिचितमिदम् । सूकरमुखाचिरविदारितमृत्तिकामयतलविकीर्णकन्दबन्धुरमिदम् । धावितशशनिकरचरणांकितमिदम् । शार्दूलाचिरनिहतकुरंगरुधिरारुणितमिदं स्थानमिति परस्परं दर्शयन्तः हन्त ! समुलंधितशरलक्ष्योऽयं कृष्णसारः । शिलीमुखहतिवेदनासहिष्णुतया सचीत्कारं क्षितितलनिखाततीक्ष्णतरदंष्ट्रोऽयं वराहः, वसुन्धरोद्धरणाय कृतप्रयत्नमादिवराहं विडम्बयति । सारमेयनिरुद्धस्सालावृकोऽयं ससाध्वसं निजोरुयुगलांतःप्रवेशितवालः कृतमुखविकृतिः प्रलीयते कुंजोदरे । शरानुविदश्शार्दूलोऽयं रोषातिरेकादभिपतति । तदपसर। अमर्षदुर्घर्षहर्यक्षलंघितोऽयं मृगयुः। तरिक्षप्रं विमोचय तं करवालनिपातनेन । पश्य, वक्त्रगृहीतपृथुलशशस्समायाति कौलेयकोऽयं भवदुपकण्ठम् । अहो ! नीलकंठकंठमपातयत्प्रयुक्तोऽयं क्षुरप्रः । लुलायकठिनकंठपीठनिखातं करवालमाच्छिद्य देहि तावत् । निहतशल्येन मया युधिष्ठिरचरितमाचरितम् । करखङ्गेन वनखड्गः पातितः । मा प्रहिणु बाणं संमर्दसंत्रासाचिरप्रसूतपोतायामनुकंपनीयायां हरिण्यां। तज्जीवग्राहं गृहाण तं पोतम् । वात्सल्यातिरेकादनुवर्तते सा हरिणी। हन्मि चर्मणि दीपिनमेतम्। किन्नु खल्विदं पश्य तावदिवाप्यर्धचन्द्रोऽयमृक्षगणमनुव्रजति । प्रद्युमः इव सायकेन पातयाम्यहं शंबरमित्यहमहमिकया व्याहरंतः प्रशमितवनसत्वसंचाराः सोत्साहमटवीमभितः पर्यटन् । चारुवक्त्रस्तु तुरगाधिरूढः सकौतुकं तत्रतत्रावलोकयंश्चललक्ष्यवेधनपाटवं प्रकटयन्साध्वसदूरगतविवलितकंधरावलोकनैकतानमृगाधिपं कंदरोदरदरनीरवनिलीनभूदारं संत्रस्तकुंजपुंजोदरगूहमानदूरपरिधावनखेदपरिस्फुरदुदरपार्श्वश्रांतशार्दू परिभ्रष्टयूधगवेषणव्यग्रकांदिशीकदीनकुरंगं निजामकानवलोकनकंदलिततार
Page #115
--------------------------------------------------------------------------
________________
तृतीयलहरी तारदीनरावदयनीयकुंजरं सावेगसंभ्रमं परिभ्रमणैकतानकलभचीत्कारं निहतक्षितितलविनिहितशशविसरापहरणपरिपतत्कंकश्येनकुलं मृगयुकुलकलकलरसितत्रस्तडयमानविचित्रपतत्रिवातदीनताररावमुखरितं प्रताननीवितानांत:प्रविष्टसाध्वसपरस्परलीनभल्लूकं रोषातिशयदुनिरीक्षनतकंधराभिपतत्कासरकठोरनिर्घोषभयंकरं कंटकबहुललतापटलविवरनिषण्णजिह्वाग्रालिह्यमानबाणक्षतक्षरद्रधिरारुणस्कंधचित्रकायं प्रतिघातिघोरास्फालितशुंडादंडभज्यमानविशंकटविटपपटलचटचटात्कारदुर्निरीक्षयूधपं मृगयुगणदर्शनकादिशीकसन्निहितवातायुगलरुधिरपानसुहितवृकं कांतारं परितः पर्यटन्घोटकखुरपुटपटुतररटितमाकर्ण्य विचित्रप्ररूढप्रसूनप्रकरमंजुलात्कुंजपुंजाद्भिया समुलंघ्य वाजिजवविजिगीषयेव प्रधावन्तं बंधूककुसुमसुवर्णमसृणस्पृहणीयततसितस्थासकनिचितकायं स्तोकमिव विवल्य कंधरामुत्पश्यन्तं मेचकसच्छायतरलितविततनेत्रं साध्वसपिंडीकृतपृष्ठभाग समुत्पतनकृतांतरिक्षबहुलपचारं हृदयंगमाकारं कुरंगमेकं निरीक्ष्य तजिघांसया तरललक्ष्यवेधनपाटवप्रदर्शनेच्छया च पाणिताडनद्विगुणितवाजिजवो ज्यायोजिताजिह्मगस्तमनुदुद्राव । एवंप्रधावितसैंधवोऽतिक्रांतसुदूरवर्त्मतया महीरुहनिवहेषु दृश्यादृश्यशरीरं रोहिषं रोषपोषिताभिनिवेशः क्षितीशः सुदूरं धावंधावं समतिक्रांतकांतारांतरं प्रविष्टं कुसुमपटलनिकटपर्यटचंचरीकमंजुलं कुंजपुजं दृष्ट्वा रोषातिरेकादाकर्णाकृष्टशरासनगुणो दशनदश्यमानाधरो निशिततरं शरमेकं प्राहिणोत्तत्प्रवेशविवरं प्रति।। ____ तदनंतरमवरुह्य तुरंगमादनोकहमूलतले निबद्धय च तं मृगजिघृक्षया क्षितीशः कतिचित्पदानि गत्वा करांशुकेन मुहर्मुहुः श्रमसलिलकोरकितं मुखतलं संमार्जयन् “सोढुं न प्रभवामि वेदनां सखि! किंजलिके! हंत! अकांड एव कांडहतास्मि । भिनत्ति मर्म। गता मे जीविताशा। किमद्य कर्तव्यम् । दृढतरं गृहाण मां। शयानामप्युत्थापयति संतापः । पश्य रसना मे नीरसा संजाता। लोचनं तिमिरयति । कंपते च शरीरम् ।
Page #116
--------------------------------------------------------------------------
________________
जयन्तिका
वागपि नैव साधु निस्सरति । तदवधारय तावदिदानीं कृपया चरमामिमां मदीयां प्रार्थनाम् । तापसावर्तसे मम ताते दीर्घसत्रे प्रेमातिशयेन वा मोहेन वा स्वातंत्र्येण वा दरातिशयेन वा निरतिशयपरिचयेन वा निरंतरसान्निध्येन वा संस्तुतसौलभ्येन वा प्रमादेन वा करणत्रयविरचितं मदीयं यदागः तदखिलमप्यज्ञानविजृंभितमिति अनुक्रोशेन मर्षणीयमिति मद्वचनान्निवेदय तस्मै । किंच स्नेहातिरेकेण त्वयि यदनभिप्रेतं समाचरितं मया तदखिलं क्षमस्व त्वमपि । समुत्क्रमणोन्मुखप्राणास्म्यहम् । यावन्मनसा चिंतितं महात्मनश्चारुवक्त्रस्य पवित्रं चरित्रं तावदेव फलम् । स तु न मामलभत । नाहमपि तम्" इत्यादीन्दी नदीनान्विलापान्नारीकंठसमुचितानिशम्य सावेगं का स्विदबला मन्नामगर्भितां गिरं व्याहरन्ती दीनदीना रोदितीति कंपितहृदयः अपि नाम मे सायकस्य कापि तापसी शरव्यमासीदिति सीदन्नात्मानमेव तस्करमिव मन्वानः त्वरया नतपूर्वकायः प्रविश्य दुरवगाहकुंजोदरविवरं मन्दमन्दमुपसर्पन्नवनीतले निपत्य परिलुठंतीमवदातवन्य कुसुमदामालंकृतवक्षोजमंडलां प्रसूनवलयपरिमंडितमणिबन्धां निशिततरसायकसनाथदक्षिणोदरपार्श्व हा ! सखि ! किमद्य कर्तव्यम् । हन्त ! धृतप्राणया पापया मया तावत्त्वदीयं कष्टं द्रष्टव्यं संवृत्तम् । हा! प्राणानिव किमु मामपि त्यक्ष्यसि । कथमितः परं भवतीं विना महानतिवाह्योऽयं मया कालः । इति प्रलपत्याः किंजलिकायाः अंकतले विन्यस्तमस्तकां विलुलितचञ्चलकुंतलां शिथलितधम्मिल्लमल्लां वेदनासहिष्णुतया कुटिलितभ्रूलतां अपांग प्रणालिकानिस्सृताश्रुजलक्षालितश्रवणयुगलां निश्वासाश्यानितमधरपल्लव मसकृदालिहन्तीं जिह्वापल्लवेन शरहतिबाधया मुहुबहुलते क्षितितले निपातयन्तीं धरातलप्रसारितचरणयुगलां कामपि सुन्दरीमद्राक्षीत् ।
86
·
दृष्ट्वा च मनस्येवमचिंतयत् । का स्विदियम् ? किमेषा निजवल्लभप्रतीकसंपादनेच्छया धृततापसवेषा तपस्यन्ती रतिः ? उत सशरीरं चरन्ती
Page #117
--------------------------------------------------------------------------
________________
तृतीयलहरी
वनलक्ष्मीः ? आहोखिच्छापवशादाश्रितधरातला सुरसुन्दरी ? अथवा भूलोकरामणीयकावलोकनाय रसातलादुत्थिता नागांगना ? आहोखिच्छुक्तौ मुक्तेव कस्यां चित्तापस्यां समुत्पन्ना ? हंत ! अन्यदेव लावण्यम् । सौंदर्यमन्यदेवास्याम् । धिगीदृशं स्त्रीवधकारिणं मामिति विचित्य चानुकंपाकंपमानचेताः क्षमस्वापराधमजानता व्यसनैकरतेन मया विरचितं तावदिति ससाध्वसगद्गदं निगदन्बद्धांजलिपुटस्सविनयं शनैरुपससर्प । उपसृत्य च ननु सुतनु ! अज्ञानविजृंभितमिदम् । किं बहुनोक्तेन । समार्जितं किल मया स्त्रीघातुकत्वम् । धियाम् । निगदंति किल विबुधाः मृगयां व्यसनमिति । तत्तावत्प्रत्यक्षीकृतमिदानीम् । कृतकर्कशकर्मापि नृशंसतयाहं तु निस्त्रपः प्रदर्शयामि मुखमिति सानुतापं वदस्वात्मनि प्रलीन इव धराविवरं प्रविशन्निव मन्दं तन्निकट एवोपविश्य कृतशैत्योपचारो वीजयन्वस्त्रेण, हरिणेक्षणे ! जानाभि ते बलवती वेदनेति । तथापि भवदुदंतश्रवणकुतूहलं तावत्प्रेरयति मामनुयोगमुखेनाभाषयेति । तदिदानीं नातिश्रमं निवेदय । श्रोतुमिच्छामि । का त्वमुत्पच्या । कस्य कुलमलंकरोषि । कुतो वा वनवासः ? कुतश्चायं वेषः ! यद्भवदाश्रयाद्भुद - यंगमतां भजति किं तन्नामेत्यप्राक्षीत् ।
87
पृष्टा च सा कृच्छ्रादुन्मीलिताश्रुसलिलकलुषितनयनकुवलया समवलोक्य राजानमाजानुबाहुममितानंदसंधुक्षितचेतश्शक्तिविशेषा किंजलिकामब्रवीत् । अयि ! किंजलिके! पित्रा दीर्घसत्रेण पुरा यद्यदभिहितं लक्षणं तत्सर्वमपि लक्षणं तदिह परिदृश्यते । स्तनितमिवातिगभीरं भाषितम् । यदयमेव भवेत्स चारुवक्त्रः । यदवलोकनेन निरतिशयानंदामृतक्षालितवेदनमनिर्वचनीयप्रसादमधिगच्छति मे चेतः । भवतु तावदेत - न्मुखेनैवावगच्छामि सकलमप्येतदुदंतमित्यभिधाय मन्दं विवलितकंधरा नेत्रसहस्रपत्रपिशुनितत्रपाविशेषा चारुवक्त्रमवलोक्य भद्र ! समुत्थातुमक्षमतया वेदनापरवशसकलप्रतीकतया च शयानैवाप्रतीकारानुशया निवेद
Page #118
--------------------------------------------------------------------------
________________
88
जयन्तिका
यामि । तत्क्षतुमर्हति भवान्मंतुं मदीयम् । माभून्मनसि चिंता प्रमादविजंभिते कर्मणि । भवितव्यता तावदीदृशी मदीया। न हि दोषलेशोऽपि त्वयि । सविनयमिदमेकमभ्यर्थये । को भवान् ? कुत्रत्यः ? अदृष्टपूर्वोऽपि पितृमुखादवगतचारुवक्त्रलक्षणतया इदंप्रथमदर्शनोऽपि स एवायं चारुवक्त्र इति प्रत्यभिज्ञा परं समुन्मिपति मनसि । ममापरिचितोऽपि संस्तुत इव विश्वासं जनयसि। अपि नाम स एव चारुवक्त्रः त्वम् । संक्षालय वागमृतेन हृदयगतं संशयमित्यप्राक्षीत् ।।
__ पृष्टश्च स नरपतिः निरतिशयानुशयाश्रयाशतप्यमानमानसो निरंतरचिंतितदुरंतदुरितकर्मतया आत्मनि लीन इव सगद्दं मातः! दुरितैकभाजनममुं जनं जगति चारुवक्त्रनाम्ना समाह्वयति जनाः । इत्यभिधायाश्रुजलधारासिक्तांशुको दुर्निवारदुःखभरावनतमस्तको हस्तवस्त्रेण तां वीजयंस्तूष्णीमुपाविशत् । निशम्य च तद्वचनं नितांताश्रुमुखी सा तपखिनी दीर्घमुष्णं च निश्वस्य नाथ ! मंदभाग्यायाश्शृणु तावन्ममेदमुदन्तं इति कृच्छ्राद्वक्तुमारभत । उन्मस्तकसत्वगुणैरिव पलितकेशपाशैरुपशोभमानस्य मस्तकस्य कंपकैतवेन मा भूत्कदापि दौर्गत्यदुःखमित्यसकृन्निराकुर्वन्निव वलिसमाकुलितेन भृकुटितसितभूलतेन नीडांतर्निषण्णपतत्रिभ्यामिव कुहरगतनेत्राभ्यां भयानकेनोन्नतहनुना गलितरदनतयानवरतमपि कंपमानाधरोष्ठपुटेन मुखमंडलेन विराजमानस्तिलकनिचितैरुल्लसत्सिरासंततिजटिलैः कीकसप्रायैरंगैर्दर्शनीयदर्शनो धमनाभिधो द्विजवरो दारिद्येण यवसाच्छादितपटले विशीर्णबद्धवंशांतरांतरा विनिहितमृत्पिडेन कुड्येन परिंगते स्थपुटितक्षितितले लूतास्यूततंतुपटलास्तीर्णकोणदेशे पर्यटन्मूषिककृतसुषिरदूषिते विविक्तैर्गलितपटलैनिरंतरचुचुन्दरीकृकलासमुसलीविसरसंचारैस्तत्रतत्र निपतितभित्तिभिः प्ररूढविविधलतापटलजटिलितैः पंचषैर्भवनैः परिगते पार्थकरगांडीव इव स्तम्भीकृतस्थाणौ महानस इव दर्वीकरदंतुरे अविकृतविवरेऽपि विकृतविवरे कुटीरे नववर्षया मया सममुवास ।
Page #119
--------------------------------------------------------------------------
________________
तृतीयलहरी
89
अथैकदा तूञ्छवृत्त्या आत्मानं मां च पोषयन्तं तं धमनमपृच्छम् । तात! क मे जननीति । पृष्टश्च स धमन एवमवोचत् । वत्से ! दुर्गततया मत्वा च द्वितीयाश्रममाश्रममाश्रितप्रथमाश्रम एव निरंतरमुञ्छवृत्त्या भृतजठरपिठरोऽहमेकाकी कालमत्यवाहयमिति । पुनरपि नितांतचिंताकुलांतःकरणया मया तात ! कथं मे जनिरिति परिपृष्टस्स धमनः सानुतापमकथयत् । वत्से ! कदाचिदहं समिदाहरणायारण्ये पर्यटन्माकंदगुमवृन्दमध्यवर्तिनः कस्यचित्कोकिलालापवाचालितस्य रसालस्य चञ्चरीकचयचरणपातनिपातितैर्बालकलानिधिशंकया परितः परिगतैनक्षत्रैरिव कुसुमनिकरैरतिरमणीयं स्यन्दमानमरंदबिदुसंदोहबन्धुरैः पत्रवातैर्दैतुरं कुलगुच्छविच्छुरितप्रांतं मधुकरनिकरमधुररुतमुखरितं मूलतलमधिशयानमरुणतरशरीरतया निपतितचूतकिसलयशंकामुपजनयन्तं सक्कतलनिपातितदर्भपल्लवकबलैस्सहुंकारमाघ्राणतत्परैः कुरंगनिकुरुंबैः परिवृतं कूजत्कोकिलालापकलरवं रुदन्तं चञ्चलकोमलारुणकरचरणकिसलयं सद्योजातमिव भासमानं शिशुं त्वां नातिदूरादपश्यम् ।
दृष्ट्वा च सावेगं मनस्येवमचिंतयम् । हन्त ! दृश्यते हि शिशुरयमचिरप्रसूत इव । बत ! कया वा स्यादीदृशमतिदारुणं कर्म कृतम् । जगत्यपत्यप्राप्तये शरीरमपि तृणाय मन्यमानाः स्वाभिमतमशनमपि परित्यजन्तः कति तैकरताः ? कति वा पवित्रक्षेत्रतीर्थयात्रापरतंत्राः ? कति च चिरसंचितद्रविणगणवितरणपराः ? देवतासपर्यापर्युत्सुकमानसाश्च कति ? नतेभ्यो न तेभ्यो ददाति नियतिः कदापि शिशुम् । ईदृशानां नृशंसानामेवापत्यसंपत्तिः। अथवा किमनेन विप्रतीसारेणासारे संसारेऽस्मिन्नेवंप्राया ह्यपत्योत्पत्तिः । तथा हि-दुर्गतास्समधिगतानेकतोकाः क्लिश्नन्ति तत्पोषणाय । विश्वस्ता अपि पूर्णतारुण्यपण्याः रहसि कृतेत्वरीचर्याः निजसाधुचारित्र्यप्रकटनाय लब्धमपि मुग्धं निजापत्यं परित्यजन्ति । हत ! स्त्रीणां चपलता निर्मर्यादा निर्निवार्या च । क भोजकुलं ? कवा
J-12
Page #120
--------------------------------------------------------------------------
________________
90
जयन्तिका
कुरुकुलसम्बन्धः । तथापि पृथायाश्शीलमतिगर्हणीयं हि ! यदपुष्पवत्यपि संगम्य नीरदनेन तपनेन निघृणा स्पृहणीयं तत्याजोपहरे निजापत्यम् । देवतास्वेव कर्कशमीदृशं दृश्यते कर्म । किमु वक्तव्यं मानवेषु ? मेनकापि कामयमाना त्यक्ताभिमाना तपश्चरता विश्वामित्रेण संगम्य समुत्पादितां कांततरकुंतलां शकुंतलां निजवत्सां काप्युत्ससर्ज । धिग्दौर्जन्यं जन्मिनाम् । ईदृशाय जनाय दीयते दैवेनापत्यम् । इति बहुधा विचिंत्य नितांतानुतापतांतस्वांतस्त्वामादाय दयया सदनमासाद्य च सद्यः पयसा पार्श्वपक्कणानीतेन भवदशनायामशमयम् । वत्से ! कृच्छादेतावन्तं कालं तावदेवमेव वर्धितासीत्यकथयत् ।
अथ व्यतीतेषु कतिपयेषु मासेषु कदाचिज्जरत्तरो धमनो व्याधिजझरितशरीरस्संतापपरितप्यमानोऽपि पार्श्ववर्तिनी मां वात्सल्यातिरेकेण बाष्पजलकलुषितक्षीणवीक्षणो विलोकयन्वेपमानेन कीकसमायण पाणिना सकृदंबेति परामृशन् मय्युपरते निर्जने वने कथमेकाकिनी निवससि ? कुत्र गच्छसि ? क भुंक्षे ? कथमनाथामीदृशीं बालां भवतीमेकाकिनी विहाय त्यजेयं प्राणान् इति । दुःखभरदम्यमानकण्ठो रुदन्नस्फुटाक्षरं व्याहरंस्तारतरनिश्वासपरंपरया समममुञ्चदश्रुधाराम् । तदनु सवितरि कष्टमस्य शिष्टोत्तमस्य द्रष्टुमसमर्थ इव विसृष्टघृष्टाववष्टंभितपाटलिग्नि अधितिष्ठति चरमगिरिशिखरं सत्वरमेवास्तमेति गभस्तिमालीति तज्जठरजिगमिषयव सत्वरं निर्जगाम धमनाजीवः । अहं पुनर्बालभावेन गतप्राणमपि तमुपरतमजानन्ती निद्राति किं ? किमथवा ध्यायति भगवन्तमिति चिंतयन्ती समुपेत्य च तत्समीपं निर्वर्ण्य च मुखविकृति संचाल्य च निभृतशरीरं आशीर्षादापादतलं चलन्ती तनुमवलोक्य सगद्गदबाष्पं ताततातेत्यसकृदाहूयमानमपि अदत्तप्रतिवचनं किंचिदर्धमीलितलोचनं स्तोकमिव विवृतवदनं धमनमपश्यम् । दृष्ट्वा चेतिकर्तव्यतामूढा गाढांधकारजठरप्रविष्टेव भयजसरितहृदया दुःखभरदम्यमानकंठी सगद्दं परिदेवनैकशरण्या मुहुररण्यानीमभितः
Page #121
--------------------------------------------------------------------------
________________
तृतीयलहरी
91
पश्यन्ती कंपमानगात्रयष्टिः नाथहीना क्षणमिव कुणपसमीपे समुपविशन्ती क्षणमिव बहिरागत्य तिष्ठन्ती किं करोमि, कुत्र यामि, का वा गतिः, कस्मै निवेदयामि, निर्जने वने को वा वर्तते, कं मृगयामीति बहुधा विचिंतयन्ती दुःखभरपरिभ्रामितोत्तमांगा चेलपिहितमुखी गलितजंघाशक्तिः द्वारिन्यषीदम्। ___अथ निमज्जति सवितरि चरमजलनिधौ कमलिनीषु पतिविरहशोकेनेव निस्सृतभ्रमराश्रुकन्जलासु निबिडतरकुंजपुंजाभ्यंतरान्मदंमन्दं प्रस्मरनिरंतरांधकारनीलचेलावगुंठितेषु वनतटेषु तत्र तत्र निरर्गलनिर्गल कारघूकौघरावानुकरणपरासु गिरिगुहासु मद्भयपरिजिहीर्षयेव कर्णोपांते तनुतरक्कणितकैतवेन कृतसांत्ववचनेषु वनमशकेषु मदुःखावलोकनासहिष्णुतयेव निपतताराकैतवेन पातिताश्रुसलिलकणे गगनांकणे निश्शब्दं रोदितीव दृश्यमाने खद्योतवातद्योतितेषु शालेषु भीतभीता बालभावेनोपरतमपि पितरं विसज्यात्मरक्षणपरा दीनरवेण रुदती क्वापि गंतुमपि तत्रैव स्थातुमप्यनीशा करयुगपिहितनयनयुगला तत्रैव द्वारि समुपाविशम्। तदनु मां समाश्वासयितुमिवोदयगिरिशिखरमाउरोह सुधादीधितिः। अथ चकोरचयचारुताररवदंतुरेषु दिगंतरेषु चन्द्रोदयभयात्परिधावद्भिरंधकारैरिव षट्चरणनिकरैः परिवृतेषु नीलोत्पलेषु दीनकोकनादेषु कोकनदेषु प्रसमरामोदेषु कुमुदेषु चन्द्रिकादुकूलपरिमंडिते भूमंडले वनमभितो दत्तदृष्टिः विपिनेऽपि मदीयां स्थितिमसहमानया नियत्या मामरण्यात्कालयितुमिव प्रेषितं क्वचिदनिलचलिततया पतगमिव विटपिनो विटपिनमभिपतंतं क्वचिच्चक्रवातपरिघूर्णिततया मदिरास्वादपूर्णितमिव परिभ्रमन्तं क्वचिद्दह्यमानवेणुपर्वताततया पिशाचाविष्टमिव घोररवभयंकरं वसंतमिवाशोककुसुमरक्तं शाकुनिकमिव तस्कोटराभ्यंतरपातितानेकशकुनिनिकर उन्मत्तमिव मूंकारदूरपातितशिलाशकलं मदकलमिव क्षितितलशायितानेकानोकहनिवहं नातिदूरादापतंतं दावानलमपश्यम् । दृष्ट्वा च साध्वसेन पितरमुपरतमपि तमहं विसृज्य क्वचित्क्षितितलनिपतितवातायुरोमंथसितफेनकूटसंक्राततुहिनकरकिरणतया नवरत्नकुट्टि
Page #122
--------------------------------------------------------------------------
________________
जयन्तिका
मप्रतीकाशे क्वचिद्विटपिसञ्चयच्छदसंच्छादिततयांतरांतरा प्रसृतचन्द्रातपतया चवित्रस्थासकनिचित इव क्वचिन्निपतत्प्रालेयपृषदार्द्रीकृतशादपटलतयातिशीतलतले क्वचिदमितसितसिकताप्रायतया कृच्छ्रसंचारतले क्वचिच्छर्करा - चिततया दुर्गमे कचिद्वर्ताकुलतया स्थपुटिते कचिज्झरीपरीततया शिलातलगम्ये वनमार्गे धावंधावं भयचकितदृष्टिर निर्दिष्टप्राप्यस्थानविशेषा वातचालितशुष्कपर्ण मर्मररवेऽपि वेपमाना भयप्रघट्टयमानहृदया श्रमसलिलसिक्तवल्कला विलुलितकुंतला विगलितजंघाबला श्रमवशादतर्कितोपनतनिद्राभरपरवशतया स्वयमनिच्छाघटमानपक्ष्मपुटा पदादेकमपि पदं गन्तुं नितरामनीशा कस्य चिदुत्तुंगस्य विततविटपपटलस्य महीरुहस्य मूलमधिशिश्ये ।
अथ सहस्रकरे पाकशासनाशामपि कर प्रसारितपद्मरागरागैरापूरयति अचिरसमुद्भिद्यमानकमलकल्हारप्रभृतिविविधकुसुमपरिमलवाहिभिस्समूह्य मानशीतलतुहिनशीकरकलित प्रसून परागभारतयेव मन्दं मन्दं स्पंदमानैः निजसुहृद्भनंजयधामनिधनदुःखेनेवातिजडैः पवमानैर्निशमनिशं पत्रपुटक्षरद्भिश्शीतलतरैः प्रालेयैराद्रीकृतवल्कला बाष्पासाररेखाकल्माषितकपोलतला धूलिधूसरितांगयष्टिरहं प्रतिबोधिताभवम् । अहो ! किं ब्रवीमि निद्राया महिमातिशयम् । मातृकल्पया तया विस्मारितपितृशोका निर्वासितधावनक्लेशा समुत्पादितबलविशेषा नवीकृतेव प्रकटितोल्लाघते व कृतसांत्वनेव समुल्लासितेवापोहितसाध्वसा समापूरितोत्साहा चाभवम् । तदन्वहं नातिदूरादापतंतं वटुजनपरिपठ्यमानश्रुतिसुभगनिगमघोषं, पिंगकेश ! संभारीकुरु त्वा दर्भपत्राणि । भोश्शङ्खनाभ ! त्वरिततरमुपाहर पलाशसमिधः । क्षेमंकर ! सत्वरमपचित्य परिमलमनोहराणि भगवदर्चनाय कुसुमानि नारिकेलसंपुटकमापूरय । कपिंजल ! गच्छ कंदमूलफलाहरणाय । दृढकंधर ! याहि गुरुवल्कलक्षालनाय । जाबाले ! गृहाण लवित्रं होमधेनुघासकृंतनाय । श्वेतकेतो ! धृतकुठारोऽसि । क्षिप्रमानय
92
·
Page #123
--------------------------------------------------------------------------
________________
तृतीयलहरी
I
शुष्केंधनानि । भार्गव ! भवता कर्तव्यं हि यागशालामार्जनम् । तद्रतं याहि कृतस्नानविधिः । होमधेनुदोहनाय निषिक्तभाजनो भव जाजलें ! लंबकर्ण ! तूर्णं लुनीहि विततकमलपत्राणि । दीर्घनास ! सहसा श्यानीकुरु वल्कलमातपे । पिंगकेश ! मा भव प्लवनकर्मणि व्यग्रः । त्वरितं गंतव्यम् । वक्रग्रीव ! महीरुहारोहणेन मा कालमतिवाहय गुरुनिदेशमशून्यं कुरु । इध्मवाह ! मा कुरु दिगंबर संध्यावंदनमिति परस्परं भाषमाणशिष्य गणभाषितानि च जलचरविविधपतगसु भगरसित मिश्रितान्यश्रौषम् । श्रुत्वा च तस्मादुत्थाय दिष्ट्या लब्धावलंबनास्मि इति समधिगतनिरतिशयप्रमोदपरवशहृदया. बालभावविस्मृतधमननिधनदुःखा मुनिजनविविधवार्ता संभृतामुपसृत्य तां स्थलीं विचित्रस्पृहणीयनानाविधपत्ररथव्रातकलकलरसितमुखरितानेकवर्णप्रसूनशब लितप्राचीनकल्पितप्रती हारमतिक्रम्य नीरंध्रप्ररूढाश्वत्थकपित्थदधित्थकृतमालतमालरसालसालपीत सालकप्रियालतिलका मलकपिचुलदेवतालतिंदुकर्तित्रिणीमधूकमधूलकन्यग्रोधशिशुग्रन्थिल सहकार - करवीरोदुंबरजंबीरमालूरबीजपूरखदिरबदरीपारिभद्रपलाशपनसवे तसपुन्नाग नागकेसरींगुदीप्रियंगुप्लक्षपाटलशाल्मलिशमीशक्रपादनिको चकमोचकभूर्ज रादिवृक्ष षंड मंडिततटं पादपस्तोमनिरंतरशाखाविवरप्रविष्टतारतरदिवाकरकिरणतया तपनीयशलाकाघटितपंजराभ्यंतरगतैरिव कैश्वित्तरुकोटरोदरनिषण्णेभ्यश्शिशुतया ससीत्कारं विवृतायतपाटलनोटिपुटेभ्योऽहमहमिकया पुरः प्रसारितारुणकंधरेभ्यश्शाबकेभ्यो दीयमानकटाद्या हारैः कैश्चित्सनादं विटपाद्विटपं डीयमानैः कैश्चिदन्यनीडाक्रमणक्रियमाणकल हैः कैश्चिन्निजप्रियापुरःप्रदर्श्यमानप्रेमातिशयचेष्टितैः व्याघ्राटखंजरीटधूम्याटदार्वाघाटचाषचटकशुकपिकहारीतजीवंजीवप्रभृतिभिः पतंगैः हृदयंगमप्रांतदेशम चिरप्रबुद्धतया मुहुः प्रकाश्यमानतीक्ष्णतरदंष्ट्रैस्समारब्धजृंभाविवृतवदनकुहरतया दृश्यमानारुणवदनैः विटपकोटिनिषण्णैर्जानुदेशविनिहितगंडमंडलैः करकुटिलांगुलिकं डूयमानतनुभिः लंबितदीर्घवालैः सेव्यमाननिजपाटलमुखसवर्ण
93
-
-
Page #124
--------------------------------------------------------------------------
________________
94
जयन्तिका
बालातपैः वानरैः दर्शनीयतीरतरुनिकर कुंजाभ्यंतरनिषण्णशिखावलकुलत्रोटिकोटिलोलासमाकृष्यमाणनिकटतटप्ररूढकुसुमितलताकुटिलकोटिं घनतरदलकलिततरुमूलशाद्वलतलनिर्भयपरिभ्रमत्कुरंगनिकुरुंब कुंभिकाक्रांतपर्यन्तं गजाकृष्टशालुककल्माषिततटप्रदेश कल्हारहल्लककुमुदकुवलयकमलादिमनोहरप्रसूनावलिपरिमंडितं नलिनीदलावकाशादुत्थाय समुद्भूयमानपक्षपुटैरानंदमंद्रारवैश्वक्रमिथुनैः प्लवनावतरणतरंगितसलिलं शंकूपभुज्यमानशिफाकंदं मरालाकृष्यमाणमृणालं राजहंसोपभुज्यमानवराटकं गगनतलादवतीर्णैः कॉटुभिः परिक्षोभिततरंगितसलिलं निश्चलकायैनलिनीदलनिषण्णैर्बकैराक्रांतं विस्तृतपक्षपुटैरासेव्यमानबालातपैमल्लिकाक्षमिथुनस्सनाथतटसैकतंअचिरनिष्पीडितकाषायवल्कलवर्णकषायिततीरनीरमभ्यस्यमानप्लवनकर्मभिर्मुनिबालकैनौरंधितं कैश्चित्स्नानावतीर्णैः कैश्चित्स्नातोत्थितैः कैश्चिक्रियमाणपुंडविधिभिः कैश्चिदीयमानाध्यैः कैश्चिन्निवर्तितसंध्योपासनैः कैश्चिन्निभृतशरीरं निमीलिताक्षं च जपद्भिः कैश्चित्परिपठ्यमाननारायणनामसहस्रः कैश्चित्सोपानतलाश्यानीक्रियमाणवल्कलैस्तपोधनैर्दर्शनीयसन्निवेशं संतरद्भिश्शिष्यगणैरानीयमानवानपद्मबीजपुंजं छात्रानीतदर्भपत्रसमिसंभारसंभृततटसोपानतलं प्रतितरंगसंक्रांतसहस्रकिरणकिरणनिकरतया स्नानावतीर्णनक्षत्रनिकरमिव तापससंपर्कसंपादिततेजःपुंजमिव गगनाभोगमिव राजहंसपरिमंडितं हास्तिनपत्तनमित्र धार्तराष्ट्रालंकृतं सरित्पतिमिव प्रसूतकमलं सुन्दरीमुखमिव परिभ्रमद्भमरकमनोहरं भुजगपतिमिव विधृतकुवलयं महावनमिव पुंडरीकपरिवृतं शंबरारिध्वजपटमिव मकरांकितं संग्रामांकणमिव परिपूर्णकीलालं धनिनमिव स्वर्णोमिकं प्राचेतसाश्रमपदमिव परिचलत्कुशलवं नारायणकरमिव परिभ्रमच्चक्र महेश्वराहहासमिव काशसुमधवलं एकचक्रनगरमिव बकाक्रान्तं संजातभङ्गमपि सुमनोहरं विषमरितमपि संतापहरणशौंडं सदाजडमपि मुनिजनसेवितं अतिविशालं पद्माकरमद्राक्षम् ।
दृष्ट्वा च शुचितराणि पवित्राणि तत्रैव तपोधनानां कर्माण्यव
Page #125
--------------------------------------------------------------------------
________________
तृतीयलहरी
95 लोकयन्ती नातिदूरे सोपानशिलातले समुपविश्य मनस्येवमचिंतयम् । अहो ! निर्दुष्टमवदातं कर्म तावदेतेषां । निरंतरमपि भगवद्धयानपराः मनसाप्यचिंतितपरदोषगंधाः परसेवापराङ्मुखाः यथालामसंतुष्टाः परित्यक्ताशाः निजक्रियैकतानाः नश्वरं विषयसुखं तृणाय मन्यमानाः त्यक्तमानाः समलोष्टाश्मकांचनाः अनतिक्रांतविधयः वेदाध्ययनपराः प्रकटितगुरुजनभक्तयः विनयव्याहाराः विसृष्टपरहिंसाकार्याः करणत्रयेऽप्येकरूपाः मोक्षे दत्तदृष्टयः दूरीकृतशरीराभिमानाः एते तपोधनाः कर्म कुर्वति । महदिदमाश्चर्यमिति ।
तदनु निर्वर्तितनिजनियमेषु मुनिषु परिसमापितध्यानविधिः कश्चन जरत्तरो जटाजटिलोन्निबद्धदीर्घतरशणकल्पानल्पपलितकेशपाशस्तिमिराप्रवेशाय कृतनयनोपांतसान्निध्याभ्यां चन्द्रकलाभ्यामिव पलितभ्रूभ्यामभिरामो भुजशिखरकृतशङ्खचक्रचिह्नयोः श्रुतिस्पर्शित्वप्रकाशनायेवांसतललंबिनीभ्यां ब्रह्मातिरिक्तदुर्वचनाप्रवेशाय सन्निहितसत्वगुणरिव सितलोमगणैस्सन्निरुध्यमानद्वारदेशाभ्यां श्रुतिभ्यां दर्शनियो रसनापीठस्थितब्रह्मविद्यावासस्य तप्तचामीकरसच्छायनासिकागोपुरस्य वदनसदनस्य नासातलबद्धमध्याभ्यां उभयपार्श्वलंबितशिखराभ्यां विशदकुसुमगुंभितमालातोरणाभ्यामिव शुभ्रश्मश्रुकलापाभ्यामुपशोभमानः निबिडतरपद्माक्षमालावलयितं सांद्रप्ररूढसिततनूरुहनिवहावगुंठितमवदातयज्ञोपवीतपरीतं विशालं वक्षस्थलमसितलतावलयितं प्रालेयप्रकराक्रांतं तिर्यक्प्रसरत्सुरसरित्परीवाहमायतं प्रस्थमिव हिमगिरिरुद्वहन्वदनदरीप्रांतपरिपतद्धौतदीर्घतरकूर्चसरस्वतीधुनीपरीवाहरयजनितगर्तेनेवोर्ध्वदेशनिपतत्प्रवाहवेगपरिकीर्यमाणशुभ्रजलशीकर - निभगौररोमावेष्टितपर्यंतेन नाभिगर्तेन प्रकाशमानः आदिशेषनिर्मोकनिर्मललघुचीरांबरकृतपरिधानस्तापसपुंगवस्समुन्मीलितलोचनस्सकृदपांगकुल्या . प्रसरत्कृपारसपूरेण स्नापयन्निव मामवलोक्य सानुतापं पार्थवर्तिनमन्तेवासिनमेकमब्रवीत् ।
Page #126
--------------------------------------------------------------------------
________________
96
जयन्तिका
भोः ! कपिजल! स्नापयित्वा तां शिलातलनिषण्णां बालिका सत्वरमानय मत्सकाशमिति । स तु कपिजलो मदुपकंठमासाद्य हृद्यया गिरा वत्से ! कुलपतिरस्माकं समाह्वयति भवतीम् । तदुत्तिष्ठ स्नात्वा च सरोवरेऽस्मिन्सत्वग्मायाहि इति न्यवेदयत् । ततस्तमहं तात ! कस्ते कुलपतिः तस्य च किं तत्पूततमं नाम । दयया दर्शय तं महात्मानम् । द्रष्टुकामास्मीत्यपृच्छम् । पृष्टश्च स कपिजलो यस्तेजसा सवितारं धर्मेण वैवस्वतं तपसा तामरसासनं शांत्या तारापतिं कृपया पद्मनाभं ज्ञानेन सुराचार्य गांभीर्येण सागरं पारिशुद्धयेन क्षीरोदं दाढर्थेन हेमाद्रिं समतिक्रांतवान् । यश्च यदा यदाज्ञापयति कुलपतिरिति निभृतगात्रैराश्रितप्रह्वभावैस्तन्मुखकमलदत्तदृष्टिभिस्तपोधनैरुपास्यमानः प्रकाशते । यश्च स्थविरः परिशुद्धात्मानमेवमेव शिरसि करोतीति सूचयद्भिरिव धवलतरैः केशपाशैः परिष्कृतोत्तमांगः । यश्चांतस्संपूर्णतया रंध्रदेशाद्वहिनिस्सृतैस्सत्वगुणैरिव विशदरोमनिकरैराच्छादितशरीरः । यश्च संसृतिकांतारस्य दावानलः । यस्माद्भीतभीतः कंदर्पोऽपि त्यक्तदर्पः तिरोहितशरोरो वर्तते । यस्य नामग्रहणेन कलिरपि सुदूरं धावति । यश्च विधुतुद इवासकृदापीतसोमः । यश्व धर्मस्य वेदितापि कुशासनः । मोक्षार्थ्यपि अक्षगणनासक्तः । एको त्तमांगोऽपि सप्तोत्तमांगः । यश्च तपनीयतपनतनूनपात्तेजःपुंजैरिव निर्मितः। यस्य च दिवौकसोऽपि वचश्श्रवणं तपःफलं कटाक्षमपि महानुग्रहं मन्वते । यश्च त्रय्यास्संकेतभूमिः । येन च सकलान्यपि शास्त्राणि परिशुद्धतामभजन् । यश्च प्रयतेन दीर्घसत्रनाना पावयति जगदखिलमपि । सः एवास्माकं कुलपतिरिति दर्शयामास तम् ।
तदनु तस्य दीर्घसत्रस्य मनसीवातिनिर्मले स्वभाव इव गंभीरे ध्यानइवात्यायते कर्मणीवावदाते वन इव तापहरे कर इव कुशपवित्रे तस्मिन्सरोवरे स्नात्वा परिधाय च कपिंजलदत्तं परिधानं समासाद्य च कुलपतिसन्निधिं तच्चरणसरसिजयो पतम् । तदनंतरमितरदुर्लभस्पर्शाभ्यां
Page #127
--------------------------------------------------------------------------
________________
तृतीयलहरी
करारविंदाभ्यां स तपोधनपुङ्गवो मामुत्थाप्य वत्से ! सौगंधिनीति प्रीत्यति - शयेन समाश्लिष्य शिरस्याघ्राय च आयाहि वत्से ! मदीयमाश्रममिति निजकरारविंदेन मत्करांगुलिमवलंब्य कैश्विदंसतलारोपितकुशसमित्संभारैः कैश्चित्कंदमूलफलसंभृतपिटकोत्तमांगैः कैश्चित्तुलसीकुसुमपरिपूरितनारिकेलसंपुटकहस्तैः कैश्चित्पुनरुक्तीकृतशिरोनिहितार्द्रवल्कलैः कैश्चिदावेष्टितकृष्णाजिनकक्षैः कैश्चिदुच्चार्यमाणमंत्रतया परिस्फुरदधरोष्ठपुटैः सादरं मामेवावलोकयद्भिः तापससंघैः त्वरया वल्कलप्रसृष्टप्रतीकैः चीरचेलांचलनिबद्धपद्मबीजपटलैरानीयमाननलिनीदलभारैः लीलायै नलिनीपत्रकल्पितभृङ्गारापूरितनी रैः त्वरातिशयकृतानुधावनतया प्रमाणाधिकनिश्श्वासैर्वेपमानहृदयैमुनिबालकैश्वानुगम्यमानो निजाश्रमं प्रति प्रतस्थे ।
तदनु गते च तस्मिन्कतिपयानि पदानि, सोपानैरलंकृतं नानानोकहनिवहप्रसून प्रचुरप्रताननीप्रकरपरिष्कृतमकृत्रिमविचित्र पर्वतपरंपरामनोहरमुच्छ्रितशिखरतलपरिकल्पितविस्मयावहोन्नतगोपुरसुन्दरदेवमंदिरं कञ्चन समुन्नतदेशमवलोक्य निरतिशयानंदपरवशा तात ! सोपानपरंपरापरिष्कृतं किमिदमतिरमणीयं स्थलमित्यपृच्छम् । पृष्टस्स कुलपतिः वत्से ! चिरंतनानेकतपोनिष्ठमुनिपुङ्गवकृतावासोऽयमेव गोमंत इति पुराणप्रसिद्धो नारायणगिरिः दक्षिणबदरिकाश्रमश्च । सत्वगुणभूयिष्ठोऽयं देशः । अत्रैव विलसति कमलया सह शांतमूर्तिर्भगवान्नारायणः । तस्यैव भगवतः परिचर्यैकनिरतः अहमस्मि । अस्य च गिरेः चतसृष्वपि दिक्षु सोपानावलिरेवमेव विराजते । अत्रैवास्माकं पर्णशालाः । पुराणपुरुषस्य समाश्रितार्चारूपस्य निजरूपावर्जितसकलजनमनोनयनस्य श्रियः पतेर्वरिवस्यैकतानोऽस्मीति निगदन्नेव सोपानांतिकमाससाद ।
97
अहो ! तस्य दयालुता वात्सल्यातिशयश्च मयि । यन्निजवृद्धभावमविगणय्य प्रीतिदिग्धमानसः पाणिभ्यां मामादाय निजोदरतलतिर्यक्कृतकूर्परपीठे प्रतिष्ठाप्य सोपानावलिमारोढुं मंद मंदमुपचक्राम । एवम
J-13
Page #128
--------------------------------------------------------------------------
________________
जयन्तिका
निच्छन्तीमपि मामादाय सोपानारोहण श्रमजनितनिश्श्वासपरिश्रांते तस्मि - न्मंदं गिरिशिखरमधिगतवति नमेरुतरुमूलतलेषु वेदिकातटेषूटजाभ्यंतरेषु तमालदलविरचितायतकायमानतया तत्र तत्रांतरांतरा निपतिततपनकिरणकलितशिलातलेषु च निषण्णैः कैश्चित्क्रियमाणपुंड्रविधिभिः कैश्चिन्निभृतकायं बद्धांजलिपुटं च पद्मबीजमालावलीढकंधरैः पद्मासनोपविष्ठैः प्रणिधानपरैः कैश्चिदभ्यस्यमानयोगासनैः कैश्चित्परिपठ्यमानाम्नायैः कैश्चिदभ्यर्च्यमाननारायणैः कैश्विद्वध्यमानप्रसूनः कैश्विद्धष्यमाणपटीरैः कैश्चिद्वध्यमानदर्भमुष्टिभिः कैश्विदाश्यानीक्रियमाणसमित्पटलैः कैश्चिल्लूयमानकदलीदलैः कैश्चित्क्रियमाणहोमैः कैश्विद्गोमयलेपनक्रियमाणवेदिकाशुद्धिभिः तपोधनैर्बंधुरं केषांचिज्जरत्तापसीजनोपलात्यमानानां केषांचिद्विटपकोटिविषक्तवल्कलडोलाशायितानां केषांचित्कृष्णाजिनेषु शयानानां च तापसशिशूनां हासध्वनिभिः रोदनस्वनैश्वापूरितं पादपप्रच्छायेषु शयानैः कोरकितलोचनैरारब्धरोमन्थः कृष्णसारत्रातैः दर्शनीयं कैश्चित्कुरंगालिह्यमानार्मकैः कैश्चिन्न्यग्रोधप्ररोहकल्पितडोलाविहारपरैः कैश्चिदुटजाभ्यंतरानीतफलाशनहृष्टैः कैश्चित्पांसुक्रीडापरवशतया धूलिधूसरितशरीरैर्मुनिबालकैरतिमनोहरं काभिश्चिद्विशालशिलातलाश्यानीक्रियमाणशूकधान्याभिः काभिश्चित्तरुशाखानमितशिखराबध्यमानार्द्रचीरांबराभिः काभिश्चिद्भ्राम्यमाणघरट्टाभिः काभिश्विज्जलाशयानीयमानजलकलशावलग्नाभिः काभिश्चिदारब्धपर्णशालाभ्यंतरकार्यव्यग्राभिः काभिश्चिद्वर्णिभ्यो वेणीक्रियमाणमौंजीभिः काभिश्चिद्विमुच्यमानदुग्धदोहधेनुभिः काभिश्चिन्निरवकरी क्रियमाणधान्याभिः काभिश्चित्सज्जीक्रियमाणहोमोपकरणाभिः काभिश्चित्समारब्धपाकक्रियोद्यमाभिः काभिश्चित्स्तन्यदानसमाश्वास्यमानशिशुभिः तपोधनवधूभिः नीरंभितं, आसेव्यमानबालातपाभिरसकृदारब्धजृंभतया प्रदर्श्यमानारुणनीरदनवदनकुहराभिः वलितिलकाकुलितां सिरासंतानजटिलां कीकसप्रायां तनुतरां तनुमभीक्ष्णं मन्दं मन्दं कंपमानेन पाणिमुखेन कंडूयमानाभिः पवन
98
Page #129
--------------------------------------------------------------------------
________________
तृतीयलहरी
99 चालितस्पंदमानपलिताल्पकेशाभिः पर्णशालाबहिरांकणतलनिषण्णाभिः जरत्तरतापसीभिः दर्शनीयं, दुह्यमानदुग्धैरालिह्यमानवत्सैरतिपुष्टैर्गोकुलैः पवित्रितं, धूसरितपर्णशालाप्रदेशै मैः कर्बुरितं, तत्र तत्र भिद्यमाननारिकेलफलतया पाटलितशिलातलं, उटजाभ्यंतरात्सवल्गितमभिपततस्तारतरं कूजतस्संवीक्ष्यात्माकाननुपदमेव सहुंकारमंद्रकंठरवमुत्थाय मुहुराधाय च तानायातानतिसत्वरसञ्चाल्यमानहखवालानवनितलविनिहितजानुतलान - सकृन्निर्दयं मुखतलादूधस्तटं ताडयतः पयः पाययन्तीभिर्हरिणीभिरतिरमणीयं, तत्र तत्र सिच्यमानकाषायं भिद्यमानेंगुदीफलं शिखावलान्विष्यमाणनीवारकणं, शुककुलापीयमानकमंडलुसलिलं, कपिकुलचालिताभ्यश्शाखाभ्यः पतितान्यौंदुंबराणि फलानि भुंजानैरतिमांसलैस्स्वैरचारैः वृषभवरैरुपशोभमानं, तत्र तत्र परिपठ्यमानरामायणं, वल्कलमात्रतृप्तैरपि पीतांबरासतचित्तैः शुक्लकर्मरतैरपि कृष्णकर्मासक्तमानसैः वैखानसैस्सेव्यमानं द्वैपायनमिव शुकसंसेव्यमानं महानगरमिव गीयमानगीतं कैलासमिव वास्तव्यनीलकण्ठं कृष्णमिव सदासन्निहितधनंजय महावराहमिव क्षमाश्रितं स्वर्गमिव शतमखोपशोभमानं आश्रमदेशमपश्यम् ।
तदनु तमवेक्ष्य क्षिप्रमुत्क्षिप्तपक्ष्मभिस्सरभसमन्तिकमासाद्य शश्वदाघ्राय चानुसरहिरिणयूधैः परिवृतस्स मुनींद्रो निजोटजमभजत । अथ मदवलोकनाय संघशस्समागताभिस्सविस्मयमार्य ! कुत्रत्येयमिति तं दीर्घसत्रं पृच्छंतीभिः हन्त ! सौंदर्यमस्या बालिकायाः। बत! अस्मदुटजहरिणमंडलनयनडंबरहरमस्या मेचकलोचनयुगलम् । अदृष्टपूर्वमिदं रूपम् । इति परस्परं सल्लपंतीभिरहमहमिकया चुम्बंतीभिर्जरतीभिस्तरुणीभिस्तापसीभिश्च सादरमुपलालिता सकलमुनिजनवात्सल्यभाजनमभवम् । इति व्याहरंती मुखविकृतिप्रकटितारुतुदशराहतिवेदनां सौगन्धिनीं निर्वर्ण्य विवर्णमुखी किंजलिका सगद्गदबाष्पमंब ! सौगन्धिनि ! निरंतरं व्याहारेण कुंठितकंठखरासि । नीरसा रसनेयं प्रतिबध्नाति व्याहृतिम् । अप्रतीकारस्ते
Page #130
--------------------------------------------------------------------------
________________
जयन्तिका
संतापः । तदलं भाषितेन । निवेदयाम्यहं भवदुदंतमितो महांतमिति वक्तुमारभत । महाभाग ! मंदभागधेयाहं निवेदयामि । शृणु तावत् ।
तदनु स दीर्घसत्रस्तु सौगंधिनीयं यदि नयनपथात्तिरोहिताभविष्यत् ; वात्सल्य तिरेकेण तदा स्वयमेव ज्ञानिनामग्रणीरपि चकित - मतिः प्राकृतजन इव संतप्यमानहृदयः परित्यक्तात्मकर्मा च तदन्वेषणाय प्रत्युटजं पर्यटन्पाथसस्समुद्धृतो मत्स्य इव तरलतरलः कापि क्रीडापरवशा नामवलोक्य निर्मर्यादप्रमोदपरवशः एहि वत्से ! क्व गतासि ? मा तावदेवमेकाकिनी गच्छेत्यादाय शिरस्याघ्राय निजोटजमानीय स्वादुतरफलप्रदानेन स्वयं सौहित्यमेत्य नित्यकर्मणि व्यग्रेोऽवर्तिष्यत । एवमति - क्रांतेषु कतिपयेषु हायनेषु क्रमशः कामं लज्जां च मनसि, प्रह्वत्वं शिरसि नीलिमानं कुटिलगतिं च दृशि, शोणिमानमधरपल्लवे कपोलतले च, काठिन्यमौन्नत्यं चोरसि, तनिमानमवलझे, वैपुल्यं नितंबबिंबे, मार्दवमूरुकांडे, लावण्यं शरीरे, रामणीयकं प्रत्यवयवञ्चोपजनयता इतरजनहृदयेषु दिदृक्षामुत्पादयता सखीमेनामन्यामिव कुर्वता, भूतेनेव तारुण्येन समाक्रांतेयमभवत् ।
100
I
कंदर्पस्तु तिलकोपांतस्पंदमानभ्रमरकां चञ्चलचारुभ्रूलतां अधरारुणपल्लवामवतंसितचूतकलिकां कोमलबाहुविटपां पुष्पवतीमेनां निजसुहृद्वसंतलक्ष्मीसंभृताटवीशंकया प्रविवेश हृदयम् । किं बहुना ! प्रथममेव कांचनकुसुममंजर्या इव रमणीयतरं स्पृहणीयं चास्या रूपम् । तत्रापि तस्यां सौरभश्रीरिव तारुण्यलक्ष्मीरपि प्रादुर्बभूवास्याम् । हंत ! तथा तथा समुदजृंभत दीर्घसत्रस्य स्वांते चिंतासंततिः ; यथा यथा च गात्रे यौवनमस्याः । स तु कुलपतिः नितांतचिताकलुषितस्वांतः क्षणमिव ध्याननिमीलितलोचनः पार्श्ववर्तिनस्तापसानेवमकथयत् । प्राप्ततारुण्येयं वत्सा सौगंधिनी । तदिह स्थितिरस्या न संप्रतिपन्ना । तदिदानीमभिजाताय राजन्यायानन्यसाधारणयशसे निखिलभूमंडलजेत्रे विश्वविश्वंभराधीशनेत्रे
Page #131
--------------------------------------------------------------------------
________________
तृतीयलहरी विधात्रा पात्रीकृताय रूपौदार्यादिसद्गुणानां नेत्रानंदकरगात्राय विचित्रतरचरित्राय विमतकेसरिपुत्राय वरमालिनीप्रीतिपात्राय चारुवक्त्राय दातुमेनामभिलषामि । इति, कुलपतिवचनमवकर्ण्य कुतुकिनस्सर्वेऽपि तापसाः सविनयं कथमियं क्षत्रियपुत्री ? कुत्र समुत्पन्ना कथमिहागता ? कः पिता ? का माता ? सर्वमप्यस्या वृत्तांतं सर्वज्ञेन भवता सविस्तरं वक्तव्यं । श्रोतुकामा वयमिति सप्रश्रयं प्रार्थयामासुः । प्रार्थितस्स कुलपतिः सावधानमवधारयंतु भवंतः कथ्यमानमेतदुदंतमिति वक्तुमारभत ।
-
अस्ति निस्तुला संस्तुतप्रशस्तसमस्त जनस्तूयमानविस्तृतवस्तुस्तोमस्पृहणीयागण्यपण्यश्रेण्यलंकृता कृतामितोन्नततपनीय केतुविशकलिततूलततिधौतवातूलतरलितचीनचेलचयधिक्कृतदुग्धपयोधिवीचिमालायमानपरि भ्रमन्द्रमरनिकरझंकारमुखरितशुभ्रप्रसवप्रकरप्रकटितवनलक्ष्मीहासविकाससर - समहीरुहाभिरामारामराजिम नोहरा हरातिसुकुमारवामशरीर रुचिधौतसुधाधवलितोन्नतोदवसितहसितसित कैलासलावण्यविलासा विलासिनीजनगीय - मानगानालापलास्यहास्यवचनकंदलितानुदिन महोत्सवाडंबरांबरांतरालाभि
101
वलद्बलाहकांतरालविलसदपलपितचपलाविलासकलधौतकलशशतप्रकाशमान मानातिगम्भीरधीरावधीरितमाररूपरामणीयकरसिकनिकरकंदलिता दलिताभियातिततिसमुद्धतशूरवर्गभासुरा सुरातिश्लाघ्यमानविभवा भवानुमोदितविबुधपुरीधाममधुरा मधुरा नाम गरीयसी नगरी ।
तत्र तावन्मुषितकंदर्पदर्पोऽपि स्मरपरवशः परिगृहीतागण्यतारुण्यरमणीयरमणीजनस्सुगंधनो नामासीद्राजा । स नरपतिस्सुमुखोऽपि विमुखो राज्यावने सचिवमस्तकविन्यस्तसमस्तराज्यभारतयेव पूज्यानामपि समुन्नमितोत्तमांगो वनिताततिसंपर्कादिव दूरीकृतत्रपः समुपजनितसत्कर्मविरोधमवरोधमधिगत्य कदाचित्कल्पलतापल्लवकल्पतल्पानल्पाकल्पे चञ्चच्चामीकरविरचितविचित्रपत्रभङ्गतरंगा वर्जितजनांतरंगे पर्यंके निषण्णो निजभुजावे - लितसुन्दरीजनकंधरः पार्श्वोद्धूयमानचामरसमीरपरिनर्त्यमानचिकुरकलापः
Page #132
--------------------------------------------------------------------------
________________
102
जयन्तिका
सुधाधवलिततया प्रसमररुचिरनखरकिरणतया च शारवर्णास्सविभ्रमं सानुनयं सानुरागं च सापांगवीक्षणं च विलासिनीमिर्दीयमानाः नागवल्लीपल्लववीटिकारस्तोकमिव प्रसारितपाणिः परिगृह्य मन्दं चर्वन्सकांचीमणिमालाकलापरणितं समंजीरमंजुलशिंजितं सविभ्रमं ससंगीतं साभिनयं सविस्फारणं सचक्षुरागं सवल्लीभंगुरं नृत्यन्तोनां वारसुन्दरीणां विलोकनेन कदाचिन्मदिरेक्षणागणकटाक्षवीक्षालक्षिततया यमुनानीरपूरजठरवर्तीव मेचककोमलंबलावगुंठित इवांजनलिप्त इव विडंबयन्निव नारायणं कदाचिन्मत्तकाशिनीहासविच्छुरिततया सुरापगापरीवाहपरीत इव कौमुदीजठरप्रविष्ट इव सुधाझरीस्नापित इव धवलतरकाचपंजरांतगत इव कदाचिदनुरागिणीपद्मरागरागराजितया जतुरसस्नापित इव बहिःप्रकटितनिजानुराग इव रक्ताशोकस्तबकांचित इव परिहसन्निवोदयशिखरिशिखरगतं मार्तडमंडलं कदाचिन्मदिरास्वादघूर्णितारुणनयनः स्खलत्पाणिर्मुदंगास्फालनसक्तः कदाचिदक्षक्रीडायां पणीकृतांगनांगसंगसंश्लेषशिथिलांगः अनंगपरतन्त्रः स्वतंत्रो निरंकुशव्यापारदूरीकृतधर्मा ग्राम्यधर्मासक्तः कालमतिवाहयति स्म।
___ एवं स्थिते कदाचिलंबमानमानातीतपिशंगजटाजटिलोत्तमांगोऽधःप्रसमरज्वालामालोऽनल इव कुटिलपिंगलभ्रभ्यां पाटलतरपक्ष्मभ्यां रूक्षेक्षणाभ्यां भयानकः परिधिपरिगताभ्यां युगपदुदिताभ्यामंगारकाभ्यामिव नभोदेशः कक्षतलनिक्षिप्तपवित्रतालपत्रसंभारोंऽसतललंबिततनुतररज्जुनियमितनारिकेलकमंडलुः कृष्णाजिनपरिधानः मौजोमेखलालंकृतावलमः करधृतपलाशदंडः दंडधरभयंकराकारः नाग्नैव प्रकटितात्ममहिमातिशयः महामन्युर्नाम विडंबयन्निव दुर्वाससं तपोधनवटुर्गुरुदक्षिणाभ्यर्थनायाजगाम । आगत्य च नरपतिप्रासादं सद्यस्सरभसं सविनयं च परिजनैः प्रदर्शितमार्गः स महामन्युरवरोधं प्राविशत् । प्रविश्य चागतमात्मानं तृणाय मन्यमानं मानातिरेकात्तमौनं आसवास्वादमदपरिपूर्णिततारकं
Page #133
--------------------------------------------------------------------------
________________
तृतीयलहरी
परितो निषण्णास्सपरिहासं सशिरश्चालनं च समारब्धाक्षक्रीडतया पराजिता मत्तकाशिनोः कराकर्षणेन लज्जिताः कुर्वतं मदिरेक्षणे ! प्रक्षिप शारनिकरम्, शोणाधरे धोरा भव जितासि, अयि कोपने ! कुत्र यासि कोडावसरे किमु विस्मृतस्समयः ? मंदारिके ! संदर्शय तावदिदानीं नैपुण्यमक्षक्रीडायामिति नर्मालापैकतानमलक्ष्योकृतप्रतीक्ष्यं सुगंधनमपश्यत् ।
103
तदानीं तपोधनमेनमवलोक्य तासु नितंबिनोषु सत्रपमुत्थाय स्तोकमपसृतासु सुगंधनः क्रोधाधोनः समुपविशन्नेवारुणतरतोक्ष्णेक्षणः ज्वलनोत्सर्पत्कुटिलधूमलेखाभ्यामिव भंगतरंगित भ्यामतिभीषणस्समुद्वोक्ष्य महामन्युमप्राक्षीत् । कस्त्वं राक्षसरूक्षवेषः ? कथं वा निर्निरोधमवरोधमागतोऽसि ? केन दत्तस्ते प्रासादप्रवेशावकाशः ? पशुकल्पस्त्वमसंस्तुतनरप्रतिगौरवोऽसि । गच्छ यथागतमिति । तदवकर्ण्य च कर्णकर्कशं नरपतिभाषितं द्विगुणितमन्युर्महामन्युः दिधक्षन्निव नराधमं नराधिपममर्षरूक्षाभ्यामक्षिभ्यां किमरे ! वैधेय ! नराधम ! न मन्यसे मां महामन्युम् । धिक्ते वित्तमत्ततां यदुरुदक्षिणार्थमुपागतं मां परिकल्प्य तृणकल्पमनल्पं प्रजल्पसि । किमु जल्पितं मूर्खेण भवता ? भवादृशेषु नराधमेषु राक्षसरूक्षवेष एवाहं । को वा प्रगल्भते मां निवारयितुम् । केन वा दातव्यः प्रासादप्रवेशावकाशो वेति नरपतिपशोस्ते नैव गौरवम् । तदलं मुधा विकत्थनेन । मा संधुक्षय मयि धूमायमानममर्षाशुशुक्षणि । सार्थय वित्तमप्रमत्तो गुरुदक्षिणाप्रदानेनेत्यकथयत् । श्रुत्वा च मुनिवचनं स सुगंधनो दोर्घमुष्णं च निश्वसन्सोल्लुंठनं किमभि हितं क्रोधैकधनेन भवता ? महामन्युरिति स्यान्नाम । न मां किमपि कर्तुमीष्टे भवन्महामन्युता । मुधा विकत्थसे तपोधनोऽहमिति । का नाम गुरुदक्षिणा ? को वा गुरुः ? दक्षिणाभ्यर्थी निरतिशयाशापिशाचावेष्टितहृदयः कथं गुरुर्भवितु मर्हति ? तादृश शापिशाचाक्रांतस्य गुरोरंतेवासी खलु भवान् ? किमर्थं मया देयं मदीयं स्वापतेयं ? गच्छ क्वापि भृत्यभावमवलंब्य तत्कर्मनिर्वहणैकतानो द्रविणं संपाद्य समर्पय गुरुदक्षिणाम्। न ते दास्यामि काकणिका
Page #134
--------------------------------------------------------------------------
________________
जयन्तिका
मपि। न बिभेमि च ते विभोषिकायाः । भवादृशाः पुरा दृष्टा मया धूर्ताः । दण्ड्योऽसि राजविरुद्धभाषी त्वम् । ब्राह्मण्यमनुचिंत्य मया क्षांतमागः । मा तिष्ठ चिरं धुरि । गच्छ रे ! यथागतं तथैवेति प्रत्यवदत् ।
1
निशम्य श्रवणपरुषं नरपतेरुद्धतं भाषितं रोषकषायितलोचनः कंपमानाधरः समुद्धूयमानभुजदंडो धूमायमानकोपपावकदह्यमान इवारुणतरशरोरो विप्रकृतस्सरीसृप इव तारतारनिश्श्वासभयानकस्समुन्नतकंधरासिराजालस्तपोधनस्तर्जनीधूननेन तर्जयन्किमु रे ! नराधम ! न मे सांत्ववचनस्य भाजनमसि । मत्तकाशिनोमंडलकुंडलित चंडजल्पितेन मामप्यभिभवसि । तन्न भवसि । शृणु रे ! मूर्ख ! यासां संपर्काच्छुभोदर्कं कर्मापि न गणयसि तासां विलासिनीनामितः परं संयोग एव ते प्राणवियोगाय कल्पतामिति शप्त्वा सरभसं प्रासादान्निरगच्छत् । तत्क्षणमेव सर्वाश्च कामिन्यः विवर्णवदनाः सावेगं प्रतीहारदेशमुपगम्य हा ! तापसपुंगव ! हता वयं त्रायस्वास्मान् विमोचय वल्लभमेनं शापात्। गृहाण गुरुदक्षिणाम् । भवदीयमेव हि प्राज्यमिदं राज्यम् । न हि किमु दया तवाबलास्वस्मासु निर्गतिकास्स्मः । निरवलंबनास्स्मः हंतेति परिदेवनपरास्तं तपोधनमनवलोक्य निष्फलाभ्यर्थनाः पुनरपि प्रविश्यांतःपुरं विषण्णं चिंता भरावनमितमस्तकं मस्तकतलविन्यस्तहस्तं वल्लभमभितो दीनवदनदर्शितविषादा न्यषीदुः ।
सुगंधनस्तु त्यक्तगंधोऽप्यात्तगंधः चिंतासंतानतांतस्वांतः शिलाविलापनप्रटुविलापाद्धृदयदारांस्तान्दारानवलोक्य दीर्घमुष्णं च निश्वस्य चिरं विचिंत्य चेत्थमकथयत् । अयि ! मदेकजीविताः ! हरिणक्षणाः । अलं विलापेन कालायत्तं हि जगदिदम् । यदेह जगति जनिः तदैव चेतनमनुजायते द्वंद्वपरंपरा । तदेतावंतं कालमनुभूतं हि सुखं, दैवदुर्विपाकादिदानीं दुःखमनुभवितव्यं संवृत्तं । तदहमधुना वैखानसवृत्तिमवलंब्य कांतारहितः कांता - रमभिगमिष्यामि । यतो भवतीनां सान्निध्यं दंडधरसान्निध्यं नेष्यति मां । कामो हि दर्शनलब्धविवेकमपि अंधयति मनुजं सदुपदेशश्रवणावसरे बधिर -
104
Page #135
--------------------------------------------------------------------------
________________
तृतीयलहरी
105
यति। पित्तविकार इव स्मृतिमप्यपवाहयति । तदवश्यं कथमपि परिहरणीयं विषयसान्निध्य इति। एवमभिधाय विसृष्टप्रकृष्टविष्टपसौख्यः प्रतिनिवर्त्य चानुसरतो वधूजनान्सांत्ववचनैस्सुगंधनो विविधतरुबूंदैः परिवृतं धवलप्रसवतारकितं गिरितटनिपतन्निर्झरमुखरितं गहनमवगाह्य समुज्झितभूषः परिगृहीततापसवेषः विसृष्टभाषः क्षितीश इति प्रोत्येव प्रसारितशाखाबाहुभिमहोरुहैवितोर्णानि फलानि भुंजानः कौशेयमृदूनि किसलयान्यधिशयानः मुनितिरस्कृतिकृतानुशयः कालमत्यवाहयत् ।
एवमतिगते काले कदाचिदस्मिन्मधुराधिपे सिष्णासुस्त्रोतोरसितवाचालितदशहरितं सरितं समवतरति तस्य चोर्ध्वदेशात्कलहंसनादसुभगं भूषणरसितमुदचरत् । श्रुत्वा च सरित्सलिलपरीवाहावतीर्णोऽयं मंजुतरं शिंजितं श्रुत्यानंदकरं सविस्मयं तस्यामेव हरिति प्रेरितनयनः कांचन कांचनमालावलीढकंधरां तरंगाहतिशिथिलितविलुलितधम्मिल्लां परीवाहरयाभ्यर्णनीयमानां तपनीयकान्तितनुकांतिकृतस्वर्णोमिमालां सौंदर्यमंदिरशरीरामिंदिरामिव सुन्दरी दूराद्ददर्श । दृष्ट्वा च तरंगपरंपराभिहन्यमानां परोवाहरयवशान्निजोपकंठमागतां तामुद्धृत्य पाणिभ्यां दरीसक्तहृदयोऽपि सुन्दरीसक्तहृदयस्सः नरपतिः करुणया तटीमनोनयत् ।
तदनु स्नातोत्थितो नृपालस्सलिलतिमितचेलतया स्फुटलक्ष्यमाणप्रत्यवयवतया प्रवृद्धकामः जलसिक्तविलुलितकेशपाशावगुंठितललाटतयाधग्रस्तविधुमंडलमिव मुखमंडलमुद्वहन्तीं स्वस्तिकीकृतबाहुलतायुगलपरिपिहितोन्नतपयोधरां तरंगसंपर्कादिव तनुसक्ततरंगायमाणार्द्रवसनामसकृद्धसनांचलपरिपतत्सलिलबिंदुपरंपरापरिषिच्यमानकोमलजंघाकांडामाांशुक - निबिडासक्ततया दर्शनीयसमुन्नतपृथुलनितंबबिंबां लावण्यमयीं सौन्दर्यनिधि तामवलोक्य शंबरारिशरविशीर्णहृदयो विस्मृतमहामन्युशापः तत्तनुस्पर्शादंचितरोमांचजालमपि शीतलसलिलावगाहनिमित्तमिव प्रकटयन्ननुकंपया रिंसया चापृच्छत् । अयि ! सुतनु ! का त्वमिहागत्य सरित्स्रोत
J-14
त
Page #136
--------------------------------------------------------------------------
________________
106
जयन्तिका सश्चेतसि में तरंगयसि प्रमोदोर्मिमालामालापेन शिशिरीकुरु श्रोत्रयुगलम् । किमु पदच्यवनेन पतिता सरिति प्लवमानेहागता सुरसुन्दरी ? आहोस्वित्सलिलक्रीडापरा नागांगना ? किमथवा नूनतया निर्मिता विधिना मदर्थं प्रेषिता रमणीमणिः ? कांतकुंतले ! मत्कुतूहलमपनय सरित्प्लवननिदानकथनेनेति ।
सा तु तदा निर्वर्ण्य स्मरपारवश्यमस्य समंदस्मितं सभ्रस्मरचापचालनमपांगप्रेषितपञ्चशरशरा पराधीनतां द्विगुणयन्ती मारस्य तथ्यमकथयत् । जितमाररूप ! त्वद्रूपपरवशा कुसुमबाणबाणविद्धा स्त्रीविरुद्धाचारा कांचनमालिनी नाम पन्नगांगना रिंसया भवत्पाणिपल्लवस्पर्शनिदानमकरवं प्लवनकर्मेदमिति । निशम्य श्रुतिसुभगं तद्वचनं पञ्चशरनिशितशरजझरितहृदयगलितस्मृतिरिव विस्मृतमुनिशापमहिमा महीपतिस्तपनातपाश्यानितांशुकया शुकवाण्या तया सह सुरतसुखमनुबभूव । तत्क्षणमेव भुजङ्गीसमालिंगनादिव दरणाचिरेण सुगंधनशरोरान्निश्चक्रमुः प्राणसमीरणाः । तदनंतरं कांचनमालिनी निधुवनश्रमादिव निश्चलं शयानं पुनरपि मधुराधरमधुपिपासयेव दरविवृतवदनं पितृपतिदिदृक्षयेव करधृतपयोधरकलधौतकलशयुगलं निधुवनजनितनिदाघजलबिंदुबंधुरनिजकंधराबंधनधुरीणदोर्दड दंडधरभटभीपणशरीरवीक्षणत्रासादिव मुकुलितनयनं वर्षर्तुगगनदेशमिव लंबमानकंधरं चंदनतरुमिव भुजङ्गीसमालिंगितं निजोपरि शयानं प्रमीतमवलोक्य तं भीतभीता श्रमजलकलुषितादवतार्य निजशरीरान्मन्दं वसुंधरातले शोकातिरेकात्साध्वसादचिरप्रसूतं पोतमतं निक्षिप्य रसालतरुमूले निर्दया निर्जगाम निजावासम् ।
___ अथ समिदाहरणाय संचरतः कांतारे धमनाभिधानस्य कस्यचिद्विप्रवरस्य नयनसरणावपतदपत्यमिदम् । सेयं सानुतापं नीता निजनिकेतनमाद्वादशवत्सरं वर्धिता च । हन्त ! जरत्तरे तस्मिन्नस्या दैवदुर्विपाकादिव कालधर्ममधिगतवति बालभावेन कातर्येण च परित्यज्य तं
Page #137
--------------------------------------------------------------------------
________________
तृतीयलहरी
सुदूरं परिधावनपरा निराश्रया कांतारैकशरण्या सरश्वेदमास्माकमाससाद । आसाद्य च सोपानतले निषण्णां विषण्णहृदयामेकाकिनीमेनां बालिकामवलोक्य दयाधीनहृदयोऽहमाहूय निजोटजमनीनयम् । तथाचेदानीमगण्यतारुण्यपण्या प्रमदेयं देया निरंतरोपलालिता तस्मै चारुवक्त्रायेत्यकथयत् । इयं तावदासवस्येव मदजनकस्य कृष्णस्येव समुत्पादितमकरध्वजस्य कृष्णपक्षस्येव जनितमोहांधकारस्य भवदीयोदंतस्य श्रवणात्प्रभृति स्वयमेवोन्मत्तेव किमपि व्याहरंती समारब्धवतेव दूरीकृताहारा बधिरेव शब्दापिताप्यदत्तप्रतिवचना मधुमासकुंदलतापलाशश्रीवि पांडरशरीरा बहुलपक्षक्षपाकरकलेव क्रमक्षीयमाणातिकृशतनुर्मुक्तेव भवद्गुणस्यूतहृदया जगदखिलमपि शून्यमिव मन्यमाना मानातीतचिंता मया समाश्वास्यमाना चाभवत् ।
अद्य तावदनवद्यांगीयं कुरंगीवात्र हृधे शाद्वलतले सुसुखं कालयापनाय मया साकं पर्यटन्ती, “ अयि ! सखि ! कथमिव तत्प्राप्तिः ? कथमपि दर्शनपथमागतोऽपि मुनिजनोचितवेषां मामेनां कथं वांगीकरिष्यति ? कथमिव दर्शनपथसमागमो वा ? यदनवकर्णितमदुदंतस्सः नरपतिमकुटकोटिही रमरीचिनीराजितचरणारविंदः कथं वा मदिदृक्षया समागच्छेत् ? निरंतर श्रमसाध्यकर्मरतानां तापसानामाश्रमवासिनां जठरपतितामेनां मां को वा शंसति तस्मै ? कथं कथमपि श्रुतास्मदुदंतोऽपि चक्रवर्ती गणयति वा मां ? यदहमहमिकया वित्तमत्तमत्तकाशिनीभिस्सादरमाद्रियते। वल्कलधारिण्यै मलिनवेषायै मह्यं अपि नाम स्पृहयति ? स्वप्नस्वापतेयकल्पमिदम् । सङ्कल्पमात्रहृद्यम । वाचा वर्णनमात्रसौहित्यम् । कथं कथमपि बहुधा चिंतितमपि न मे हृदयमधिरोहति तत्संबन्ध - गन्धोऽपि । क्कायमाश्रमः श्रमैकजीविनां ? क्व सा नगरी गरीयसी भोगै कलोलुपानाम् । मेरुसर्षपांतरोऽयं सङ्कल्पः । मुधा मनश्श्रमः । पर्णशालावाससुहिताया मे हृदयालवाले तातेन दीर्घसत्रेण मुधा समारोपितोऽयमाशांकुरः । एवं विदितव्यवहारापि निवर्तयितुं हृदयं तदुदंतान्न
107
Page #138
--------------------------------------------------------------------------
________________
108
जयन्तिका पारयामि । किं करोमि ? कथं जीवामि तमन्तरेति" भवदुदंतगर्भामेव कथां कथयन्ती झडित्यकांडपतितेन कांडेन विदीर्णमर्मदेशा निर्मर्यादां वेदनां निरन्तरमनुभवति इति निवेदयन्ती स्तोकमीलितलोचनामपगतनिश्वासां दरविवृतवदनां निष्पंदगात्रयष्टिं निर्वर्ण्य सौगन्धिनी प्रज्ञासमुत्पादनायेव निरर्गलं निस्सरंतीमिरश्रुधाराभिसिञ्चन्ती तन्मस्तकमस्ततेजस्कवदनं सगद्दं नाथ ! किमिदं ? नैव स्पन्दते सखीयमिति नासातलविनिहितपाणितला हन्त ! गतप्राणैवेति मूर्छिता पपात ।
तत्क्षणमेव निध्यायतश्चोपरतां सौगन्धिनी मूछितां किंजलिका च दुःखमरनिरुद्धकण्ठस्य हा! मद्तजीविते ! मां विहाय क गतासि ? देहि मे प्रतिवचनमियाकंदतश्चारुवक्त्रस्य परिस्फुटितावृदयात्राणा निजप्रेयसोप्राणान्वेषणायेव निर्जग्मुः। तदनु मंद मंदं लब्धसंज्ञा सा तु किंजलिका समुन्मीलितलोचना समुत्थाय क्षितितले शयान। गतप्राणाववलोक्य व्यथयेतिकर्तव्यतामूढा गाढांधकारावृतेवानाथा तिमिराकुलदृष्टिा ! नियते ! किमिदं व्यवसितं ? न ते करुणा। न ते दृष्टिः । हा! सखि ! सौगन्धिनि ! मंदभागधेयां विहाय मामेकाकिनी व गतासि ? हन्त ! महदिदमाश्चर्यम् । सन्निहितं वल्लभमपि नीत्वा त्वया सह गतासि । प्रेयसि प्रेमातिशयः हन्त ! किमिदमुचितं ते मां विहाय गमनं ? हन्तेतितारताररोदनैकताना मन्दमवतार्य च तदुत्तमांगमंकतलात्कम्पमानगात्री शोकातिरेकगलितजंघाबलापि बलान्मन्दमारुह्य सोपानपरंपरां मुनिजनमंडलकुण्डलितं समासोनं च कृष्णाजिनासने सौगन्धिनोगुणगर्मितां वार्तामेव व्याहरन्तं तं दोर्पसत्रं संत्रस्ता चासाद्य चेलांचलपिहितनयनयुगला गलदश्रुधारापरिवाधमानाधरा गद्गदनिरुद्धाक्षरा रोदनमयोव तस्थौ ।
स तु कुलपतिनिश्वासकंपमानहृदयां स्वेदसलिलशीकरद्विगुणिताश्रुजलक्षालितस्तनमंडलां खरतररविकिरणारुणितवदनमंडलां वेपमानां वल्कलांचलपिहितलोचनां नीवं सवल्गितमस्तकं रुदतीं तामवलोक्य वत्से !
Page #139
--------------------------------------------------------------------------
________________
तृतीयलहरी
किमेवं रोदिषि ? किमु संजातं ? न कदाप्यकारणं रोदनमुचितं हि ? तत्क्षिप्रमावेदय । यदि परिहरणीयं परिहरामीत्यप्राक्षोत् । पृष्टा च सा शोकभर परिस्फुटितमतिकर्कशं श्रवणपुटविदारणचटुलं सौगंधिनीनिधनवृत्तमुत्तरयामास । अनुपदमेव श्रोत्रवर्त्मनांतः प्रविष्टाद्भयानकभाषितदंभोलिपातादिव भीतायामंतर्हितायां संज्ञायां स कुलपतिः पपात वसुमत्यां । ससंभ्रमं सावेगं च क्षणादेव पवित्रतालपत्रकृततालवृंतव्यापारैः कमंडलुशीतलोदकैश्च समुपजनयत्सु संज्ञां तापसेषु स मुनिपुंगवो वैखानसावलंबितवेपमानभुजदंड: क्कासि वत्से सौगंधिनि ? मां विहाय गंतुमुचितं किमित्युचैराकंद-मंदमुत्थाय शोकावनमितमस्तकया किंजलिकया प्रदर्श्यमानमार्गः प्रसृमरबाष्पधारासारतया प्रमुषितदृश्यः सलिलप्लावितनयनतया स्थपुटितस्थलेषु स्खलद्भिः विलपितुमप्यशक्तैः व्यथाक्काध्यमानमानसैः वत्से ! सौगंधिनि ! विधिविंहायास्मादृशान्जरत्तरान्स्पृहणीयरूपां तारुण्यदर्शनीयां निखिलजननयनानंदकारिणीं त्वामेवापजहार । कष्टं भोः ! कष्टं हंत ! इति वृद्धभावकम्पमानवचनैः तात! मा रोदी: । स्थपुटितमिदमरण्यक्षितितलं । तत्परिस्खलति पदानि । तन्निवार्यतां नयनवारीति निगदता दुःखभरदम्यमानकण्ठेन तरुणेन वधूजनेन परिगृह्यमाणैः जरत्तापसैः सहुंकारं सबाधं च तत्रात्यानाघ्रायाघ्रायानुसरद्भिः कुरंगमंडलैरनुगम्यमानः अंब ! कुतो रोदिषि ? कुतो वा सर्वेऽप्येते विलपन्तीति पदे पदे पृच्छद्भिः मुनिबालकैः विधिविलसितमिदमिहानिर्वचनीयमिति परस्परं व्याहरद्भिः बलान्निरुद्धबाष्पावेगैः नातिवयोभिः तपोधनैश्च परिवृतो मंदमवरुह्य सोपानपरंपरां नातिदूरे पतितां किमनेन निजवेन शरीरेणेति बहिर्निर्गन्तुमुद्यतानां मदनानलानामूर्ध्वदेशमुद्गच्छद्भिः धूमनिवहैरिव विलुलितैः नीलकुन्तलैः कलुषितमस्तकां स्तोकमिव भ्रुकुटितभ्रूलतां रोषात्तर्जयन्तीमिव मारं, किंचिदिवोन्मीलितकषायितलोचनयुगलं विवृतवदनतया परिम्लानाघरपल्लवं मुखमंडलं अवनितले निपतितं शैवाललेखाकल्माषितं निष्पंदमधुत्रत
109
Page #140
--------------------------------------------------------------------------
________________
110
जयन्तिका
सनाथं विलुलितकिंजल्कं आतपपरिक्लांतं कमलमिवोद्वहन्तीमीदृशानर्थपरंपराणां निदानोभूतस्य मनोभवस्य क्रुधा जिघृक्षयेव हृदयतलविनिहितदक्षिणपाणिमुद्गतमनसिजद्रुमांकुरणेव बाणेन सनाथवामपार्थामधोमुखं निपतितेनोपरतेन चारुवक्त्रेणाविरहितदक्षिणपार्था निदाघदिवसश्रियमिव समुत्पादितसंतापां वनलक्ष्मीमिव कुसुमभूषणां शंकरशिरश्शशिकलामिव तनुतरपांडरतनुमुपरतां तां सौगंधिनोमपश्यत् ।
__ दृष्ट्वा च दुःखभरमंधरः परिपतदश्रुसलिलबिंदुसंदोर्दीपिकास्नेहबिंदुसदृक्षैतुरितधवलतरकूर्चकलापः समासाद्य सौगंधिनीसमोपं कुलपतिरसौ हा ! वत्से ! त्रायस्व मां! समुत्तिष्ठ । निर्गतिकोऽस्मि । निरवलंबनोऽस्मि । विकलकरणोऽस्मि । अपहृतहृदयोऽस्मि । किंकर्तव्यतामूढोऽस्मि । निर्घातजसरीकृतकलेबरोऽस्मि । गाढांधकारजठरप्रविष्टोऽस्मि । दूरोकृतबंधुताबृन्दोऽस्मि। मोहग्राहग्रस्तोऽस्मि । किं करोमीति शवोपरि निपत्य निपत्य पक्ष्मलाक्षि ! निरंतरपरिपतदश्रुतिरस्करिणोतिरस्कृतनयनस्याधन्यस्य पापोयसो में दुर्लभमभवत्तव दर्शनमपि । ननु कलभाषिणि ! कुतो वा न किमपि प्रतिवदसि ? विदितोदंतो नृशंसोऽयमुपालभते मां कृतपरपुरुषव्याहारामिति भिया किमु ? नाहमुपालभं नंदिनि ! नंदय मंदभागधेयं मां मंदमधुरगिरा। हंत! वत्स ! किमु मां न जानासि दीर्घसत्रं वित्रस्तं विहस्तं परिदेवनपरम् ? पश्य प्रार्थयते दीर्घसत्रः । किमर्थ क्रोधः ? किमपराद्धं मंदभाग्यन मया ? भवदाज्ञानुयायो भवदमिलषितं पूरयितुं । निवेदय दयया यदभिमतम् । ननु शिरोषकुसुमसुकुमारं शरोरमिह कर्कशशर्करातिनिशिते भूतले शाययितुं किमुचितम् ? अंब ! त्वयि शयानायां कथं जोवेदयम् । समुन्मोल्य नयनकुवलयमवलोकय मामेकवारं दोनम् । हरिणक्षणे! पश्य तावदितः करकिसलयन विलय भवत्या बालतृणैः परिपोषिता हरिणास्तिष्ठन्ति सवाष्पं । नावलोकयसि वत्से ! भवदर्थ रुदंतं सखोजनं ? पश्य हंत ! भवत्या सादरं करकिसलयविरचितां
Page #141
--------------------------------------------------------------------------
________________
तृतीयलहरी
111
यज्ञवाटप्रांतपत्रभङ्गतरंगितां रंगवल्ली कथमनेन नयनहतकेन द्रक्ष्यामि ? ननु कल्याणि ! पर्णशालोपांतकल्पितायां उपवनवाटिकायां साक्षात्त्वयैव करकमलविरचितालवालारोपिता दूरानीतकलशसलिलसेचनवर्धिता नवमालिका भवदनवलोकनादितः परं म्लाना भवत्यपुष्पवती। हतैकवारमपि तत्कुसुमैर्नालंकृतस्ते धम्मिल्लः । हा! वत्से ! मयि देवतार्चननिग्ते सभक्ति कुसुमान्यर्पयेत्कावांब ! हा! चारुवक्त्र ! सायकमेकं दयया निपातय । ननु सुतनु ! समुन्नमितपरिकरयोर्ध्वमुखबद्धलंबमानायतरमणीयवेण्या कलशसलिलपरिपूरितोपवनपवनकंपितलतालवालतया श्रमसलिललवकलितलपनकमलया वल्कलांचलविचितव्यजनव्यापारया चञ्चलहृदयया भवत्या श्रमापनोदनाय संमेवितमिदानी कथमिव द्रक्ष्यामि नमेरुतरुतलवेदिकाम् ? न हि दया ने ? मदतीः जराजोर्णाः योषितः पश्य । हा ! दैवहतक ! विरक्तस्य जरत्तरम्य मदृशं रत्नं प्रदर्श्य तत्र प्रेम समुत्पाद्य जहिथ । किमिदमुचितं ते ? कुरु तावदिदानीमपि मह्यमुपकृतिम् । मामप्युररीकुरु । तात ! चारुवक्त्र ! धन्योऽसि । यतो भवदर्थ त्यक्तप्राणामनुप्रयातोऽसि। नाहं तथा। गगनं गलितमिव शिरसि। किं करोमोति बहुधा रुदंतं दोघसत्रं समाश्वामयितुमिव कलापिबर्हकलापपरिष्कृताभिः लंबमानगुंजामंजुलाभिः पिंडोकृतपाटलजटाभिः परिमंडितोत्तमांग नीलशिलींध्रनिचिताभिः प्रचलदिन्द्रगोपमालाभिः निबिडप्ररूढाभिः अलंकृतं घनदिवसमिवातपपर्यटनासितं विशंकटसितस्थासकं ललाटफलकं चन्द्रमंडलमभितः परिवृतांबुधरं गगनमिवोद्रहन्तं अनवरतमपि चळमाणतांबूलरसरंजिताभ्यां श्मश्रुकलापाभ्यामटवीपर्यटनखेदानलपतप्ताभ्यां नासारंध्रद्वयान्निसरद्भयां मूर्ताभ्यां निश्वासाभ्यामिव भयानकं लंबमानस्तंबेरमकुंभमौक्तिककृतकुंडलमंडितश्रवणजाहम् चित्रकायचर्मनिर्मितवर्मालंकृतकायं कुमुदकुवलयकमलजालाच्छादितमिव तटाकं पुंडरीकगंडकादिमृगखंडनशौंडचंडतरकांडपरिमंडितोइंडमंडलाकारकोदंडपरिमंडितभुजदंडं वरा
Page #142
--------------------------------------------------------------------------
________________
112
जयन्तिका
टिकाविराजितवैकक्षमालापरिष्कृतवक्षस्थलमरालमरालराजिविराजमान . सानुदेशमिव क्रौंचाचलं सुगंधबंधुरविविधकुसुममालालंकृतवेण्या गुंजन्मंजुगुंजाहारमंजरोरंजितवक्षोजमंडलया मंजोरमंजुलशिंजितसंजितराजहंसतरुणीवाण्या तरुण्या विराजमानं लुब्धकं अपि मार्गणमनोरथपूरणनिपुणं डोलायमानखंजरीटनोडमंजरीमंजुपुंजपिहितया सरण्या पुरोभागे त्वराभरादापतंतं स दोर्पसत्रः किरातराजमपश्यत् ।
दृष्ट्वा च स कुलपतिरुन्मत्त इव तात! कस्त्वं ? नमस्ते विहस्ते मय्यपि शिलीमुखमेकं क्षिप्रं प्राणहरं प्रहिणु। दिष्टया दृष्टोऽसि । कष्टमद्य मे दूरीकुरु दयया शरेण विदार्य वज्रसारकर्कशं हृदयमिति तच्चरणजिघृक्षया क्षिप्रमुत्क्षिप्य बाहुयुगलं रुरोदोचैः। किरातस्तु तापससकाशमासाद्य विलपंतं तं निर्निरोधं परिदेवनपरांस्तत्रत्यांम्तापसगणानवलोक्य समंदस्मितं किमिदमाश्चर्यमर्यमांशुस्तोमप्रकाशमानेष्वाशामंडलेष्वपि अंधकारनिकर इव ज्ञानभास्करभासुरमानसेष्वपि युष्मासु मोहांधकारः ? हंत ! तापापनोदनपटुषु जीमूतेषु परुषतरो भयंकरोऽशनिरिख यदि शांतेषु युष्मास्वपि निर्मर्यादो रोदनध्वनिः, किमु वक्तव्यमस्मादृशेषु मूढात्मकेषु ? तदलं परिदेवनेनेत्यकथयत् । आकर्ण्य च तद्वचनं सर्वेष्वपि तापसेषु "तात ! गतवत्यस्मदानंदग्रन्थौ ईदृशस्य शोकस्याविर्भावः" इति सगद्गदं निगदत्सु स किरातो निधनमनयोरनुचिंत्य परिदेवनमनुचितम् । जगतीह यदा जनिश्चेतनानामनुपतति खलु मरणमपि । किंचेयं सौगंधिनी तु रजोदूषिता चारुवक्त्रध्यानपरवशीकृतमानसा समीपसंचारात्कुपितेन तपश्चरता तापसेन सुजटनाम्ना शप्ता च " यमनुचिंतयन्ती मामेवमपरिशुद्धमकरोः । तेनैव निषूदिता भव" इति । तदनेनेयं निषूदिता श्येनेनेव शारिका तदलमनेन परिदेवनेन । संमृतिविरतानां हरिचरणस्मरणनिरतानां युष्माकमिदमनुचितम् । जगत्यनुभोक्तव्यं खलु कर्मणः फलमवश्यम् । निश्चलचित्तेष्वपि युष्मासु किमिदं मनश्वांचल्यम् ? को वा शक्कोति
Page #143
--------------------------------------------------------------------------
________________
113
तृतीयलहरी भवितव्यतां निवारयितुम् । तद्विवेकसलिलेन संक्षालनोयो ह्येतादृशक्लेशकर्दमः। हृदयालवाले विवर्धनोया च शांतिलतेति बहुधा सांत्वयंस्तांस्तपोधनानुपरतौ तौ सौगंधिनीचारुवक्त्रौ पस्पर्श पाणिभ्यां आशीर्षादापादतलम् । अनुपदमेव तावुभावपि विकसदरुणतरसरसिजकोरकसंकाशं करचरणं चालयन्तौ रसालकिसालयारुणकोमलतरदेही सभ्रभङ्ग तारतारमविरलमुच्चैः रुदन्तावको बभूवतुः ।
क्षणादेवोद्धयमानविमानस्तोमपक्षपुटरभसस्वनैः प्रचलरकेतुपटपटुतरपटात्काररटितैः निबिडतरसुरनिकरपरस्परभुजाभरणनिकषणजनितरणरणरणितैः च मुखरितादंतरिक्षादापततां सौरभकृतघ्राणतर्पणानां पारिजातजातजातरूपमयप्रसूनप्रकराणां परागैः पिंजरितमभवदटवीतटम् । ततश्च तपोधनास्सर्वेऽपि सर्वमप्येतदवलोक्य निरतिशयानंदसलिलक्षालितदुःखकर्दमामलमानसा विस्मयांकुरितरोमांचांचितगात्रास्सांद्रानंदकंदलितनेत्रांबुनिष्यंदाीकृतवल्कलाः कोरकितकरसरोरुहाः कस्त्वं तात ! न हि लुब्धक इव दृश्यसे। यदि लुब्धकः क वा दातृत्वमीदृशानामानंदानाम् । मानुषाकृतिः किमु भाग्यानां समुदयः। किंवान्तस्संतापापहरणनिपुणो नराकृतिः जलधरः १ केयं पुलिंदसुन्दरो ? सुन्दरतरांगलतिकां प्रदर्शय कृपया तथ्यामाकृतिमित्यभ्यर्थयामासुः। तदा स पुलिंदपतिस्तु भोस्तपोधनाः! इयं पुलोमजा। पुलोमजाजानिरहम् । इति निगदन्नेव प्रकाशयामास दिव्यं निजरूपम् । तदानोमेव मरकतमणिश्चन्द्रकस्य पद्मरागरत्नं गुंजाहारस्य तपनीयकिरोट पिशंगजटापिंडस्य होरमणिमयविचित्रचित्रकं ललाटसितस्थासकस्य लावण्यपण्यं मुक्ताफलं कुंडलमंडलस्य नंदनवनहरिचंदनसुममाला वराटवैकक्षहारस्य नेत्रसहस्रं चित्रकायचर्मस्थासकस्य दंभोलिः कोदंडस्य च स्थाने बभूवुरादेशाः। अचिराद्रुचिराभरणभूषिता महणतरदुकूलालंकृता मणिमयकनककुसुमपरिमंडितस्तनमंडला सापि शची चकाशे।
तदनु पाकशासनस्तापसानब्रवीत् । अपत्यार्थ मामुद्दिश्य तपः
J-15
Page #144
--------------------------------------------------------------------------
________________
114
जयन्तिका चरति अरिभीकराधिपः वज्रबाहु म । तस्मै देयश्चारुवक्त्रश्शिशुः । पुलोमजाप्येनां सौगंधिनी अपत्यार्थ व्रतमाचरंत्यै हेमपुराधिपमहिष्यै दास्यति हेमवत्यै । क्रमशश्वानयोः प्रवर्धते तथानुरागः यथा च तारुण्यमित्यभिधाय पाणिकमलाभ्यामादाय च तं शिशुं गृहीतसौगंधिन्या पुलोमजया सममंतरधात् । तदनु चारुवक्त्रान्वेषणाय मार्गवशादागतेभ्यस्तेभ्यो भटेभ्यः किमु दृष्टो भवद्भिर्मगयासक्तोऽस्माकं प्रभुश्वारुवक्त्रनामेति पृच्छद्भयोऽद्भुतमेनमुदन्तं कथयंतस्तापसास्स्नात्वा तटाके सप्रमोदं निजाश्रममयासिषुः । दीर्घसत्रस्तु वरमालिन्यै निवेदयतु भवंतः “मा त्यज प्राणान्पुनरपि भवत्पुत्रं द्रक्ष्यसि मा शुचः" इति भटानादिश्य निजाश्रमपदमाससाद।
इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशाग्द, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, गष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूग्नाल्वडिकृष्णभूपसुवर्णपदक-साहित्यपरिषद्रजतपदकसमलङ्कत–जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां
तृतीयलहरी सम्पूर्णा ॥
Scalpo
Page #145
--------------------------------------------------------------------------
________________
॥ चतुर्थलहरी ॥
तदनु सुरपतिस्त्वंतर्हितगात्र एव गृहीतचारुवक्त्रशिशुश्श्यामसलिलपानादिव नीलाभिस्तमालमालाभिः पूतायास्तव स्वादुतरं नीरपूरं वयमुपस्पृशामश्चरणेनैवेदमागोऽस्माकं मर्षणीयमिति नमस्कुर्वद्भिरिवानीरमवनमितशिरोभिर्वेतसपादपैश्च नीरंधिततीरायाः परिपतत्तटरुहकुसुमनिकररसचन्द्रकमंडलतया तरंगाभिहतविनतशाखाग्रनिपतितकेसरप्रसवप्रकरतया च नवरत्नखचितचूडामणिकुसुमपरिष्कृतक्षोणीवेणीसंदेहमुपजनयंत्यास्सलिलक्रीडावतीर्णशौरितनुकांतिलिप्ताया इव नोलायास्तरंगभ्रूलताचालिततमालपत्रतया शुकनिकरनिशितत्रोटिकोटिपाटिततटगतजंबूफलपटलक्षरत्पाटलरसरक्ततया च कामुकीमिव विडंबयंत्याश्चालितचञ्चलशफरीनयनतया गणिकाया इव पुरुषाहानसंज्ञामाचरंत्या इव विकचकमलपरिसरपरिभ्रमझमरझंकारकैतवेन गायंत्या इव पृथुलकच्छपाक्रांततया मथनकालिकसमुद्रमिवानुकुर्वत्या वानरवनिताया इव संचालितनततटमहोदुंबरतरुशाखाशिखरपातितपक्वफलवला दुर्बलनृपालश्रिय इव महीभृत्स्खलंत्या निजपितृकरलालिततयेव पोषितात्मकालिमश्रियः भीताया इव भ्रमाकुलितायाः प्रतिशिलापटलरंध्रप्रविष्टसलिलपूरतया कलकलरवकैतवेन सशब्दं हसंत्याः इव यमुनायास्तटीमधितिष्ठन्तं मुनिसमुचितवेषं स्थाणुमिवाचलं विटपिनमिव मूलावलंबितस्थितिं तं वज्रबाहुमवाप ।
सतु वज्रबाहुरवकर्योदीर्णकर्णाभ्यणविकीर्णपीयूषशीकरं शिशुरुदितं प्रमोदभरात्क्षिप्रमुत्क्षिप्य पक्ष्मणी दिक्षु विक्षिपन्नक्षियुगलमभकमनवलोक्य विहस्तो मस्तकतलविन्यस्तकुमलितहस्तो नाथ ! निखिलगीर्वाणगणमकुटकोटिघटितप्रत्नरत्नमरीचिराजिनीराजितचरणारविंद ! संक्रंदन ! संक्रामितवंदारुहृदयानंद ! बूंदारकाधीश ! दयया देहि मे दर्शनमिति सहस्राक्षमस्तावीत् । पुरंदरस्तु सस्मितमस्यापत्यप्राप्तिकुतूहलमनुचित्य
115
Page #146
--------------------------------------------------------------------------
________________
जयन्तिका
हंत ! जगति निरपत्यता तावज्जनानां निरतिशयक्लेशजननी । तत्रापि भूवल्लभानां तु हृदयं दहति कुकूलानलवदिति विचितयंस्तस्य नयनयोरतिथीबभूव । वज्रबाहुस्तु पुत्रपरिमंडित करपुंडरीकमाखंडलम वलोक्य विस्मयविस्मृतगात्रस्स्वप्नो नु ? निरंतरकृतनिदिध्यासनतया मतिभ्रमः किं ? अथवा प्रतारणाय यातुधानविरचिता माया ? आहोस्विदनवरतापत्यस्मरणगुणिता रणरणिका ? किमथवा संकल्पमात्रकल्पितं वैकल्यमित्यनेकधा प्रत्यक्षस्थितमपि वितर्कयन्नानंदातिरेकादितिकर्तव्यतामूढः स्तंभीभूतः प्रकटीचकार धरणीधरताम् ।
116
ताक्षं क्षोणीशमवेक्ष्य विलक्षस्सहस्राक्षः करुणया तात ! वज्रबाहो ! वज्रपाणिरहं तव तपसा सुहितो हितचिकीर्षया प्रत्यक्षता मुपगतोऽस्मि । गृहाणैनमर्भकम् । अयं तु धर्मेण धरणिभरणधुरीणो भविष्यति इति वितीर्यान्तरधात् । ततोऽयं नरपतिराजन्मदुर्गतो वित्तमिवातर्कितोपनतमपत्यमादाय निरतिशयानंदसिंधुप रिप्लाव्यमानमानसो मनसातीतभावनागम्भीरवदनारविंदश्शिशुदर्शनकंदलितमहानंदो महिषीमनोविनोद नप्रकारं मनसि भावयन्बंधुजनबृंदसंभ्रमानंदकार्यकलापमनुचितयन्नेवं मां शिशुशयं ससंभ्रममभ्युद्गच्छंति परिजनाः । हंत ! क्क वा कथमुपलब्धोऽयमिति त्वरातिशयात्पृच्छंति बांधवाः । शिशुरत्नादित्सयाहमहमिकया पुरः प्रसारयंत्यवरोधभुजिष्याः बाहुलताः इति भावनातरंगाला वितहृदयस्समासाद्यारिभीकरामनधिगतापत्यतया भृशं दुःखितायै निरंतरमपि पतिध्यानपरायै निजवल्लभानुष्ठीयमानं तपो निरंतरायं सफलयतेति गृहदेवताः प्रार्थयमानायै स्वयमपि चिरात्परिगृहीतव्रतनियमतया कृशांगलतिकायै सततमप्यपत्यवार्तामेव व्याहरत्यै भुजिष्याजनसमाश्वास्यमानायै निरलंकारायै निजमहिध्यै रत्नचूडायै स्पृहणीयदर्शनं तमर्भकं समर्पयामास ।
सा तु रत्नचूडा विस्तृतायतनयनकुवलया पीयूषहद तरंग परंपराभिहन्यमानेव गगनतलांतरालप्लाव्यमानहृदयेव घनसारघनधूल्यंतरप्रविष्टेव
Page #147
--------------------------------------------------------------------------
________________
117
चतुर्थलहरी सुतदर्शनमात्रेणेतिकर्तव्यतामूढा दिग्भ्रांतिस्तंभीभूता किमिदं ? कोऽयं ? काही किमेतत्? अपि नाम सत्यम् ? किमथवा मतिभ्रांतिः? मंदभाग्यायाः मे भवेदपिनामेदृशी संपत् ? न खलु प्रत्येमि । अथवा को वा जानाति मानवानां भाग्योदयावसरम् । अपि नाम देवताप्रसादपात्रमस्मि ? वेति डोलायमानमानसा निजकरतले शयानमावर्तमनोहरैर्ललाटतटश्रवणमूललंबमानैः कोमलैः केशपल्लवकलापैः दर्शनीयोत्तमागं चक्रवातपरिघूर्णितैनवजलधरशकलैरिव घनदिवसं ईषदृश्यमानकलंकलेखांकिताष्टमीशशांकानुकारिसूक्ष्मतरभूलेखासमलंकृतं ललाटफलकमुद्रहंतं ऊर्णासनाथभ्रमध्यं राज्यलक्ष्मीलीलाकमलाभ्यामिवाश्रवणमूलविवरप्रसृमरलावण्यपूरकुल्याभ्यामिव मुखलावण्यसलिलचलाचलशफराभ्यामिव च लोचनाभ्यामुपशोभमानं विकचकोकनदसच्छायाभ्यां श्रवणजाहाभ्यां मनोहरं ललाटौन्नत्यश्रीविजिगीषयेव समुन्नतघोणं लाक्षारसपाटलाभ्यां समुद्यदिंदुमंडलानुकारिभ्यां भुजशिखरभविष्यद्राज्यलक्ष्मीवदनकमलावलोकनायेव विधिविरचितपद्मरागमुकुरमंडलाभ्यामिव कोमलाभ्यां कपोलाभ्यां विराजमानमरुणतराधरपल्लवमरुणारुणशरीरतया संध्यारागविरचितमिवाचिरारूढतुहिनकिरणकलाकलापकल्पितमिव जतुरसस्नापितमिव माणिक्यमंदिराभ्यंतरगतमिव किंशुककुसुमनिकरनिरंतरनिचितमिव कुंकुमकर्दमचर्चितमिव रुधिरच्छटामुद्रमंतमिव धातुधूलिपटलविलुठितमिव पारावारतीरमिव विद्रुमलतारुणं जरत्तापसमिवायतकूर्च स्पंदनमिव परिस्फुरचक्रचरणं उपरक्तसुधांशुमिव केतुसमाक्रांतपादं दिवाकरमिव करप्रकाशितपनं पोतमप्यानंदसिंधौ मजयंतं तमभकमद्राक्षीत् ।
तत्क्षणमेवांतःपूर्णतया हृदयावहिनिस्सरंती प्रीतिरसच्छटेव निस्सरति स्म तस्याः पयोधराभ्यां पयोधारा। तदनु सा रत्नचूडा व्रीडाभरारुणितमुखीदंप्रथमसुतस्पर्शशर्मोद्गतस्वेदकणिकाप्रकरतारकितावयवा दृश्यमानकतिपयोडुमंडलांचिता प्रतीची हरिदिव संध्यारागेणोपांतप्रदेशं तेन सुतेनोत्संग
Page #148
--------------------------------------------------------------------------
________________
जयन्तिका
देशमलंचकार । तदनु दुंदुभिगभीरघनध्वानदंतुरिततया मंगलकाला - गरुधूपधूमवितानिततया च घनदिवसशंकया संमदविततीकृतबई कलापैरारब्धतांडवैरुदग्रग्रीवैरगारनीलग्रीवमिथुनैः परिवृतं सुतदिदृक्षया ससंभ्रमं गतागतललनाजनचञ्चलमंजुमंजीर शिंजितश्रवणेन भवनदीर्घिकाभ्यस्समागतान्गमनार्गलीभूतान्राजहंसान्सभ्रुकुटि चरणकमलेनैवोत्सारयंतीभिः परस्पर भाषमाणार्भकला भोदं ताभिस्ससंभ्रममभिपतद्भुजिष्याजनभुजसंघर्षणपीडितबाहुलताभिः पुरंध्रीभिनींरंश्रितं सप्रमोदं परस्परमर्भकादित्सया प्रसार्यमाणपाणीनां धात्रीणां करवलयावलिरणितैश्चापूरितमभवदवरोधभवनम् ।
118
-
अथैकादशदिवसे स तु वज्रबाहुः राकामिव द्विजराजमंडलमंडितां रमणीवेणीमिव प्रसूनमालापरिष्कृतां वेश्यामिवानेकपुरुषाक्रांतां पञ्चशरशरपीडितामिव शीतलपटीरसलिलसिक्तां शंकरशरीरश्रियमिव स्फटिकभित्तिधवलां कारयित्वा सभां पुरस्कृतपुरोहितो द्वितीयाद्वितीयश्चामीकरविष्टरे समुपविष्टो यथाविधि तस्य पुत्रस्य जीवसेन इति नाम चक्रे । ततश्चोत्सवसमयेषु गतेषु कतिपयदिवसेषु स शिशुरुत्तानशयः कथंचिदवाङ्मुखो भूत्वा धवलतरकौशेयकंचुकपरिष्कृतारुणमृदुलशरीरो धात्रीजनैः खेलयितुमनतिदूरे विनिहितं मुक्ताहारं मन्दं मन्दं कथंकथमप्युपसरन्मृणालमिव राजहंसो लोहिततुंडेन गृहीत्वा तत्रत्यानानंदयामास । ततश्चांतरांतरा निबद्धकनकमय किंकिणीगणरमणीयेन विद्रुममणिमयेन दाना परिमंडिततुंदिभनितंबतटस्स जीवसेनः कंठे डोलायमानं मौक्तिकमालाकलापं लालाजलैर्निजशरीरधारणयोग्यतामुत्पादयितुमिव क्षालयन्निजहाटकतुलाकोटिनादं निशम्य स्तोकमिव विवलितकंधरः पश्चादवलोकयन्जानुकरकमलसाह्यश्चचार कुट्टिमतलेषु । तथैव तत्र तत्र संचरन्पवमान इव प्रकंपितशिरोभिः कंचुकिभिरसकृच्चुम्बितः तेषां करेभ्यश्च्यवमानो मृदुलतरं कलखरमर्थविकलं लालाजलकलितं स्वैरनिर्गतमस्फुटमनुलपन्वर्णबृन्दं तत्र तत्र भित्तितलप्रत्युप्तमत्यायतममलमवलंब्य मुकुरं मंदमुत्थाय च निजप्रति -
Page #149
--------------------------------------------------------------------------
________________
चतुर्थलहरी
119 बिंबमवलोक्य परोऽयं मत्सदृश इति मात्सर्यादिव सहुंकारमूष्ममालिन्येन तिरस्कृत्य च करकमलताडनेन शैशव एव प्रकाशयन्निव क्षात्रवृत्ति मृगमदतिलकशंकामुपजनयंत्या लंबमानया कोमलनीलरुचिरुचिरचिकुरलेखया दर्शनीयललाटः सहासं प्रधाव्य च मुकुरागाराभ्यंतरं प्रतिमुकुरं प्रतिबिंबितबिंबतया भगवतो विश्वरूपं विडंबयन्निव परिगृहीतानेकशरीरस्वात्मजिघृक्षया ससंभ्रममनुधावतो धात्रीजनानायासयंस्तंभयंश्च प्रार्थितस्तैस्सहासं तत्करांगुलिमवलंब्य व्यत्ययविनिहितचरणपल्लवो मन्दमन्दमस्पंदत।
एवं क्रमेण स्वयमेव प्रचलन्बालकस्सवल्गितं समंदहासं समधुरालापं सशिरश्चालनं च आत्मानमादातुकामस्य परिजनस्य सकाशमासाद्य प्रतार्य च तं जनं सरभसमितरकरमुत्प्लवमानो विघटयन्परिजनानां तत्तत्काईंकतानतां क्रीडामयमिवानंदमयमिवौत्सुक्यमयमिवोत्साहमयमिव प्रासादमापादयामास । कदाचिदंसतललंबमानकबरीको लंबितडोलायमानचूडामणिरमणीयललाटशिखरो मृदुलतरकुंतलावलिः मृगमदतिलकविलसदलिकफलको ममृणांजनकालितलोचनपुंडरीको मुग्धकस्तूरिकास्थासकमंजुलकोमलकपोलफलको नीलतरमृदुलमसृणांशुकविशेषवारवाणस्थगितसुकुमारशरीरः प्रेखोलत्पृथुलमुक्ताफलकलापकलितविशालवक्षस्थलो होरप्रचुरांगदमंडितबाहुदंडोऽतिमांसलमणिबन्धतया वलितरंगशंकामुपजनयद्भिः प्रत्युप्तैरिव तनुतरैः कनकवलयैरलंकृतकरकमलो मांसलतया लावण्यतरंगैरिव मनोहरवलिरेखातरंगैः कमनीयोरुयुगलो मंजीरमंजुलचरणकिसलस्स जीवसेनः प्रविशन्समां मन्दं मन्दमायातश्च केसरिकिशोर इव समायाति नरपतितनयः पश्यपश्येति प्रदेशिन्या परस्परं प्रदर्शयद्भिः दूरस्थितैस्ससंभ्रम समुन्नमितशिरोभिः विततपक्ष्मपुटैस्सभास्तारैरवलोक्यमानः पीयमान इव नेत्रपुटाभ्यां सामंतनरपतिभिराजिघृक्षया पुरः प्रसारितेषु प्रवेष्टेषु सशिरश्वालनं सत्वरमुपसृत्य पितुरंतिकमुत्संगतलमलंचकार ।
एवं क्रमेणातिक्रांते च सकलजनमनोनयनानंदवितरणनिपुणे बाल्ये
Page #150
--------------------------------------------------------------------------
________________
120
जयन्तिका
विरचय्य च यथाविधि नृपालस्तस्य चौलोपनयनादि कर्म विद्यापरिग्रहाय सद्गुरुसादकरोदेनं जीवसेनम् । अथ सरस्वती मात्सर्यादिव राज्यलक्ष्मीप्रवेशात्प्रागेवेतरदुर्लभमस्य हृदयमाविशत् । जीवसेनस्तु गुरुमुखादधिगतसकलानवद्यविद्यस्समासाद्य च गुरोरनुमत्या पितरं क्रमशः प्रवाह इव वर्षेण वैश्वानर इवाज्येन जलनिधिरिव सुधांशुना यौवनेन ववृधे । एवं प्रवर्धमानस्तु स जीवसेनः पुरुषोत्तममनुकुर्वन्सुलक्षणैस्तिरस्कुर्वनपेण शंबरारातिं गजरथतुरगपदातिपरिगतः पितुरनुमत्या प्रस्थितश्च दिग्विजयाय क्रमशस्तत्रतत्र समुन्नतान्नमयन्नतानुन्नमयंश्च पटुतरेंद्रियग्राम इव गृहीत - सकलविषयः निखातविजयवैजयंती प्रकटितारिभीकराधिपप्रतापः निजसिता - तपत्रप्रच्छायप्रतिष्ठापितजय लक्ष्मीविलासः समुद्यदातोद्यध्वानशब्दापितदशहरिदंतरालः सप्रमोदमासाद्य निरतिशयोत्सव मयीमरिभीकरां शुभे दिवसे शुभं - युमुहूर्ते पूतपाथोधिधुनीधौतोदकैस्सितदूर्वासितकुसुमप्रवालफलमणिरमणीयगर्भैस्तापसजनसमानीतैरभिषिक्तश्च यशसेव धवलतरेण कौशेयेन परिवेष्टितविग्रहश्शरदंबुदबृंदेन परिगतो रत्नसानुरिव सद्य एवोद्यदनवद्यहृद्यवाद्यनाद इव नाकाभोगं नाकाधिपनीकाशः काशकुसुमसंकाशधवलचामरपरिष्कृतोभयपार्श्वस्तिमासनमारुरोह ।
अधिरुह्य च दीप्रमणिमयमकुटमंडितमौलिस्सकलनृपालमौलिमालालालितपादपीठो हरिश्चन्द्र इव सत्यात्तीकृतराज्यश्रीको दाशरथिरिव गुरुजनाज्ञानिर्वहणनिपुणः पांडुवि धर्मभीमार्जुनादिकर्मावलोकनानंदितः नारायण इव सुदर्शनसाह्यनिहतक्रूरपरलोकोऽवनीसमवनसव नदीक्षितो दिक्कुंजर इव दानसलिलसिक्तकराग्रः समुदग्रसौंदर्यसमग्रविग्रहो रराज स राजा । इतस्तावद्धेमपुरे सापि हेमवती निरंतरमपत्यलाभाय कठोरतरव्रतमाचरंती बहुधा द्रविणार्पणेन संतोष्य दैवज्ञानपत्यप्राप्तिविषये पृच्छन्ती कृच्छ्रसाध्यमपि तैरभिहितं कर्म सादरं विदधती द्वन्द्वपरंपरां तृणाय मन्यमाना दूरीकृतमाना पावनपुराणेतिहासादिसत्कथाश्रवणनिरता निराहारा
Page #151
--------------------------------------------------------------------------
________________
चतुर्थलहरी
तत्तत्कालोचितपरिजनपरिवृतापि भुजिष्येव स्वयमेव कर्मकलापं कुर्वती भूदेवबृन्दचरणसेवाहेवाका नानाविधदानानंदितदीनजना भगवन्नारायणचरणस्मरणपरायणा कृततीव्रतरव्रततया परिश्रांता च स्थंडिलशायिनी निशीथिन्यां विस्मृतगात्री क्षणमिव निद्रासुखमनुबभूव ।
121
तदनु प्राभातिकमंगलवादित्रध्वानप्रतिबोधितां हर्षभरप्रफुल्लनेत्रकमलां त्रपावनतमुखीं नवीकृतामिव दूरीकृतालस्यां निजवल्लभां तामवलोक्य प्रतिदिनमिवागतस्सौखशायनिकस्सत्यकीर्तिः परिजनानीतमासनमपि दूरीकृत्य प्रत्युतुमुद्यतां प्रियां निवारयंस्तत्पार्श्व एव क्षितितले निषण्णस्सस्मितमपृच्छत् । ननु सुमुखि ! प्राभातिकं कमलमिव ते मुखकमलमिदं प्रफुलं पिशुनयति शुभोदर्कम् । कठोरं व्रतमाचरंत्या अपि तेनैवाद्य पश्यामि ग्लानिमंगेषु । अपिनाम प्रसन्ना गृहदेवता ? विलसति चांकुरितमंदस्मितमधुराधरं वक्त्रं कमपि हर्षोदन्तं गदितुमुद्युक्तमिव । निवेदय तावदपिनाम प्रसन्ना ते देवतेति । पृष्टा च सा हेमवती मंदाक्षमंदाक्षरा क्षरदमृतधारासारसारां गिरमेव मुदगिरत् ।
नाथ । किमिति ब्रवीमि ? कथं कथयेयं ? रोमांचयति गात्रं स्मरणमात्रेण । चिरविरचितव्रतजनितश्रमपरवशावयवतया स्थंडिलशायिनी संवेशवशा प्रत्युषसि स्वप्ने शरत्समयविशदेऽप्याकाशे काशकुसुमसंकाशवितत विशकलितावदातपयोदाभ्यंतरात्कामपि तरलतारतारां कनकच्छेदकांतिमाविर्भूतां विद्युतमपश्यम् । सविस्मयं तामेवावलोकयंत्यां मयि शुभ्रा भ्रशकलद्वयं कलहंसमिथुनतां प्रपन्नम् । तदुपरि सा तु विद्युदुद्योतमाना अमानुषतरुणीरूपेण परिणता दधाना च पाणिपल्लवे जातरूपमयपारिजातप्रसूनमालां शरदंबुदविशददुकूलपरिमंडिता गगनतलादवतीर्य च मदुपकण्ठं समंदस्मितं गृहाण वत्से ! मत्सेवैकताने ! मालामिमामिति विन्यस्य तां पारिजातस्रजं मत्पाणितले क्षणादंतरधात् ।
हस्तगता तु सा सुममाला स्पृहणीयरूपस्त्रीशिशुरभवत् । अहं
J-16
Page #152
--------------------------------------------------------------------------
________________
122
जयन्तिका पुनस्सविस्मयं सादरमवलोक्य शिशुरत्नं किमिदमद्भुतमिति हर्षभरादुन्मोलितलोचना प्रबुद्धा च शिशुरिक्तहस्तं निर्वर्ण्य वर्णनातीतदुःखभरदंदह्यमानहृदयापि प्राभातिकमंगलातोद्यध्वानेन मंगलतरस्वप्नवृत्तभावनया च समाश्वासिता शुभोद निहितदृष्टिः प्रहृष्टास्मीति । एतदवकर्ण्य प्रमोदपरवशे तस्मिन्सत्यकोौ ननु कल्याणि ! उषःकालिकस्वप्नोऽयं भाविशुभाशंसी। तत्रापि व्रतनिष्ठायास्ते समुपनतोऽयं तावदोदृशस्स्वप्नः । श्रद्धया विरचितं व्रतं तावन्न कदापि भविष्यति निष्फलम् । दिष्ट्या वर्धसे । हंत ! ते प्रसन्ना देवता। व्रतमपि प्राप सफलतां भविष्यस्यचिरादेवापत्यपूर्णोत्संगा। भविष्यति चास्मत्कुलमुद्भुतम् । अस्मत्पितरश्च वंशकरोरदर्शनेन प्रहृष्टा नर्तिष्यन्ति। किंबहुना ! धन्या वयमधिगतनिरतिशयभाग्या वयमिति व्याहरति, ससंभ्रममुपेत्य देवतागारद्वारपालकः प्रणिपत्य सप्रश्रयं देव ! देवतागाराभ्यंतरे शिशुरोदनध्वनिरिख श्रूयते । महदिदमाश्चर्य न केनाप्युद्घाटितं कवाटम् । नाप्यंतः प्रविष्टं केनापि । एतदवकर्ण्य देवः प्रमाणमिति निवेद्य विरराम।
निशम्य च तदुदन्तं प्रमोदपारावारतरंगपरिप्लाव्यमानांतरंगावप्यपिनाम सत्यम् विस्मयावहोऽयमुदन्तः । अपिनाम शिशुरोदनं तत् ? कथमनुद्घाटितकवाटे देवागारे तावदंतः प्रवेशः ? न किमु निद्रितो भवानिति बहुधा हर्षातिरेकात्परिपृच्छन्तौ पुलककवचितगात्रौ समुत्थाय कृतस्नानौ मंगलालंकारालंकृतौ शिशुदर्शनकुतूहलाक्रांतस्वान्तौ काांतिकनिर्दिष्टशुभंयुमुहूर्तमनुपालयन्तौ कथमिदमद्भुतं संवृत्तम् ? केन तत्र विनिहितः शिशुः ? कथं वर्तेत ? कदा द्रक्ष्यामः ? इति परस्परं संलपन्तौ तावुभावपि जायापतो प्राप्ते च काान्तिकनिर्दिष्टे शुभे मुहूर्ते मंगलवादित्ररसितमुखरितं प्रविश्य देवतामंदिरं हय्यंगवीनप्रज्वालितदीपपल्लवविलसच्छातकुंभस्तंभभासुरोभयपार्थायां परिमलकृतघ्राणतर्पणमनोहरधूपधूमलतावितानितायां कनकशृङ्खलानियमितायामनल्पकल्पलताप्रसवमालापरिष्कृ
Page #153
--------------------------------------------------------------------------
________________
चतुर्थलहरी
123
तायां नवरत्नमयडोलायां शायितं शिशु सुरतरुपल्लवराशिमिवारुणतरशरोरं रुदंतमपश्यताम् ।
___ तदानीं तत्र समुदचरदशरीरिणी वाणी। वत्से ! हेमवति ! संतुष्टया मयानुगृहीतासि । गृहाण प्रदत्तमिदं स्त्रोशिशुरत्नं चिरत्नव्रतोपार्जितमिति । सविस्मयं तदवकर्ण्य हेमवतो हर्षभरप्रफुलनयनेन्दोवरा प्रणिपत्य देवतां तदादाय कुसुमसुकुमारमपत्यं पत्यनुमत्या निजांतःपुरं प्राविशत् । प्रविश्य च तस्यां हेमवत्यां शशोदरमृदुलतल्पसुकुमारे पर्यंके निषण्णायां प्रमदभरितप्रमदाजनैः कैश्चिदारब्धवीणास्वरसंयोजितालापतया स्वजातीय-स्वरशङ्कयोपवन-रसाल-किसलयस्थगितकोकिलालापैरतिसुभगोदानादित्सया समायातस्य तत्र मदिरास्वादमदपूर्णिततारकाणां वाररमणोनां रमणीयतरं नर्तनमवलोक्य श्लाघमानस्य भूसुरनिकरस्य साधुवादै मुखरितो दोयतामौर्णमंशुकं द्विजराजाय । पत्रोर्णममुष्मै । सुवर्णभूषणमस्मै। कनकचषकस्तस्मै । विनिहितमिह परिमलबहुलकुसुमसंभारभरितकनकभाजनमत्र। मलयजरससौरभसमाकृष्टषट्चरणगणझंकृतिशब्दापितं कलधौतभाजनमिह । वित्तराशिरत्र । इदंप्रथमप्रसूतवत्सानामुदीर्णसुवर्णाभरणमंडितानां गवां कुलमित्यनुलपतां प्रयोजकजनानामादेशवचनैरतिमनोहरस्तत्रतत्र लब्धद्रविणानां द्विजानां वत्से ! चिरं जीवेति व्याहरतां चाशीवचनैर्मुखरितो विविधमंगलवादित्रगभीरध्वानपरिगुंभितो निरंतरोत्सवमयः प्राकाशत स तु प्रासादः।
ततश्च स सत्यकोतिरेकादशे दिवसे तस्या बालिकायाः जयन्तिकेति नाम चक्रे । क्रमशः प्रवर्धमाना सा तु जयन्तिका वादिने चित्रे भरतशास्त्रे स्त्रीपुरुषलक्षणपरीक्षायां सीवनकर्मण्यशेषभाषासु नानावषेषु नूतनाख्यायिकादिकथानिर्माणे नालापे वीणावेण्वादिवाद्यकलापवादने गाने विचित्रपत्रभङ्गकर्मणि प्राणिशास्त्रे प्लवने लंघने विचित्रविविधक्रीडासु गम्भोरतरपरिहासे पुत्रिकानिर्माणे चित्रकर्मणि काव्यपठने सरसोपन्यासे
Page #154
--------------------------------------------------------------------------
________________
124
जयन्तिका
राजनीतौ कटुजनहृदयावर्जनभाषणे विविधविद्यासु परं कौशलमवाप । तथाहि कदाचिदेषा गृहीतवेणुवाद्या अनवद्यांगी वादनावसरभ्रुकुटितभ्रूयुगलतया स्थपुटितकस्तूरिकास्थासका प्रतिबिंबिताधरतया संजातकिसलयमिव तन्वती कनककेतकीकुसुमकोशनीकाशशालिप्रकोष्ठदेशा प्रतिबिंबितकोमलकरदलतया पल्लवितमिव निस्सरद्रागवैचित्र्यमिव च वेणुमाकलयन्तो कदाचिद्वीणावादनेन सरस्वत्या अपि त्रपामुपजनयन्तो कदाचिदारब्धनृत्या दिदृक्षया समागताभीरं भोर्वशीप्रभृतिभिरप्सरस्संहतिभिस्संश्लाघ्यमाना भरतशास्त्रमेव किमु गृहीतनारीरूपमिति शङ्कामापादयन्तो कदाचिच्चित्रकर्मणि प्रवृत्ता तत्तद्व्यक्तितादात्म्यमुदंचयन्तो कदाचिद्रानैकताना शुष्कमपि तरुं पल्लवयन्ती गंधर्वललनाजनमपि शिक्षयन्ती कदाचित्पत्र - भङ्गरचनाप्रवृत्ता सत्यमिवोपवनं प्रदर्शयन्ती कदाचिद्धर्मोपन्यासेन दुर्जनमपि सज्जनमापादयन्ती कदा चिज्जलकेलिषु शफरीं विडम्बयन्ती कदाचित्काव्यवाचनावसरे गमकधोरणीं प्रदर्शयन्ती कदाचिन्मृदंगास्फालनेन सकलजनहृदयमुल्लासयन्ती सकलविद्यास्वेवं निष्णाता चिरंतनपुण्यविशेषपिशुना सकलानपि जनान्विस्मापयन्ती पित्रोरुदपादयदपारां मुदम् ।
ततश्चाटवीव वसंतश्रिया विभावरीव शरच्चन्द्रचंद्रिकया मालतीलतेव कुसुममंजर्या मधुतिरिव पावकशुद्धया सरसीव सरोरुहवोध्या कादंबिनीव सौदामन्या सुरसरणिरिव तारकापंक्त्या गजवशेव मदजललेखया जयंतिका तारुण्यश्रिया स्पृहणोयतरतामवाप । तदनु निर्वर्ण्य तारुण्यं नपुंसकमितीव कापि लीना बाल्यलोला । तारके चावामिवेयमप्यपांगवशतां नोतेति प्रदर्शयंत्याविव श्रितापांगे बभूवतुः । हृदि विजृंभमाणं मनोभवमिव विडम्बयन्तौ कुशेशयकोकनदस्पर्धिनी वक्षोजाववर्धेताम्| तरुणजनहृदयनिकृन्तनधुरीणं मनसिजचक्रमिव विपुलतरं नितम्बमंडलं रराज । एवं तारुण्यस्पृहणीयलावण्या सा तु हरिणेक्षणा कदाचित्सखीभिरवरोधमसृणतरभित्तितलविलिखितेषु निखिलतरुण भूवल्लभेषु विलोचने विलोभयन्ती
Page #155
--------------------------------------------------------------------------
________________
चतुर्थलहरी
तेष्वेकतमं तेजोविशेषदेदीप्यमानमतिगम्भीर प्रकृतिं सौन्दर्यलक्ष्म्या विहारस्थानं रतिव्यथानिवारणाय शंकर भीतिशंकया नृपालकुमारतामापन्नं शंबरारिमिव राजकुमारमवलोक्य प्रसृमरस्मरवैश्वानरज्वालया भस्मसात्कृतहृदयतयेव गलितत्रपा कोऽयमिति निजहृदयनिर्विशेषां प्रियसखीं मरालसेनामप्राक्षीत् ।
पृष्टा च सा. मरालसेना समवगम्य हृदयमस्याः परिहासाय किमप्यजानन्तीव तमेकमंतरान्यमन्यं नृपकुमारं प्रदर्शयन्ती तस्य तस्य च नामावेदयामास । तदानीं परिकुपितया तया जयंतिकया तं सर्वमपि निराकृत्य मन्युभारान्नरपतिदुहिता भ्रुकुटितभ्रूलता सखीमुपालभमाना मानातिरेकात्सरभसमन्यतो निरगात् ! तादृशीं तामवलोक्य मरालसेना हन्त ! सत्यमेव कुपितेयम् । किं करोमीति सरभसमुपसृत्य सपादपतनं समंदस्मितं सविनयं च क्षंतव्यमागो मदोयमेकवार मिति सविभ्रमं तत्करपल्लवमवलंब्य सानुनयं चित्रोपकंठमानीय वक्तुमारभत । ननु सखि ! यमुद्दिश्य पृच्छसि, निवेदयामि तस्य वैभवम् । शृणु तावत् । अस्ति प्रशस्त - तमारिभीकरा नाम नगरी । तामधिवसति गुणगणमणिरोहणाद्रिर्जीव सेनो नामावनीपतिकुमारः सोऽयमिति न्यवेदयत् ।
125
निशम्य च तदुक्तिं तदासक्तचित्ता जयंतिका संप्रेष्य च सखीजनानितरान्विविक्ते ननु मरालसेने ! भवतीं तावदात्मनिर्विशेषं हृदयमित्यावेदयामि | तद्भवत्या न परिहास्योऽयं जनः । वृषस्यन्तीति न तावदन्यथा कार्यं हृदये । किमिदमेवमिति न ज्ञातव्यम् । ललनाननुगुणं हृदयमिदमिति न चिंतनीयम् । निर्लज्जतां धिगिति नाप्यूहनीयम् । स्त्रीजनप्रतीपेयं प्रवृत्तिरिति न मन्तव्यम् । त्वयि न्यस्तविस्रंभा प्रकाश्यं हृदयमिदं निवेदयामि । तद्दर्शनात्प्रभृति तदायत्तं संवृत्तं चित्तम् । यद्यपि न परीक्षिता तस्य स्थितिः । नाप्यवकर्णितस्तस्य गुणगणः । न चिंतितस्तस्य पराक्रमोऽपि। नाप्यवलोकिता तस्य संपत् । नैव विचारितं तस्याधिपत्यम् ।
Page #156
--------------------------------------------------------------------------
________________
जयन्तिका
न चर्चिते युक्तायुक्ते । हन्त ! न जाने किमर्थमेवं संवृत्तास्मि इति । तद्रूपविलोभिता वा ? किमथवा कामपरवशता वा ? आहोस्वित्तारुण्यकार्यं वा ? किमथवा जन्मांतरसंस्कारविशेषः ? किमिति ब्रवीमि ? कथं कथयामि १ केन प्रकारेण निरूपयामि हृदयवैकल्यम् ? कथं प्रदर्शयामि मनश्शैथिल्यम् ? ननु मरालसेने ! कदापि दृष्टा वा भवत्या मध्येवमधीरता निर्लज्जता विवेकविकलता स्मरपरतन्त्रता योषित्स्वभावप्रतीपता समतिक्रांतमर्यादता ? एवं भवितुं जन्मांतरसंबन्धसंस्कार विशेष एव निदानमिति प्रत्येमि । अत एव अयस्कांतमणिरिव लोहं तद्रूपमाकर्षति मे हृदयम् । स तु दूरे स्थितोऽपि सन्निहित इव प्रतिभाति । असंस्तुतोऽपि संस्तुत इव । अनवलोकितोऽपिं विलोकित इव । तद्भवत्या तथा प्रयति - तव्यं, यथा न भवेन्मम संकल्पः स्वप्नस्वापतेयकल्पः इत्यकथयत् ।
1
श्रुत्वा च तद्वचनं मरालसेना सुचिरं विचिंत्य च ननु सखि ! भवत्यपि एवं भवतीति न चिंतितं मया स्वप्नेऽपि । साधु चिंतितं भवत्या । हृदयानुरूपमभिहितम्। आभिजात्यानुगुणं व्याहृतम् । रूपानुरूपमभिलषितम् । गुणानुगुणं व्यवसितम् । सत्यप्येवं स तु जीवसेनोऽनेककन्यापितृभिर्भूपतिभिरसकृदभ्यर्थितोऽपि पितृभ्यां सानुनयं प्रार्थितोऽपि विवाह - विमुखो निजरूपसंपत्तिमोदृशीं काननचंद्रिकामिव निष्फलीकुरुते । सकलनृपालमंडलमिवेंद्रियग्राममपि स्वायत्तीकृत्य परिपालयति महीमंडलम् । तदिदानीं कथमिव ते संकल्पस्सफलतां व्रजेदिति न जानामीति निवेदयामास । एवं निवेदिता जयंतिका किमिदम् ? किमेवम् ? कुतो वा नियतिरेवमतानीत् ? किमर्थं निरर्थकमाशांकुरमजनयन्मनसि ? अपि नाम सत्यं यदभिहितं मरालसेनया ? यदि सत्यं कथमितः परं प्राणिमि ? क्रीडति खलु विधिरेवंविधचेष्टया । यदि न तत्प्राप्तिश्शून्यमिदं जगत् । किमनेन पितृगृहभवेन वैभवेनेति बहुधा नितांतचितासंतानतंतुस्यूतमानसेव तदेकध्यानशंकुकीलितेव च नाभूदन्यकार्यकलापेषु व्यग्रा । कदाचित्सज्जीकृत
1
126
Page #157
--------------------------------------------------------------------------
________________
चतुर्थलहरी
127 दंतकंकतिकाभिस्सखीभिरभ्यर्थितापि कबरीप्रसाधनाय किमपि विचिंतयंती न हि मयि प्रसन्नो जीवसेन इति सकृदेवोत्तरयंती कदाचिदाहूता च भुजिष्याभिरभिषेकाय अरिभीकराधिपस्मरणमात्रेण धर्मसलिलैरभिषिक्तास्मि। किं पुनरभिषेकवार्तयेति कथयंती कदाचित्क्रियते लाक्षारसैश्चरणकिसलयमस्माभिस्सरागमिति निवेदितापि कृतमेव मनस्सरागमिति निगदंती कदाचिद्धवलीक्रियतां मुक्ताहारेण शरीरमिदमिति मुहुरभ्यर्थितापि प्रथममेव धवलीकृतं हि मुक्ताहारेण शरीरमिदमदयम् । इति व्याहरंती कदाचित्कुसुमैरापीडयामो वयमिति सखीभिरभिहिता कुसुमशरापीडितायां मयि कन्ववकाशः ? इति निगदंती जयंतिका सखोजनानां हृदयेषु महतीं चिंतामुदपादयत् । तस्याश्च नासामणिरपि निरर्गलनिस्सरन्निश्वासपवनचालिता कंपकैतवेन वासनाद्रव्यमस्यास्सकाशं मा समाहरतेति परिजनान्निवारयतीव रराज । मत्वा च मामंगदमनंगोऽयमंगाभ्यर्थनाय वदान्यावासमर्थीव मदाश्रयभूतामिमामुपगत इति शङ्कयेवांगदयुगलं कृशाभ्यामस्या बाहुलताभ्यां सस्रंसे।
क्रमेण सा तु सुभद्रेवार्जुनालिंगितशरीरा बभूव । एवं शंबरारिशरपीडिता सा तु जयंतिका जीवसेनध्यानैकताना कदाचित्तृतीये यामे सखीजनपरिवृता प्रासादोपवनमासाद्य तत्र यंत्रनिकृत्ततया समतामापादितानामंतरांतरा सितहरितपीतासितकुसुमविसरमनोहराभिर्वल्लीभिश्चित्रितानां समास्तीर्णविविधवर्णकुथानामिव समंततस्समुत्कीर्णसलिलबिंदुबूंदबंधुरकाहलीनीकाशजलयंत्रकलितकरतलाभिस्स्फटिकशिलासमुत्कीर्णाभिस्समुन्नताभि - स्सालभंजिकाभिरभिराममध्यदेशानां शादलानामुपकण्ठे कल्पितायां स्फटिकशिलावेदिकायां स्तोकमिव विश्रांतिसुखमनुभूय तत्र पंजरपोषितशुकशारिकाप्रभृतिशकुनिमनोहरालापश्रवणद्विगुणितमीनकेतनपीडा सहसोन्मत्तेव वेदिकायास्समुत्थाय चरणन्यासमात्रेण लगति मालिन्यमिति भीतिमुपजनयतेव निर्मलेन पाटलमृदुलमृत्तिकामयतया समास्तीर्णकाषायांबरशंका
Page #158
--------------------------------------------------------------------------
________________
128
जयन्तिका मुत्पादयता सर्वदिक्षु सुदूरं प्रसृतेन दूरीकृतनिनोन्नतत्वेनानत्यायतेन वर्त्मना संचरमाणा हरिततरकदलीनिलयेषु विविधशकुनिनिकरनीरंधितवेतसावसथेषु परिमलबहुलकुसुमविसरप्रवालमंजुललतागृहेषु च विलोचने विलोभयंती महणतरमेचकशिलाकल्पितैः कतिपयसोपानैर्मनोहरं सुधाधवलितपृथुलस्निग्धनिस्तलस्तंभप्ररोपितेषु विचित्रप्रसूननिचितहरितव्रततिबातेषु निरंतराक्रांतपतत्रिप्रकरकलकलरावसंकुलं वलभितलपरिचलत्कलरवहुंकारमुखरितं गारुत्मतफलकगोपानसीशिखरघटितचामीकरपंजरगतरुचिरकीरमधुरापरिस्फुटव्याहारमनोहरं केकारवस्निग्धकंठनीलकंठमिथुनसनाथप्रतीहारं कलधौतशृङलिकानियंत्रिततपनीयडोलाफलकविलसन्मध्यदेशं प्रत्युप्तमुक्ताफलप्रकरविराजमानमित्तितलं तनुतरचिक्कणानीलशिलाफलककृतकवाटैर्वातायनरुपशोभमानं महिषीजनसमुचितं उपवनश्रीशिरोरत्न भवनमभजत् ।
तत्र तावदसकृत्सानुनयं सखीजनैरभ्यर्थिता बलाद्विभूषिता च जीवसेनमेव मनसि विचिंतयंती तस्मिन्नेव डोलाफलके समुपाविशत् । तदनु रक्तं रविमंडलमनुरक्तं जयंतिकाहृदयमिव चिंतापयोनिधौ न्यमजचरमांबुधौ । अथ पारावतेषु नीरवमाश्रितविटंकेषु कलविकेषु प्रविष्टभित्तिविवरेषु पंजरकीरेषु निद्रालोलुपेषु मयूरेषु समधिगतखावासस्तंभेषु नानाविधेषु शकुनिषु स्वस्खकुलायनिलीनेषु मंदस्पदेषु विटपिषु विरतरावतया जपदिव विरक्तमिव समारूढनिद्रमिव चाभवदुपवनम् ।
अथ क्रमेण कलानिधौ सूत्रधार इव मनोभवविजयनामो नाटकस्स तमोयवनिकामाक्षिपति निजकरैः भृङ्गमृदंगझंकृतिभिश्चकोरीनटीमधुरगानैश्च कुवलयमापूरितमभवत् । वसुमत्यामपि जयंतिकायामिव स्मरानलज्वालया चन्द्रिकया धवलीकृतायां विजृभमाणकुसुमबाणप्रहरणपरितप्यमानमानसा सा तु जयंतिका मनोभवतापग्लपितशरीरतया नियुज्य कैतवेन सखीजनान्कस्मिन्नपि कर्मणि खयमेकाकिनी निर्गत्य तस्मान्नातिदूरे
Page #159
--------------------------------------------------------------------------
________________
चतुर्थलहरी
129 विराजमानं महणतरेंदुकांतशिलाकल्पितकतिपयसोपानपंक्तितया विभावरीकरमरीचिसंपर्कसमुद्गलदमलसलिलधाराभिस्संक्षाल्यमानं सुदूरदृश्यमानाभ्यंतरसन्निवेशतया सुहृदयमिव प्रकटितहृदयमतिस्वच्छतया चतुरश्रतया चोपवनलक्ष्म्यै प्रतिष्ठापितं निर्मलं मुकुरमिव कौमुदीद्विगुणितधवलिमसुधाकरकांतशिलातलसमुद्गलदमलसलिलतया प्रमोदेन समुत्पतद्भिस्सुवर्णेष्टिकाच्छेदसवर्णैः सौदामनीशङ्कामुपजनयद्भिः पीनमीननिचयैरतिरुचिरं क्षरत्सोपानसलिलप्लाविततया दूरीकृतनिद्रैस्समुत्क्षिप्तपक्षतिपिहितत्रोटिकोटिभिस्समंद्रगम्भीरध्वानं सरमसं च समुन्नमितकंधरैस्सलिललंबितप्रवालारुणचरणैस्सोपानतलात्लवमानैर्विकचपुंडरीकमयमिव विरचयद्भिः राजहंसैबिगुणितधवलिमानं सलिलनैर्मल्याकृष्टहृदयेन निजकलंकक्षालनाकांक्षयेव प्रतिबिंबकैतवेन समवतीर्णेन विधुमंडलेन स्पृहणीयदर्शनं जनानां गव्यं पयसि निरादरतां अमराणां त्वमृते निराशतां चकोराणां चंद्रातपे निर्लोलुपतां कोकानां दिवसेऽपि निरुत्सुकतां सदोपजनयन्तं स्फटिकवेदिकासनाथतटदेश कांतिधवलितचतुराशं नैर्मल्यन्यक्कृतशरदाकाशं विडम्बितसितभसितधवलिममहेशं धवलिनां कोशं धौतद्युतिधिकृतदुग्धसरिदीशं सरोवरमवाप ।
अवाप्य च सा जयंतिका स्फटिकवेदिमध्यमध्यासीना वामकरकिसलयतलविनिहितकोमलकपोलफलका किमप्युन्मत्तेव विचिंतयंती मात्सर्यादिव (मरालमिथुनमुपालभमाना तुषारशीतलमंदगन्धवहचालितकुटिलकुंतलावलिर्धवलदुकूलालंकृता सुन्दरांगी वनलक्ष्मीरिव रराज । तदानीमहं तावद्गन्धर्वपतिश्चित्ररथो नाम विमानेन वियति पर्यटन्निषण्णां विषण्णहृदयां तामेकाकिनी हरिणाक्षीमद्राक्षम् । तद्दर्शनमात्रेण कयापि विकृत्या विवेकविकलः कुसुममार्गणमार्गणजझरीकृतहृदयोऽनिर्वचनीयेन मोहेनांधीकृतस्तत्संश्लेषणाय कुतुकी तत्संश्लेषणमंतरा प्राणधारणमशक्यं मन्वानः ज्ञातपूर्वेऽपि तदुदंते स्मरपरतन्त्रतया तत्रैव नियन्त्रितोऽभवम् ।
J-17
Page #160
--------------------------------------------------------------------------
________________
130
जयन्तिका
को वा शक्नोति भवितव्यतां निवारयितुम् ।
अहं तावद्विमानादवरुह्य रिंसया तां कुरंगशाबाक्षीं अक्षीणलावण्यां न्यक्कृतसुरपण्यांगनां सकलतरुणहृदयदरीकेसरिणीमिव प्रविशंती मानसविनिहितजीवसेनां समुत्कीर्णामिव लिखितामिव प्रत्युप्तामिव कीलितामिव निष्पंदांगकां जयंतिकां मन्दं मन्दं समुपसृत्य पश्चादसितायते तस्याः नयने पिधातुकामः प्रसारितवान्पाणियुगलम् । पश्चात्प्रसारितपाणियुगले च मयि तन्मुखाभिमुखं चिंतानिस्तरलस्वांततया साध्वसेन समुत्क्षिप्तेव विधुतेव चालितेव च सरभसं समुत्थाय मामवलोक्य कंपमानहृदया रोषकषायितलोचना भ्रांतचित्ता चक्रवातूलभ्रामितेवास्थिरस्थितिरितिकर्तव्यतामूढा धावितुमप्यस्वाधीनचरणा निरतिशयावेगानिस्सृतवाणी स्तंभितगात्री क्षणमिव तस्थौ । तादृशावस्थां तामवेक्ष्य विलक्षोऽहं ननु पक्ष्मलाक्षि! किमिदमकांडे भीतिः १ कोऽयं संभ्रमः ? कुतो वा आवेगः ? पश्य मां गन्धर्वपति चित्ररथम् । पूरय मे मनोरथम् । दैवयोगादागतोऽस्मि । भवादृशमनुष्याणां मादृशगंधर्वसम्बन्धो दुर्लभः। दिष्टया संघटनमिदम् । भवती तावन्निरतिशयसुकृतवतीति जानामि । यतोऽहं स्वयमागतः । तदिदानी शंबरारिशरविधूर्णितचेतसः भवदधीनस्य पूरय मे मनोरथम् । व्रजतु ते सौन्दर्यमिदं सार्थक्यम् । लावण्यमिदं तारुण्यमिदं सौकुमार्यज्वेदं मास्तु काननचन्द्रिकाकल्पम् । अनल्पाभिलाषकषायितस्वांततया परवशोऽस्मि । दयां कुर्विति सविनयमकथयत् ।
तदा सा स्तोकमिव लस्तसाध्वसा सोल्लुठनं किमिदम् ? महदिदमाश्चर्यम् । मानुषी योषितं मामभिलषसि गंधर्वपतिरपीति । देवविशेषे लब्धजनिरपि स्वाश्रितजनमनोवैक्लब्यनिवारणशक्तोऽपि कृत्याकृत्यविवेकनिधिरपि मनशैथिल्यलब्धविकारः केवलं कामपरतंत्रः मय्यनुरक्तोऽसि । हंत ! किं ब्रवीमि ? तद्विरम । जीवसेनमंतरा नाहमन्यं कटाक्षेणाप्यवलोकयामि । तदितः क्षिप्रमेव प्रस्थितो भवेति सामर्षमब्रवीत् । तदाकर्ण्य
Page #161
--------------------------------------------------------------------------
________________
चतुर्थलहरी
131 दैन्येनाहं तु ननु कल्याणि ! किमिदमेवमभिधीयते ? देवविशेषो मनुष्येषु कृतानुरागो दृष्टपूर्वश्रुतपूर्वश्च । मेनका विश्वामित्रमकामयत । पाकशासनोऽप्यहल्यामूवश्यपि विक्रमम् । किं बहुना ! बहवो देवविशेषा मनुष्येध्वनुरक्ताः । तदलं विचारेणेति यदा तदालिंगनोत्सुकोऽभवं, तदा भीतभीता पवनप्रकंपितकदलीव कंपमाना मानातीतामर्षस्फुरदधरपुटा सा जयंतिका मूर्ख ! तिष्ठ तावडूरे । यदि कदापि जीवसेनमंतरा नान्यं पुरुष मनसापि चिंतयेयम् । नृशंस ! राक्षसी वृत्तिमाश्रित्य विरचितकरालकर्मतया प्राप्तो भव नृशंसतानुरूपामस्रपतामित्युक्त्वा सरमसं तस्मान्निरगात् । तस्याः पातिव्रत्येन भवेयमेवमेवेति निश्चित्य भिया तामनुगतः दैन्येन सांजलिबन्धं ननु महाभागे ! क्षमस्व मदीयमिममपराधम् । धिङ्मम स्मरपारवश्यम् । कृपया शापावधिमनुगृह्य पालय मां इति प्रार्थितवान् ।
___ तदा सा त्वनुकंपया किंचिदिव विचिंय यमनवरतमपि चिंतयामि तेनैव जीवसेनेन निषूदितश्शापान्मुक्तो भविष्यसीत्यभिधाय सरमसं प्रासादं प्राविशत् । शप्तश्च तया संतप्तहृदयः परिगृहीतभयानकयातुधानजन्मा घोरतरे कांतारे पर्यटन्सत्वपिशिताहारः तपस्विजनानां तपो विघटयन्मखप्रियोटजतटविशङ्कटाटवीमेनामगमम् । ततश्चिरं पर्यटता मया तावदाचरिते मखप्रत्यूहे प्रकुपितस्त्वया स मखप्रियो मारयामास माम् । वत्स! जीवसेन ! मम तावन्निशाचरजन्मनो निदानमेतदेव त्रिकालज्ञेन तेन मुनिना मखप्रियेणानुजिघृक्षया भवानेव नियुक्तो मम निशारणाय । ननु सोऽयमसि जीवसेनः। यश्च पञ्चशरशरविशीर्णहृदयया तयानुचिंत्यते । तात! मा भूदियता कालेन येन केनापि सा परिणीता स्यादिति मनसि चिंता । न तावदतीतो महान्कालः । किंतु शापग्रस्तेन मया नीताः षण्मासाः । किञ्च कुत्र वा याति भवंतमंतरान्यत्र तञ्चित्तम् ? निरंतरमपि भवंतमेव चित्रगतं समीक्षमाणा सखीमुखाद्भवदुदंतमेवाकर्णयन्ती भवद्धयानैकाहारा कालमतिवाहयति । तदितो यावदभिलषस्यदर्शनं न तावत्
Page #162
--------------------------------------------------------------------------
________________
जयन्तिका
दृश्यसे केनापि । मदनुग्रहात्तदिदानीं छन्नरूपो निर्निरोधं प्रविश्य तदवरोधं गांधर्वविधिना भवदेकजीवितामुररीकुरु । याहि वत्स ! कल्याणाय । पश्य तावदियमेव सरणिर्हेमपुरस्य । क्षिप्रमेवाप्नुहि । भद्रमस्तु । सुखयात्रा भवतु तवेत्यभिधायांतरधात्स गंधर्वपतिः ।
132
अंतर्हिते च तस्मिन्सत्वरं तया जयंतिकया संयोजयितुमेनं जीवसेनं दूतीव मधुरगम्भीररवा कादंबिनी समाश्लिष्टसौदामनी समंतादाविरासीन्नभोंकणे । जीवसेनस्तु प्रतिदिवसमप्यनवरतमंतराले प्रधावतो रवितुरगस्य दुःखापनिनीषया विधिना वियति निरंतरविरचितदृढतरवितत पृथुलायोमयाट्टमिव तदुपरि परिधावतो रविरथचक्रस्य गभीरघोषशङ्कामुपजनयन्तमिव सस्तनितं तमोमयमिव पांथानां जगत्याश्च हृदयमाकलयन्तं पुष्करमंडलमपि कुवलयमयमिव विरचयन्तं मा भूवनष्टकाष्ठामहिष्योऽपि विशिष्टजनदृष्टिगोचरा इति विधिविरचितगारुत्मत भित्तिवलयमिव लोकालोकशिखरिचरमतटविशंकटांधकारसोदरं पुंजीभूतकल्परात्रिकल्पं तपनातपतापपरिजिहीर्षया तमालपलाशस्त बकस्तोमकल्पितविततकायमानमिवांजनगिरिमिव वियति डयमानं वातविततीकृततूलपुंजमिव मषीकालितं प्रसृमरसौदामनीलताततितया लीलासमुद्धृतपुष्करोत्कीर्णगगनगंगाप्ररूढकनककमलिनीलताकुलितशरीरं दिक्कुंजर निकरमिव विडम्बयन्तं निपतद्विविधोरगतनुलताजालं समुद्गलद्भूमस्तोममलिनमलिनं जनमेजयाध्वरागारमिवानुकुर्वन्तं घटितासितनिबिडतरय वनिकमसकृन्नृत्यन्तीभिस्सौदामनीभिर्लासिकाभिरुपेतं रंगस्थलमिव प्रकटयन्तं पथिकाननिलचालिततपनीयप्रताननीजालावेष्टितस्य सुरतरुनिकरस्य भ्रांतिमुपजनयन्तं सनिर्घोषं प्रचालिताभिः कनकवेत्रलताभिर्दूरमुत्सारयंतमिव पथिकान् त्रिदिवादानीयमानैः परिच्यव - नायाभीक्ष्णं परिलुठद्भिरप्सरोगणैः परिवृतं पौलस्त्यमिव विडम्बयन्तं शश्व - ट्विटपांतर प्रसृमरदवानलज्वालाप्रकरं तमालस्तोममिवानुकुर्वन्तं काश्यपमिव कडुविद्युद्रमणीयं शुनासीरमिवामोद भरितार्जुनायत्तीकृत शिलीमुखं कल्पांत
Page #163
--------------------------------------------------------------------------
________________
चतुर्थलहरी
संध्याकालमिव विजृम्भमाणनीलकंण्ठतांडवं युधिष्ठिरमिव दूरीकृतधार्तराष्ट्रं पुरोधसमिव परिघृतकुशं द्रोणाद्रिमिव मारुतजातानीतं क्रूरसत्वमिव समुपजनितपथिकभीतिं दशरथतनयमिव निरस्तविभीषणसंतापं दंडकारण्यप्रदेशमिव कबंधाक्रांतमपि मनोहरं शंकरमिव धृतविषमपि विकचकेतकीपरागामोदितं संतमिव समाश्रितसत्पथमपि निपातितपरुषतराशनिजनितजनखेदं शंबरजनकमपि शंबरारिजनकं रोदसोरपि निहुतराजहंस जीमूतव्रातमपश्यत् ।
दृष्ट्वा च स जीवसेनो मनोभवभीत इव मुहुर्जलधरस्तनिततर्जितस्तामेव जयंतिकामनुध्यायन्शपापातभीतो गंधर्वपतिवरबलादं तर्हितशरीरो गत्वा च सत्वरं गंधर्वराजनिर्दिष्टया शर्करिलप्राययारण्यानीसरण्या रमण्यालोकनकुतुकाविदितमार्गश्रमो वात्याहतोन्नतमहीरुहपर्णनिचयसीत्कारराव भीषित इव क्वचित्तिष्ठन्पवनोत्थापितानुसृतशुष्कपलाशनुन्न इव कचिद्धा - वन्घनतरघनावलिनिरंतरांधकारमेदुरतरुगहनतया क्वचिन्मन्दं ब्रजन्निरंमद - पिहितनयनतया क्वचिद्दिग्भ्रांतः तिष्ठन्क्रमेण समतिक्रांतसमुच्छ्रितमहीरुहमहीधरधुनीनाकुकुंजपुंजसरश्श्वभ्रशर्करिलसरणिस्समुदग्रशातकुंभकलशशतनि शितशिखरविलेखन विदलितजलधरगलितजलधाराधौतैरत्युन्नततया सभ्रमणं समारब्धकंदुकक्रीडाभिर्वातशकलीकृतस्यायतवातायनविवरादभ्यंतरमायातस्य कंदुकशंकया करकिसलयतलास्फालिततया परिस्फुटितस्यानतिपृथुलस्य वलाहकपिंडस्य सलिलैस्स्नापिताभिः कृततालाट्टहासाभिर्बालिकाभिनींरंभ्रितक्षीमैर्वलभिशिखरतलप्रतिष्ठापिताः विविधवर्णचित्रिताश्च मृण्मयमयूरी स्समुन्नमितोद्दण्डमसृणतरस्निग्धश्यामलकण्ठैर्विस्तृतायतमंजुलचन्द्र कसहस्रैः सतांडवं मुहुरनुसरद्भिर्भवनमयूरैरुपशोभमानैः क्षपाप्रवृत्तविस्रब्धमिथुनकेलिकालालापश्रवणरूढसंस्कारतया प्रभातेऽपि गुरुजनाग्रतस्समारब्धतद्वयाहारतया च समंदाक्षस्मितं सभ्भ्रूभङ्गं च समुपालभमानाभिस्तदुक्तिगोपनकृतयत्नाभिः विलासिनीभिः दीयमाननानाविधरसभरितफला स्वादपरैः कनकपंजरगतैः
133
-
-
Page #164
--------------------------------------------------------------------------
________________
134
जयन्तिका शुकनिकरैः अलंकृतैः अचिरकृतशावकतया तत्र तत्रान्विष्य कृमिकीटकादीन्सरमसं समासाद्य वलमितलार्पिते दर्पणे विलोक्य चात्मप्रतिबिम्बं निजशाबकतोदनाय समापतत्यपरः पारावत इति रुषा निशितवोटिशिखरेणाभिहत्य मुकुरमधः पतद्भिः कपोतेधूसरितैः विशालशालशंकयद्रगोपगणनिचिततया प्रत्युप्तविद्रुममणिमंडिताभिरिव महणमरकतफलकभित्तिभिरुपेतैरभ्यन्तरेषु निवसन्तीनां सुन्दरीणां सौंदर्य दिदृक्षया सस्पृहमसकृदागत्य निर्गतानां सुरसुन्दरीणां चरणन्याससक्ता लक्तकरसरागाभिवि कुट्टिमतलास्तीर्णनवपल्लवाभिश्चन्द्रशालाभिरतिरमणीयैविविधवर्णस्पृहणीयप्रसूनप्रचुरव्रततिततिवितानितप्रतीहारैः प्रसमरपद्मरागप्रभाविच्छुरिततया लंबितारुणांशुकैरिव विततवातायनैरुपेतैर्विपिनैरिव चित्रखगमृगदर्शनीयैः उदधिभिरिवांतर्निहितरत्ननिचयैः विलासिनीसमारब्धमधुरगानतया तिष्ठतेति गच्छतः पथिकान् विलासिनीगानश्रवणाय स्थापयद्भिरिव शतसहस्रसंख्याकैर्भवनै सुरमानायघोषशकामुपजनयद्भिः परिभ्रमद्भमरनिकरझंकारैमुखरितेन कुसुमफलभरितविविधविटपिलताविताननिबिडितेन समारब्धतांडवशिखंडिमंडलमंडितलतामंडपेन विविधविचित्रक्रीडापर्वतशिखरपरिकल्पितकृत्रिमकुल्यानिपत नीकलकलनादमेदुरेण परिमलवहगंधवहमन्दांदोलितमहीरुहाभिरामेण विचित्रयंत्रनालिकासमुत्कीर्यमाणसलिलशीकरकरबितकृत्रिमपल्वलशीतलितेनारामस्तोमेन मनोहरं कुथोपविष्टैर्मृदुलपट्टोपधानतलसाचीकृतचरमांगैरतिस्थूलतया चलितुमप्यनीशैः पिचंडिलैरसितकायैश्रेष्ठिभिरलंकृतमध्यदेशाभिस्तत्र तत्र कृतमौक्तिकराशिभिः कुत्रचित्पौलस्त्यसेनाभिरिव कङ्घरोपशोभमानाभिः कुत्रचिद्राकाभिरिवोदग्रप्रत्याशुभ्रांशुककाशमानाभिर्वारसुन्दरीभिरिवानेक-पुरुषसकाशाकृष्टस्खापतेयाभिरटवीमिरिव कंदमूलफलसनाथाभिरापन्नयौवनाभिरिव पुष्पवतीमिरवरोधश्रीभिरिवानवरतपरिचलद्वामनबधिरपोगंडपंडामिः द्रुपदकृतस्वयंवरमंटपश्रीभिरिव पांचालिकावलोकनानंदितसकलजनहृदयाभिश्शुनासीरशरासनलेखाभिरिव नाना
Page #165
--------------------------------------------------------------------------
________________
चतुर्थलहरी
135
वर्णसमाकुलिताभिर्घनदिवस-लक्ष्मीभिरिवेन्द्रचाप- विविधवर्ण-मंजुलांबराभिः
कुरुसेनाभिरिव पुरस्कृतद्रोणाभिस्सतुलाभिरप्यतुलाभिरुत्सेधविविधधान्यबन्धुरपृथुलभस्त्रिकाभिः कलकलरव बधिरीकृतश्रवणविवराभिर्निषद्याभिः
हृदयंगमं रसवतीभिरपि दूरीकृतधूमगन्धाभिश्श्यामाभिरपि हेमाभाभिस्सकलकलाकलापकोविदाभिः कोकिलालापाभिः कोमलाभिर्मुक्ताभिरिव लावण्यमयीभिस्सौंदर्यन्यक्कृतसुरसुन्दरीभिः सुन्दरीभिरतिसुन्दरं अभ्यंतरस्थितवारतरुणी प्रतिबिंबमंडितमुकुरमंडलाभिमुखविनिहितादर्शपरंपरानीत बाह्यांकणस्थापितदर्पणदृश्यमानतद्रूपैर्विश्रांतिविषयोऽयमागम्यतामवगाह्यतां च निर्वृत्तिपीयूषहद तरंगपरंपरास्खिति पथिकतरुणान्प्रतिकलं कलरवं मुहुरनुलपद्भिर्बाह्यप्रतीहारपंजरकी रैरतिसुभगैः विविधकुसुम कुंकुमपटीरकालागरुधूपकंदलितपरिमलविरचितघ्राणतर्पणैर्गान कलासमाकृष्टसकलसहृदय हृदयैर्वारवनितानिकेतनैरुपशोभमानं कुंजरतुरंगममहोक्षक्रमेलकप्रभृतिभिः प्राणिभिराकृष्यमाणैर्विचित्रस्यन्दनवृन्दैर्निबिडितायताध्वाक्रांतं त्रिविक्रमपदक्रममिव समाक्रांतरोदस्कं सामवेदमिव निखिलनिगमवरं वत्सराजमिव रत्नावलिमनोहरं गंगाजठरमिव विधृतवसुवर्गं स्पृहणीयदर्शनमतिविशालं विदुषामावासस्थानं नानाविधदेवतामंदिरसुन्दरं हेमपुरं प्राविशत् ।
प्रविश्य च विविधद्यगासेचनकविचित्रकलाकलापकमनीयं समुत्मेधं सौधमधिगत्य प्रत्नरत्नप्रचुररुचिरदर्शनीयकुशलकलाविशेषवशीकृत रसिक - मनांस्यनेककक्ष्यांतराण्यतिक्रम्य स तु धराधिपः शोणाधगजनविधीयमानमानातीतनानाविधमधुरकार्यविधानधुरंधर वधूजनबंधुरमवरोधमनधिगतनिरोधो गंधबंधुरसरसिजनीरंधितं सरः कमलिनीग्रहणाय गंधसिंधुर इव प्रविश्य रमणीमणिपरिग्रहणाय प्रत्युप्तविशालमुकुरनिकरपरिष्कृत स्निग्धभित्तिपरिगतं दुग्धाब्धिवीचिविशदकौशेयोल्लोचकल्लोलशिखरफेनायमान
पृथुलमुक्ताफलकलापमालमालंबितचीनांशुकधवलितप्रतीहारं मृदुलपट्टोपधा
नसनाथ-विचित्र-कलधौत- विष्टरपरंपरा-मनोहर-मत्यायतमायतनमात्मकांत्या
·
Page #166
--------------------------------------------------------------------------
________________
136
जयन्तिका
प्रकाशयन्ती कनकशालालंबिते सख्या क्षितितलनिषण्णया मरालसेनया स्तोकमिव चाल्यमाने नवरत्नमये डोलाफलके विनिहितकूपरोत्तानितकरकमलशायितोत्तमांगां उपधानोपरि किंचिदिवोदस्य पूर्वकार्य आनितम्बबिम्बं प्रसार्य च वामबाहुलतां शयानां सगर्भकोत्फुल्लधम्मिलमध्यकोलितहीरभासुरपास्तिथ्यां परिधिपरिगतेंदुमंडलमिव विभावरी चिकुरकलापवलाहकतया कनकलतानिमसीमंतसौदामनीरुचिरतया कुटिलभूलतेंद्रचापतया चञ्चललोचनचातकतया च मुखमंडलेन घनदिनगगनमिव विडम्बयन्ती क'रजातिफललवंगपूगसंयोगभोग्यपूगं नागवल्लीपल्लवं साचीकृत्य तालुतले मंदमसकृचर्वन्ती सपरिहासं समंदस्मितं च सखी प्रति किमपि व्याहरंती पीनपयोधरमंडलालंबमानया मुक्ताफलमालया क्रीडाशिखरितलानिपतंत्या तनुस्रोतोधारयेव डोलाफलकतलं धवलयन्ती परिधृतनिजतनुरुचिसच्छायचामोकरमयपत्रभङ्गसुभगमहाधनां भुवनभाग्यानुबुभूषयावतीर्णामिव मनुष्यरूपेण तिलोत्तमां निरंतरसुन्दरीजननिर्माणाभ्यासलब्धवैदग्ध्येन विधात्रा सौन्दर्यराशिभिरेव सृष्टामिव लावण्यमयीं कांतिमयीं मूर्तिमतीमिव राज्यलक्ष्मी किनरेशश्रियमिवालकोद्भासिनी राकाशशांकश्रियमिव मृदुलकरकांतिदूरीकृतसरोरुहरुचिं सरसीमिव पद्मगंधिनी प्रतीहारस्थलोमिव नासामणिरमणीयां जयंतिकामद्राक्षीत् ।।
दृष्ट्वा च मनस्येवमचिंतयत् । अहो ! शतधृतेनिरतिशयकुशलता। मन्ये तावदस्याः प्रत्यवयवरचनायानेकरम्यवस्तुनिर्माणैः प्रतिक्षणमपि शिक्षितो बहोः कालात्ततस्सावधानमधुना सृष्टिविधानधुरीणो विधाता तावदेनामतानोत् इति। तथाहि-प्रथममब्जयोनिस्तिमिरमुदिरादिरचनया निष्णातश्चिकुरकलापमस्याः विरचय्य च चञ्चरीकांश्चूर्णकुंतलालिं कृत्वा च कुवलयखंजनमीननिकरान्नयनयुगलं विधाय च चंपकतिलकुसुमानि नासिकां परिकल्प्य च बिंबफलान्यधरं अभ्यस्य च कुन्दकोरकमौक्तिकानि रदनराजि निर्माय च सुधांशुबिंबसरोरुहनिवहान्वदनं विरचय्य च
Page #167
--------------------------------------------------------------------------
________________
चतुर्थलहरी
137 कंबुगणान्कंधरां सृष्ट्वा च चक्रवाकसमुन्नतकठोरमहीधरजातान्पयोधरयुगलं कृत्वा च वल्लोतल्लजान्बाहुलते विधाय च वियदवलग्नं निर्माय चावर्तसहस्रं नाभिकुहरं समभ्यस्य च सिकताराशिरथांगशतं नितम्बमंडलं परिकल्प्य च स्तंबेरमशुंडादंडकदलीकांडकरभनिकरं चोरुयुगलं कृत्वा च कोमलतरशिरीषकुसुमराशिं शरीरमसृजत् ।
नूनमेनां मनोहरांगी सृजति विधातरि सर्वाश्च गीर्वाणोरगगन्धवांगना नियुक्तास्तदभ्यासपदे । विषमिवेयं मोहमुपजनयति। पित्तमिव उन्मत्तयति । मदिरेव परवशयति तरुणजनहृदयम् । कर्पूर लिखि शोतलयति लोचनयुगलम् । किमियं स्वाप्नसुन्दरी ? कुतस्त्यमीशं सौंदर्यम् ? चतुरेण चतुराननेन कथमिव संकल्पितम् । कति वत्सरान्विचिंतितमस्यास्सृष्टयै ? कुत्र संपादितमोडक्सामग्रीजालम् । अथवा स्यादेवम् । चिरविरचिततपोबलेन ध्यानमात्रेणैव निर्माय सुन्दरीमिमां प्राकाशयन्निजकुशलतां प्रजापतिः। अहो ! मध्यमलोकभागधेयम् ! पुरा कोदृशं कृतं मध्यमलोकेनानेन तपः ? किं वापराद्धं त्रिदशालयेन। हंत ! चतुराननकृपापरीवाहो मनुजनयनपथसंचारिणोमेनामतानीदिति। तदानीं मरालसेनायां निर्वर्ण्य जयंतिकावदनं परिहासाय सस्मितमयि ! पक्ष्मलाक्षि ! परिस्फुरदिव ते वामाक्षि । तज्जानीहि सन्निहितं जोवसेनमिति निगदंत्यां निरंतरमपि हृदयनिहितजीवसेनतया सा तु तन्नामश्रवणमात्रेण केनाप्युस्थापितेव ससंभ्रमं डोलाफलकात्समुत्थाय गलितत्रपा परितो विक्षिप्तनयना तमनवलोक्य निवदेन दोनदीना कोपकषायितेन सबाष्पं चक्षुषा मरालसेनां पिबन्तीवावलोकयन्ती सभ्रमङ्गं समारोपितकोपेव धिगसमीक्ष्यकारिणि ! किमु तव खेलनस्याहमेव भाजनमिति तामुपालभमाना हृदयगतदयितावलोकनायेवावनतमुखी वामकरतलशायितकपोलफलका तस्मिनेव डोलाफलके समुपाविशत् । जीवसेनस्तु तादृशीमारोपितकोपामवलोक्य मनसोत्थमचिंतयत् ।
J-18
Page #168
--------------------------------------------------------------------------
________________
जयन्तिका
प्रार्थितमपि न खलु लभ्यते सविभ्रममीदृशावस्थं मुखमंडलम् । धन्योऽस्मि । यदेनामेवं निर्निरोधमवलोकयामि । कोपोऽपि दर्शनीयो भवति खलु यदाश्रयात् । प्रायो जगति विविक्तगतानामात्मनिर्विशेषसखीसहचरोणां मुग्धानां नर्मालापपेशला अन्यादृशी खल्वालापधोरणी । किमिह वक्तव्यम् । नर्तयति तावदेनां मन्दमारुतो लतामिव । कन्दर्पस्तु सूत्रधार इवान्तर्निगूढ एव नर्तयति तरुणीम् । तथापि सा तु लज्जायवनिकांतर्हिता झडिति नैव प्रकाशयति हृदयगतं भावम् । सा त्वेकांतगता स्वात्मनिर्विशेषायै सख्यै प्रफुलयति हृदयकमलम् । बहिरुदासीनेव पञ्चशरशरहतितप्यमानापि निगूहयत्यात्मभावमिति विचिंत्य चाधुनाह - मात्मप्रदर्शनेनोपशमयामि कोपमित्यात्मानं प्रदर्शयामास । हन्त ! सत्यमेव कुपिता सखीति दीनवदना मरालसेना भित्तितलदत्तदृष्टिः सविस्मयं प्रतिमुकुरगतं जीवसेनप्रतिबिंबमवलोक्य हर्षभरोद्गतपुलककवचितांगी ननु पक्ष्मलाक्षि ! नाहं मिथ्यावादिनी । दर्शयामि जीवसेनसहस्रम् । तत्कोपमपास्य मुखकमलमुदस्य पश्य तावदिति न्यवेदयत् ।
138
जयंतिका तु मरालसेनां परिहासवादिनीं मन्वानापि मानसविजृंभमाणजीवसेनदर्श न कुतूहलतया सखीवचनश्रवणसमनंतरमेव भित्तितलदत्तदृष्टिर्जीव सेनप्रतिबिंबपरंपरामवलोक्य विस्मयाश्लिष्टांतरंगा हर्षातिशयात्किमिदं मायाप्रकल्पितमाहोस्विदनवरतानुध्यानजनितरणरणिकाकार्यमथवा मतिभ्रमः ? महदिदमाश्वर्यं ! बिंबमंतरा न हि प्रतिबिंबस्यावकाशः । इति बहुधा विचितयन्तो निरतिशयानंद विस्तारितनयना प्रतीहारदेशविवलितकंधरा जोवसेनमवेक्ष्य वैलक्ष्येणेतिकर्तव्यतामूढा त्रपाभरावनतमुखी तस्थौ । तदानीं जोवसेनस्तु समंदस्मितमुपसृत्य मरालसेनां प्रति ननु प्रियजयंति ! किमिदमियं ते सखी दृश्यते चिंताकुलितस्वांतेव । कथमिव गतो जीवसेनोदंतः तावदस्याः कर्णपथम् ? कथं वा मदागमनप्रत्याशा ; यदनुपालयति मदागमनमेव ; निवेदय दयया तदखिलमपि
Page #169
--------------------------------------------------------------------------
________________
चतुर्थलहरी
139
इत्यपृच्छत् । पृष्टा च सा मरालसेना सप्रश्रयं देव ! सखीयं मुक्तेव भवद्गुणस्यूतहृदया भवदर्शनाभिलाषिणो कदाचिद्भित्तितलविलिखितं राजकुमारनिकरं विलोकयन्ती मध्ये विराजमानं भवंतमवलोक्य तरलहृदया कोऽयं सशरोरो मनोभव इति मामपृच्छत् । ____ पृष्टा चाहमखिलमपि भवदुदन्तं न्यवेदयम् । तत्प्रभृति भवञ्चरणसरसिजसेवावाप्तये समाश्रितव्रतयेव निरंतरमप्यनयांगीकृतं मौनम् । समुज्झितान्यभिमतान्याभरणानि। दूरीकृतश्चाहारः । समाश्रितश्च विविक्तो देशः। निमोलितं च नयनयुगलम् । विनिहितं च ध्येये मनः । किञ्च भीतभीतैस्सखीजनैः इयमसकृदाहूतापि निरुत्तरा पक्ष्मपालिस्यूताश्रुजलबिंदुबंधुरतयेव सकृदेव मंदमुन्मोल्य लोचनकुवलयं स्तोकमिव सखोजनानवलोकयन्ती दीर्घापांगप्रणालिकया स्रावितैःश्रुसलिलपूरैर्मदनानलजनितं हृदयसंतापमिव वारयन्ती क्षणादुन्मत्तेव किं स्थितास्मि ? किमु निषण्णास्मि ? किमथवा प्रस्थितास्मि ? किमालपामि ? किमु मूकास्मि ? किं निमीलितलोचनास्मि ? किमेकाकिन्यस्मि ? हंत ! निघृणाः खलु परिजनाः। यद्धृतप्राणामपि मां प्रवेशयिष्यंत्याश्रयाशम् । तपति मम प्रत्यवयवमिति व्याहरंतो भयविह्वलैः परिजनैः परिकल्पिते कमलकुवलयकल्हारास्तरणे बलादनिच्छंत्यपि शायिता पटीरसलिलसेकशिशिरेणोशीरमयेन तालवतेन मया वीज्यमाना कदाचिन्मदनानलसंतापासहिष्णुतया धाराधरोदरप्रविष्टा चंद्रकलेव नीलनलिनीदलोदरमाविशन्ती कदाचिद्भुजंगीव निर्मुक्तकंचुका चन्दनरससिक्तांगी च कदाचिच्छरदिव सिताभ्रधवलिता कदाचिद्भार्गवीव कमलालयनिषण्णा कदाचिदंगेव घनप्रालेयशीतलिता सखीजनानां हृदि महतीं चिंतामुत्पादयन्ती दिवसमखिलमप्यत्यवाहयत्। ___अस्तमुपगते च गभस्तिमालिनि तारकाकोरककलितं संध्यारागारुणं गगनाभोगमिव शशिकला प्रतिमणिप्रतिबिंबितदोपकलिकं प्रविश्य माणिक्यमंदिरं तत्र स्फटिकशिलाकल्पिते महणतरे समास्तीर्णनीलोत्पलप्रकरतया
Page #170
--------------------------------------------------------------------------
________________
जयन्तिका
अनभिव्यक्तांतर्निलीनचञ्चरीकनिकुरुंबे पर्यंके शयाना संवेशोत्स्वप्नायमाना नन्वार्यपुत्र ! गृहोतोऽसि । क्व यासि ? न जानासि मामिति ; प्रबुद्धा च सरभसमुत्थाय च तल्पात्स्वेदसलिलस्नपितसकलावयवा युगायमानां त्रियामामनैषीत् । एवं भवन्निमित्तं क्लेशमनुभवन्ती कालमत्यवाहयत् । तदन्वेकदाहमनुपलब्धोपायांतरा सखीप्राणपरित्राणकृतादरा दराकुलितस्वांतोपह्वरे तदाशयाविष्करणाय संमंत्र्य समुपलब्धानुमतिर्विदग्धमेकं वैवधिकं भूदेवं निवेदितैतदवस्थाविशेषं विधायारिभीकरां प्रति प्राहिणवम् । स तु विदितोदन्तो मामुपेत्य न्यवेदयत्सर्वमपि । तत्प्रभृति भवदागमनसंभावनया भवदुदन्तगर्भं कथामेव कुर्वतो कालमतिवाहयति । यदि भवानधुनापि नागमिष्यज्जीवलोकं निरालम्बमकरिष्यत् । दिष्ट्या भवदागमनमिति न्यवेदयत् । गन्धर्वराजमुखादवगतभवदुदन्तोऽहं जीवसेनः अनुपदमेवागतोऽस्मि ; इति व्याजहार । तदा सा जयंतिका स्तंभितगमना विविधतुलाको टिपरिष्कृतचरणपल्लवांगुष्ठशिखरेण कुट्टिमतलमालिखन्ती विनमितवदना सदृष्टिक्षेपं कृतसंज्ञा तस्मिन्नेव डोलाफलके मरालसेनया क्षितीशमुपावेशयत् ।
140
समुपवेशितो जीवसेनस्स्तनितगभीरया गिरा ननु मरालसेने ! तव सख्या तावदनलंकृतेयं डोला मामिव मदीयं हृदयमपि चालयतीति सपरिहासमब्रवीत् । तदा तया मंदस्मितमधुराधरपल्लवया मरालसेनया विफलनिजानुनययापि बलादनिच्छंत्यपि तत्पार्श्व एवोपवेशिता जयंतिका तेन जीवसेनेन ननु पक्ष्मलाक्षि ! किमिदम् । तरलतरलाभ्यां नयनाभ्यां प्रकटयसि भयतरलहृदयताम् । सन्निहिते च मयि कस्माद्वा तव भीतिः १ तदलं साध्वसेन । सविस्रंभं सरसे च प्रकाशय निजाशयं पीयूषनिष्यंदिन्या गिरा । तव तावन्मधुरालापश्रवणकुतूहलत्वरातिशयविवशहृदयस्सुदूरात्समागतोऽस्मि । मुधा कालमतिवाहयसि । यातुधानवचश्श्रवणात्प्रभृति भवदायत्तचित्तोऽस्मि । निरवलंबनोऽस्मि । पञ्चशरपरवशोऽस्मि । तदा
1
I
1
Page #171
--------------------------------------------------------------------------
________________
चतुर्थलहरी
भाषय माम् । धन्यमापादय माम् । सिञ्च मामपांगवीक्षणामृतधारया | अनुगृहोतो भवेयमिति सानुनयं बहुधाभिहिता त्रपया भिया आवेगेन चावनमितमुखी सकिलकिञ्चितं डोलाफलकदत्तदृष्टिः कथंकथमपि वक्तुमुपक्रांता लज्जा भर म्लिष्टवचना मधुरमधुरं मन्दं मन्दं स्विन्नगात्री न्यवेदयत् । नन्वार्यपुत्र ! किं ब्रवीमि ? बाधते मां स्त्रीत्वनिसर्गजा लज्जा प्रकाशयितुं निजाशयम् । यद्यदभिहितं मरालसेनया तदखिलमपि सत्यमेव । भवद्दिदृक्षा बलवतो संजाता । दिष्ट्या पश्यामि भवन्तम् । क्व वा राजधान्यरिभीकरा नाम ? केदं हेमपुरम् ? कथं वा मदुदन्तप्राप्तिः ? कथमिहागमनम् ? कथं भवद्योगः ? सर्वोऽपि मे मनोरथः स्वप्नकल्प इति निरंतरचितासंतानव्याकुलितमानसाभवम् । तेन यातुधानेन कृता खलु महत्युपकृतिः । तथाप्यधुना महदंतरायग्रस्तास्मि । नितरां भोतास्मि । यदिमां मां पिता मे सत्यकीर्तिः निजसुहृदः कांभोजभूपस्य पुत्राय दातुकामश्विरादनिच्छन्तोमपि प्रयतते । हन्ताहमपि भवदागमननिरीक्षया तावदप्रकाशितहृदया समाश्रितमौना कृतभवदानयनप्रयत्नाभवम् । तदिदानीमुदन्तोऽयं यद्याविशेत्पितुश्श्रवणपथं तदानर्थाय कल्पते । तदिदानीमनया सुरंगसरण्या निस्सराव इति ।
श्रुत्वा च नयोपेतं तत्कालसमुचितमंतरायभयनिवारकं वचनमस्यास्सत्वरं समुत्थाय च जयंतिकया सह जीवसेनस्समंदस्मितं मरालसेनायाः कर किसलयमवलंब्य पाणिना ननु मरालसेने ! किमु दोयते भवत्प्रियसखोगमनायानुमतिरित्यपृच्छत् । पृष्टा च सा मरालसेना प्रमोदनिदान - मप्यशनिपरुषतरं विचिंत्य नरपतिवचः निरर्गलनिर्गलदश्रुसलिलप्लाविततारका विनमितोत्तमांगी दुःखभरदम्यमानकंठनालतया निरुत्तरा च सखीविरहासहिष्णुतया बाष्पपूराभिषिच्यमानकपोलफलकवक्षोजमंडला दृढतरं परिरभ्य बाहुलताभ्यां जयंतिकां सगद्गदं ननु मत्सुखदुःखसमभागिनि ! जयंतिके ! मदीयं तावदिदं हृदयं वज्रसारकठोरं भवच्चेतसा संस्यूतं
141
Page #172
--------------------------------------------------------------------------
________________
142
जयन्तिका
खल्वाबाल्यात्परस्परप्रेमतन्तुसंतानेन। तागेकीभूतमधुना द्विधा विधाय विधात्रा दूरीकृतं खलु । विहाय मामेकाकिनी यास्यसि । यद्यपि चिरप्रार्थितेन वल्लभेन योगो मोदावह एव । तथापि प्राणनिर्विशेषां भवतीमन्तरा कथमिवाहमनाथेव प्राणिमि ? मम तावत्त्वां विना कालकलापि युगायते । कथमिवातिवाहयामि दीर्घतरान्कालान् ? कदा वा द्रक्ष्यामि पुनरपि भवतीं ? स्यादेतत् । पृष्टा च भवत्पित्रा सत्यकीर्तिना व जयंतिकेति किं ब्रवीमि ? शून्यं जातमिदं भवनं भवद्विरहितम् । भवन्निषेवितं वस्तुजातं तावद्विगुणयति मे दुःखम् । कनकपंजरपोषिताः कीराः जयंतिकेत्याह्वयंति । तदाकर्णनेन विह्वलितं भवति मे हृदयम् । भवदनवलोकनदुःखितां ते जननी कथमिव समाश्वासयामि ? परिजनानामावेगं कथमिव निवारयामि ? निंदन्ति खलु मदनवधानतां सर्वेऽपि । कथं भवेयमित्यनुलपन्ती मन्दं मन्दं सगद्गदमरोदीत् ।
श्रुत्वा च सखीवचनं जयंतिका दुःखभरदम्यमानकण्ठी बाष्पसलिलपूरितनयना मरालसेनायाश्शिरः परामृशन्ती करतलेन त्रपया सखीकपोलतलविनिहितमुखपुंडरीका ननु मरालसेने ! किमिदं ? प्रमोदावसरेऽपि रोदनपरासि । जानीहि तावत्पुनरपि त्वरितमेव पितृदिदृक्षया सन्निहिताम् । तदनुजानीहि गमनाय मच्छुभोदर्कतर्कणैकताना । मा तावदधुनैव निवेदयोदंतमेनं मत्पित्रे । कालानुरोधेन समयमनुपालयन्ती पितुश्श्रवणपथं प्रवेशय वृत्तमेतत् । न किमपि वक्तव्यमस्ति तुभ्यम् । चतुरा भवती खलु । मनस्सांत्वयेति सगद्गदं निगदन्ती सांत्वयामास ताम् । जीवसेनस्तु प्रेमातिशयकंदलितमेवं परस्परसल्लापमवकर्ण्य समंदस्मितं ननु मरालसेने ! किमिदमेवम् ? यद्यपि परस्परमैत्रीविवर्धितसंबंधस्य विघटनमरंतुदमेव ; तथापि लता तावदुपन्नतस्मंतरा वृद्धिं नाधिगच्छति खलु ? निरवलंबना नारी नैव शोभते । तत्कस्यचित्पुरुषस्यावलंबनमवश्यं जगत्यपेक्ष्यते । यदि न तथा तस्या जन्म निरर्थकम् । एवं स्थिते श्लाघनीयः खलु सत्पुरुषसंबंधः।
Page #173
--------------------------------------------------------------------------
________________
चतुर्थलहरी
143 तत्रापि योषाभिलषितपुरुषविशेषप्राप्तिः प्रमोदस्थानं हि ! तदलं क्लेशेन । इदानी सानन्दं प्रेषय तावत्तव सखीम् । अपरिहार्यो हि योषितः परवेश्मनिवासो भुजंग्या इव । स्त्रीणां तावत्तावदेव हि परस्परमैत्रीप्ररूढस्सहवासः यावन्न यास्यन्ति पतिगृहान् । मातापित्रोरपि दुहितरि तावदेवाधिकारः यावन्न ग्राहयिष्यतः पतिपाणिपंकजम् । किंच स्पृहणीयरूपा सुकवेः कवितेवानधिगतसदवलंबना विचित्रालंकारशय्यापाकगुणभूयिष्ठापि अप्राप्तशृंगारादिरसप्रकाशनावकाशा तरुणी दुहिता वर्धयति जनयितुर्निरंतरमपि हृदय तावदपरिमितं शोकम् । तदलमनेन सखीविरहजन्मना शोकावेगेन । कृते च कालविलम्बे परस्परसल्लापेन प्रयाणप्रत्यूहस्समापतति । पश्य तावत्समतात्तिमिरनिभं मुदिरनिकर काष्ठाचतुष्टयमपि गारुत्मतरचितभित्तिरिव समावृणोति जीमूतमाला। नर्तकीवासकृन्नृत्यति सौदामनी। तर्जयन्निव गर्जति जलधरः। गन्तव्यं च सुदूरं वर्त्म चरणाभ्यामेव । तद्यातु नाम तव सखी सत्वरमित्यकथयत् ।।
___ ततश्च जयंतिका ननु मरालसेने ! भवती तावदिहैव सादरं मत्पाणिनैवात्मनिर्विशेषं पोषितां निर्मितालवालां नवमलिकां विलोकय । मा तावदपचिनु मल्लिकाप्रतानन्याः तारुण्यशोभादायिनं प्रसूनप्रकरम् । वसंतसमये च प्ररूढप्रसवप्रकाशितानुरागस्य बालाशोकतरोरुत्सवं कौमुद्यां सखीमंडलपरिवृता निवर्तय सजग्धिकल्या । सादरमनुभूतनूतनविवाह चाटुवचनचतुरं मा विस्मर कदापि प्रमादेन पंजरगतं केलीशुकशारिकामिथुनम् । समाश्वासय सांत्ववचनैर्मविरहजम्भमाणशोकनिमग्नहृदयां ममांबाम् । उपवनक्रीडाशैलसानुकृत्रिमस्रोतस्विनीस्रोतस्तीरकुंजविहारचणं बर्हिणं प्रतिसायं सादरं प्रापय मेघनादप्रासादम् । बालसहकारस्य निर्वर्तय सुसमये बालमालत्या सहोद्वाहकर्म । मञ्चरणविरचितदौहृदकर्मणो बालाशोकस्य कुसुमोगमे तावदाचर महोत्सवम् । पदेपदे निकृन्तनचित्रितं कारय लतागृहम् । दर्श दर्श शुष्कमापूरयालवालं कुल्यानीरैः । पदे पदे
Page #174
--------------------------------------------------------------------------
________________
जयन्तिका
प्रसाधय मद्भवनगता देवता इव मणिमयसालभंजिकाः । मा विस्मर मामिति बहुधाभिधाय निवार्य च सांत्ववचनैरनुव्रजन्तीं सखीं लज्जाभरविनमितमुखी सुधाकरमिव रोहिणी प्रस्थितं जीवसेनमनुसरती सुरंगसरण्या निरगात् ।
144
गत्वा च सा पक्ष्मलाक्षी जीवसेनेन साकमवाप्य चाटवीतटं चरमगिरितरुषंडांतर्हिते च चंडकिरणमंडले निबिडतरजलभरितवलाहकाकुलितेषु दशदिगवकाशेषु मुदिरपरुषरावमुखरिते च कांतारे सर्वतः प्रसृमरे चांधकारे मुहुर्मुहुः परिनटत्कुटिलचटुलतटित्पटलतया द्विगुणितांधकारपिनद्धनयनव्यापारे कांताराध्वनि गाढध्वांतविध्वंसितनयनपथतया कृच्छ्रात्सावधानं करोन्नमितलंबमाननीवीकलापा भयविह्वलापि वल्लभानुगमनलब्धधैर्या पल्वलतटकटुरटन्मंडूकारावकदर्थितकर्णविवरा शाद्वलतलखेलत्खद्योतत्रातद्योतसाह्यगमनसौकर्या परितः प्रसरत्तारतरझिल्लीरा वदंतुरितदिगंतरदत्तदृष्टिः जीवसेनभुजशिखरविनिहितदक्षिणपाणिकमला अविमल - कच्छतलकर्दमकलुषितचरणयुगला कथंकथमपि मन्दं मन्दं कटुकण्टकनिचितेन स्थपुटिततलेन वनवर्त्मना ययौ । एवमायांतीं गमनखेदमावेदयन्तीमशनिभीकररावजर्झरितहृदयां क्व गन्तव्यम् ? कुत्र स्थातव्यम् ? किमु कर्तव्यम् ? किं व्यवसितं मनसि ? त्यक्तबन्धुवर्गाहमेकाकिनी भवंतमनुगतास्मि । कियद्दूरे राजधानीत्यसकृत्पृच्छन्तीं जयंतिकां समाश्वासयन् सांत्ववचनैः गच्छंश्च मन्दं मन्दं सगर्जनं सशीकरासारं वर्षितुं समारब्धे जीमूते क्रमेण पृथुलतां गते च धारापाते जंझावातपरिघूर्णितत रुनिकरपर्णपटलपटपटात्कार मुखरिते कांतारे साध्वसेन सोढुमशक्योऽयं धारापातः । गंतुमशक्तास्मि । निपतत इवांत्री । परिश्रांतास्मि । यत्र कुत्रापि स्थातुमिच्छामीति पदे पदे निवेदयन्तीं जीवसेनः भुजदंडावेष्टिततदवलग्नः सद्यः प्रादुर्भूतविद्युल्लताप्रकाशितां दीर्घतरोदरां गुहां प्राविशत् ।
प्रविश्य च तत्र शयानो मा भीरहमस्मि इति नरपतिरनुनयपुरस्सरं
Page #175
--------------------------------------------------------------------------
________________
चतुर्थलहरी
145 परिंभणकुतूहलेन प्रसारितभुजदण्डो लज्जाभराददत्तांगकयापि शश्वदाविर्भवत्तटित्तरलद्युतितया भीतया तया कोमलांग्या सपदि दृढतरं समालिंगितः साधुसाध्विति सौदामनीं श्लाघमानः वक्षोजजिघृक्षया प्रसारिते च पाणिकमले वीडया बाहुलतायुगलकृतस्वस्तिकबंधनस्थगितस्तनमंडलयापि हरितकंचुल्युपरि शादलशंकया परिपततां खद्योतानां ससाध्वसं समुत्सारणाय व्यापारितबाहुयुगलतया सप्रमोदमागृहीतसमुत्तुंगपयोधरकुंभयुगलः प्रशंसन् खद्योतवातान् प्रकटिते च चुम्बनेच्छयाधरोष्ठपुटे करपुटपिहिताधरतया निजहीरमणिप्रसूमरमासुरकिरणगणकांत्यसहिष्णुतया सरभसं नयनपिधानाय शिथिलिते करयुगले निष्प्रत्यूहमधरामृतमापिबन् उषाप्रतीक इवानिरुद्धालिंगनामिनंदितः जडभरत इव कुरंगीकिशोरतरलतरनयनानंदितहृदयो वामदेव इव वामप्रतीकैकीकृतनारीतनुः वैनतेय इव दंतप्रावरणयंत्रामृताहरणनिपुणः उपनतरुरिव लताबाहुवेष्टितः मन्दं मन्दं सम्लिष्टं किमपि किमपि शर्मवशायाहरंत्या जयंतिकया सुरतसुखमनुबभूव ।
एवमनुभूय च निधुवनश्रमसलिलसिक्तावयवौ परस्परबाहुलतावेष्टितग्रीवौ श्रममरविस्मृतशरीरौ निद्राईजतुरसघटितपक्ष्मपुटौ दीर्घाध्वगमनश्रमद्विगुणितदेहशैथिल्यौ निद्राभरपरवशीकृतमानसौ किमपि किमपि विवक्षु अपि बहिरनिस्मृतवाग्व्यापारौ अगणितशिलातलकठिनस्पर्शी अचिंतितवनसत्वभयौ तावुभावपि निद्रासुखमनुबभूवतुः । निद्राविद्राणौ तौ तु जंझावातभ्राम्यमाणाधेलिहमहीरुहनिवहतारताररावमपि शिलाद्रवीकरणनिपुणस्थूलजलधरधारापातध्वानमपि कठोरस्फूर्जथुघोषमपि नाज्ञासिष्टाम् । एवं गाढनिद्राविद्राणचेतसोस्तयोस्सतोः विलसति च भगवति भास्वति पूर्वपर्वतशिखरे रविकरचित्रितगंधर्वनगरे चांबरे यामिनीं निरंतरवर्षधारानिर्णिक्ततया बालातपकांतिविशेषभासुरे च कांतारे विटपिपत्रपटलपुटक्षरत्सलिलबिंदुपातप्रचुरगर्तकपंक्तिकदर्थिते क्षितितले विविधविचित्रपतत्रिषु सकलकलरवं डीयमानेषु गगनांकणे शीतलसलिलसंपर्कजडेन विकचJ-19
Page #176
--------------------------------------------------------------------------
________________
146
जयन्तिका
केतकीकुसुमपरागसौरभभरसुभगेन प्रभंजनेन पात्यमानेषु कदंबमुकुलेषु तारतारकेकानादनादितदशदिगंतरेषु मयूरेषु मंडूकषंडरटरटात्कारमुखरितेषु पल्वलतटेषु अचिरसंभूतवर्षसलिलसिक्तक्षितितलतया समुद्भवद्विविधकीटपटलग्रहणव्यग्रेषु काककदंबेषु कर्दमबहुलकच्छतलप्लवमानभेकग्रहणलंपटेश्वलगर्दैषु पल्वलसलिलचरकीटविशेषादानदत्तावधानेषु बकेषु शिशिरसमीरप्रतिबोधिता जयंतिका निमीलितलोचनैव मन्दमंगभङ्गकैतवेन पार्थप्रसारितबाहुलता अनुपलब्धार्यपुत्रस्पर्शतया भवेन्निद्रावशविवर्तनादूरे शयान इति विचिंत्य पाणिपल्लवाभ्यां परिमृज्य लोचने मन्दं समुन्मील्य पतिविरहितां शून्यां गुहामद्राक्षीत् । __अनवलोक्य च वलभं भीतभीता सरभसमुत्थाय विलुलितं कुंतलकलापमाश्रवणमूलं करेण समुत्सार्य कापि बहिर्निर्गतो भवेदित्यनुचित्य कंपमानोरुयुगला कथमेकाकिनी बहिनिर्गच्छामीति कातर्यकदर्थितस्वांताप्यावेगवशात्कथंकथमपि बलाढहाया निर्गत्य शोकातिरेकदम्यमानकण्ठी नाथ ! क्कासि ? देहि मे प्रतिवचनमित्युच्चैराक्रंदन्ती वेपमानतनुलता अनुपलब्धप्रतिवचनतया द्विगुणितभयाकुलितहृदया दशसु दिक्षु विक्षिप्ताक्षी क्षीणबलेतिकर्तव्यतामूढा गाढांधकारावृतेव तस्थौ । एवं स्थित्वा च साध्वसेन व्यथया च क्वाथ्यमानमानसा सा वल्लभादर्शनकंदलितचिंतापरंपरापरिघूर्णितोत्तमांगापि स्मृतिपथाधिरूढदमयन्तीवैदेहीप्रभृतिपुरंधीजनचरित्रा तत्र तत्र प्रियमन्विष्यन्ती निजदुःखदर्शनासहिष्णुतयेव पत्रपुटक्षरनीरबिंदुकैतवेन विलपद्भिखि पादपसन्दोहैर्दुरवगाहे निरंतरसलिलसिक्तशरीरतया सपटपटरटितं समुद्भूयमानपक्षपुटैः विटपिविटपकोटिनिषण्णैः पतत्त्रिभिरभिरामे कुत्रचिददभ्रवर्षतया कच्छविच्छुरिते कुत्रचित्संफुलकदंबतरुकुजविटपशिखरगता मयूरीविततश्लक्ष्णमेचकमंडलपरिमण्डितैः ग्रीवाकुंचितप्रकटितप्रेमधोरणीविशेषैसकेकारवमनुसरद्भिः कलापिभिर्दर्शनीये कुत्रचित्कर्दमकलुषिततया दुस्संचारमार्गे कुत्रचिजलबहुलशाहलाये कुत्र
Page #177
--------------------------------------------------------------------------
________________
147
चतुर्थलहरी चिच्छिलींध्रनीरंधिते कुत्रचिद्विकचकनकसवर्णकुसुमकोशनिरवकाशकेतकीपरंपराकंटकिते कुत्रचिदचलप्रस्थप्रस्थितनिझरझरीरवमुखरिते कुत्रचित्परिवहदरुणनीरपूररयनामिततीरवेतसतरुबहुले कुत्रचिन्मरुत्तरलितविकचकुटजकुसुमपटलपरिमलसुभगे कुत्रचित्पुलिंदसुन्दरीजनापचीयमानविकचकेतकीकुसुमपरागधूसरिते कुत्रचिद्दीर्घघोणाशिखरविदारितानूपांतःप्रवेशितवदनैः सामोदं मुस्ताकंदबृन्दं चर्वद्भिः धुर्घररवतिरस्कृतघरदृघर्घरध्वानैः कर्दमितकायैर्वनवराहैरतिभयानके कुत्रचिदाकर्दमचर्चितकठिनपृथुलकृष्णकायनिकषणविशीर्णत्वक्पटलपादपस्कंधदेशैः मदभरारब्धपरस्परकलहतयात्यायतावनमितकठोरकुटिलविषाणमंडलसंघट्टनटीत्कारराववाचालितदिगन्तरालैः लुलायपटलैरतिभीषणे, कुत्रचिदुच्चतरुनिपतितवलीमुखापह्रियमाणविशीर्णबीज पूरफलादित्सया सरभसमनुधावद्भिर्मल्लकैराकुलिते, कुत्रचित्तरुमूलनिबद्धविषाणमंडलाः वनमहिषीः कैश्विदूराकृष्यमाणतद्वालैः कैश्चिदुग्धं दुहानैरयोविरचितैरिवासितकठिनकायैः निजाकारप्रकाश्यमानक्रूरकर्मभिः वनशबरैः परिवृते, कुत्रचिद्विराटावरोध इव बृहन्नलाक्रांते महारण्ये तावदशरण्या हा ! नाथ ! नावेक्षसे किमु मामीदृशीमनाथां पर्यटन्तीम् ? किमु भवता तावदभ्यस्ता विद्येव विश्वासघातुकतापि। किमिदमुचितं नरपतेः शरणागतजनप्रतारणम् ? किमु लभसे मादृशीं अबलां भवदेकशरणां प्रतार्य ? शुभोदकं नन्वार्यपुत्र ! भवत्प्रतिकृत्यवलोकनप्रभृति भवन्तमेव सर्वस्वं मन्वानायाः परित्यक्तात्मबंधुजनतायाः भवदनुगमनैकतानायाः मम तावकिमिदमेव फलम् ? हन्त ! दुर्लभं ते दर्शनमिति रुदन्ती प्रियसखीं मरालसेनां सत्वरमागतां मामवेहि मुहुरिति सांत्ववचनैस्समाश्वास्य भवंतमेवानुव्रजन्ती मामबलां दुर्गमे निर्गतिकां विधायैकाकिनी गतोऽसि ? पुनरपि कथमिव प्रदर्शयेयं मुखमिदं सख्यै ? हन्त ! तात ! सत्यकीर्ते ! प्रेमातिरेकेणात्मप्राणनिर्विशेषं मां परिपोषितवतः ते मामनवलोक्य कीदृशी दशा भवेत् ? अम्ब ! चिरमनुभव दुहितृविरहदुःखम् । नाहं पुनरपि
Page #178
--------------------------------------------------------------------------
________________
जयन्तिका
1
प्रदर्शयिष्यामि ते मुखमिदम् । भो ! भो ! नृशंसाः ! वन्या मृगाः ! निजवल्लभेनैव दूरीकृतया किमनयेति यूयमपि दुरितकारिणीं मामिमां परित्यजथ । भक्षयित्वा च मां परुषहृदयां पूरयत स्वोदरं, मन्मनोरथमपि । हन्तार्यपुत्र ! किंवा मयापराद्धम् ? किमर्थमयममर्षः ? निरनुक्रोशो ऽसि । विश्वासघातुकोऽसि । बहुधैवमरण्ये प्रलपन्तीमेकाकिनीं भीतभीतां मामवलोक्यापि नानुकंपया कंपितहृदयोऽसि । कुरंगा अपि तरंगितेक्षणा मदुःखासहिष्णुतया बाष्पसलिलकलुषितकपोलाः परित्यक्तशष्पकबलास्समुन्नमितमुखास्समाश्वासयन्त इव सहुंकारं मामनुवर्तते । हन्त ! न ते धर्मः । नापि कृपा । न गुणपक्षपातित्वम् । नाप्याश्रितजनशीलपरिशीलनम्। न हि दुःखिजनदुःखनिराकरणचणं हृदयम् । अहो ! वञ्चनशीलता ! कठिनहृदयता ! विस्रब्धघातुकता ! निरनुक्रोशता ! प्रतारणपरता ! हा ! नाथ ! कासि ? देहि मे प्रतिवचनम्। क्क लीनस्ते तादृक्प्रेमपरीवाहः १ कृपया मामेकवारमाकारय । किमु परिहासार्थं तया तिरोधानविद्यया पार्श्व एवांतर्हितशरीरोऽसि १ अलमनेन परिहासेन । साध्वसेन जर्झरितहृदयास्मि । इति बहुधा विलपन्ती कंटकजालमप्यविगणय्य स्थपुटितस्थलमप्यनालोच्य गर्तमप्यनाकलय्य समुन्नतदेशमप्यविचित्य निबिडतरकुंजपुंजकुहरमप्यलक्षीकृत्य दशसु दिक्षु दत्तदृष्टिः बाष्पाविललोचनतया काननमखिलमपि सलिलमयमिव पश्यन्ती शोकेन साध्वसेनावेगेनोन्मत्तेवागणितशरीरश्रमा निराहारा वल्लभैकहृदया सुदूरमामध्याह्न परिबभ्राम |
148
अदृष्टपूर्वामिमां द्रष्टुकाम इव गगनमध्यमधिगतवति चण्डकिरणे नखंपचातपासहिष्णुतया प्रच्छायान्वेषणपरा जयंतिका कतिचित्पदानि गत्वा रसालसालपरिवृतं तमालमालाशीतलं नमेरुमहीरुहपरीतं विविधपत्ररथत्रातकलकलबहुलैः वलिविलुलितत्वक्चलितप्रचालितशाखाभुजैः धवलप्रसूनपटलपटावगुंठितशिरोभिः गलितरदनराजीनतिशैत्रचादपरिस्फुटाक्षर
Page #179
--------------------------------------------------------------------------
________________
चतुर्थलहरी
निवहे वाक्कलहे प्रागल्भ्यं प्रदर्शयतो द्रविडजरतीजनाननुकुर्वद्भिः विटपिभिमनोहरं, नानानोकहनिवहपरस्पर निरंतराश्लिष्टच्छदविच्छुरितविटपपटलाच्छादितांतरिक्षतया तमोमयं शीतलप्रचलत्प्रकंपनप्रकंपितप्रताननीप्रसवप्रकरप्रसृमरसौर भसंभृतमुत्तुंग महीभ्रप्रपातनिपतन्निर्झररवमुखरितं, तत्र तत्र पाणियुगलावलंबित पृथुलमही रुहमूलैः धरणितलविनिहितचरणैः उन्नमितकंधरैः उत्क्षिप्ताक्षिसूक्ष्मतरपक्ष्मभिर्विपिनमभितो विलोकयद्भिरत्युन्नतैः स्थूलस्थूलैरतिभयानकैर्विविधशाखामृगैः प्रकाश्यमानसाध्वसं निबिडतरकुंजपुंजशाद्वलहरिततया केकारवानुमेयके किकुलमुदग्राग्रदर्भपटलतया तदभ्यंतरसंचरणपरैः हरिणमंडलैरतिरमणीयं, प्रदेशमदृष्टपूर्वमेकमपश्यत् ।
149
प्रविश्य च तदनातपं तपोवनं विटपिवाटांतरे पर्यटन्तं तापसमिव दूरादेकमद्राक्षीत् । तद्दर्शनमात्रेण जीवसेनबुद्धया ससंभ्रममुपसृत्य निर्वर्ण्य च वितथमनोरथा दीर्घमुष्णं च निश्वस्य भगवति ! पापकारिणी सत्यकीर्तिदुहिता जीवसेनपरिगृहीताप्यधुना तावदनाथा जयंतिका प्रणमतीति निवेदयन्ती नयनसलिलधारासारप्रक्षालिततच्चरणारविंदा सप्रश्रयं बद्धांजलिपुटा तस्थौ । तदा सा तु तापसी तपस्विनीमिमामवलोक्यानुकंपया वत्से ! विदितमेव ते पितृभर्तृनामधेयम् । का ते माता ? कुतो वा काननमिदमतिदुर्गममनाथेव समागतवती ? किमर्थं रोदिषीति पृच्छंत्येव तया सहानतिदूरवर्तिनीं निजगुहां प्राविशत् । प्रविश्य च तां जयंतिकामुपवेश्य चैकदेशप्रतिष्ठापित शिलापीठे स्वयमपि परिगृहीतकृष्णाजिनासना पप्रच्छ । निवेदय भवदुदंतमखिलमपीति । सा तु जयंतिका मुहुर्बलात्कारेण परिपृष्टा सबाष्पगद्गदं समंदाक्षं च व्याहरंती निजोदंतं दुःखातिरेकाद्गतचेतना पपात वसुमत्याम् । सावेगमुत्थाय च सा तापसी कमंडलूदकसेचनतालव्यजनकर्मणा विधाय च सचेतनामेनां मंदमुत्थाप्य च वत्से ! मा रोदीः । यदा च जनिरिह तदैव दैवनियोगादनुपतति सुखमिव दुःखमपि शरीरिणम् । तत्किमनेन परिदेवनेन १ जननांतरोपार्जितं कर्मफल
Page #180
--------------------------------------------------------------------------
________________
150
जयन्तिका
मनुभवेनैव परिहरणीय, नान्यधा । तत्समाधेहि । स्वांतं निधेहि परमकारुणिके भगवति । स तु तारयिष्यति दुःखसागरादिति तां सांत्वयामास ।
तदनु दमितदुःखभरा सा तु मृगाक्षी वीक्ष्य च गुहाभ्यंतरमभितः प्रसमरतपनबालातपद्युतिमेकत्र शंकुलंबितां माणिक्यमालामालोक्य सविस्मयं कुतस्त्येयं मालिका ? का त्वम् ? का ते माता ? कस्ते पिता ? किं ते पूततम नामधेयम् ? कुतो वैकाकिनी निवससि दुर्गमे कानने तावदशरण्या लब्धतारुण्यागण्यलावण्यपण्यापि । न हि ते सौन्दर्यमिदं तावदुपपादयति तापसीत्वम् । कुतो वा तवेदृशो वेषः ? सूचयति ते मुखकमलमिदं कमप्यंतस्संतापम् । कृपया निवेदय भवदुदंतमखिलमपीत्यप्राक्षीत् । पृष्टा च सा तापसी दीर्घमुष्णं च निश्श्वस्य समुद्गलदश्रुधाराप्रक्षालितकपोलस्तनमंडला सनिर्वेदं वत्से ! प्रगल्भासि ! मन्मुखावलोकनमात्रेण विदितमदंतस्तापासि । हन्त ! भवत्या तावत्स्मारितपूर्ववृत्तांतास्मि । तत्स्मरणमात्रेणापि दहति मे हृदयं दुःखानलः । किमुत तयाहारेण ? तथापि कथयामि ते मंदभाग्याया ममोदन्तम् । यतस्त्वमौत्सुक्यस्पृष्टहृदयासि । शृणु तावदस्ति चित्रपुरे सुशीलावल्लभो वीरकेतुर्नाम सार्वभौमः। सत्वनपत्यतादूयमानमानसो धर्मैकतानो निरंतरक्रियमाणावदातकर्मा चिरेण प्रसादोन्मुखदेवतानुग्रहान्मामेकं पुत्रमलमत । तदनु सुकेशः इति नाना समाहूयमाने मानोन्नते मयि प्रादुर्भवति तारुण्ये, तारुण्यकंदलितकायकांतिविशेषः कदाचिदहमेक एव मृगयालालसमानसः तुरंगमाधिरूढः प्ररूढानेकानोकहकांतं कांतारमासाद्य तत्र तत्र निहत्य च सत्वगणान्क्लान्तः श्रमापनिनीषया तत्रैव प्रच्छायशीतलं तस्तलमधिशिश्ये । निद्रापि द्रागेव मद्रामणीयकाकृष्टा विलासिनीव संमुद्य मदृग्युगलं द्रावयामास श्रममखिलमपि।
तदनु गलितगहनश्रमोऽहं परिमृज्य नयनयुगलमुन्मील्य च मञ्चरणतले निषण्णां मनसिजकृषिकपोषितहृदयालवालकंदलितानुराग
Page #181
--------------------------------------------------------------------------
________________
चतुर्थलहरी
151 लतापल्लवाभ्यामिव कोमलाभ्यां पाणिपल्लवाभ्यां संवाहयन्ती मच्चरणयुगलं तापसतरुणीमेकामपश्यम् । विलोक्य च ससाध्वसावेगं समुपविष्टः सप्रश्रयं यदा प्रणतिपरोऽभवं ; तदा सा तु तापसतरुणी सविभ्रमं त्रपाभरनतोत्तमांगी कुमार ! मा चर प्रणतिम् । पूरय मे मनोरथमिति निवेदयन्तीव भ्रूभंगेन पञ्चशरशरहतिवेदना प्रकटयन्तीव मकरकेतनपरतंत्रास्मि इति मंत्रयमाणेव स्पंदमानाधरपयोधरा क्षितितलदृष्टिर्नखमुखच्छिद्यमानतृणा भवता तावदनंगीकृतेयमहमेतत्कल्पेति सूचयन्तीव गात्रकंपकैतवेन प्रकाशयन्तीव मनोभवभयं निरतिशयानुरागदिग्धं निजाशयमाविश्वकार।
अहं तावदवगम्य च सम्यक्तदाशयं तस्या भीतभीतस्तावदलमनया मदनविकारपरंपरया ननु मृगाक्षि ! प्रत्यक्षीकृतपरोक्षप्रवृत्ताखिलव्यापाराणां तपोधनानां ज्वलदमर्षज्वलनज्वालामालायास्तदा शलभो भवेयम् । यदि च पूरयेयमहमधुना तवेदृशं मनोरथम् । तन्मुंच मामिति तत्पादयो~पतम् । तथापि सा तु सानुनयं किमिदमेवमभिधीयते ? स्वयमागतां वृषस्यन्ती परित्यक्तमुचितं वा ? धर्मज्ञोऽसि। को वा युवा मामीशी स्वयमागतां त्यक्षं कामयते ? यद्यपि तपोधनाः परोक्षचक्षुषः तथापि मामेवापराधिनी मन्यमानाः वात्सल्यातिरेकाद्भवद्विषये क्षमाशीलाः भविष्यति । तत्कृपया मामुररीकुरु । मा मुञ्च मामिति बहुधा प्रार्थनैकताना तस्थौ । अहं तु सुचिरं विचिंत्य समुपलब्धविवेकः तन्मनःपरिवर्तनायेत्थमकथयम् । ननु मुग्धे ! कल्याणि ! नृशंसः खल्वनंगः ! स त्वशरीरः पिशाच इव पीडयति शरीरिणम् । तदाविष्टः त्यजत्याहारमिव लज्जामपि । निद्राविहीनः पर्यटत्युन्मत्त इव । नैव गणयति गुरुजनमिव निजकुलगौरवमपि । स्वाभिलषितलाभैकदत्तदृष्टिस्तपस्खीव ध्येये विनिहितमनास्सततमपि चिंतयति। तदर्थ दुस्साधमपि कर्म करोति । किं ब्रवीमि मकरकेतोश्चातुर्यम् ? स तु दृगगोचर एव सुकुमारकुसुमशरप्रयोगेण ज्ञानिनमपि विवेकिनमपि वशीकृत्य पुत्रिकानत नर्तयति। प्रायशो जगति
Page #182
--------------------------------------------------------------------------
________________
जयन्तिका
मनुजस्तु निजमनोवृत्त्यनुगुणतया कुर्वन्नधर्मं धर्म्यत्वेनोपपादयति । कामिनो मनसि स्वेच्छाक्रियमाणासु कामचेष्टासु नोदेति दोषमनीषैव । भवत्यपि तावदेवमेव विवेकिनी मनसि विचारय भावि क्लेशम् । मा भव मनोभवपरवशा । तदलमनया प्रार्थनयेति ।
152
एवं प्रतिबोधितापि सानुनयमनभ्युपगंतारं दूरीकृतरतिसारं मामतिकुपिता वितथप्रार्थना सा तु तापसतरुणी भवतु " भवानपि लब्धस्त्रीभावस्तारुण्ये तावदप्राप्तपुरुषसंपर्कसुखविशेषः विपिनवासरतः” इति शप्त्वा सबाष्पं सरभसं निजाश्रमोपकण्ठमधावत् । ततश्वाहमुद्विमहृदयो दीनदीनस्तामेवानुसरन्बाष्पपूरपरिप्लावितनयनस्समासाद्योटजवाटं तापससंसदि न्यपतम् । तत्रत्यास्सर्वेऽपि सानुकम्पं कंपमानतनुमतनुदैन्यक्लांत वदनं मामवालोकयन् । ततश्च पृष्टोऽहं प्रह्वभावेन न्यवेदयं तदुदंतमखिलमपि । श्रुत्वा च तेषु कश्चन जरत्तरः तपोधनः कृपापरवशमानसः तामुपालभमानः निजमणिबन्धबद्धां माणिक्यमालामालोक्य सुचिरं विचित्य च वत्स ! मालामिमामंगीकुरु चिरं जीवेति मणिबन्धादवमुच्य दत्वा च मह्यमकथयत् — कुमार न कदापि वंध्यो भवति सत्यवचसां शापः । तत्सिद्धमेव स्त्रीत्वम् । तदलं चलितानुशोचनेन । माला पुनरियं योषामपि पुरुषमिव तनोति यादृशमनुचिंत्य पुरुषाकारं निबध्यते मणिबन्धे । न तु पुंस्त्वं समुलभ्यते । किञ्च धृत्वेमां भूत्वा च पुरुष इव यदि क्वापि नाशयेदेनां ततश्च विना मालया पुनस्सा दुर्लभैव योषाकृतिरपीति ।
अहं पुनरादाय सविनयं तां मणिमालां न यदि स्यां पुरुषः किमनयेति विचिंतयन्नपरिमितदुःखदहन दह्यमानहृदयो नारीत्वमधिगत्य निजनगरमगत्वैव तापसीवास्यां गुहायां न्यवसम् । ततश्च मम जनयिता वीरकेतुस्सुतविरहसंतप्तमानसस्समंततोऽन्विष्य स्वयमेव मामदृष्ट्वा विषण्णहृदयोऽस्मिन्नरण्ये पर्यटन्नविगणिताटवी पर्यटनक्लेशो मार्गवशादुपेत्य गुहामिमां मामवलोक्य निरर्गलनिर्गलदश्रुधाराप्रक्षालितकपोलफलको बद्धांजलि -
Page #183
--------------------------------------------------------------------------
________________
चतुर्थलहरी
पुटो निवेदयांब ! दयया । अपि नाम दृष्टो मृगयायातष्षोडशवत्सरदेश्यो मारोपमरूपो राजकुमार इत्यपृच्छत् । अहं तु तडुःखदर्शनद्विगुणितसंतापा तावदचिंतयम् । अहो ! प्रेमबन्धः । हन्त ! वात्सल्यम् । जगत्यनपत्यतैव दुःखजननी । चिराद्वतादिना प्राप्तपुत्रस्य पुत्रविश्लेषोऽनिर्वचनीयक्लेशवर्धको हि ! नितरां कुकूलानलवद्रात्रंदिवं दहति हृदयम् । कथमहं नापश्यमिति निवेदयेयम् । तदाकर्ण्य कीदृशीं दशामनुभवत्ययम् ? अपि नाम पृच्छेयमंबा कथमिति ? नैतदुचितमिव । हन्त ! जननी तावत्कथमिव सहते मद्विरहम् । भवेदपि परित्यक्ताहारा निर्निद्रा च बाष्पसलिलैः प्रक्षालिततनुतनुः क्षणमपि युगवदतिवाहयन्ती जगदखिलमपि दुःखमयमिव पश्यन्तो मन्नामप्रलपनपरा चेति विचित्य वज्रसारकठोरस्वांता पिहितनिजोदता विषयेषु दूरीकृताभिमानतया बन्धुषु निस्पृहतया प्रेमबन्धस्य त्याज्यतया च नाज्ञासिषं तव तादृशं तनयमिति दुःखितमपि पितरं प्राहिणवम् । तत्प्रभृति गुहैकशरण्यापि नारायणैकशरण्या करोत्पाटितभुक्तवनजनेत्रापि विलसदतिस्पृहणीयवनजनेत्रा विटपिशाखेव त्वगंबरावृतापि फलशून्या योषिदाकृतिविदार्यमाणहृदया विविक्तेऽस्मि - न्नरण्यं वसामीत्यकथयत् ।
तदवकर्ण्य जयंति का संतप्तहृदया धिङ्कारीणां चपलताम् । धिक्तासां तारुण्यम्। धिक्पुरुषसौंदर्यैकलोलुपताम् । कामिनी तु सौदामनीव प्रदर्श्यात्मकांतिमन्धयति चक्षुः । मृगतृष्णेव तृष्णोपशमनजीवनाधारभ्रांतिमुत्पाद्य हरिणमिव तरुणमपि सुदूरं धावयति । कुसुममञ्जरीव रूपगंधसंपदा वशयति जनहृदयम् । महदिदमाश्चर्यम् ! यौवनं तु नारीणां गंधर्वनगरमिव क्रमेण विशकलितं रूपांतरमापादयति । न स्थिरं तत् । तादृशतारुण्यपरिभूताश्चेष्टन्ते कामिन्यः । अत्र तावदहमेव निदर्शनमिति सगद्गदं विललाप | सा तु तापसी रुदतोमेनां जयंतिकां बहुधा सांत्वयन्तोत्थमकथयत् । वत्से ! मा रोदोः । धैर्यमवलंबस्व । मा भून्मनसि चिन्ता । द्रक्ष्यसि
J-20
153
Page #184
--------------------------------------------------------------------------
________________
जयन्तिका
शुभोदर्कम् । नैकरूपः कालः । भवेदनधिगतनिधनः क्वापि जीवसेनः । प्राप्स्यस्यचिरादेव तम् । तदत्रैव भव मत्सहचारिणी विस्रब्धस्तब्धमृगयूधबंधुरे परिचयवशादुपकदंबतरुसमारब्धतांडवैः केकारवाकारितदयितैर्मयूरैः मनोहरे पद्माकरतीरराजद्राजहंसमिथुनसनाथे विविधप्रताननोप्रसवप्रकरपरिसरपरिभ्रमद्भ्रमरझंकारहृदयंगमे सुहृद्भिरिव पर्यटद्भिः परिचितैः वलीमुखभल्लूकनिकरैस्समावृते वनदेवताडोलायमानानेकलताविताने स्वादुतरविविधफलभारभंगुरमहीरुहे नमेरुतरुपरिहृतसंतापे गिरितटनिपतन्निर्झर - झरीपरीवाहदर्शनीये विविधपतत्त्रिनादमोदावहे तपोवनेऽस्मिन्विलोचने विलोभयन्ती कालमतिवाहय । यावद्दैवं शुभप्रदं भविष्यतीति सांत्वयामास ।
तदनु तदनुमत्या जयंतिकापि निरंतरं पतिमनुचिंतयन्तो तत्रैव तापस्या सममवसत् । एवं गतेषु कतिपयेषु मासेषु तापसी सम्पर्कादिव सत्वगुणभूयिष्ठा पांडरतरशरीरा मृदुलतरतया पतिविरहविजृम्भमाणशोकानलकालकृताभ्यामिव मेचकचूचुकाभ्यां भूवल्लभार्भकपानार्हपयःपालनावगुंठितनीलचेलमुखाभ्यामिव कांचनकांतिकांतकुचकलशाभ्यामुपशोभमाना तनुतरतया शून्यं मन्यते मामिह कोविदा अपि । वक्षोजयुगलं तु समुन्नततया करिकुम्भडंबरमनुकरोतीति विर्चित्य तज्जिगोषयेव दूरीकृतकार्येनावलग्नेन भासमाना समुन्नतोदरतयोत्तुंगोत्तानभृगुतलान्निपतंत्या कालिंदोवेण्येव रोमराज्या विराजमाना ज्वलनापत्यसंपर्कान्निजोदराभ्यंतरापत्यात्ययशंकयेव परित्यक्ततपनीयमेखला परिहसितगजदंतच्छेदक्षीरगौरकांतिकांतकाया लावण्यधिक्कृतमौक्तिकलावण्या रत्नाकरवेलेव परिस्फुरत्पोताकुलोदरा वेशंतश्रीखि पांडरगंडका घन दिवससुरसरणिरिव पयः पूर्यमाणपयोधरा समापन्नसत्वापि गलितबला पूर्णगर्भलक्षणोपलक्षिता लक्ष्यत पक्ष्मलाक्षी । ततश्च कुसुमांचिताकुंचितचञ्चलचूर्णकुन्तलपंक्तिचञ्चन्मस्तकां मंदाक्षमंदमधुरया गिरा जयंतिका प्रणमतीति व्याहरन्तीमुदरभारान्मंदमतिबलादवनितलकृतजानुकरकमलां प्रणिपतन्तीं जयंतिकां प्रसृमरार्भकारुणरुचि -
154
Page #185
--------------------------------------------------------------------------
________________
चतुर्थलहरी
155 रुचिरोत्संगा कुरंगाक्षि! क्षिप्रमेव भव वल्लभसहचारिणीत्याशीर्वचनमुखरयंत्यः कांतारमंतर्हिता बभूवुर्वनदेवताः।
तदनु दशमे मासे सा नरपतिदुहिता जयंतिका जयंतमिव पुलोमजा मुकुन्दमिव देवको पुत्ररत्नमसूत । स शिशुर्जननोहृदयशोकपावकतप्ततयेवारुणतनुरनुरागरसस्नापित इव हृदयाबहिर्जीवसेनः जयंतिकाहृदयजनितदयितवियोगशोकाश्रयाशतापासहिष्णुतयेव बहिरुत्प्लुतो मनोभव इव हृदयशोकनिराचिकोर्षया प्रत्यक्षीभूतस्सशरीरः आनंदसन्दोह इवाराजत । क्रमेण च वलक्षपक्षक्षपाकर इव प्रतिदिवसमुपचीयमानस्संचरणचतुरः षडब्ददेश्यो नग्नः क्रोडारसैकमग्नः प्रफुल्लविचित्रप्रसूननिचितलताविरचितहारमंडलो नयनोपकंठलंबिनश्चिकुरनिकरानसकृन्निजपाणिनोत्सारयन्नाश्रवणमूलमेकाकी कंदरद्वारदेशे पर्यटन्नवलोक्य च प्रधावंतमेकं वातायुपोतं तजिघृक्षया स बालः सुदूरमन्वधावत् । जयंतिका तु वर्तते बहिः क्रीडासक्तो वत्स इति मन्वाना सुचिरं तापस्या जीवसेनोदन्तमेवानुलपन्ती कंदराभ्यंतरे बहोः कालादप्यनागतं तनयं द्रष्टकामा बहिरागत्य तमदृष्ट्वा चावेगसाध्वसवेपमानहृदया निजदौर्भाग्यमनुचिंत्य भृशं दुःखिता सबाष्पगद्दं वत्स ! वत्सेति तारतारमाह्वयन्तो निर्निरोधमाकंदन्तो समुद्विग्नहृदयया तया तापस्या सह तत्र तत्र कुंजपुंजेषु विटपितटेषु गिरिविवरेषु पल्वलकूलेषु दरीषु वल्मोकप्रांतेषु स्रवंतीतीरेषु चान्विष्यान्विष्य तदलाभदुःखभरदम्यमानकंठापि मुक्तकण्ठी विललाप।
हा! क्कासि वत्स ! मंदभाग्यामिमां मां विहाय व गतोऽसि ? पतिविरहितापि धृतप्राणा परुषहृदयेति किमु मचित्तभावनया मजिहासया कापि गतः १ कथमद्य प्राणिमि पापकारिणी ? किमिदानीमपि न स्फुटितं हृदयं मदोयम् ? हा ! प्रलोभनशील ! विधिहतक ! नाहं पतिसुतविरहिता प्राणिमि । भवत्संकल्पमन्यधा कल्पयामि। वत्स ! तिष्ठ तावद्यावदहमपि भवंतमनुव्रजामि । हा! इति बहुधा रुदती भृगुतटा
Page #186
--------------------------------------------------------------------------
________________
156
जयन्तिका
निपत्य प्राणपरित्यागाय निश्चिकाय । तदा बाष्पदिग्धमुखी तापसो निर्वर्ण्य विवर्णवदनामेनां प्राणपरित्यागाय कृतोद्यमामचिंतयत् । कथमिव निवारयाम्येनाम् ? कथं वा सांत्वयाम्येनाम् ? न हि लगति तावदधुना मदुपदेशोऽप्यस्या हृदये। कथं कथमपि पतिविरहजश्शोकस्तनयमुखावलोकनेन शांत इवाभवत् । इत्थं सुचिरं विचिंत्य तामवलंब्य दुःखभरस्फुटितवचनाश्रुधारापरिबाधमानाधरा बलान्मंदमित्थमकथयत् । ननु कल्याणि ! विलोक्य च भवदशां वक्तुमपि सांत्वोक्तिं वदनमिदं परावर्तते । तथापि कथयामि। सावधानमवधारय । दीनाया अपि पराधीनायाः प्रमदायाः अनुचिता हि स्वच्छन्दप्रवृत्तिः । एते च जीवसेनविद्राणाः तव प्राणाः । तद्विरमाद्य तावदनेन यत्नेन । बालभावेन चञ्चलप्रकृतिस्तव तनयः क्वापि प्रयातोऽतिगहनतया परिभ्रष्टवा कस्यापि पुलिंदस्य भवेशवर्ती। प्राप्स्यसि पुत्रमन्वेषणेन । तदधुना धोरा भव । तदन्वेषणपरा भव। जोवसेनोऽपि कापि भवेद्भवदाशया। किं साधितं भवति प्राणपरित्यागेन । “जीवन्भद्राणि पश्यति" इति मुधा नैव कथितं प्राज्ञैः । तदिदानी नीतिमत्या धृतप्राणया त्वया तावत्तदन्वेषणयत्नः कार्यः । विस्रब्धा भव माचसि । गृहाणेमां रत्नमालाम् । बध्वा च मणिबन्धे स्मर पुरुषाकृति मनोहररूपाम् । तदनु चित्रपुरे भवाभिषिक्ता प्राप्स्यस्यवश्यं प्रियं तनयं च।।
तत्र प्राप्ताधिकारश्च प्रेषय तावत्सर्वत्रान्वेषणाय चतुरांश्वरान् । अहमपि पुत्रविरहशोकजईरितहृदयाय मत्पित्रे वोरकेतवे निवेदयामि दृष्टो दिष्ट्या तव तनयस्सुकेश इति। तदवकर्ण्य कर्णामृतं स वोरकेतुस्सादरमानाय्यावश्यं भवतीमभिषेक्ष्यति । तत्सांत्वय पर्यालोचनया हृदयम् । दूरीकुरु शोकावेगमिति । आकर्ण्य च जयंतिका शुभोदर्कमपि सद्यः कर्णकर्कशं तापसोवचनं निश्वस्य हन्त ! मंदभाग्यायाः मम किमवशिष्टं राज्याधिकारेणैकेनेति मुहुः वल्गितवक्षोजयुगलं सगद्दं रुदतो मा भूदंब !
Page #187
--------------------------------------------------------------------------
________________
चतुर्थलहरी
राज्याधिकारः । पतिसुतविरहितायाः किमनेन ? क्वाप्यनाथ इव पर्यटति दीनदीने सुते पत्यौ कथमहं सिंहासनमधिरोहामि ? राज्यं तावदरण्यमिव प्रतिभाति मे । तदलमनेन यत्नेनेति तारतारं विललाप । अगृहोतनिजोपदेशायास्तस्या निशम्य परिदेवननादं तापसो खिन्नमानसा पुनरप्यचिंतयत् । अहो ! विधिविलसितम् ! क्व वा हेमपुरम् ? केदमरण्यम् ? काहं विविक्तवर्तिनो ? क्व चेयं जोवसेनमहिषी ? इंतेदृशावस्थयानया कथमिवोपनतस्सहवासः ? किमिदमपि विलिखितं मदोंय ललाटे विधिना ? हंत ! न सहे द्रष्टुमिति विचिंत्य च तापसो वल्कलांचलेन परिमृज्य नयनवारि भद्रे ! राजभावमवलंब्य माणिक्यमालाबलेन सत्यमवाप्स्यसि सुतपतिसमाश्लेषसौख्यम् । तदंगोकुरु मम प्रार्थनां कृपयेति न्यवेदयत् ।
157
सा तु जयंतिका सकरुणमंच ! तथैव भवतु भवद्वाण्या । करुणयानुगृह्णातु भवतोति व्याहृत्य विरराम । सा तापसी प्रमुदितांतरंगा दृढतरमाश्लिष्य बध्वा च मणिबंधे तां मालां ध्यात्वा च भगवन्तं निजगाद । ननु कल्याणि ! कल्याणाकृतिं पुरुषं ध्यात्वा च तिष्ठ तावदिह यावदानेष्यामि मत्तातं सुतदर्शनोत्सुकमिति तत्कण्ठं पुनरप्यालिंग्य निरगात् । सत्वरं प्रस्थिता सा तापसी चित्रसन्निवेशं चित्रपुरं प्रविश्य च नरपतिप्रासादप्रतीहारे द्वारपालमब्रवीत् । का चन तापसो भवद्दिदृक्षया द्वारि तिष्ठतोति निवेदय प्रभवे इति । द्वारपालस्तु सरभसमुपेत्य राज्ञे न्यवेदयत् । श्रुत्वा च नरपतिः पाताललोक इव बलिसमाक्रांतः विपिनदेश इव तिलकांचितः केदार इव समुल्लसत्कुल्याकुलपार्श्वः प्रदीपज्वालाकोरक इव समधिगतदशाग्रः मुदेव जरया कंपिततनुः स वोरकेतुः प्रासादद्वारमाससाद ! आसाद्य प्रणम्य च भगवति ! पावय चरणन्यासेनास्मत्सौधमिति सविनयं नोत्वाभ्यंतरं समुपवेश्य कनकपौठे किमागमनकारणमित्यपृच्छत् । तदा सा तापसी भो राजन् ! न्भवतस्तनयस्सुकेशनामास्मत्तपोवने तपश्चरति । तदानयनाय मया साकमायाहीति निवेदयितु
Page #188
--------------------------------------------------------------------------
________________
158
जयन्तिका
मागतास्मोति जगाद।
तदनु स वीरकेतुरलुगृहोतोऽस्मि धन्योऽस्मि महानानंद इति तापसी सत्कृत्य तया सह स्पंदनेन प्रतस्थे। प्रस्थितश्च तपोवनमासाद्यारुणतरगंचलं तनुश्मश्रुराजिप्रकाश्यमानपुंभावं मांसलांसपीठमतिपुष्टतयातिसारतया च पृथग्विभक्ताभ्यामिव स्थपुटिताभ्यां भुजदंडाभ्यामुपशोभमानं कठिनतरायतकोडकवाटमवयवेषु पुरुषोचितव्यज्यमानकाठिन्यं स्फुटदृश्यमानरोमकूपांचितगात्रं स्थूलस्थपुटितकठिनोरुयुगलं कांतारसंचारोचितकठिनजंघाकांडं मणिबन्धबद्धमाणिक्यमालामुषितयोषावेषं रमणीयाननमपि समाश्रितकाननं मुनिसमुचितवेषमपि सुजातरूपं समाश्रितारण्यमपि रमणीयपुरोपशोभमानं निदानमानंदानां शिलातले तरुच्छायाशीतले निषण्णं सुकेशाभिधानं निजात्मजप्रतिपत्त्या नातिदूरात्तमपश्यत् । दृष्ट्वा चानंदमंदीकृतगमनोऽपि हृदयोल्लसत्त्वरातिशयेन परिस्खलद्गतिरुपसर्पन्मन्दं वत्स ! वत्सेत्याह्वयंस्तदुपकण्ठमासाद्य तस्थौ । जयंतिका तु तादृगवस्थं स्थविरं निरोक्ष्य करुणार्द्रहृदया किं वा न कारयति वात्सल्यमिति विचित्य झडित्युत्थायावनमितोत्तमांगतयाधोमुखलंबमानजटापटला त्रपात्रस्तमानसा कथंकथमपि कथयन्ती सुकेशः प्रणमतीति सप्रश्रयं प्रणनाम । __अनुपदमेव स वीरकेतुस्सादरं प्रसारिताभ्यां कंपमानाभ्यां पाणिभ्यामुत्थाप्य तं शिरसि परामृशन्वत्स ! किन्नु खल्विदं ? लोकव्यवहारप्रतीपतया प्रतिभाति तवाचारः । क्षत्रावतंसस्य नायं क्रमः। शैशवे तावदभ्यसनीया हृया विद्या। तारुण्ये तु प्रजापरिपालनपरेण गृहमेधिना विषयैषिणा भवितव्यम्। समार्जितयशसः निर्वर्तितधर्मकार्यस्य प्रजोत्पादनेन विवर्धितात्मवंशस्य वार्धके तावदीदृशी वृत्तिरुचिता। तात! भवता त्वधुनैवेयं समाश्रिता या मयेदानी समाश्रयणीया । पश्य वत्स ! वृद्धाः अपि सचिवाः भवत्पुरप्रवेशप्रार्थनामिकांक्षयैव सन्निहिताः । प्रजा अपि भवत्पट्टाभिषेकमहोत्सवावलोकनकौतुकाक्रांताः निरीक्षन्ते भवदागमनम् ।
Page #189
--------------------------------------------------------------------------
________________
चतुर्थलहरी
159 ननु वत्स ! त्वयि तापसवृत्त्या तावदरण्यशरण्ये भवदेकपुत्रस्य मे का गतिः १ राज्यलक्ष्मीरपि निरवलम्बना भविष्यति । परराजवशवर्तिनी च । स्यादेतदखिलमपि; विमृशतु भवानेवाधुना मदोयामिदानींतनी स्थितिम्। पश्य माम्। कापुरुष इव परिस्खलद्वर्णोऽस्मि । जरया तावदहं शिशुभावाविशेषितोऽस्मि। प्रायो जगति जनाः वयसीदृशे सुखलिप्सया किल पुत्रमभिलपंति। वत्स! मामीदृशावस्थं परित्यजतस्तव न तावत्पश्यामि किमपि फलं तपसा। त्यक्तपितृवरिवस्यस्य न किमपि कर्म सिध्यतीति वदंति प्राज्ञाः। तदुत्तिष्ठ। निधेहि धर्म धियम् । धवलयोपार्जितेन यशसा भुवनमण्डलम् । प्रकाशयात्मसंभूतेन पुत्रेणास्मद्वंशम् । आनंदय साधुजनपरिपालनेन प्रजानां मनांसि। तर्पय देवताः क्रतुकर्मणा । मानय गुरुजनानामय विपक्षोत्तमांगानि । ततश्च कृतकृत्यो लब्धवृद्धभावो वृत्तिमिमामेवावाप्स्यसि । गंधर्वनगरमिव प्रतिक्षणं परिणाममुपयाति वयोऽपि । तद्विधिना यदा च यद्विहितं तदा तदवश्यमनुष्ठेयम् । अन्यधा कृतमकृतम्। भवांस्तु क्षत्रकुलोत्पन्नः। तदवश्यमधुना वोढव्यो राज्यभारः । तदिदानी प्राप्ततारुण्यस्य धर्मो हि राज्यपरिपालनम् । नेदं तपः । कुमार! मा तावदुपयातु मोघतां काननचन्द्रिकेव तवेयं रूपसंपत्तिः । मा च वनलताप्रसूनमिव ते यौवनमपि जोर्यतु वने एव। तदेहि वत्सानंदय पौराणां नयनानि नोदय पित्रोरावयोर्वयोविह्वलयोः पुत्रविरहजक्लेशमित्यभ्यर्थयामास।
तदनु वयोवृद्धर्ज्ञानवृद्धैश्च ननु कुमार! माररूपोऽसि। किमनेन तपोनुगुणवेषेण । पितृमनस्संतोषणमेव हि पुत्रकृत्यम्। तदेव तपः । तदेव धर्मः । तदेवावदातं कर्म। तदेव परलोकसाधनम् । तदेव ऋतुः । तदेव यशोमूलं ; यत्पितृमनोरथपूरणम् । तदेहि राज्यावनायेति सचिवैः प्रार्थितस्स सुकेशः बद्धांजलिपुटः ननु भगवति! तपोधने! भवतीमंतरा नाहं कामये राज्यसुखमपि । तदायातुमर्हसि मया साकम् । निरंतरमपि
Page #190
--------------------------------------------------------------------------
________________
जयन्तिका
सन्निहिता भवती हितैषिणी, चित्रपुरमपि पवित्रयन्ती चरणविन्यासेन मामनुगृह्णातु कृपयेति प्रार्थयामास तां तापसीम् । सा तु तापसी सस्मितं वत्स ! कुमार ! किमेवमभिदधासि ? क राजधानी ? कारण्यानी ? भोगः क्व ? क्व च तपः ? परित्यक्तसर्वविषयायाः नोचितः खलु नगरवासः । कामक्रोधाद्यावासः खलु राजधानी । अकृत्यमपि कारयति तत्रत्यस्सहवासः । अवाच्यमपि वाचयति । अगण्यमपि गण्यतां नयति । अश्राव्यमपि श्रावयति । मानमत्ततामुत्पादयति । अप्रतीक्ष्यमपि प्रतीक्षयति । अविवेकप्रसवित्री खलु राजधानी तावदाशाविवर्धिनी । तदलमनया प्रार्थनया । गच्छतु भवान्पित्रा साकम् । निरंतरमपि धर्मपरो भव प्रजापरिपालनेन । अहमस्मि कानने । यदा च मद्दिदृक्षा तदागच्छतु भवान्मदुपकण्ठम् । मा मनसि चिंता तावदेतदर्थम् । तद्याहोत्यकथयत् ।
1
160
1
तदवकर्ण्य स सुकेशः सविनयं बद्धांजलिपुट: भगवति ! भवत्यास्तपसस्तावन्नैव प्रत्यूहः । तत्र परिजना अपि यथाभिलाषं भवतीमनुसरति । कल्प्यते च भवदर्थं विविक्तो देशः । अयमभिनिवेशेन मामेवं निर्बध्नातोति मनसि न कर्तव्यम् । भवत्सान्निध्यं निरंतरमपि भवत्विति मनीषयाभ्यर्थये । तदनुगृहाण मामनुगमनेनेति प्रणिपपात । वीरकेतुरपि सप्रश्रयं भगवति ! पवित्रय चित्रपुरमपि । मत्पुत्रप्रार्थनामंगीकृत्य तत्र स्थिता च कालानुगुणनीतिबोधनेन सन्मार्गगामिनं करोतु भवती कुमारम् । भवादृशास्तावदंकुशप्रायाः खलु राज्यलक्ष्मीमदोत्कटनृपालमातंगानाम् । निरंतरमपि परोपकारपरायणाः खलु तपोधनाः । तदिदानीमलंकरोतु भगवती भवती शिबिकामिमां इत्यसकृदभ्यर्थयामास । निशम्य तद्वचनं जयंतिकायाः प्रार्थनां च विचार्य मनसि चिरं विचिंत्य च सा तापसी किं कर्तव्यम् ? कथं वर्तितव्यम् ? किमनुष्ठातव्यम् ? बलवती खलु ! भवतां प्रार्थना । निराकर्तुं तां परावर्तते मे मनः । भवतु तथा यथा च नियतेस्संकल्पः । तमन्यधा कर्तुं नाहं समर्था । तदिदानीं प्रस्थितास्मीति निजकंदराभ्यंतरं
Page #191
--------------------------------------------------------------------------
________________
चतुर्थलहरी
161 प्रविश्य दंडकमंडलुकृष्णाजिनचीरांबरादिकमादाय निधाय च शिविकायां स्वयमप्युपाविशत्।
तदनु सप्रमोदं कतिपयबलपरिगतस्सन्स सुकेशो मधुवर्ण सिंधुजातं सैंधवमधिरुह्य मंदारनामानं चित्रपुरमभिप्रतस्थे । प्रस्थितश्च दुर्गम कांतारमतिक्रम्य च विचित्रचित्रचित्रितं चित्रपुरं प्राविशत् । तदानी मत्तकाशिन्योऽहमहमिकया समाश्रितक्षौमाः क्षौमालंकृताः राजमार्गेणापतन्तं समनयनमपि विषमनयनमिव महासेनादृतं सुजनपरिगतमपि निस्त्रिंशपरिगतं लक्ष्मीहृदयमिवाच्युतरूपाक्रांतं सुकुमारं रूपापहसितमारं राजकुमार विलोक्य ननंदुः।
एवं प्रदक्षिणीकृतनगरः पौराभिनंदितः पुरंध्रीभिर्विरचितमंगलविधिः सचिवैरनुगम्यमानः प्रासादं प्राविशत् । प्रविश्य च तस्यै तापस्यै सौधे एवावासमेकत्र विविक्तमकल्पयत् । तदनु शुभेऽहनि शुभे मुहूर्तेऽभिषिक्तश्च स सुकेशो मणिगणरुचिरविविधविचित्रपत्रभङ्गं लम्बमानपरिमलबहुलप्रसूनमालापरिसरपरिभ्रमद्भुङ्ग सितातपत्रसमुल्लसितशृंगं प्रत्ननवरत्नप्रभापिशंगं समुत्कोर्णसुवर्णसालभंजिकातरंगं राज्यलक्ष्मीलासिकानर्तनरंगं तुंगं सिमासनमारोह । आरुह्य च सामंतनरपतिमूर्धावतंसितसुममालाप्रसृतमधूलीधुनीपालोमरालीकृतचरणयुगलः नरपतिरराजत।
इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशारद, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, राष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूग्नाल्वडिकृष्णभूपसुवर्णपदक-साहित्यपरिषद्रजतपदकसमलङ्कत–जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां
चतुर्थलहरी सम्पूर्णा ॥
J-21
Page #192
--------------------------------------------------------------------------
________________
॥ पञ्चमलहरी ॥
तदनु सा विधृतनरपतिवेषा जयंतिका त्वखिलविटपिपटलपरिगतमुरुगजरिपुमुखमृगगणसमुपजनितभय - मचिरकरिकलभविलुलित किसलयकुसुमनिचयपरिमलबहुल - मतिचटुलकुपितकपिकुलकलहचलितविटपिविटपशिखरदलनिवहरवमुखरित - मतिरुचिरपिककुलकलर वकलितपरिमलबहुलकुसुमविसरपरिसरचरमधुकरनिकरनिनदसुभग - मनुसृतवनचरजनभयचलितहरिणनिचय चरणगतिरयपरिमृदितधरणितलनिपतितरविकिरणपरिणतदलरवबहुल - मुलपपिहितकिटिपटलहननकुतुकिमृगयुसमुदय - मतिरयचरचमरमृगगणचरणनिशितखुरहतिविदलितपवनचलितचरमतनु रुहनिवहविस्मर - मृदणुगणशबलित-मचिरवनचरनिहतकुरररवमुखरित-मविरतवनजनमिथुन
निधुवनमथितशिथिलितकचनिचयगलितविकच विविधकुसुमपरिमलवहपवन परिचलितलत - मुरुकरटतटनिकषणजनितसुखद रविवृतवदनकुहरगलितनलकबलगजचरणकलुषिततरुतलपरिसर - मतिमधुरसरिदुदकविहरणपरविविधपतगगणरसितसुभगतर- मनवरतमपिमृगपतिपरुषरवमुखरितगिरिविवरमुरगततिमुखविषपवनमुषितमूषिकं विपिनमुपेत्य वनविहारकैतवेन तत्र तत्र पुत्रमार्यपुत्रं च स्वयमेव तुरगाधिरूढा मृगयति स्म ।
प्रधावितस्य तुरंगमस्य वेगमवलोक्य त्रपयेव त्रयीतनुतुरगेऽपि चरमगिरिसानुतलनिलीने तुरगखुरपुटकुट्टन त्रुटितगिरितटगैरिकधातुक्षोदेखि रंजिते संध्यारागैर्गगनांकणे दरविवृततरुत्वगभ्यंतरेषु विटपिकोटरेषु च नीरवं निलीने च विविधशकुनिसंघाते निद्राविद्राणैः शाखामृगैः नीरंध्रासु तरुशाखासु निबिडकीचकध्वानदंतुरे कांतारे कुंजपुंजमधिशयानेषु भल्लूकेषु परिस्फुरत्स्फुलिंग संकाशखद्योतसमुद्योतिते शाद्वलतले दवदहनज्वालाशंकामापादयत्सु ज्योतिर्लतापटलेषु तारतारझिल्लीरखमुखरितेषु हरिदंतरेषु घूकसंघघोरघूंकाररवशब्दापितेषु गुहाभ्यंतरेषु ससाध्वसमवलोक्य ध्वांतावनद्धं
162
Page #193
--------------------------------------------------------------------------
________________
पञ्चमलहरी
वनाध्वानं दृढतराकृष्टेन खलीनेन कशाभिघातेन च निवर्तिततुरंगमा पाणिताडनद्विगुणितजवं वाजिनं प्रकालयति स्म पुराभिमुखम् । प्रधावति च सैन्धवे खरतरखुरशिखरपरिरिंखणविदलितशिलाशकलपरिस्फुरत्स्फुलिंगसंगदग्धक्षितितलनिपतितशुष्कपत्रपटलतया सभयमुत्प्लुतशशवृंद संकुलं दवदहनशंकया कुलायेभ्यः प्रस्थितानां पत्ररथव्रातानां दीनरावदंतुरं प्रबुद्धानां क्षिप्रमृक्षहर्यक्षतरक्षुप्रमुखानां वनसत्वानां रूक्षारवैः परिक्षुभितं काननमभवत् ।
सा जयंतिका तु कशाभिघातेन द्विगुणयन्ती वाजिजवं परिस्फुरन्मणिदीपपंक्तिं कचिद्वीणां सारयन्तीभिः क्वचिदालापैकतानाभिः क्वचि - लास्याभ्यसनपराभिः क्वचिद्विचित्र प्रबन्धवाचनव्यग्राभिः बालिकाभिः दर्शनीयागाराभ्यन्तरां कचिद्विजवरगीयमाननारायणविचित्रस्तोत्रवाचालितां चित्रपुरीं प्राविशत् । प्रविश्य च राजमार्गेण गच्छन्ती समासाद्य च प्रासादं द्वितीयकक्ष्यांतरे ससंभ्रममुपसृत परिजनपरिगृहीतखलीनात्तुरंगमादवतीर्य दूरीकृतपरिजना स्वयमेकैव भित्तिनिखातनागदंतलंबितकाषायवल्कलं विमलोदकसंभृतकमंडलुमंडितैकदेशं प्रभुप्रेषितविविधमधुररसभरित - फलसांद्रकनकभाजनसनाथवेत्रासनं विस्तारितकृष्णाजिनशार्दूलचित्रकायाजिनदर्शनीयमेदिनीतलं शंकुलंबित स्फाटिकजपमालं भित्तिसाचीकृतरज्जुखटांगं पृथुदंडघटितरांकवभस्त्रिकासनाथकोणदेशं एकदेशविनिहितहसन्तीसमारोपितदुग्धभाजनं प्रविश्य च विविक्तं भवनं समास्तीर्णरुरुचर्मोत्तरच्छदतल्पसनाथे पर्यके निषण्णायै तस्यै तापस्यै नमश्चक्रे ।
163
-
नमस्कृत्य च तया समुपदर्शिते समासीना भद्रासने सगगदमंब ! भगवति ! पट्टाभिषेकदिनादारभ्य केनापि कैतवेन तुरगाधिरूढा तावदहमितो गता कांतारेषु भृगुप्रांतेषु वल्मीकोपांतेषु गुल्मेषु वेशंतेषु कंदरोदरेषु गिरिदुर्गेषु तरुनिवहेषु गाधेतरावटेषु स्रवन्तीप्रांतेषु पक्कणेषु नगरपरंपरासु च यथेच्छमन्यत्रापि तत्र तत्रान्विष्य तनयं वल्लभं चालब्ध्वा परिगृहीत
Page #194
--------------------------------------------------------------------------
________________
जयन्तिका
ग्राम्यजनोचितवेषा पुनरप्युपशल्येषु पक्कणेषु च विचारयन्ती अभिज्ञानशंसनपुरस्सरं तत्रत्यानप्राप्तमनोरथा भिक्षुरूपाच्छादितात्मरूपा नगरेषु परिभ्रमन्ती तदलाभनिर्वेदविषण्णहृदया पुनरप्यस्मिन्नहनि प्राप्तकांतारा मुधा आसायं परिभ्रमन्ती वितथमनोरथा प्रतिनिवृत्तास्मि । बहुधा चिंतित - मपि नैव स्फुरति तत्प्राप्तिसंभावनापि । यदर्थमनभिमतोऽप्यंगीकृतोऽयं वेषः । राज्यसंपदप्यनुमता । हन्त ! नैव गणितो राज्यभारक्लेशोऽपि । समाश्रितश्च कुलप्रतीपोऽयमाचारः । जल्पितमप्यनृतम् । धिगिमां माम् । तयोरलाभे किमनेन वेषेण किमनेन राज्येन किंवा जीवितेन ? जगदिदं शून्यमिव प्रतिभाति । निरयप्रायं खलु राज्यमिदम् । सुखमिदमप्यसुखायते । ज्वलनज्वालेव मां दहतीयमाभरणपरंपरा । विभूषणमणिरश्मिजालबद्धेवास्मि राज्ये नियन्त्रिता । निरर्थकं मे जन्म । तदिदानीं क्षणमपि नाहं वसामि सौधेऽस्मिन्नरण्यानीशरण्या भवेयम् । भवतु भवत्येव तावदिह वीरकेतुमनस्सांत्वनाय । दत्वा चाहारार्थं वनसत्वेभ्यशरीरमिदं सार्थयामि जन्म मदीयम् । इति व्याहरती मन्दं श्रमापनिनीषया भूषणमखिलमप्यवतार्य स्वयमेव निवार्य च मुखकमलतालसमुल्लसच्छ्रमजलबिंदुजालं चेलांचलेन वीजयंत्यात्मपाणिना चिंताक्रांतस्वांता बभूव । तदानीं सा तु तापसी श्रमापनयनाय वीजयंत्यास्तस्यास्तावददृष्ट्वा मणिबन्धे मणिमालां सावेगं वत्से ! किन्नु खल्विदम् १ न दृश्यते ते मणिबन्धे निबद्धा सा मणिमाला । किमु भवत्या क्वाप्यवतार्य विनिहिता - भ्यंतरे ? आहोस्विदरण्ये परिभ्रमंत्या त्वया क्वापि विनिपातिता ? किमिदम् ? शून्यमणिबन्धासि । इत्यपृच्छत् । एवमभिहिता सा तु जयंतिका निजमणिबन्धमवलोक्य मालारिक्तमावेगेन साध्वसपरिस्फुरदयेतिकर्तव्यतामूढा किं करोमि ? नास्ति खलु मणिबन्धे माला । हन्त ! वाजिनो जवोत्पादनाय समुच्चालितभुजदंडतयांधकारस्थ गिते कांतारे क्वापि प्रच्युता भवेत् । धिगेनां मां मंदभागिनीम् । किमद्य करोमि ? कथं
164
·
Page #195
--------------------------------------------------------------------------
________________
पञ्चमलहरी
जीवामि १ हन्त ! सर्वधा प्रतिकूला नियतिः नर्तयति मामेवं धृतप्राणाम् । तत्त्यक्ष्यामि प्राणानिमान् । किमितः परमनेन जीवितेनांब ! प्रवेशितास्म्यंवंतमः । परिभ्रमत्युत्तमांगम् । शुष्यति जिह्वा । कथं वर्ते १ न जानामीति बहुधा विललाप । एवं विलपन्तीं तामवलोक्य नितांतचिंता। संतानतांतस्वांता सा तापसी मनसीत्थमर्चितयत् । हन्त ! किमद्य करोमि ? प्रतिकूले तु दैवे सर्वमपि प्रतीपतया प्रवर्तते । मया तावत्प्रवर्तितः प्रयत्नस्सर्वोऽपि प्रतिभटतयाभिपतति । अनिच्छंत्यपि कथमपीयं राज्ये स्थापिता प्रभ्रष्टपतितनयान्वेषणयुक्तिरप्युपदिष्टा । तदर्थं शक्तिविशेषसाधनीभूता प्रदत्ता मणिमाला | हन्त ! भोस्सर्वमपि भस्मनि हुतमिवाभूदिदानीम् । किमु लगति ममोपदेशोऽस्या हृदि ? भविष्यति सांत्वोक्तिरपि चर्वितचर्वणरूपा । वेदांतार्थप्रतिपादनमपि भवत्यूषरक्षेत्र वृष्टिकल्पम् । आयतिशुभंयुवार्तापि परिहासाय कल्पते । लोकोक्तिरपि नैव मनः परिवर्तयति । क्लेशजातमुपर्युपरि पतमानं शिलामयं मानसम् तनोति । ममापि परावर्तते जिह्वा सांत्वोक्तिमभिधातुमपि । किं कर्तव्यम् ? कथं कथनीयम् ? किं व्यवस्यतीयमिति बहुधा विचित्य च जयंतिकामित्थमकथयत् ।
ननु जयंतिके ! यद्यपि दयनीयासि । भवद्दशामवलोक्य किमपि वक्तुमपि परावर्तते मे जिह्वा । दयिततनयवियोगदंदह्यमानहृदयासि । निर्वेददूरीकृतजीविताशासि । क्लेशपरंपराजिहासितदेहासि । तथापि मनसमाधेहि निधेहि मदीये वचसि । प्रायो जगति तावदेव प्रगल्भंते ; दुर्विदग्धा अपि विदग्धा भवंति । बालिशा अपि कल्पते कार्यनिर्वहणाय । अमान्या अपि मान्यंते मानवैः । दुश्शीला अपि सुशीला विलसंति । अनभिजाता अपि आभिजात्यपदवीमारोहंति । कुरूपा अप्यपहसितमनसिजरूपाः प्रकाशन्ते । यावन्नियतिरनुकूला कलयति निरतिशयकटाक्ष विशेषं नरेषु । ईदृशे क्लेशव्यतिकरे तु नियतिपराङ्मुखतादशायां तद्वयतिरेकिणो भवन्ति मानवाः । तद्विवेकिना कष्टकालेऽपि नैव त्याज्यं धैर्यम् । न
165
Page #196
--------------------------------------------------------------------------
________________
जयन्तिका
शिथलीकरणीयं पौरुषम् । न विसर्जनीयो यत्नः । कर्तव्यं कर्म । स्मर्तव्यशुभोदर्कः । हातव्यं दैन्यम् । चिंतनीयः कर्तव्यांशः । समाश्रयणीयं धाष्टर्यम् । दूरीकरणीयं वैक्लब्यम् । चेतयितव्यं चेतः । चेतनमनुसरति हि द्वन्द्वपरंपरा । नत्वचेतनम् । संपदि वापदि वा अतर्कितमेव श्येनपातं अभिपतति । न गणयति गुणान् । न लक्षयति लक्षणानि । न परिशीलयति शीलम् । नेक्षते कुलम् । न पश्यति वयः । नावलोकते रूपम् । किं बहुना चतुराननोऽपि सावधिकाधिकारो हि नियते काले । ततश्च सोऽपि मादृश एव । तत्प्रकृतेः परिणामशीलतां परिशीलयन्मनीषी दुःखे सुखे च समदृष्टिः नैव जहाति कर्तव्यं कर्म । तद्भवत्यपि साधु विमृश्य स्थितिमिदानींतनीं धैर्यमवलंब्य च कर्तव्यकर्मरता भवतु | अद्य ते तु नैव स्त्रीत्वम् । नापि पुंस्त्वम् । उभयविलक्षणं हि रूपम्। कदापि यदि सन्निहितस्तव दयितः कथमिव प्रत्येति भवतीमीदृशवेषां जयंतिकेति ? माणिक्यमालां तामंतरा ते दुर्लभमेव प्राथमिकं स्त्रीरूपमपि । हन्त ! सा तुमाला क्वापि नष्टा । किमद्य कर्तव्यम् ? कथमन्वेष्टव्या ? कुत्र व। निपातिता । सा तु माला तनुतनुतरा वल्मीकोदरे वा महति विवरे व. यदि निपातिता कथमिव तदुपलब्धिः ? निरवधाना संवृत्तासि ? बहुधा चिंतितमपि न मे किमपि प्रतिभाति । तदेवं मनसि कृतम् । पुरुषमुद्योगिनमुपैति लक्ष्मीः । वयमपि कृतप्रयत्ना भवामः । श्वः कल्य एव तुरंगमाधिरूढे आवामन्विष्यावः । तदलमनया चिंतया । याहि वत्से ! भुक्त्वा सुखं स्वपिहि । किं प्रयोजनं केवलेन परिदेवनेन ? प्रयत्नपरे भवावः । नियतिरनुकूलयति । द्रक्ष्यसि शुभोदर्कमिति ।
तदनु सा जयंतिका प्रणिपत्य तापस्यै सबाष्पं भगवति ! भवदनुग्रहविशेषाद्भवत्वेवमेवेत्यभिधाय निर्गत्य च तस्मात्कृताहारा चिंतायत्तस्वांता आनिशांतमनारूढनिद्रा तल्पतलपरिवर्त्यमानगात्री प्रतिपालयति स्मारुणोदयम् । मंदालोंके प्रत्युषसि समुत्थाय तल्पादनभिलषितपरिजनपरिचर्या
166
Page #197
--------------------------------------------------------------------------
________________
167
पञ्चमलहरी चर्यादत्तदृष्टिनिवर्तितस्नानादिविधिः विधिनिहितभारा तापसीभवनमासाध प्रथममेव प्रबुद्धां निर्वर्तितस्नानां तापसी प्रणम्य तया साकमाद्वारमाजगाम । उभे अपि ते द्वारि स्थितौ वाजिनावधिरुह्य प्रस्थिते । निद्रासक्तपौरजनतया नीरवेण नगरमार्गेण मंदालोकतया दृश्यादृश्यगर्तमनल्पतुहिनपातजडतरशाद्वलं कुंजोदरपुंजीभूततमःपटलं प्रतिक्षणमाविर्भवदालोकतया विस्तार्यमाणमिव पेचकपीडासमारटत्काकपटलदीनरावमुखरिततिमिरबहुलतरुपंडं तिमिरनिरंतरश्वभ्रपतनभियेव मन्दं मन्दं चरता मारुतेन प्रतिबोध्यमानवनसत्वं दरविकसद्विविधवनकुसुमचित्रगन्धबन्धुरं दुरवगाहं गहनमवजगाहाते । तावता कालेन दिनांते परिगृहीतं तेजः पुनरप्यर्पयितमिवादित्यागमनमनुपालयतः समाश्रितप्राचीहरितः जातवेदसः तेजःपुंजेनेवारुणोदयरागेण रंजिते पूर्वहरिदन्तराले प्रबुद्धपतत्त्रिणां विविधरवैः शब्दापिते कांतारे क्रमशः प्रकाशमाने रविमण्डले वत्से ! पूर्वेद्युः किमत्र प्रयातम् ? उताचाहिंडितम् ? वदेति पृच्छन्ती तापसी मालान्वेषणपरा जयंतिकया साकं कांतारमभितः पर्यटति स्म।
तत्र तत्र मार्गणव्यग्रे दुर्गममार्गपरिभ्रमणखेदमप्यविगणयन्त्यौ बभ्रमतुरामध्याह्नम् । अंबरमध्यमधिगतवति भगवति भास्वति ज्वलनस्फुलिंगनिकरैरिव प्रचण्डैरातपैः परितप्यमाने कानने खरतरातपपरिजिहीर्षया प्रच्छायतलमाश्रितेषु वनसत्वेषु सुदूरं कांतारे कृतधावनतया तीक्ष्णतरातपपरिक्लांततया च स्नापिताभ्यामिव स्वेदजलाईविग्रहाभ्यां पदे पदे प्रस्फुरन्नासारंध्र चलाचलोदरपा च निस्सरन्निश्वासाभ्यां पिपासया कासारदेशविवलितकंधराभ्यां सैंधवाभ्यामवतीर्य करगृहीतखलीने कतिचिदिव पदानि गत्वा निषिडातपसंतापासहिष्णुतया तलगतैर्विसारविसरैरुपेतं नलिनीदलोदरनिलीनमरालपोतक्कणितसुभगं तरंगशीकरशीतलकमलकषायगन्धपरिवेषणैकतानमारुतिकिशोराभ्यर्च्यमानाभ्यागतजनं जानुस्थितैणकुलपीयमानतटसलिलं प्लवनावतीर्णप्लवगालोडितकमलवनं संतापहरण
Page #198
--------------------------------------------------------------------------
________________
168
अवन्तिका
धुरंधरं सरोवरमवातरताम् ।
अवतीर्य च स्नानपानपरिहतश्रमौ तुरंगमौ पर्याणविहीनौ च विधाय बध्वा च तेनैव खलीनेन तरुमूलतले प्रकीर्य च पुरोभागे करोत्पाटितघाससंभारं अनासादितरत्नहारतया दूयमानमानसे तद्वामिव व्याहत्यौ वीचिमालाशीतले तीरशिलातले कंचित्कालं चिंतातरलितस्वाते समुपाविशताम् ।
तदा सा तापसी निन्दन्तीमात्मनः कर्म निर्मर्यादविषाददूषितात्मजनि जयंतिकामब्रवीत् । अयि कल्याणि! मा रोदीः । इयन्तं कालं कृतः खलु कर्तव्यः पुरुषप्रयत्नः । स तु फलेग्रहितां नैव लेभे। तदितो नियतौ नियतं निहितात्मभरा भव । तदुत्तिष्ठ । कृतस्नानविधिः प्रयतस्वांता प्रार्थयास्मत्पुराधिदेवतां दुर्गाम् । यधुपलभ्येत सा माला तदपहर्तुरेव शिरस्तुभ्यं समुपहारीकरिष्यामीति । सा तु दुर्गा प्रसादसुमुखी प्रार्थितमर्थ निवर्तयिष्यतीति । श्रुत्वा तापसीवचनं समुचितमचिरादेवावतारितोष्णीषा सलिलमवगाह्य च निर्वर्तितस्नानविधिः जयंतिका धृतार्दाशुकैव विशुद्धाशया बद्धांजलिपुटा दुर्गामेव हृन्मार्गे चारयन्ती तथैव प्रार्थयामास । सापि तापसी सरसि कृतावगाहा हृदयकुहरविनिहितदुर्गा अंब! भगवति ! जयंतिकामनोरथमापूरयेति सभक्ति कृतांजलिरभ्यर्थयामास ।
___ तदनु तुरगाधिरोहणसमुचितवेषा जयंतिका पर्याणपरिष्कृतं वाजिनमधिरुह्य हयाधिरूढया तापस्या सह प्रस्थिता मध्येमार्ग नात्युनतं सोपानशतपरिमंडितं ददर्श शिलोच्चयम् ।
विलोक्य च ते उभे अप्युपरि दिदृक्षया वाहाभ्यामवतीर्य तदुपत्यकायां नातिदूरे तस्मूले बध्वा च वाजिनौ मंदमधिरुह्य सोपानपरंपरां सुधाधवलितप्राकारपरिंगतं नात्युन्नतचतुरश्रशिलापीठप्रतिष्ठापितेन तालतस्तुंगेन समुत्कीर्णबद्धांजलिपुटसुपर्णविग्रहेण शिलास्तंभेन विराजमानपुरोमार्ग प्रत्युप्तशिलाफलकसंधिविवरप्ररूढनवघास किसलयपंक्तिहरित
Page #199
--------------------------------------------------------------------------
________________
पञ्चमलहरी
169 रेखांकित-प्रदक्षिणमार्ग दक्षिणपार्श्व-प्ररूढपाटलपादपनिपतितकुसुमपटलपाटलितैकदेशं तदुपकंठविलसदलिनिकरझंकृतिमुखरितकेसरतरुपरिपतन्जरत्तरच्छदेनाच्छादिततलमिष्टकचितशिथिलगलितैकदेशतटमंडलेन विशीर्णकोणविवरसमुद्तदंतशठाजालकेनानतिगभीरतया परिवृतनिबिडांधकारतया च लोष्टपातोत्पादितशब्दानुमेयसलिलेन सलिलप्रांतशिलाघनलिसशैवालनीलेन प्ररूढविविधलतामूलशिथिलितसंधिबन्धेन कूपेनोपशोभमानवामपार्श्व चंडातपासहिष्णुतया विवरच्छायाशीतलतलानुभूयमाननिद्रैः पारावतेधूसरितेन चिरगलितसुधेन लस्तमग्नभुग्नकतिपयमेचककलशेन कैश्विद्विशीर्णैः कैश्चिदपगतकरचरणैर्विवर्णैः पुत्रिकागणैः परिवृतेन नात्युन्नतेन गोपुरेण विराजमानोर्ध्वमागं प्ररूढाश्वत्थवृक्षकशिथिलीकृतस्तोकस्रस्तगोपानसीशिलाफलकपरंपरं द्वारवितर्दितलाचिरनिपतितनीरसचुक्रपिंडसंसूच्यमानताम्रभाजननिर्णेजनं संमार्जनीपुंजीकृतावकरनिकरसमुद्धरणव्याद्वारांतर्गतजरद्वपलं भक्तजनतासमुद्दीपितकर्पूरघूमपटलकालीकृतबलिपीठं लोहार्गलनिकटघटितायोमयवलयप्रोतायसपृथुलशृंखलिकामंडलकलितकवाट-युगलेनानत्यायतेन पाषाणप्रतीहारेण मनोहरं पृथुलशंकुलंबितपटहमदलकाहलं स्फुटितचर्मप्रावृतभेरिकाक्रांतैकदेशं एकदेशविनिहितचिरंतनशिथिलवैनतेयवाजिवारणवायुसुतमरालादिवाहनं साचीकृतजीर्णसितातपत्रपटलाक्रांतकोणदेशमधोमुखं शंकुलंबितधूमकालितचिक्कणचामरयुगलविलसद्भित्तितलमोद्घाटितस्फुटित - प्रांतस्नेहचिक्कणचिरंतनतिरस्करिणीपिहिताभ्यंतरद्वारं तैलसंसर्गहरितारकूटश्रङ्कलिकालंबितचिकणदीपभाजनतनुदशाग्रनिश्चललोहितमंदालोकदीपकलिकालंकृतगर्भगृहं अचिरकृतस्नानतया शिरोग्रस्थापितपलितचूडाशिखरबद्धग्रंथिना बहुलरजनीसोदरदेहातिना वलिरोमनासागलितधूमदलचूर्णकालीकृतशिंखाणांकितस्नेहचिक्कणपटच्चराच्छादितवामभुजशिखरेण देहलग्नमेचकयज्ञोपवीतेन विगलितकतिपयरदनतयाऽपरिस्फुटस्तोत्रपाठावसरतरलतरविरलकर्बुरमलपंकावेष्टितरदनराजिदर्शनीयवदनेन मांसलेन पिचण्डिलेन J-22
Page #200
--------------------------------------------------------------------------
________________
जयन्तिका
वामनेन धवलारुणकरवीरकुसुमगुंभनव्यग्रकंपमानांगुलिपाणिना सप्ततिवत्सरदेशीयेनाजानु-विरचित-धूमकलुषितदाडिम- कुसुमसवर्णचोरांबरकच्छेन मलिनतरस्विन्नश्वेतमृत्तिकोर्ध्वपुंड्रेन मंडितमसृणासितललाटफलकेन गर्भगृहद्वारदेशनिषण्णेन देवलकेनोपशोभमानं जरद्वृषलकृतपृथुलकुटिलरंगवल्लीरेखातरंगालंकृतांकणं देवालयमपश्यताम् !
1
दृष्ट्वा चांतः प्रविश्य किमिदमतर्कितराजागमनमिति सविस्मयं विचित्याभ्युद्गतेन चकितचकितेन तेन देवलकेन ससंभ्रमं समुद्घाट्य तिरस्करिणीं संदर्शितं राजताभरणराजितं नीराजितं च जनार्दनं प्रणम्य समर्प्य च दक्षिणां प्रदक्षिणमार्गेण प्रचलंत्यौ देव ! भवादृशैरेव प्रभुप्रकांडैरवेक्षणोयमिदं जीर्णं मंदिरम् । भगवतो वसनमेकमपि नैव दृढतरम् । किं तु पटच्चरम् । वाहनानि प्रतीकहोनानि । पक्षीशस्य क्षुभितं पक्षयुगम् । प्रभंजनसुतस्य ध्वस्तो हस्तः । वारणस्य चरणं सव्रणम् । हयस्य क्षतमक्षि | मरालस्य खंडितं तुंडम् । कण्ठीरवस्य कुंठितः कंठः । नैव दीपस्य तैलमपि । निवेदनविहितस्तंडुलोऽपि खंडितः । क्रमेण पतति तत्र तत्र भित्तिः । इति सप्रश्रयं बद्धांजलिपुटं निवेदयता किमपि विवक्षया सरभसमन्वागच्छन्तं तं देवालयपालकं जरदूषलं प्रचालितेन पाणिनैव निवारयता तेनैव देवलकेनानुगम्यमाने सोपानपरंपरामवरुह्य भवतु पश्यामः इति तं देवलकं संप्रेष्य सैंधवाधिरूढे सत्वरं पुरं प्रविश्य जग्मतुस्यौधाभ्यन्तरम् ।
170
तदनु सा जयंतिका समधिगततापस्यनुमतिः पटुतरान्कतिपयभटानभिधाय मालालक्षणं पञ्चषेभ्यो दिवसेभ्यः युष्माभिरन्विष्य कथमपि मालापत्र साकमानेतव्या माला । अथवा यदि कापि निपतितोपलब्धा तदा तामेकामेवानयंतु भवत इति प्राहिणोद्विपिनं तदेव यत्र पर्यटितं पूर्वेद्युः । प्रस्थितास्ते तु भटाः कांतारे तत्र तत्र दिनत्रयमन्विष्य मालामलब्धा च खिन्नमानसाः कांतारसंचारेण चतुर्थेऽहनि क्षुत्पीडासहिष्णवो बुभुक्षया गव्यूतिदूरवर्तिनं घोषमालोक्य तदभिमुखं प्रतस्थिरे । गत्वा च
Page #201
--------------------------------------------------------------------------
________________
पञ्चमलहरी
171
क्रोशमिव सूर्यातपपरिजिहीर्षया तमालतस्यच्छायशीतले शिलातले निषण्ण धृतसांद्रनीलचेलचण्डातकं भुजशिखरकृतासितकंबलं परिगृहीतशरोरमिव मौढ्यं ग्राम्यवृत्तिव्यंजकेन वर्णैकलोभनोयेन वन्यप्रसूनपुंजेन परिष्कृताल्पचूडमातपपर्यटनासितशरीरतया स्वेदबिंदुसंदोहदंतुरिततया च कुलपटलविच्छुरितमिव तमालकं विविधवर्णतया क्षितितलसमास्तीर्णेन चित्रकम्बलेनेव तरुशिखरनिपातितपत्रपटलचर्वणैकताने नाजकेन पीनोनीभिः द्रोणदुघाभिः वृषभमंडलपरिमंडिताभिस्सौरभेयोभिश्च परिवृतमासृक्कविवृतवदनकुहरेण शशिकलानुकारिणोभिः दंष्ट्राभिरतिभयानकेन बहिर्निस्सृतदीर्घलम्बमानशश्वन्निस्सर-ज्जलबिंदुदन्तुराग्रारुणजिह्वापल्लवा - वेद्यमानातप-संतापेन दरनिमीलितलोचनेन स्थूलस्थूलं निश्वसता मेचकमसृणकायेन निषण्णेन शुनकेन सनाथपार्श्वं रजतवलयालंकृतमणिबन्धं वेणुपाणिं दूरीकृतस्नानतया धूलिधूसरितं पुरुहूतमिवानेकसुरभिसन्तानामोदितं वृषभमिव मनोज्ञककुदं रसातलमिव कंबलपरिष्कृतं वर्षादिवसमिव घनमलिनांबरं वनप्रचारं च नरपतिमिव दंडायत्तोकृतवृषं गोपालं द्वादशहायनदेशोयं वृषलबालकं ददृशुः ।
दृष्ट्वा चाहो ! सौन्दर्यमस्य निष्फला खलु । कानने चन्द्रिकेव तावदस्मिन्सुन्दरता । सलक्ष्मीकं चक्षुरस्य पुंडरीकडंबरापहारि । हंताजानुभुजो वृषलबालोऽप्ययं स्वभाव गम्भीराकृतिरत सीकुसुमासिततनुकांतिस्स्मारयति नंदकुमारम् । धन्यः खल्वस्य पिता । धिगस्य जननीं कठिनहृदयाम्। या च समाश्लेषमात्रेणापि म्लानतामुपयांतं सुमसुकुमारशरीरमेनं कालयति धेनुसमवनायातपे । हन्तेति परस्परं व्याहरतः तमुपसृत्य सर्वेऽपि तत्करतलविलसन्मुरलीशिखरलंबमानां माणिक्यमालां ददृशुः । दृष्ट्वा च मालां प्रमोदसंभृतहृदयेषु विस्मृतक्षुत्पिपासादिक्लेशेषु भटेष्वेकस्सरभसं तदुपकंठमासाद्य तामाच्छिद्य च जग्राह । तत्क्षणमेव चकितचेतसि कंपमानगात्रे हन्तांबेति रुदति तस्मिन्बालके कश्चनानुकंपया समाश्वास्य तं सांत्वोक्तिभिब्रूहि वत्स ! क्व वा केनोपायेन कीदृशप्रयत्वेन
Page #202
--------------------------------------------------------------------------
________________
जयन्तिका
कथं वा संपादितेयं माला । किमु केनाप्यानीय दत्ता ते । आहोस्विदरण्यतटे पतिता भवता समुपात्तेत्यपृच्छत् । एवं पृष्टश्च परिदेवनक्लिष्टाक्षरस्स वृषलबालकस्सगद्गदं वल्गन्नित्थमकथयत् ।
मया तावन्न कोऽपि कृतो यत्नः । नाप्युपायः । नैव चौर्यलब्धा । किं तु प्रतिदिनमिव कानने पर्यटतो मम श्रवणविवर माविशत्कोऽपि रयजन्मा रावः । तदा सविस्मयं समुन्नमितकंधरे अंबरांकणदत्तलोचने सति मम पुरतो पललगृभुनानुधावता गृध्रेण प्रधावितो विचित्रगत्या गगने डीयमानः साध्वसपरिक्षुभितो ध्वांक्षस्त्रोटिपुटान्नयपातयदिमां मालाम् । दृष्ट्वा चाहमद्भुतदर्शनां ग्रसनावसरपाटलितां विधुंतुदवदनाद्गलितामिवेंदु - कलामरुणकिरणतप्ततयेवारुणकांतिमा तपासहिष्णुतया वसुन्धरातलमवतोर्णामिव नक्षत्रमालां मद्दारिद्रयात्ययसूचनाय पतितामिव गगनादलातपंक्ति निजत्विषा विपिनं पल्लवितमिवापादयन्तीं तामादाय मुदा मालामिमां मदीयमुरलीशिखरे न्ययूयुजमिति । श्रुत्वा च भटाः पटुतरमस्य वचनं दूयमानमानसाः परस्परमुखावलोकनदर्शितानुतापाः नायं दृश्यते वृषलबालक इव । अपि तु पोषितो भवेत्केनचिद्वृषलेन राजकुमारः । हंतातिपरुषहृदया वयम् । यतो निरपराधिनममुं नयामो राजोपकण्ठम् । प्रभुस्तावत्किं वा करिष्यतोति न जानीमः । कथं करिष्यामो राजदंडमाजनम् । बलवतो खलु राजाज्ञा । तत्प्रभुनिनैरस्माभिस्सद्यस्समुत्पाद्यापि परेषामातिं निर्वर्तनीयस्स्वामिनियोगः । इति परस्परं व्याहतः प्रचालितवालं सुदूरमिव गत्वा भुक्कुर्वतं शश्वदात्रायात्रायानुयांतं समुन्नमितेनाग्रचरणेन कंठेन च प्रकटितप्रेमकाष्ठं सुदूरमिव निष्कास्य शुनकं तारतारं विलपन्तं परिच्यवनाय परिस्फुरन्तं बलादादाय बालकं सत्वरं प्रतस्थिरे चित्रपुरम् ।
172
-
प्रस्थिताश्च सौधद्वारमासाद्य तेष्वेकतमः तं बालकं इतर भटसात्कृत्य सौधद्वार एव करगृहोतमालः प्रविश्य स्वयमभ्यंतरं तापसोसदनमध्यासीना
Page #203
--------------------------------------------------------------------------
________________
पश्चमलहरी
173
माता मालावार्तामेव व्याहरन्तीं तापस्या च मुहुराश्वास्यमानां जयंतिकामुपसृत्य सप्रश्रयं देव ! समुपलब्धा मालेयं गहने इति वितोर्य तां मालां एतत्स्वायत्तीकृतस्समानोतो वृषलबालकः द्वारि तिष्ठति । एतदाकर्ण्य देवः प्रमाणमिति निवेद्य विरराम। निशम्य भटवचनं जयंतिका हर्षेण प्रसादः एव दुर्गायास्तावदयम् ; कथमिवान्यधा दुरवगाहे कानने निपातितायाः तावदस्याः प्राप्तिः ? सत्यमभिहितं भवत्या तदिदानी प्रार्थनानुगुणं देयो बल्यथं स वृषलबालकः दुर्गायै इति विचिंत्य भटमकथयत् । सत्वरमेव कल्पितवध्याकल्पं नोत्वा च तं बालं दुर्गागारप्रतोहारांकणं कारय दुर्गोपहारं मातंगनाम्ना मातंगेन निकृत्तोत्तमांग इति । श्रुत्वा च स भटश्श्रवणपुटकटुतरं नरपतिवचनं हंत ! कथमिव द्रक्ष्यामि हननावसरे साध्वसेन दिक्षु विक्षिपन्तमक्षि मुग्धमुखपुंडरीकं तं बालकम् । यदि नरपतिदृष्टिपथमारूढो भवेत्तदा नैवाज्ञापयेदेवम् । इति विचिंत्य च समासाद्य द्वारदेशमनुपालयद्भयो निजागमनमेव तेभ्यस्सगद्गदं निगद्य च कठोरमुदन्तं समर्पितमणिमालाय मामिदं वितीणं किमु महाराजेन पारितोषिकतयांशुकयुगलमिति मुदा पृच्छन्तं तं बालकमलंकृत्य किंशुकारुणांशुकयुगलेन बध्वा च कंधरायां शोणकरवीरकुसुममालां बलादादाय नितरामनुकंपाकुलै टैनीतो बालो दुर्गालयम् । ____नोतश्च नगरीप्रांतद्वारि स्थितं अंतरांतरापाटलमृत्तिकाकर्दमकृतविततपट्टेन सुधाधवलेन कुड्येन परिगतमचिरारूढमार्तडमंडलप्रांतनिर्गतैः पाटलैः दोर्षतरैः प्रस्मरैः मयूखैः परिकलिताभ्यंतरेण शारदाभ्रमंडलेनोपशोभितमिव गगनतलं सुधाधवलितैर्गुभितहरितदलनिचितरम्भास्तम्भैः स्तम्मैः परिशोभमानं शिखरघटितोदंडकेतुदंडप्रकांडकांडतरलकुटिलपाटलपटकपटेन सुदूरमुन्नमय्य निजभुजदण्डं प्रचालितकरपल्लवेन निजाभ्यन्तरप्रतिवसंत्या दुर्गायाः मस्तकोपरि संचरतां ग्रहनक्षत्रमण्डलानां परिहरदिव गमनं निरंतरमपि तैलाक्ततया कालोकृतचिक्कणाभ्यां पृथुलनिस्तलकुंकुमस्था
Page #204
--------------------------------------------------------------------------
________________
174
जयन्तिका सकभासुरभ्रभङ्गभीकरललाटपट्टाभ्यां बहिःप्रसारितसिंदूरारुणितकरालदंष्ट्रामध्यप्रसमरजिह्वापलवाभ्यां विततवर्तुलकृष्णकनोनिकाभयंकरशोणेक्षणाभ्यां पाटलांशुकपरिष्कृताभ्यां अरुणकरवीरकुसुममालालंकृतकंधराभ्यां मेचकशिलासमुत्कोर्णाभ्यां करधृतकरवाललताभ्यां मूर्तिमतीभ्यामिव क्रुद्भ्यां नात्युन्नते च भक्तार्पितकुंकुमचूर्णपाटलिते शिलापीठे प्रतिष्ठापिताभ्यां द्वारपालिकाभ्यां समुपजनितसाध्वसं निहतानेकपशुजिह्वापल्लवप्रचुररसालकिसालयतोरणपरिमंडितप्रतीहारनासातलं नात्युन्नतशिलास्तम्भाग्रसमुत्कीर्णदीपभाजनपरिपूरितनिंबतैलप्रज्वालितदीपप्रसमरकटुगन्धबन्धुरद्वारपालिकापार्श्वदेशमनेकपशुशिरोधिरुधिरधुनोस्नापितया पशूनां प्राणात्ययावसरे बहिरनुगतेन चिररूढमूलजीवितानुरागेणेवात्यरुणया प्राणिप्राणापहरणसन्निहितकृतांताधिष्ठानाय समास्तोर्णरक्तवर्णकुथास्तोर्णयेवानत्यायतया नात्युन्नतया च वध्यशिलावेदिकया भयानकपुरोभागं मकुटतटप्रकटोपलक्ष्यमाणरमणोयमणिगणकिरणजालाक्रांततनुतया बर्हिबर्हस्थगितयेव प्रभाभिरिव स्नापितया कांतिशलाकापंजरमध्यप्रविष्टयेव बहिरुद्वमद्रोषानलज्वालाजालपरीतयेव सृजत्येव निजशरीराद्विविधवर्णगणानिंद्रचापपरिवेषयेव हरिद्राचूर्णचर्चिततया पिंगलरुचा तपनीयद्रवपुस्तविग्रहयेव कुंकुमपटीरकर्दमचर्चितया संध्यारुणयेव पश्चिमदिशा लोहितकरवीरप्रसूनमालाभिर्विरचितवैकक्षमालया अचिरनिहतदनुजपतिवक्षस्थलरुधिरधारारुणितकेसरकलापं नरकेसरिणमिव विडंबयन्त्या दक्षिणपाणिकृतकृपाणया क्रोधोत्थितेन कालोरगेण भयानक वल्मीकमिव परिहसंत्या नीलशिलाविष्टरोपविष्टया दाडिमोकुसुमसच्छायकौशेयकमनीयकायया सर्वांगीणराजतामरणया दुर्वर्णकरोटिमालापरिष्कृतवक्षस्थलया कुंकुमकृतवंशपत्रसदृशतमालपत्रचित्रितललाटया भ्रकुटितभ्रुवा निस्तलायत-शोणभयानक-नेत्रया अर्ध-चन्द्राकार-रजताभरणवलयितनासाग्रया बहिनिस्सृतेन रुधिरधारामिवोदमता शोणरुचा जिह्वापल्लवेन पिहिताधरबिंबया सूक्मागनिस्सृतदंष्ट्रया समीकवसुमत्येवानेकजीवापकर्षणावसर
Page #205
--------------------------------------------------------------------------
________________
पञ्चमलहरी
175
जनितविरावया केशाकेशिप्रथनप्रवृत्तयेवायत करवाल्या दुर्गया विराजमानगर्भाकणं तस्याश्च वामपार्श्वे नातिदूरे प्रकाशितेन तद्ध्यानमिव कुर्वता निश्चलेन प्रतिबिंबच्छलेन कालीकरकरवालमवलंब्य तद्धारातैक्ष्ण्यमिवाधिकतरमभ्यस्यता सुहृदेव प्रकटितरागेण गृहोतदशाग्रतया इव स्तंभावलंबिना विपक्षेणेव क्षपितस्नेहेन कोकनदेनेव दिवाकरकरको रकितेन पाटलवर्णेन च दीपपल्लवेनोल्लसितं परिलिप्सतैलतया प्रसाधनोप्रसाधिततया च मसृणतरकचकलापमुहता सोमंतलताकलित शिरसा रक्तचन्दनकर्दमचर्चिततिर्यक्पुंड्रमध्यकृतायतकुंकुमस्थासकपरिष्कृतविशालललाटफलकेन श्मश्रुकलापपिहितदुरधिगमाधरोष्ठपुटेन आयतलंबमानकूर्चकलापेनावगुंठितक्रोडेन कलघौतांगदनिगडिताभ्यां पटोररसविरचितायत रेखावलिभ्यामतिमांसलस्थपुटिताभ्यां भुजाभ्यामुपशोभमानेन प्रत्यंगुलिप्रोतरजतांगुलीयकेन कार्पासकुसुमपीतवसन विरचितकच्छेन रक्तांशुककृतपरिकरेण वामकरनिरंतर प्रचाल्यमानघंटारवबधिरितश्रवणविवरेण हननायाहमहमिकया भक्तैर्बलात्पुरः संस्थाप्यमानानां पशूनां शिरस्सु तोर्थप्रोक्षणमाचरता दुर्गाया दक्षिणे पार्श्वे निषण्णेनानतिवृद्धेन देवलकेनोपेतं चंडालसमुद्दीपिततृणपूलिकाज्वलनज्वालाप्रतापितपटुपटहपटलकटुर टिततालानुगततांडवैरसितदेहचर्चितहरिद्राचूर्णतया हरितवर्णैः पटीरकर्दमकृतांगुलिपट्टपरंपरादं तुरक्रोडभुजशिखैरैः प्रसाधनोप्रसाधित-तैलमसृणश्मश्रुकूचैरुतंभित - कुसुममालावेष्टित धम्मिल्लैर्लबालकैः पृथुलकशाभिघातव्रणकिणस्थ पुटितमांसल भुजचरमांगदेशैः पीतवसनविरचितनोवोकलापैस्साचीकृततांबूलपिंडोच्छूनकपोलगतैः राजतकिंकिणीदंतुरिततुलाकोटिमुखरितचरणैः दुर्गैकशरणैः प्रांशुभिः पुरुषैरतिभयंकरांकणं शिरसि समारोपितानलकलशैस्सलिलसिक्तांगा रसवर्णकायैरेरंडतैलकर्दमितहरिद्राचूर्ण - चर्चित कपोलचुबुकदेशैः शोण करवीरकुसुममालालंकृतवक्षोजमंडलैः परिधृतकार्पासकुसुमसवर्णचेलैः कटितटनिबद्धर्निबपलाशकलापैः करयुगलपरिभ्राम्यमाणनिंबपत्र पृथुलगुच्छैः चर्विततांबूलपिंडकालीकृताधरैर्योषिन्निवहैनींरंधित
Page #206
--------------------------------------------------------------------------
________________
जयन्तिका
पुरोभागं चिरनिहततया कैश्चित्प्रसारितचरणैः निश्चलं शयानैरचिर निहततया कैश्चित्परिस्फुरद्भिरुद्भूयमानचरणकांडैश्शोणितधाराबीभत्सैः लुलायोरभ्रच्छागानां कलेबरैः निकृत्ताने ताम्रचूडतनूरुहपटलैश्वासह्यदर्शनीयप्रांकणं बलादाकृष्यानीयमानैर्मुक्तदीनकंठारवैरश्रुधारा कल्माषितकपोलतलैः पदे पदे समुत्सृजत्पुरीषैः पटहध्वानवेपमानगात्रैर्वध्यपशुभिर्विच्छुरितं त्वरिततरताड्यमान पृथुलभेरी भांकार भयंकरं करधृतरुधिरारुणितनिशितधाराकरालकरवालेनाकूर्परं समुत्सारितकञ्चरपटच्चरविरचितकवचाभ्यां निहतानेकप्राणिगणतया शोणितशोणपाणितलाभ्यां भुजाभ्यां भयानकेन धृतमेचकचेलचण्डातकेन शशशोणितसच्छायवस्त्राबद्धोष्णीषेण निकृन्तनाय पशूनां समानयनमेवानुपालयता तत इतः पर्यटता च मातंगनाम्ना मातंगेन भयंकराकारेणांतक किंकरेणेवाविरहितपुरोभागं वर्षादिवसगगनांकणमिव कालिकाक्रांतं राजभवनमिव मातंगाधिष्ठितद्वारदेशं काननसरोवरमिव खड्गपीतकीलाल शत्रुत्रस्तधरित्रीशमिव दुर्गेकशरणं वर्षर्तुसरित्पात्रमिव कबंधबहुलं नलमिव काकोलकालितं शंकरमिव करोटिमालालंकृतं दुर्गागारमनोनयत् ।
तदनु भटो दूरादेव दुर्गायै प्रणिपात्य तं बालकं स्वयमपि कृतप्रणामः बालकेन समं दुर्गाया गर्भागारद्वारमुपससर्प । स तु बालको ललाटफलकोज्वलतृतीयनेत्रानलज्वालाशंकामुपजनयता सिंदूरतिलकेन पीता - जोणतः पूर्णरुधिरोद्गारपीडासहिष्णुतयेव कृतभ्रुकुटिं तत एव वदनकुहरान्निर्गलंत्या रुधिरधारयेव सिंदूरारुणितया बहिः निस्सृतया जिह्वया च भीकरवदनां रजतकवचितनिशितदंष्ट्रा स्थगितसृक्कभागां दुर्वर्णनिर्मितानल्पकरोटिकल्पितवक्षस्स्थलाकल्पां तां दुर्गां विलोक्य विवर्णवदनो यमसदनमध्यवर्तिनमात्मानं मन्वानश्चकित चकितः नीरसरसनः स्वयमात्मन्येव निलोन इव गतचैतन्य इवांधतमः प्रविष्ट इव निश्श्रेष्टो नयनसलिलावेदितनिजप्राणभयो मूक इव तस्थौ ।
अथ स भटस्स्वामिन्प्रभोराज्ञा । सद्य एव वध्योऽयं दुर्गागार -
176
Page #207
--------------------------------------------------------------------------
________________
पञ्चमलहरी
द्वारीति । तत्प्रथमं करोतु भवानस्य शिरस्युदकप्रोक्षणमित्यावेदयद्देवलाय । निशम्य स देवलकोऽपि हन्तापिनाम सत्यम् १ किमर्थमेवमभिहितं नरपतिना ? किमपराद्धमनेन ? कुतो वा नृशंसता नरपतेरीदृशी ? एतच्छ्रवणमात्रेण विलोनमिव मे हृदयं दूयतेतराम् । न किमु दया महोशस्य १ हन्त ! कथं वा निपातयिष्यति कृपारहितः कृपाणधारां कंधरायां सुन्दरस्यास्य स मातंगः ? भ्रामितोत्तमांगोऽस्मीति स देवलकः प्रथमं तच्छिसि नयनाभ्यामुदकं ततश्च पाणिना न्यपातयत् । देवलकवचश्श्रवणसमनंतरमेव वज्राभिहत इव भयविह्वलितांतरंगः परिस्फुटितहृदयः इवेतिकर्तव्यतामूढः शिरसि निपतितमिव गगनं मन्वानः भूविवरं प्रविष्टमिवात्मानं विजानन् किमपराद्धं मया ? नापहृतं परद्रव्यम् । न हिंसिताः प्राणिनः । नोक्तान्यनृतानि । नापि चिंतिता मनसापि परपोडा । न कृतः कापुरुषसहवासः । न खलु निंदितास्साधुजनाः । न वञ्चितो लोकः । नाचरितं क्रूरकर्म । न विनितमवदातं कर्म । नापि त्यक्तानि कर्तव्यानि । पालिता एव गावः । दत्तं च दुग्धमर्थिभ्यः । तुष्टा एव वत्साः जननी - पयःपानेन । समूढा च पित्रो: आज्ञा शिरसा । अनुवर्तिता ग्राम्यजनाः । न जाने नरपतिदण्डस्येदृशस्य केन वान्येन कारणेन मंदभाग्योऽहं भाजनमभवमिति बहुधा चिंतयतोऽपि मे न किमपि स्फुरति । हन्त ! स्मृतमिदानीम् । सत्यं कृतमहापराधोऽहम् । दंडय एवास्मि । यतोऽहं गुहायां जननोमेकाकिनीं पतिविरहदुःखितामनाथां विहाय बालभावेन हरिणजिघृक्षया कृतघ्न इव क्वापि गतः । तत एव विदितोदतः नरपतिरकरोदोदृशदंडभाजनं मामिति रुदन्नंवेति दोनरावमाक्रन्दन्वेपमानस्तस्थौ । स भटस्तु दयादलितहृदयः दीनदीनमेनं समवलोक्य स्वयमपि दीनदीनः सगद्गदं वत्स ! मंदमायाहि । बलवती खलु राजाज्ञा । को वा तदन्यधा कर्तुं शक्नोति । मा रोदीर्मारणसमयस्सन्निहितः । तदायाहीति तमादाय वध्यशिलोपकंठ मानिनाय ।
J-23
177
Page #208
--------------------------------------------------------------------------
________________
178
जपन्तिका
नीत्वा च स भटस्ततइतः पर्यटन्तं मातंगमब्रवीत् । तात ! निकृत्य चास्योत्तमांगं चंडिकेयं कर्तव्या सुहितेति राज्ञा तावदाज्ञा दत्तेति । निशम्य च कठोरं भटेरितं हननवचनं समातंगो हन्त ! कथमयं मया हंतव्यः ? नाहं पारयामि तुमेनम् । कथं हन्मि कुमारमेनम् । किमिदं? एतदवलोकनमात्रेण स्निह्यति ममेदं हृदयम् । आनंदाश्रुधारां पातयितुमस्मिन्नभिलषति । न तु कृपाणधाराम् । नायं दृश्यते वृषलबालक इव । किं तु कस्यापि महाभागस्य महीभुजः कुमारेण भवितव्यम् । यतोऽस्य विलसति प्रतीकेषु राजलक्षणानि । हन्त ! धिग्जीवितम् । यदर्थमीशे लोकगर्हिते कठोरे कर्मणि निरनुक्रोशस्सन्जोऽस्मि । हंत ! ईदृशदारुणकर्मणे मह्यं तावत्कीदृशः कल्पितो भवेद्विधिना निरयः । न जाने तात! मुग्धमुखपुण्डरीक ! कस्त्वम् ? कीगनुष्ठितो भवता राजापराधः ? वत्स ! न ते माता ? न पिता ? किं करोमि ? परावर्तते पाणिहतकोऽयं कृपाणपातनात् । निर्दयं निषूदितानेकपाणिगणस्यापि मे हृदयं दयामिदानीम् । किमर्थमेवमिति न जाने ? कथमिवेदानीं प्रभुनियोगमतिक्रम्य कुमाररक्षणपरो भवेयम् ? वत्स ! मद्धृदयनिर्विशेष! हृदयंगमांगसौष्ठवोऽसि । तात! राजलक्षणलक्षितोऽसि । चक्रवर्तिचिह्नचिह्नितोऽसि । कथं वा राजाक्षिगतोऽसि ? का ते माता ? कस्ते पिता ? क गतौ तौ ? निवेदय दयया तदखिलमपीति पप्रच्छ।
तदा स बालको बाष्पदम्यमानकण्ठः तात! भवतु जनोऽयं यो वा को वा ? किमनेनोदंतेन श्रुतेन ? निर्वतय तावद्देवादेशम् । ध्रुवं हि जातस्य मरणमपि । तन्मा चिंतय मातंग ! न हि ततोऽपि कर्कशमिदं कर्म यत्तेन जीवसेनहतकेन तदेकशरणामनन्यपरायणां परित्यक्तात्मसर्वखां सहधर्मिणीमनाथामिवैकाकिनी विहाय दुर्गमे कानने निरनुक्रोशेन वञ्चनैकतानेन कापि गतम् । तादृशावस्थां जननीं त्यक्तवतोऽपि ममाप्युचितमेवेदं दण्डनफलम् । तदनेनालमनुशोचनेन । निपातय मे कंधरायां
Page #209
--------------------------------------------------------------------------
________________
पशमलहरी
179
मम मरणवार्ता ? नासि ? मातः यदि जल भवती । मददर्शनी
कृपाणधाराम् । मा कुरु कालविलम्बम् । किं बहुनेति वध्यशिलामारोह ।
आरुह्य चांब ! जयंतिके ! मदेवप्राणे क्कासि ? कथमसि ? मामनवलोक्य कीदृशीमवस्थामापन्नासि ? कांतारचंक्रमणश्रमप्यविगणय्य मदन्वेषणपरा मामलब्ध्वा अपिनाम जीवसि ? अपिनाम तया तापस्या समाश्वासिता धृतप्राणासि ? निरंतरमपि पतिचिंतनसंतप्यमानापि मदवलोकनमात्रलब्धसौहित्यैव कंदरोदरे स्थिता खलु भवती । मददर्शनाकीदृशीमवस्थां प्रतिपन्नासि ? मातः यदि जीवसि ? कथमापतेत्कर्णपथं ते मम मरणवार्ता ? को वा निवेदयेन्ममोदन्तं भवत्यै ? नाहमनुशोचामि प्राणभयादपि तु तपस्विनी भवतीमनुचिंत्य । यतः पतिविरहितापि कांतारे पुत्रवात्सल्यातिरेकान्मन्मलमखिलमपि भोग्यमिव मन्वाना मदुःखमात्मीयमिवानुभवन्ती भवती परिपाल्य मां मदेकजीवितापि मत्सहवसतिसौख्यविहीनासि । हन्त ! अपिनाम स्फुटितहृदया पतिपुत्रादर्शनादसि ? अहं तु त्यजामि प्राणानद्य निघृणः। मातः ! किं सुखं पुत्रलाभेन ? आयत्यां सुखं भविष्यतीति भवत्या प्राणा धृताः । नमस्तस्यै तापस्यै । या च पतिविरहितायास्ते तदा मातेव सखीव चाभवदुर्गमे कानने । न हि ते माता नापि पिता। न बंधुः । न च भर्ता । नैव तनयः रक्षणे। अपिनाम द्रक्ष्यामि ते पुनरपि मुखपुण्डरीकम् । दुर्लभं ते प्रियवचनम् । हंत ! न जाने सात्वनपत्यतया लब्धं मामात्मपुत्रनिर्विशेषं पोषितवती जरती वृषली कथमिव सहते मद्विरहजं दुःखम् ? सर्वधा मंदभाग्योऽहम् । किमनेनानुशोचनेनेति विलपन्नश्रुधाराकल्माषितकपोलफलकः, अङ्ग ! मातङ्ग ! क्षिप्रं नरपतिनिदेशमशून्यं कुरु । निवर्तय राजाज्ञाम् । किं कालविलंबेनेति बद्धांजलिरवनमितोत्तमांगो विरराम । ___ अवकर्ण्य च कर्णकर्कशं बालकभाषितं स मातङ्गस्तत्क्षणमस्वस्थचित्तवृत्तिः परिभ्रामितोत्तमांगः कासि ? प्रिय ! जयंतिके ! देहि मे प्रतिवचनमित्युच्चैराक्रन्दन्मूर्छितः पपात । तदवलोक्य भयविह्वलस्स बालकः
Page #210
--------------------------------------------------------------------------
________________
180
जयन्तिका किमिदमापतितं दैवदौललित्यम् ? मचश्श्रवणमात्रेणायमीदृशीमवस्थामापन्नः । भवेदयमेव निहतनिजस्वरूपो जीवसेनः ? नान्यधा जयंतिकाभिधानश्रवणमात्रेणानुभवेदीदृशीमवस्थाम् । श्रूयते हि भारतादिषु दैवदुर्विपाकानलोऽपि प्रियाविरहितः कांतारे समासाद्य रूपांतरं परसेवानिरतः बभूवेति । हरिश्चन्द्रोऽपि चन्द्राननां विहाय दूरीकृततनयः परिगृहीतचण्डालभावः परपरिचर्यामाचरति स्मेति चेति विचिंत्य संवीज्य निजारुणचेलांचलेन समुदजनयचैतन्यम् । लब्धसंज्ञस्स मातङ्गो मंदमुन्मील्य चाश्रुकलुषितं लोचनयुगलं हा ! प्रिये ! कासीत्युत्थाय दृढतरं परिरभ्य च तं बालकं वत्स ! कसा तपस्विनी जयंतिका ? कथं वर्तते ? कीदृशश्च तस्याः दिवसव्यापारः ? क वा तव जनिः ? कथं वा ते जननीवियोगः ? का वा सा तापसी ? क गुहा ? कथं वात्र भवदागमनम् ? कुतश्च तवेदशी दारुणा शिक्षा ? बालेन भवता किमपराद्धम् ? कौ च तौ वृषलदम्पती ? कियडूरे च ते निवासग्रामः ? कथमिवाभवो राजभटवशवर्ती ? कथमिव तेषां त्वयि प्रत्यभिज्ञा ? वत्स ! निवेदय दयया मे तदखिलमपीति सगद्गदमप्राक्षीत् ।
पृष्टश्च स बालको हन्त ! किमिदम् ? कथमिदम् ? कीदृगिदम् ? मनसाप्यचिंतितमिदम् । अहो ! दैवघटना ! काहम् ? क्वायम् ? स्यादयमपि नाम जीवसेनः ? नान्यथा भवेदीदृश्यवस्था जयंतिकानामश्रवणमात्रेण । कुतो वा तस्य जीवसेनस्य दुस्सहमातंगताप्राप्तिः १ किमर्थं वा तस्य कठोरे प्राणिनिषूदने प्रवृत्तिः १ भवतु नामैतदुदंतजिज्ञासया तावनिवेदयामि विस्तरतो मदुदंतमिति विचिंत्य वकुमारभत । आसीत्पडन्ददेश्यं मां परिपालयन्ती पतिविरहिता क्षितिपतिदुहिता तापसीसहिता कांतारे गुहायां जयंतिका नाम । सा तु सततमपि नयनकुवलयोगलदश्रुस्रोतोमिः प्रक्षालयन्ती कपोलफलकं वक्षोजमंडलं च जीवितनिर्विशेष! जीवसेन ! आर्यपुत्र ! विपुलोरस्क ! तिरस्कृतस्मरसौंदर्य ! मम तावद
Page #211
--------------------------------------------------------------------------
________________
पञ्चमलहरी
181 बलाया रक्षणेऽपि न दक्षोऽसि ? सौंदर्यमात्रेण वञ्चिता अभवम् । ते तु न विमृष्टागुणाः । न चिंतितस्वभावः। न परीक्षितं हृदयम् । न श्रुता धीः। नापि कृतः परिचयः । मम तावद्धिगसमीक्ष्यकारित्वम् । धिक्ते हृदयपारुष्यम् । प्रलोभनशीलोऽसि । धर्मकंचुकावच्छन्नस्य तवेयमुचितैवानुचरवञ्चनैकतानता । ननु निरनुक्रोशपरिजनपरिवृतां प्रासादे सारं परिवर्धितां अनरालप्रकृति नीत्वा च मामेकाकिनी घोरतरं कांतारं प्रतारगैकपरतया विहाय च गतोऽसि । किमिदमुचितं ते निघृण ! इति विलपन्ती कृच्छ्राद्दीर्घतरं कालमत्यवाहयत् ।
एवं प्रलपन्तीं तां बहुधा सविनयमपृच्छम् । अंब ! निरंतरमपि कुतो रोदिषि ? कः पुनस्स जीवसेनः ? यमनवरतमपि भगवन्तमिव ध्यायसि ? यमनुलपसि । यद्विषयं व्याहरसि । यमनुचिंत्य रोदिषि । यद्गुणान्कथयसि। किमर्थं तेन विसृष्टा कानने ? केयं तापसी ? या च भवत्समसुखदुःखमागिनी । कुतो वा तवेदशी दशा ? कुतश्च गुहायामस्यां निवससि ? क ते माता ? किमु न ते पिता ? किमु दुःखनिदानम् ? तदखिलमपि निवेदय दययेति । पृष्टा च सा वात्सल्यातिरेकात्सदंतपोडं परिरभ्य माममंदानंदद्विगुणितबाष्पसलिला विस्मृतपतिविरहक्लेशा बाष्पक्लिन्ने निजकपोलफलके निधाय मदीयं कपोलतलं करकमलतलेन परामृशन्ती मदुत्तमांगं समुपवेश्य च निजांकतले वत्स ! किमर्थं पृच्छसि दुःखप्रायं मदुदन्तम् ? मंदभागधेया खलु । किमनेत श्रुतेन ? भवानपि भवति दुःखभाजनम् । तथापि कथयामि । यतश्च प्रेमातिशयेन कुतुकी पृच्छसि। शृणु तावदिति वकुमारभत । वत्स! प्रायो जगति रूपैकसक्तचित्ता हि योषितः । तादृशपुरुषविशेषलिप्सया त्यजन्ति निजबन्धुतामिव लजामपि। क्रमच्यवनशीलं सौंदर्य न परिशीलयन्ति। वत्स ! जिहेमि मदुदन्तं वछम् । दुरन्तं शृणु तावत् । अहं तारुण्यलालितशरीरा निजावरोधभित्तितलविलिखितराजकुमारमंडलमध्यवर्तिनं सुन्दरतरं कुमार
Page #212
--------------------------------------------------------------------------
________________
जयन्तिका
मपश्यम् । विलोक्य च तत्स्मरणपरायणा सख्या चिंतयन्ती दिष्टया मदवरोधमागतेन गन्धर्वपतिप्रसादलब्धांतर्धानविद्याकौशलेन जीवसेनाभिधेन तेन समं गुरुजनमप्यतिसन्धाय प्रस्थिता सुरंगसरण्या महारण्यमगमम् । तदा प्रौढप्रावृट्तया निरंतरजलधरनिकरकरं बिते सुरसरणिचत्वरे गंतुमक्षमतयेवास्तमुपगतवति भगवति गभस्तिमालिनि जीव सेनस्सौदामनी कशाताडितः इव शतघ्नीध्वानसन्निभघोरतरघनतरघनगर्जिततर्जित इव वर्षतारतरधारापञ्जरनिगडित इव च पदमेकमपि गंतुमनीशः साध्वसविह्वलां मामादाय सौदामनीद्युतिसाह्यगोचरीभूतां गुहां प्रविश्य तत्रैव मया सह निद्रासुखमनुबभूव ।
182
तदनु मरीचिमालिन्युदयशिखरमधिगतवतीति निगदन्तं बालकमसकृत्परामृशन्पाणिना स मातङ्गस्सगद्गदं वत्स ! इतः परं साधु निवेदय कथमनुभूतस्तया क्लेशः ? कथमेकाकिनी हरिणेक्षणा कांतारे तारतारं विलपन्ती वल्लभाभासं तं जीवसेनहतकं मृगयति स्म निर्जने गहने ? कथं वा तापसीसमायोगः ? तात ! तत्सकलमपि निवेदयेति बाष्पधारासारधौताधरपुटस्सदैन्यमपृच्छत् । पृष्टश्च स बालकस्सबाष्पं सगद्गदं च तात ! कथयामि, पापोऽहं कथयामि । सावधानं शृणु तावत् । प्रभाते अहमुत्थायानवलोक्य च वल्लभं भयकंपितहृदया बहिरागत्य विपिनमभितो दत्तदृष्टिरुचैर्विलपन्ती दुर्गमे गहने तदन्वेषणपरा निराहारा खरकिरणकिरणसंतापिता यूधभ्रष्टा कुरंगीव आमध्याह्नमभ्रमम् । स मातङ्गस्तदवकर्योन्मत्त इव हा ! प्रिये ! मदेकजीविते ! निर्निमित्तं विधिवशान्निर्घृणेन मया पापीयसा परित्यक्तापि मामवलंबसे ! इन्त ! ते पातिव्रत्यम् । क्वासि ? हा ! जयंतिक ! देहि मे प्रतिवचनम् । क्कासीत्युच्चैराक्रन्दन्वत्स ! ततस्ततः इत्यपृच्छत् । पुनरपि स बालकः वक्कुमारभत ।
एवमेव पर्यटन्ती रमणीयतरमदृष्टपूर्वं तरुषंडानातपं मंदमारुतपरिहियमाणश्रमं तपोवनमेकमपश्यम् । वत्स ! इदमेव तत्तपोवनम् ।
Page #213
--------------------------------------------------------------------------
________________
पश्चमलहरी
183
प्रविश्य चेदमचिरकृतावगाहनस्नानपरिपूतां तापसीमेनां शरणमगमम् । तदनु तया दयया समाश्वासिता निरन्तरदुःखबहुला निवसाम्यस्यामेव गुहायाम् । अत्रैव दशमे मासे भवानजायत । वत्स ! श्रुतः खलु ममोदंतः ? इत्यकथयत् । एवं स्थिते कदाचित्पञ्चवत्सरदेश्योऽहं क्रीडन्गुहायाः बहिः बालभावेन कानने धावन्तं हरिणपोतं जिघृक्षयानुधावन्सुदूरं तमलब्ध्वा च पुनरपि तामेव गुहां जिगमिषुर्गहनमभितो दत्तदृष्टिर परिचिततया बालतया चाविदितवर्त्म रुदन्नुच्चैरसकृदंबेति जननीं कूजन्नितिकर्तव्यतामूढो भिया परितः पश्यंस्तत्रैवातिष्ठम् । तदानीं मदीयपरिदेवनारखं निशम्यानतिदूरात्कोऽपि जरगोपालो विधिचोदित इव वृद्धभावकंपि - तोत्तमांगो लगुडग्रहणद्विगुणकंपमानपाणिः स्फुटितोपानच्चरणमंदसञ्चारः कच्चरपटच्चरकव चदृश्यादृश्यवक्षस्स्थलास्थिपञ्जरः कुट्टनपिंडीकृततांबूलरसरञ्जित पलितश्मश्रुप्रांतः निरंतरातपपर्यटनकालीकृतमुखमंडलः रजतवलयकालंकृतलंबमानश्रवणजाहः भुजशिखरसमारोपितडोलायमानकालकंबलः शोणचेलनिबद्धस्थपुटितोष्णीषः शश्वत्तांबूलरसमुद्वमन्नागवल्लीदलपूगफलसुधाकरंडसंभृतया कंठलंबितया चिक्कणासितया भस्त्रिका पिहितवलि - विलुलितोदरदेशः प्रतिपदं करगृहीतवेणुदंडाहितात्मभारः धूलिधूसरितेन पटच्चरेण कृतजानुपरिधानः परिकरपाटलपट्टिकांतः प्रवेशितलवित्रेण कीकसप्रायेण पृष्ठदेशेन दर्शनीयदर्शनः मन्दं मन्दं मदुपकण्ठमाजगाम । आगत्य च सांत्वयन्मां कंपमानेन पाणिना समवलंब्य मद्बाहुं निजापत्यनिर्विशेषं पश्यन्घासाच्छादितावनम्रपटलकमपरिष्कृतस्थाणुस्तंभचतुष्टयविशिष्टबहि वितर्दिकं वितर्दिकातलसुप्तरोमंथसक्तच्छागं पर्यटत्कुक्कुटकुलाक्रांतं गोमयपरिलिप्तकुक्कुटविष्ठकलुषितक्षितितलं धान्यभस्त्रिकाक्रांतकोणदेशं रज्जुखटाक्रांतस्तंभप्रांतं क्षितितलप्रत्युप्तशिलोलूखलप्रांतस्थापितदीर्घतरमुसलं भित्तितलघटितशंकुप्रोतशूर्प चालिनीमंडलं शूर्पवितुषीक्रियमाणतंडुलतया तुषराशिधूसरितकुड्यमूलं धूमकलुषितवस्तुसंभारं एकदेशविनिहिततृणपूलिकं
-
Page #214
--------------------------------------------------------------------------
________________
184
जयन्तिका निजोदवसितमासाद्यानपत्यतादुःखितायै वृद्धायै प्रायच्छन्निजगृहिण्यै । सा तु जरती शूद्री निरतिशयानंदद्विगुणितशिरःकंपा मामादायांकतले समुपवेश्य शिरस्याघ्राय कंपमानेन पाणिना शिरः परामृशन्ती वत्स ! कथमेकाकी कांतारे स्थितवानसि ? का ते माता ? कस्ते पिता ? कुतो वा बालोऽप्येकाकी निराश्रयस्तावदनाथ इव विपिनगतोऽसि ? इति पृच्छन्ती क्षुधितोऽसि । पिब तावहुग्धमिति पाययन्ती क्षीरं प्रीत्यतिशयेन जननीव मां पालयति स्म। अहं तावन्निषण्णो बहिर्वितर्दिकायां प्रभात एव पर्युषितानाशनसुहितान्सीरभुजशिखरान्युगस्कंधाननडप्रेरणपरान्पांसुलचर - णान्वृषलान् शिरसि कटितटे च विनिहितकूपोदकसंभृतमृण्मयकलशाः निनोन्नतसरणिसञ्चरणशीलाः मुग्धाश्शूद्रीश्च काश्चिद्दोहनकर्मणि निरताः काश्चिदवकरपिटकमस्तकाः काश्चिदधिमथनसक्ताः काश्चित्संमार्जनीमार्जनपराः काश्चित्प्रचाराय मुच्यमानसुरभिच्छागोरम्रगणान् समादिशंत्यो योषितश्च ग्राम्योचितक्रीडैकतानान्बालकांश्च पश्यन्कालमत्यवाहयम् ।
एवं व्यतीते च वत्सरचतुष्टये वृद्धभावाद्दौर्षल्याश्च संचारासमर्थस्सः तु वृषलः पितृनिर्विशेषः प्राहिणोन्मां पशूनामवनाय निकटशाद्वलं काननम् । अहमपि वृषलबालकैस्सह क्रीडैकतानः चारयन्पशूनां कुलं कालमत्यवाहयम् । एवं स्थिते कदाचिदरण्ये पशूश्वारयतो मम पुरतः पपातांतरिक्षात्काचिन्माणिक्यमाला । सविस्मयं तामवलोक्य मोदादादाय मदीयवेणुशिखरमायोजयम् । तदनु कतिपयेषु मासेषु व्यतीतेषु कदाचित्प्रतिदिनमिव विपिने ममोपकंठमेते भटाः समुपेत्य चोरोऽयमिति रत्नमालया सह क्षितिपतिसौधद्वारमनीनयन् । अथैतेष्वेकतमो रत्नमालापाणिः प्रविश्य चाभ्यंतरं समर्प्य च मालां राज्ञे लब्धराजादेशः पुनरप्यासाद्य सौधद्वारं बाष्पवारिपूरितेक्षणः मामादाय भटैरितरैः परिवृतः प्रापयदुर्गागारमिदमित्यकथयत् । श्रुत्वा च स मातङ्गः कर्णदारण दारुणं दुर्गालयागमनकारणं विमुञ्चन्नश्रुसलिलधारां सगद्दं वत्स! जन्मांन्तरे भवता तावत्कियद्विरचितं
Page #215
--------------------------------------------------------------------------
________________
पञ्चमलहरी
185
तपः लब्धुमीदृशं पितरम् । तात! मयापि पापीयसा जननांतरे कस्य वा निषूदितः पुत्रः। तदिदानीमीदृशे दारुणे कर्मणि नियुक्तोऽस्मि राज्ञा । धिक्पापिनं मां नीचमिति तं बालकमालिंग्य नृशंस ! जीवसेनहतक ! न केवलं वेषेण चण्डालोऽसि ? कृत्यतोऽपीति बहुधा विलपन्मूछितः पपात । ____तदा तस्मिन्बालके दुःखभरगद्गदिकास्फुटाक्षरे हा ! तात ! किमिदमुपनतम् । धिक्कठोरहृदयां नियतिम् । यदीदृशावस्थं तं पश्यन्ती तिष्ठति । हा! तात ! समुत्तिष्ठेति चेलांचलेन वीजयति मन्दं लब्धसंज्ञो मातङ्गः हा! वत्स ! कथमिव निपातयामि कृपाणधारां सुकुमारकुसुममालार्हायां तव कंधरायां कठिनोऽहमिति विलपन्नुत्थाय निजपाणिनोन्नमय्य बालकचुबुकं वत्स ! दूरीकृतमंबाया मुखांबुजं पुनरपि नैवावलोकितं भवता । यदि जीविता भवेत्तव माता भवन्निबर्हणमवकर्ण्य सत्यं पातयिष्यति ज्वलनज्वालायां निजतनुम् । झडिति स्फुटितहृदया वा भविष्यति । वत्स ! निकृत्य पातितं रुधिरबंधुरायां वसुंधरायां परिलुठन्तं कठिनहृदयः कथमिव द्रक्ष्यामि भवन्तं नयनहतकेनानेनेत्याघ्राय तदुत्तमांग परामृशन्पाणिना समाश्लिष्य च मुग्धमुखपुंडरीकतललंबमानामुत्सारयन्कुंतलपंक्तिं बाष्पसलिलकलुषिताभ्यां निष्पंदपक्ष्मपालिभ्यां नयनाभ्यामवलोकयतो बालकस्य मुग्धमुग्धं दुःखदैन्यदंतुरितं मुखमुदस्य दम्यमानकण्ठो मुक्तकण्ठो हा ! कथमिव हन्मि ? हा ! वत्स ! इति मूर्छितः पपात । तादृशावस्थं पितरमवलोक्य स बालकस्समुद्विमहृदयः तात ! तात ! इत्युच्चैराक्रन्दन् , अंब ! कासि ? पतितनयान्वेषणपरा कुत्र परिभ्रमसि ? हा! नियते ! किमधुनापि प्रेरिता नासि करुणया ? द्रवति हि शिलापि । मातः न मां पश्यसीत्युच्चैः सरोद।
तदनु स मातङ्गो भुवि निपतितं पाणिना कृपाणमादाय सनिश्श्चासमरे ! कृपाण! नाहं कृपणः । साधु कुरु पारणम् । पिब सविभ्रमं रुधिरधारां सुतशिरोधिजाम् । साधु प्रकाशय निस्त्रिंशताम् । अरे ! करहतक! J-24
Page #216
--------------------------------------------------------------------------
________________
जयन्तिका
जीवसेनपाणिरसि । कुतो वा ते दया ? तन्निपातय कृपारहितः कृपाण - मस्मिन्वत्से । हा ! वत्स ! क्कासि ? वाष्पपिहितमिदं नयनयुगलम् । न किमपि गृह्णाति । तदेहि मे प्रतिवचनम् । इति दुःखभरकंपमानकरतलच्युतमपि करवालमजानन्नेव रुधिरबन्धुरे वसुन्धरातले निपत्य निपत्य शिथिलितकचकलापः तारतारं रुदन्नंग ! घातुकोऽहं ओषधिप्रवालकुसुमसंभृततीर्थोदकाभिषेकसमुचितमधुना शोणितशोणे क्षितितले कृपाणेन पातयामि भवदुत्तमांगम् । विविधमुक्ताहारादिपरिष्करणोचितायां ते कंधरायां पाणिहतकोऽयं पातयति कृपाणधाराम् । अवरोधे रमणोगणपरिरंभणसमुचितायाः मृदुलतल्पयोग्यायाः तव तनोः तनोम्यद्य निर्दयः कीलालकलुषितं क्षितितलं शयनमिदम्। हा ! धिक्पराधीनताम् । यदि त्यजेयं मदीयान्प्राणांस्तदा भविष्यामि भर्तुराज्ञोल्लंघनदोषदूषितः । किमद्य करोमि ? हा ! नियते ! कृपया मामप्युररीकुरु नराधममेनमिति बहुधा व्यलपत् । इत्थं विलपन्तं पितरमवलोक्य स बालको दुःखभरदम्यमानकण्ठः तात ! मा रोदोः । एवं भवितव्यतां को वा निवारयति ? तदलं परिदेवनेन । किमर्थं सुन्दरीं तां एकाकिनीं कानने परित्यज्य निरनुक्रोशश्चण्डालतामोदृशीं लोकगर्हणीयां परसेवां च प्राप्तवान्भवान् ? कथमिदं चित्रपुरं समागतः ? भवदनुयायिनीं सहधर्मचारिणीं स्वयमेव विहाय किमर्थमेवं शोचसि ? निवेदय मे दयया सकलमपीति सविनयं प्रार्थयामास । 1
1
186
स मातंगस्तु साक्षररिंखणं सगद्गदं च साश्रुधारासारं सदैन्यं सावहेलनं च मास्तु वत्स ! मास्तु । किं श्रुतेन तेन गर्हितेन १ मातंगभावमापन्नस्य पापीयसो दैवदूरीकृतस्य लोकगर्हितस्य परित्यक्तद्वारस्य दारुणकर्मणः कथयितुमपि ममोदन्तं जिह्वा परावर्तते । कथमावेदयामि ? श्रुतमात्रेण स्फुटितहृदयो भविष्यसि । वक्ता तावदहं तु प्राणिमि । यतश्च वज्रसारकठोरहृदयः । वत्स ! मज्जीवितनिर्विशेष ! यदि कुतुकी श्रोतुं तदश्राव्यमपि श्रावयामि । धीरो भव । निवेदयामि वेदनाबहुलं ममोदंत
1
Page #217
--------------------------------------------------------------------------
________________
पञ्चमलहरी
मिति वक्तुमारभत ! वत्स ! न बुद्धिपूर्वकं कृतमिदम् । कापि दैवचेष्टा स्यात् । तस्यामेव गुहायां तया सह जयंतिकया निशि गाढनिद्राविद्राणहृदयः विस्मृतशरीरः तल्पायमानशिलातलः श्रमशिथिलितप्रतीकः परमात्मनि लीन इव निद्रासुखमन्वभवम् ।
I
तदनु दूरीकृतनिबिडांधकारे दिवाकरे पूर्वपर्वतमौलिमलंकुर्वति समुड्डीयमानविविधपतगपूगनोरंधिते गगनाभोगे बालातपपाटलितेषु समुन्नततरुशिखरेषु समुदग्रमहीभ्रतलनिपतन्निर्झरझरोरवमुखरिते कांतारे निबिड - तरप्ररूढकेतकोगहनकुहरलीनमयूरवारकेका रावतारप्रतिध्वान पूरितेषु कंदरोदरेषु मंदमुन्मीलितलोचनोऽहं वर्षादिवसतया पत्रपुटक्षरत्सलिलपृषन्निकरसिक्ते शाद्वलप्राये कस्मिंश्चित्तरुमूलतले शयानं नग्नमात्मानमपश्यम् । दृष्ट्वा च सविस्मयं विहस्तः किन्नु खल्विदम् ? काहम् ? कोऽहम् ? कुत इदम् ? नानीतोऽस्मि ? क्व सा जयंतिका ? क्व सा गुहा ? कथमत्रागतोऽस्मि ? निद्रितोऽहम् । क्व गतं वासः ? हन्त ! दिगम्बरोऽस्मि । किमर्थं ममेदृशी दुरवस्थेति सरभसं समुत्थाय लज्जया विपिनमभितो दत्तदृष्टिरनतिदूरे विभावसुभिया प्रधावंतमिव तमोनिकरमनूपतलसत्वर विन्यस्यमानचरणतया समुच्चलज्जंबालकलुषितांबु-द्विगुणितनोलिमानं तस्करनिकरमद्राक्षम् । दृष्ट्वा च मनस्येवमचिंतयम् । निद्रापरवशतयाहमेतैरिहानीतो भवेयम् । मदीयमेतैरेवापहृतं स्यात्सपरिष्कारमंशुकमपि । अपिनाम वर्तेत तस्मिंस्तस्करस्तोमे जयंतिका भिया वेष्टमाना । हन्त ! नैव दृश्यते निर्वर्णितापि सा । कथमन्विष्यामि तामीदृशावस्थः । सा तु मामनवलोक्य भृगुतटान्निपतिता भवेदथवा मल्लिप्सया कठोरे कांतारे मामाह्वयन्ती परिभ्रमेदनायेव । कुत्र वा सा गुहा ? यत्राहं निद्रासुखमन्वभवम् । गुहायास्तावत्कियद्दूरमानीतोऽस्मि । न जाने दुखगाहे गहने को वा मार्गः ? कथं तां गुहां प्राप्नुयाम् ? कं पृच्छामि ? को वावेदयति ? सा पुनः कथमिव कालीकृतदेहं मां प्रत्यभिजानाति जीवसेन इति ? हा ! दैवहतक ! किमिद
।
187
Page #218
--------------------------------------------------------------------------
________________
188
जयन्तिका
मेवं दूरीकृतपितृकां मदेकशरणां तां जयंतिकां दयनीयदशां विधाय मोदसे किमु ? धिक्कठोरमानसं मां इति उन्मत्त इवाक्रन्दन्लतापिनद्धभूर्जपत्रपटलविरचितपरिधानो दीनदीनः कांतारे तावदनुपलब्धजनपदवा दूरीभूतगांभीर्यः कदर्य इव सुदूरमभ्रमम् ।
एवं वनवर्मना संचरमाणः शीतलसलिलशीकरवहगंधवहसमुपजनितरोमजालकोलित इव चलितुमप्यनीशः तत्र तत्र काप्यन्विष्यन्विशंकटाटवोतटे वैश्वानरं असकृदिशमभितः पश्यन्ननतिदूरे पुनरपि मां पीडयितुं नियतिप्रेरितकादंबिनीसंदोहसंदेहमापादयन्तं दुर्दिनतया निस्तेजस्कं मार्तंडमंडलमंडशंकया गिलितुं पातालतलादुद्गच्छन्तं कालोरगमिव दंडाकारेण नभसि प्रस्मरं जलभरितवलाहककुलमपि कालिना समाच्छादयन्तं दिवापि तमिस्राभ्रांतिमुपजनयन्तं तमालतरुवाटेषु द्विगुणयन्तमंधकारं धूमनिकरमपश्यम् । दृष्ट्वा च सानन्दं भवेदत्र जनतावसथानोति विचिंतयन्कथमपि गत्वा तदन्तिकं भिक्षामटन्वा परपरिचर्यामाचरन्वा भृत्यभावमापन्नो वा दिगम्बरतापरिहरणाय किमपि याचिष्ये चेलमेकमिति मनसि कृत्वा तदुपकण्ठं प्रति प्रस्थितः,
क्वचिदचिरचितातलविनिहितहुतवहतया पच्यमानवसाबहुलशवशरोरचीत्कारदंतुरितं कचिदहनविदार्यमाणकुणपकोकसफीटारदूरीकृतफेरवारावमुखरितं वचिदुपरतं वल्लभ चितामारोपयितुमुद्यतानगलीभूय पुरुषान्मामेति निरुध्य तारतारं हा ! नाथ ! विहाय मां निरनुकोशो गतोऽसि। मामप्युपनयेति शवोपरि निपत्य रुदतीनां तदपदानमेव व्याहरंतीनां शिथिलितधम्मिल्लानां वक्षोजतटनिपतनत्रुटितैलबिंदुभिरुरस्ताडनत्रुटितैः मुक्ताहारक्षोदशंकामुपजनयद्भिदैतुरितदुकूलानां ललनानां परिदेवनारावमुखरितदिगंतरं क्वचित्पत्रपुटनिक्षिप्सतंडुलापहरणावसरमनुपालयद्भिः पुरोहितभिया सुदूरे सकटुरवं निषण्णैर्विवल्यमानकंधरैर्यमभटकुटुंबैरिख वायसविसरैः कालीकृतैकदेशं क्वचिदुदुम्बरपत्रदर्भपटलविच्छुरितक्षितितलं
Page #219
--------------------------------------------------------------------------
________________
पञ्चमलहरी
189 क्वचिक्रियमाणचितं वचित्परिजनानीयमानेंधनबन्धुरशकटं क्वचिन्मातृकृते कार्यमाणपुत्रशिरोमुंडनं कचिद्विप्राय समंत्रघोषं दोयमानतिलसंभृतकांस्यभाजनं क्वचित्रिकूटोकृतशिलाघनाधिश्रयणीसमारोपितमृद्भाजनपच्यमानतंडुलमचिरकृतस्नानतया परिधृताईचेलतया च कचिच्छीतलवातकंप्यमानाधरकरपुटैः पुत्रैः क्रियमाणपितृक्रिय कचित्क्रियमाणास्थिसंचयनं क्वचित्प्रदत्तप्रभूतबलिसंग्रहणलंपटकाकोलगृध्रनोरंधितापर्णमहोरुह-विटपपटलं कचिदानीयमानशववाहनं कुत्रचिचितानलधूमप्रसमरवसागन्धं कुत्रचित्सिमसिमायमानचितानलं कुत्रचित्प्रज्वलच्चितानलज्वालाशिखरपरिस्फुरत्स्फुलिंगसंघचटचटात्कारवाचालितं कुत्रचित्सितभसितधवलितं कुत्रचित्स्फुटितमृण्मयभाजनं श्मशानवाटमपश्यम् ।
____ दृष्ट्वा चाहो दुःखमयता जगतः । पितृवनमिदं पिशुनयति जीवितस्य जलबुद्दकल्पताम् । दूरोकरोत्यभिमानं मानवस्य । प्रकाशयति कालस्य निष्करुणताम् । अंकुरयति रागिणां हृदयालवाले वैराग्यम् । उपजनयत्युद्योगिनामपि निर्वेदम् । शंसत्यसारतां संसारस्य । समुन्मेषयति नास्तिकस्यापि मानसे हरिचरणस्मरणम् । प्रकटीकरोति भगवतो मायावैचित्र्यम् । दर्शयति समवर्तिनो निर्दाक्षिण्यम् । कुण्ठयति जनतायामुत्साहम्। उत्सारयति शुभोदर्कभावनाम् । कुण्ठयति समुत्कण्ठाम् । वर्धयत्यस्थिरतामनोषाम् । उद्वेजयति परस्परप्रेमविलासम्। संक्रामयति बन्धुजनविश्लेषक्लेशम् । विस्मारयति पुनर्घटनाधिषणाम् । समद्बोधयति नश्वरतां शरीरस्य । समुपदिशति हेयतां विषयाणाम् । इति बहुधा विचिंतयस्तत्रैव ततः इतः पर्यटन्नवनितलनिपतितं धूममलिनं समीरजवचालिततया समोपे परिलुठन्तं खंडपटमेकमपश्यम् । दृष्ट्वा च दुर्विधिना प्रेरितमवश्यमनुभोक्तव्यतालेखपटमिवाविगणय्य च कुणपसंपर्कापवित्रतामविचार्य चानादेयतां दुर्गतो वित्तमिवादाय परिधाय च ततः क्रोशमिव गत्वा स्पृहणीयसौन्दर्य मर्यादातीतसौभाग्यं चित्रपुरमिदमवालोकयम् ।
Page #220
--------------------------------------------------------------------------
________________
जयन्तिका
तदनु जीवनकृते जिगमिषुः पुराभ्यन्तरं प्रियाविरहदहनक्वाथ्यमानहृदयोऽपि निरनुक्रोश इवागच्छन्गोपुरपार्श्ववर्तिनममंदानंदभरितो व्यलोकयममुं दुर्गालयम् । हन्त ! मे निगोर्णमिव क्षुधा क्वापि लीनं गांभीर्यम् । दग्धेव शोकानलेन क्वाप्यंतर्हिता वदनकांतिः । अनुगतं रूपमपि दुर्दशाभिभूतमिव क्वापि गतम् । अहो ! विधिविलसितम् । अहं तावत्क्षुत्पीडासहिष्णुतया ध्वांक्ष इव निहतक्षितित लपतितपशुपिशितच्छेदमन्विष्यनौदरिक इव दुर्गायै भक्तानीतं तंडुलपिष्टपिंडं याचमानः दूरीभूतमानः कथंकथमपि दैन्येन प्रशमयन्बुभुक्षां क्षामांगकोऽनधिगतकार्यांतरतया विरूपशरीरतया दारिद्रयानुगुणवेषतया निर्विण्णहृदयतयोन्मत्तानुरूपस्थितितया च विस्मृत्य पुराभ्यन्तरप्रवेशाभिलाषमनवरतमप्येतदालय पार्श्ववर्तिनि शिलापीठे निषण्णो दुःखेनैकाकी चिंतयन्नात्मनश्चक्रवर्तित्वमधीनानंतसामंतनरपतिकृता नर्घो पायनरत्नसमर्पणं मखप्रियप्रोत्साहनं चण्डदंष्ट्रयातुधाननिबर्हणं गन्धर्वपतिमुखावकर्णितात्मापदानं जयंतिकाप्राप्तिमिदानींतनीं स्थितिं च निरंतरनिपतदश्रुधारास्नापितशरीरः रात्रंदिवमपि निर्निद्रः दूरीकृतस्नानः कथंकथमप्यत्यवाहयं दुःखमयानि कतिचिद्दिनानि ।
190
अथ कश्चन लब्धाधिकारः पुरुषः परुषतरां मद्दशामवलोक्य विधिचोदिततया वा एवं भवितव्यतया वानुकंपितस्वांतो रिरक्षया न्ययूयुजदेनं दीनं मां सज्जनगर्हिते दुरितानामाकरे कठोरतरे तावदस्मिन्कर्मणि । तत्रत्यैरहं मातंगनाम्ना समाहूतः पुरहूतपदमिदमेव मन्वानः नियतिनियोगस्यानतिक्रमणीयतया कठोरमपि गर्हितमपि अकृत्यमपि समुद्वेजित - मपि दुरितावहमपि शास्त्रनिषिद्धमपि नृशंसैकयोग्यमपीदं कर्म समाचरन् " जीवन्भद्राणि पश्यति " इति समनुचिंत्यापरित्यक्तप्राणः शुभोदर्कं तर्कयन्नंतर्निरुद्धशोकावेगः वसामि। वत्स ! वसाबहुले क्षितितले मम तावद्धृतप्राणस्येदमेव सुदिनं हि ! यच्चिरादतर्कितोपनतं पुत्रमुग्धमुखपुंडरीकदर्शनं इत्यकथयत् । एवमात्मोदंतमभिधाय वत्स ! किमद्य करोमि ? मम
Page #221
--------------------------------------------------------------------------
________________
पञ्चमलहरी
191
पाणिहतकः परावर्तते भवन्निषूदनात् ! तात ! यदि समवलोकितो भवेन्नरपतिना तदा नैव स्यादोशी दशा ते। वंचितोऽसि दैवेन । कठोरहृदयस्य ममेदं हृदयं विदार्य प्राणा अपि नैव यांति। अंब ! दुर्गे! रक्ष माम्। मातः दुर्गे ! निरपराधिनि निर्गतिके वत्सेऽस्मिन्निरनुक्रोशासि । पाहि कृपयेति विललाप । तदा परस्परमेतयोः परिदेवनमवकर्ण्य तत्रत्येषु मूकेष्विव दुःखभरदम्यमानकण्ठेषु बाष्पदिग्धलोचनेषु परस्परमुखावलोकनप्रकटितदैन्येषु स्तम्भीभूय स्थितेषु स भटो मंदमुपसृत्य शोकगद्गदकण्ठः स्फुरदधरपुटः कंपमानचिबुकः तात ! मातंग ! को वा निवारयेद्भवितव्यताम् । प्रायो जगति नष्टाधिकारं भ्रष्टश्रीकं कृतोपकारमपि साधुशीलमपि सत्कुलीनमपि मानवं नैव मानयंति जनाः । को वा निवेदयेद्धृतधैर्यो राज्ञे भवदुदन्तमखिलमपि। भृत्यानां अस्मादृशां नैव तादृशी धृष्टता। किं कुर्मः ? कथं कथयामः ? भवद्दशां द्रष्टुमपि वयं न पारयामः । किमनेन परिदेवनेन निष्फलेन । राजाज्ञा तावद्भवताप्यस्माभिरपि अवश्यं निर्वर्तनीया। तन्नैव पश्यामि कालविलंबनेन किमपि प्रयोजनम् । किं च मयापि क्षिप्रमावेदनोयं देवादेशो निर्वर्तित इति राज्ञे। तदविलंबितमाचर कर्तव्यं कर्मेति सबाष्पमब्रवीत् ।
__भटवचनमवकर्ण्य स मातंगः तात! सत्यमभिहितं भवता। कोऽहं प्रभुनियोगमन्यधा कर्तुम् । प्रभुणा संकल्पितो भवेद्वालकबलिः । भृत्यकृत्यं हि स्वामिसङ्कल्पनिर्वहणम् । तत्क्षमस्व मत्कृतं कालविलम्बनरूपमागः । पापीयानह निस्त्रिंशधाराक्रूरतामाश्रित्य हन्मि कुमारं ममात्मजम् । कित्विदमेकमभ्यर्थये । दास्यते च दासेन पत्रमेकम् । तत्समर्पय राज्ञे कृपयेत्यभिधाय रुधिरसिक्तेन च्छुरिकाशिखरेण किमपि विलिख्य पत्रमेकं भटहस्ते निक्षिप्य च दुःखभरग्रस्ताक्षरः क्षरदश्रुधारापरिबाधमानाधरपुटः कृतांजलिः तात ! समर्प्य च राज्ञे पत्रमिदं समावेदय दीनस्य प्रार्थनाम् । यदि भवेत्कापि धृतप्राणा सा मस्विनी मंदभागधेया जयंतिका दयालुना
Page #222
--------------------------------------------------------------------------
________________
जयन्तिका
देवेन कथमपि प्रापणीयमिदं पत्र तामिति । एवमभिधाय वत्स ! क्कासि दर्शय ते मुखकमलम् । बाष्पप्लावितेनानेन चक्षुषावलोकयाम्येकवारं पुनर्दुर्लभम् । बाष्पाकुलतया नैव दृश्यसे । क्कासि ? वत्स ! क्कासि ? वत्स ! मामवलम्बस्व । प्रसारितभुजः परिरम्य मामाभाषयेत्यसकृदन् तमादाय बालकं शिरस्याघ्राय हा ! कथमिव हन्मि नृशंसोऽहम । हा ! नियते ! लोकविलक्षणोऽस्मीति विसंज्ञः पपात वसुमत्याम् ।
तदा स बालको बाष्पगद्गदकण्ठो हा! तात ! किमिदमुचितं ते क्षत्रावतंसस्य क्षत्रियाणां शस्त्रघातेनोत्सवो हि प्राणत्यागः । भुवि लब्धजन्मा कदापि केनापि कारणेन त्यजेदेव प्राणान् । तदिह किमर्थमबलावन्मुधा प्रलपसि । क्षिप्रमुत्तिष्ठ । निर्वर्तय नरपतिनियोगम् । इति तं मंदमुत्थाप्य क्षितितलपतितं करवालमादाय च तत्पाणिना बलाद्वाहयामास । तदनु स मातंगस्समुन्नमय्य तं कृपाणं रे ! तिग्मतर पाप ! बाष्पहतक ! कुतो वा मुधा निरुणत्सि मन्नयनसरणिम् । मा कुरु नरपतिशासनस्यांतरायम् । पाप ! पाणिहतक ! कुतो वा वेपमानः पातयसि कृपाणं क्षितितले । निपातय निर्भयं निरनुकम्पं तनयग्रीवायाम् । अयि ! दुर्गे ! निर्गतिकस्य समाश्रितभवच्चरणसरसिजस्य घोरतरदुरितभाजनस्यास्य जनस्य नालमेतेनानुभवेनास्वादितानेकपशुरुधिरधार ! निप ! निस्त्रिंश ! साधु स्वदस्व तनयकंधरारुधिरधाराम् । रे ! जीव सेनहतक ! केवलविडम्बनमेव ते परिदेवनमपि । किं मुधा प्रलपसीत्युचैराक्रन्दन्निपात्य चासिधारया पुत्रकंधरां वसुन्धरायां स्वयमप्यात्मग्रीवायां स्वपाणिनैव पातयामास कृपाण - धाराम् । मातंगनिधनमप्यवलोक्य समुद्विग्नहृदयस्स भटः ससंभ्रमं सावेगं सवेगं समासाद्य च प्रासादं तापसीं प्रति जीवसेनान्वेषणोपायमेव व्याहरत्यै मुहुर्वामेतरेक्षणपरिस्फुरणपिशुनितां निर्निमित्तापशकुन भीतिमपि प्रकाशयत्यै तस्यै जयंतिकायै साध्वसवेपमानगात्रो निवेद्य च मातंगवचनमखिलमपि तन्मरणं च तेन दत्तमिदं पत्रमिति सबाध्यं सविनयं तत्पत्रमर्पयामास ।
192
Page #223
--------------------------------------------------------------------------
________________
पञ्चमलहरी
193 जयंतिका तु त:चश्श्रवणमात्रेण विहस्ता सत्वरं पत्रमुद्घाख्य पपाठ। त्यक्त्वा त्वां विपिने कुरंगनयने ! हा! जीवसेनो गतः
चण्डालत्वमुपेत्य जोवित इह त्वलाभकांक्षाबलात् । अध वापि समागतं तव सुतं हत्वा क्षितोशाज्ञया
कासि प्रेयसि । पापकृत्समददां काल्यै ममासूनपि ॥ इत्थमनुवाच्य हा! नाथेत्यतर्कितापतिताशनिहतेव पपात वसुमत्याम् । तादृशावस्थां तां जयंतिकां निशाम्य शोकविक्लबा सा तापसोत्थमचिंतयत्। केयमनर्थपरंपरा ? यदर्थमियन्तं कालं महानुद्यमः कृतः। स एव समूलनाशं नाशितो नियत्या। भस्मनि हुतमिव निष्फलमभवदखिलमपि कर्मजातम् । ध्रुवमियमपि त्यक्ष्यत्येव प्राणान् । किमद्य कर्तव्यम् ? द्रष्टव्यमिदमपि संवृत्तं पापया मया। विविक्ते विपिने मुनिवृत्त्या कालमतिवाहयंत्याः मम केदमापतितम् १ हंत ! विधिविलसितम् ! विचित्रगतिता च कर्मणां विस्मयमुपजनयति । वात्यया गन्धर्वनगरमिव गगनांकणे नियत्या ताव
संसारचक्रे प्रियजननिवहमेकत्र संयोज्य दर्शनीयतामापाद्य च प्रवर्ध्यते हर्षप्रकर्षः । क्षणमिव तदखिलमपि विघटय्य च शोचनीयता कल्प्यते । तदत्र प्रतिविधातुं न कोऽपि शक्नोति। किंतु शुभाशुभकर्मफलमनुभूयैव क्षपयितव्यम् । तदहमपि सिद्धास्मि सर्वमनुभवितुं यद्यदापतिष्यतोति विचिंत्य तस्यास्संज्ञामुदपादयत् ।
सा तु जयंतिका पतिसुतनिधनजनितशोकपावकपच्यमानहृदया मंदमुत्थाय सगद्गदबाष्पं किमनेनेतःपरं गर्हणोयेन पुरुषवेषेणेति मालाबलाइरोकृतपुरुषाकृतिरनपेक्षितशतांगा चरणाभ्यामेव प्रस्थिता किमपि गदितुमप्यनोशया शोकातिरकावनमितवदनया तया तापस्या सह धावंधावं दुर्गालयद्वारमवाप। अवाप्य च तत्र रुधिरधारारंजिततया अरुणकौशेयावगुंठितोपधान इव वध्यशिलातले शयानं समुद्गलदसाविंदु विशालबध्यशिलातलालंबमानदेहार्धमागं निकृन्तनानुपदमेवापरित्यक्तजीवसंपर्कतया
J-25
Page #224
--------------------------------------------------------------------------
________________
194
जयन्तिका
मुहुरुत्प्लुत्योत्प्लुत्य करनिकटमागतं भ्रुकुटितभ्रूलतं दंतपंक्तिदष्टजिह्वांचलं किंचिदिव निमोलितलोचनं स्वशिरः प्रसारितेन पाणिना दित्संतमिव दुर्गायै प्राणप्रयाणावसर बहुलीभवदनिर्वचनीयव्यथापरिलुठत्कलेबरतया त्रुटितरक्त सिक्तप्रत्यवयवसक्तशोणकरवीरकुसुमदलं मलयगिरिसानुमिव रक्तचन्दनावलीढं वसंतसमयमिव कबन्धोपकंठप्रकाशमानरक्तोत्पलं तनयमुपरतानां पशूनामुपर्युत्तानशयं निजकरपातित करवालासमग्रनिकृत्तकण्ठतलतया स्तोकमिव लग्नेन प्रमीतमहीतलेशय स्थूललुलायोन्नतपृष्ठदेशादधोलम्बमानेन विगलितोष्णीषतया विलुलितकीलालकलुषित लम्बमानकचकलापेन तिर्यगाकूणितकृष्णकनीनिका भयानकलोचनेन बाष्पधारापरंपराकल्माषितकपोलेन दरविवृतवदनकुहरेणोत्तमांगेनातिबीभत्सदर्शनं किंचिदिव विवृतशिथिलितमुष्टितया करगलितकौक्षेयकत्सरं वक्षस्स्थल निक्षिप्तवामपाणि स्रुतास्रस्रोतस्सिक्तकच्चरवारवाणं शोणितपंकिलतललग्नगुल्फदेशं वल्लभं चोपरतमपश्यत् ।
दृष्ट्वा च भूताविष्टेव ग्रहग्रस्तेव केनाप्युत्क्षिप्तेव चक्रवात्यया परिघूर्णितेवाशनिपातेन पातितेव गाढांधकारकुहरं प्रविष्टेव वारिपरीवाहावर्तेन भ्रामितेव दावानलज्वालयावलीढेव शोकातिरेकेणोन्मत्तेव हा ! नाथ ! क्कासि ? इति निपत्य वल्लभोपरि नन्वार्यपुत्र ! न जानासि मामागतां जयंतिकाम् ? क्षिप्रमुत्तिष्ठ । मामाभाषय | किन्नु खल्विदम् ? चतुरुदधिमालामेखलाया विश्वंभराया भर्ता भवानिहैवं शेते ? किमुचितं कुंकुमपटीररससमुचितस्य समनुभूतशशोदरलोममृदुलतल्पस्यानल्पभोगानुभवभाजनस्य भवच्छरीरस्य विस्रगंधासह्य पिशितशोणितकलुषितमिदं शयनम् - 2 तदुत्तिष्ठेति मन्दमुन्नमय्य पाणिना लम्बमानं पतिमस्तकं सकबन्धं शाययित्वा च निजोत्संगतले सिञ्चन्ती बाष्पधारासारैर्नतोत्तमांगी पतिमवलोकयन्ती हा ! नाथ ! कोऽयं वेषः ? कथमापतितं ते वैरूप्यम् ? क गतं ते तादृशं सौंदर्यं गांभीर्यं धैर्यं च । कथमापतितमीदृशं दौर्गत्यम् ?
Page #225
--------------------------------------------------------------------------
________________
पञ्चमलहरी किमिति जग्राह भवान्पाणिमस्या मंदभाग्यायाः । हन्त ! भवता तु नैवानुभूतं किंचिदप्यनया मया सह शर्म । नाचरितं च नर्म । नापि कृतं अवदातं कर्म । किंतु मत्कृते दूरीकृतो निजधर्मः । समाश्रितं च सज्जनगर्हितं चंडालकर्म । घिगेनामोदृशानर्थपरंपराया निदानीभूतां जयंतिकाम् । अहह नाथ ! कथमिव निकृत्तवानात्मजमपि नरपतिभिया । हन्त ! निखिलनरपतिमकुटकोटिरत्नप्रभानीराजितचरणारविंदस्य भवतोऽपि का नाम भीतिरन्यस्मान्नरपतेः । धिक्पर सेवाम् । ननु नलिनायताक्ष ! स्थूललक्ष ! कथमिव न्यपातयः कृपारहितः कृपाणधाराम विदितलोकतंत्रे पुत्रेऽनेन पाणिनेति तत्पाणितलं निधाय निजनयनयुगले कपोलफलके च मुहुः करतलेन परामृशन्ती तन्नयनयुगलं तत्कपोलतलविनिहितात्ममुखकमला निजासमीक्ष्यकारितां पदेपदे निंदन्ती हा ! जीवसेन ! विपुलोरस्क ! तिरस्कृत स्मरसौंदर्यार्य पुत्रेत्य सकृदाकारयन्ती शिलामपि विलापयन्ती कठोरमपि वज्रं द्रवीकुर्वती रोदनातिरेकण दिक्तटमपि शिथिलयन्ती गगनमपि पातयन्ती धरामपि विदारयन्ती तारतारं विललाप ।
एवं विलपन्ती शिलातले शयानं तनयमवलोक्य दुःखभरद्विगुणिताश्रुच्छटासिच्यमानस्तनतटा मंदमुपसृत्य रुधिराविले भूतले समुपविश्य हा ! वत्स ! नियत्या ते ललाटतटे किमिदमपि विलिखितं, यज्जनन्या समादिष्टः खड्गपाणिना जनकेन निकृत्तकण्ठो भवेति । ननु पुत्रक ! पुरा वल्लभमनुचित्य रुदन्तीं मामवलोक्य मदुःखासहिष्णुर्बालभावमधुराभिस्सांत्वोक्तिभिरजनयः किल किंचिदिव हृदयशांतिम् । कुतो वाधुना नैव सांत्वयसि प्रलपन्तीं माम् । धन्योऽसि ! यत्पितृनिधनमनवलोक्यैव प्रथममेव त्यक्तप्राणोऽसि । प्राणिमि पापाहमद्यापि कष्टपरंपरामीदृशी मनुभवितुम् । अंब ! कर्कशहृदये ! दुर्गे ! भवती तावदन्यादृशेनानेन बलिक्रमेणाप्य - पर्याप्तसौहित्येति ज्ञायते । तदुररीकुरु मदीयान्प्राणानपि दयया । समर्पयाम्यधुनैव । पश्येत्यादाय जीवसेनकरतलात्करवालं निजकण्ठनिकृन्तनाय
195
Page #226
--------------------------------------------------------------------------
________________
196
जयन्तिका
समुत्तस्थौ । “तदानीं कथमयं जीवसेनः १ क वास्य चक्रवर्तित्वम् ? कायं चंडालभावः ? क सारिभीकरा ? केदं चित्रपुरम् ? कथमिहागमनमस्य पर्यवसितमंततो निधने । स्यान्नामैतत् । असूर्यपश्यायास्तन्महिष्याः कथमिव स्थितिरिह । अहो ! विस्मयावहः खलु सौंदर्यमस्याः । सत्यमियं चण्डिका चंडयेव । रमणोमिमां निजप्राणानपि जिहासतीं विलोकयंत्याः दुर्गायाः हृदयं निजकरकरवालनिशितधारासोदरमिव दृश्यते । किमिह न कोऽपि निवारयितुमस्ति वा ?” इति परस्परं व्याहरतां, मातस्सप्रश्रयमभ्यर्थयामहे । मा तावदोदृशे परुषतरे कर्मणि समुद्यता भूरिति सांजलिबन्धं याचमानानां, हन्त ! क्षणादेव नश्यति स्त्रीरत्नम् । किं कुर्मः ? कोऽपि नास्ति रक्षकः ? इत्यानंदतां च तत्रत्यानां जनानां हाहाकारपूरिते दुर्गागाराजिरे जयंतिकायास्तावत्समुद्यत्खङ्गो बाहुस्तथैव स्तंभितोऽभवत् ।
तदा तु शरच्चन्द्रचंद्रिकाधवलं क्षोमं वसाना दीप्रतरहीरहारपरिष्कृतवक्षोजमंडला निजाजानुलम्बमानपरिमलबहुलमल्लिकामाला वामपाणिधृततीर्थोदकपूर्णसुवर्णकलशा निरतिशयसौंदर्यापहृतसकलजननयना तेजोमयविग्रहापि कौमुदीव नयनाह्लादकरी गौरांगी काचिदाविरासीसुन्दरी । तत्रत्येषु सादरं सविस्मयं सकौतुकं तामेव वीक्षमाणेषु जयंतिका का स्वमंब ! कादंबिनीव धर्मातपपरितप्तस्य आविर्भूतासि । यदि दुर्गंव, गृहाण कृपया कृपाणमेनम् । ममापि मंदभाग्यायाः निकृत्य कंधरां धरां गलितभरां कुरु । कृपयांगीकुरु प्राणहतकानिमानपि। निवर्तयाभ्यर्थनामिमा सादरमिति सगद्गदमब्रवीत् । तदवकर्ण्य सा सुन्दरी समंदस्मितं वत्से ! नाहं निघृणा । त्वं त्वविदितपूर्वोदता शोकातिरेकादेवं व्याहरसि । निर्निमित्तमेवं मा कुप्यतु भवती मह्यम् । शृणु तावदेवं भवितव्यताया निदानं पूर्ववृत्तम् ।
पुरा किलाश्वकर्णाभिधस्तपोधनः तस्यामेव गुहायां तपश्वरन्नासीत् । यस्यां युवयोस्संगमस्संवृत्तः। स तु कदाचित्प्रणिधानानंतर कंदमूलफला
Page #227
--------------------------------------------------------------------------
________________
पञ्चमलहरी
197
हरणाय गुहाया बहिः क्वापि प्रयातः । तदवसरे कश्चन राजा मृगयार्थमागतः कयापि योषिता संगतः । प्रत्यागतश्च तपोधनः ज्ञात्वा च ज्ञानेन ग्राम्यधर्मापरिशुद्धां गुहां क्रुद्धश्च रे ! ग्रामीणकल्पानल्पामिक ! यदिमां मदीयां गुहां कर्मणानेनापरिशुद्धामतनोः तदिदानीमेव चण्डालभावाभिभूतो मार्याविरहितः नष्टसर्वस्वोः भवेति शप्त्वा चेतः परं यश्च हेयमिदमिहाचरिष्यति सोऽपि भूयादेवमेवेति शशाप । तत्तत्रैव संयुक्तयोर्युवयोरपि तथैवासीत् । मया त्वनुजिघृक्षया ते कारितः कांतारवर्तिन्या तापस्यानया सह वासः । योजितश्च चण्डालभावाभिभूतो जीवसेनोऽयमपि मत्सेवायामिहैव। कथमप्यभिषेचिता चास्मिन्नेव चित्रपुरे भवती प्रापिता च । माला तव मणिबन्धाच्च्याविता च । कथमपि तव तनयहस्तं प्रापिता च । घातितस्तवेहानीतः पुत्रः । यतोस्यायुषां परिमितिरियत्येव । इतःपरं दीर्घायुवर्धते। कारितश्चात्मवधो बलभेन स्वेनैव येनायं चण्डालभावोऽपि विनश्येत् । वत्से ! तवायं वलभः लब्धपुनर्जन्मा लब्धपूर्वरूपः, पुत्रोऽपि सुप्तः प्रबोधित इव च समुत्थास्यतः । तदूरीकृतशोकगंधा संध्यनुगुणं योजय तत्तत्कण्ठतलयोस्तत्तन्मस्तके इत्यादिदेश ।
अनुपदमेव सप्रमोदं जयंतिकया संयोजितयोस्तत्तच्छिरसोस्तत्तस्कंठतले सा सुन्दरी समभ्युक्ष्य निजकरकमलकलशोदकं, वत्से ! किमन्यदभिलषसि ? निवेदय । दित्सुरस्मि इति सादरमकथयत् । तदवकर्ण्य कर्णामृतं दुर्गावचनं सानन्दं सप्रश्रयं बद्धांजलिपुटा जयंतिका मातः ! प्रागिवास्यास्तापस्याः पुरुषसंपदमापादय । किंच शोकातिरेकायद्यदपराद्धं वचसा मनसा कर्मणा च मया, तदखिलमपि क्षमस्व । किंच वत्साय वल्लभाय च दीर्घमायुः प्रयच्छेति प्रार्थयामास । एवमभ्यर्थिता सा तु दुर्गा समंदस्मितं तापस्याः कण्ठे समर्प्य च निजकरस्थितां चम्पकमालां जयंतिकाप्रार्थनया लब्धपुरुषभावोऽसि । चित्रपुरे तावदभिषिक्तः प्रजारंजनपरो भव । वत्से ! जयंतिके! मर्षित एव शोकातिरेकविजंभितो
Page #228
--------------------------------------------------------------------------
________________
जयन्तिका
वागपराधः । त्वमपि दयिततनयाभ्यां समासाद्य निजपुरी गुरुजनवरिवस्यापरा धर्मैकनिरता पतिदेवता सती चिरमनुभव राज्यसंपद मित्यभिधायांतरधात् ।
198
·
तदनु जयंतिका मंदेतरानंद स्पंदमाननयनंदीवरकंदलितबाष्पमरंदमंदीकृतगमना मंदाक्षावनमितवदनारविंदा मंदमधिगत्य धवसविधं दक्षिणपाणिपल्लवेन परामृशन्ती तत्तनुं मंदमधुरया गिरा नाथ ! सनाथयोत्था यानाथममुं जनमित्यकथयत् । तत्क्षणमेव प्रियाकर किसलय संपर्कादिव सः जीवसेनः करकमलतलपरिमृष्टलोचनयुगलः परामृशन्तीमात्मतनुं सुतनुं समीक्ष्य क्षिप्रमेव क्षितितलादुत्थाय प्रियावलोकनजनितप्रमोदातिशयपरवशमानसः स्वप्ने चानुभूयमाने झडिति बलादुत्थापित इवास वास्वादमदघूर्णित इवामृतस्रोतोभिराप्लावित इव हठाद्भीत इवोरुतरपरुषर व परिक्षुभित इवामितरयपरिभ्रमणसमुपजनितहृदयवैकल्य इव ध्वांतावनद्धदृष्टिरिव निरतिशयतेजःपुंजाभिभूत इव चेतिकर्तव्यतामूढः समुद्गतपुलकजालकीलितमूर्तिः प्रमोदजनितया कयापि विकृत्यानिर्वचनीय मुखवैवर्ण्यः शिथिलितवर्णगणः किमपि किमपि भाषमाणः आनंदातिशयविकलितजङ्घाबलः पुनरपि पपात क्षितितले । तादृशावस्थमवलोक्य पतिं समुद्विग्ना जयंतिका मनस्येवमचिन्तयत् । वदंति खलु कोविदाः निरंतरक्लेशपरंपराविशीर्णहृदयस्यातर्कितोपनतोरुतरप्रमदहदावगाहनमपि निधननिदानमिति । तदिदानीमचिंतितोपन तमद्दर्शनसमुपजनिता मंदानंदतुंदिलहृदयोऽयमेवमनुभवति । तदधुना पुनरपि प्रागिव मालाबलान्नरपतितामुपेत्य पतिमेनमवलोकयामि इति विचित्य च पुरुषाकृतिमेवोररीचकार ।
तदनु शिशिरोपचारेण सचेतनो जीवसेनः हा ! प्रिये ! क्कासि गता कालमेतावन्तम् ? कथमिवेदानीं तटिदिव सन्निहिता । कालमुखपतितं मामकार्षीस्सजीवं जोवसेनं निर्दयमित्युदतिष्ठत् । उत्थाय चानवलोक्य प्रियां नरपतिदर्शनाद्भीतभीतः परितो दत्तदृष्टिः तापस्या प्रतिबोधितं
-
-
Page #229
--------------------------------------------------------------------------
________________
पश्चमलहरी
__199 निजदर्शनजनितप्रमदभरप्रफुल्लवदनारविंदं सरभसं प्रणिपतनायापतन्तं निर्वर्ण्य पुत्रं ससंभ्रमं सविस्मयं समभिपत्य पाणिभ्यामादाय दृढतरं परिष्वज्य मनसीत्थमचिंतयत् । हन्त ! विधिविलसितम् ! क पुनरुत्थानमुपरतस्य ? क्वाहमस्मि ? क पुनरंतककरालवक्त्रकुहरक्रूररदनक्रकचाघातपतितस्य वत्सस्योज्जीवनम् ? हन्त! किमयं स्वप्नप्रपञ्चः ? तटित्पटलमिव मन्नयनपथाधिरूढं प्रियामुखकमलं क्वापि लीनम् ? किमिदमहं नवीकृत इवेति विचित्य च वत्स ! केन पुनरुज्जीवितोऽसि मया पापिना निकृत्तशिराः ? प्रदर्शय तं दयालुम् । महात्मनस्तस्य चरणनलिनयुगलमवतंसयामि । हा! प्रिये ! त्वं तावदस्मिन्नवसरे न सन्निहितासि । क्वासि ? देहि मे प्रतिवचनम् । इति बहुधा व्यलपत् ।।
एवं विलपन्तं तमवलोक्य जयंतिका सानुतापं दुःखदम्यमानकण्ठापि सगम्भीरं बालिश ! भवदनुयायिनीमबलां विहाय महारण्ये तद्विरहदुःखमिहाभिनयसि ? दंडनीयः खलु विस्रभद्रोहीति प्रकटितप्रभुदर्पा जीवसेनमपृच्छत् । पृष्टस्स कृतांजलिपुटस्साध्वसवेपमानगात्रो गात्रलीन इव विनयनम्रकायस्सबाप्पगद्दं न्यवेदयत् । देव ! नाहमपराधी। कांतारे कंदरे प्रियया सह शयानस्य ममाभवत्कापि तरुमूलतले प्रतिबोधः । प्रबुद्धेन च मया तत्रतत्रान्विष्टापि सा नैव लब्धा । केनाप्यपहृतांशुकतया नग्नोऽहं कांतारे पर्यटन्वसनमन्विष्यन्प्रियामाक्रन्दन् अनाथ इव निरवलम्बनः निराहारः हालिककल्पः अनल्पवैरूप्याभिभूतः मार्गवशादेतचित्रपुरनिकटवर्ति पितृवनमवापम् । तत्र च क्षितितलनिपतितं पटचरं कच्चरं खण्डपटमेकमादाय परिधाय च जीविकायै जिगमिषुः पुराभ्यन्तरं गोपुरपार्श्ववर्तिन्यस्मिन्नेव दुर्गागाराजिरे कथमपि कति चिदिनान्यत्यवाहयम् । अथ नियुक्तोऽस्मि प्रभुणास्मिन्कर्मणि। श्रुत्वा च धृतपुरुषवेषा जयंतिका हन्त ! मदर्थमनेन कीदृशी समनुभूता दशेति सानुतापं विचित्य तापसीमवलोक्य प्रवेशय प्रासादमुभावपि तावित्यभिधाय निरगच्छत् ।
Page #230
--------------------------------------------------------------------------
________________
200
जयन्तिका
तदनु लोकबांधवतयेव सवितरि तत्पुनरुत्थानपर्यन्तं स्थित्वा च पश्चिमाचलशिरसि मंदमस्तमुपगतवति विचित्रचरित्रावलोकनेन विस्मयाश्लिष्टमानसेषु तत्रत्येषु समुपरतान्पशूनादाय निजावासं प्रति गतेषु त्रोटिपुटगृहीतावनितलनिपतितपिशितशकलेषु सारवं समाश्रितनिकटविटपिविटपपटलकोटिषु ध्वांक्षेषु अचिरकृतदीपपल्लवतया ज्योतिर्मये चित्रपुरे बालिकाजनगीयमानगानविशेषहृदयंगमेष्वगाराभ्यन्तरेषु द्विजवजपरिपठ्यमाननारायणनामसहस्रस्तोत्रवाचालितेषु देवमंदिरेषु वधूजनक्रियमाणसंध्यारक्षाविधिसक्तेषु शिशुषु विरतेषु चाटुवचसा पंजरकीरेषु मणिमययष्टिशिखरकृतादरेषु अगारमयूरेषु क्रीतपरिमलबहुलप्रसूनमालास्तबककरपुटेषु विटपुरुषपटलेषु सायंतनमङ्गलवाद्यध्वानगम्भीरे सौधद्वारे सौरभमरितागरुधूपधूमलतावितानिते धनिभवनाजिरे सुन्दरीजनविरचितबलिकुसुमतारकितेषु प्रतिमवनदेहलोदेशेषु सा तु तापसी जयंतिकाभ्यनुज्ञया ताभ्यां दापिताहारा कस्मिंश्चिद्विविक्ते निवेशे संवेशाय तौ सादरं विसर्जयामास ।
तदनु समासाद्य च निजसदनं दूर एव परिगृहीततल्पामनारूढनिद्रां पतिसुतलाभकंदलितप्रमोदभरगंथरमानसां प्रथमं कथं कदा क वावलोकनीयोऽयमार्यपुत्रः पुत्रश्च इति पृच्छन्तीं जयंतिकामब्रवीत् । ननु कल्याणि ! दिष्टया वर्धसे । भवत्या तावदेतावन्तं कालं क्लेशपरंपरानुभूता। इदानी शुभोदर्कफलेग्रहितामवाप। भवत्यास्सहवासमहिम्ना दुर्गाप्रसादाचापगतस्त्रीभावः संवृत्तोऽस्मि पुरुषः। मह्यमेवं रोचते। तावुभावपि उषस्येव उत्थाप्य कारयित्वा च मङ्गलस्नानविधिं महाधनैविभूषणैश्वालंकारयतु भवती । त्वमपि मालाबलात्परिहृतपुरुषाकृतिः निर्वतितमंगलस्नानविधिः स्त्रीसमुचितेन मंगलवेषेण सुभगदर्शना सिमासनोपवेशितं भद्रमुखं सपुत्रमार्यपुत्रं चावलोकय । अहमपि निर्वर्तितस्नानविधिः नरपतिसमुचितालङ्कारालंकृतः तत्र सभायां द्रक्ष्यामि युष्मानिति ।
जयंतिका तु "एवं कल्पनीया सभा । एवं द्रष्टव्यस्तावत्प्रथममेवमार्य
Page #231
--------------------------------------------------------------------------
________________
पञ्चमलहरी
पुत्रः । प्रथममेवं संभाषणीयः । एवमाश्लिष्य पुत्रस्सांत्वनीयः । प्रथममेवं सभास्ताराणां प्रत्ययस्समुत्पादनीयः” । इत्येव प्रकारेण तापस्या समं संमंत्र्य यामद्वयमत्यवाहयत् । तदनु चरमे यामे वत्स ! प्रभुरयं किमर्थं प्रासादाभ्यन्तरं निनायावामुभावपि ? किमर्थं मिष्टान्नदानेन समतोषयत् ? किमर्थं शशोदरलोममृदुलशयनीये शायितवान् ? प्रभोस्तावदत्यादरोऽयमुपजनयति भीतिम् । राजाशयं ज्ञातुं को वा शक्नोति ? वत्स ! अहं तावदवैमि घोरतरे कांतारे स्वाश्रितदयिता परित्यागरूपापराधकृते दंड्योऽयमिति दंडनार्थं स्यादिदमिति परस्परं भाषमाणावनारूढनिद्रौ तावुभावपि तापसी - मुखादुत्थाप्य कारयित्वा च मङ्गलस्नानविधिं विविधैर्भूषणैर्भूषितौ चाकारयत् । स्वयमपि विहाय पुरुषाकृतिं मालाबलान्निर्वतितमंगलस्नानविधिः समुज्ज्वलशरीरा भूषणालंकृता च तापसीत्वात्ययसंतुष्टमानसं पुरुषभावलाभमासुरं कृतमङ्गलस्नानं परिष्कारपरिष्कृतं सुकेशं त्रपाभराकुंचितोत्तमांगा स्थिता चानतिदूरे जगाद ।
ननु भद्रमुख ! विचित्र परिष्कारदर्शनीयां परिकल्प्य सभां तत्र च पांडरतर तिरस्करिण्यन्तर्हिते मुक्तातपत्राभिरामे सिंहासने तावुभावप्युपवेश्य निवेदय तावन्मह्यं इति प्राह । एतावता कालेन प्राप्तोदययोरेतयोस्समागमावलोकन कुतूहलेनेव लोकबांधवः प्रकाशितरागश्चोदयगिरिशिखर मारुरोह । तदनु सुधर्मायामिव कल्पितायां सभायां सुकेशादेशेन बहिस्तिरस्करणीतः समुचितपीठमधिगतेषु विबुधेषु सभासमुचितवेषेषु करगृहीतचामीकरदंडेषु निश्चलंस्थितेषु परिजनेषु तपनीयपीठमलंकुर्वत्सु सचिवेषु यवनिकाभ्यंतरे च मणिमयसिंहासनजुषि सपुत्रके जीवसेने स सुकेशो विदितोदतायै मङ्गलालंकारालंकृतायै मंदमायांत्यै जयंतिकायै प्रसारितबाहुयुगलः सप्रश्रयं प्रदर्शयन्मार्गं तां सभां प्राविशत् । प्रविशति च तस्मिन्स्वांतर्निहितं जीवसेनं तस्यै जयंतिकायै त्वराभरात्प्रदर्शयितुकामेव यवनिका द्विधा विभक्ता सुदूरमपससर्प ।
J-26
201
Page #232
--------------------------------------------------------------------------
________________
202
जयन्तिका
जयंतिका तु प्रत्युप्तहोरकिरोटपरिष्कृतोत्तमांगमवतंसितभासुरतारानिकरमिव मेरुमूलवालारूढया लतयेव मृगमदतिलकरेखयालंकृतविशालललाटफलकमंसतले विलसंस्यै राजलक्ष्म्यै विनिहितदोपकोरकाम्यामिव माणिक्यमणिकुण्डलाभ्यां परिमंडितगंडमंडलं पृथुलमुक्ताफलमालावेष्टितकंबुकंधरं मरालराजिविराजितमिव पद्माकरं भुजलंबितपीतांबरं सपक्षमिव कनकगिरिं वोरोकल्पितकमलाभ्यामिव प्रत्युप्तपद्मरागाभ्यामंगदाभ्यां परिमंडितोदंडभुजदण्डं होरमयमेखलालंकृतावलग्नं वासुकिसमावेष्टितमध्यमिव मंदरं कालमेतावन्तं वल्लभविरहेणातिकृशे प्रकटितानुरागे लब्धराज्यतया पदपंकजवरिवस्यामाचरति भूमंडल इव चक्राकारे नात्यायते माणिक्यमयविष्टरे विनिहितचरणसरसिजं कमनीयतपनीयभूषणभूषितकंधरेण हाटकपीठमलंकुर्वता पुत्रेण रत्नसानुसानूपविष्टेन पिशंगकेसरांकुरभासुरकंधरेण केसरि-किशोरेणेव परिष्कृतदक्षिणपार्श्व नाकलोकमिव सुमनोभिरामं सुरपतिमिव सुधर्मासक्तं चन्द्रमिव दर्शनोयरूपं दिवाकरमिव निजतेजोधीनलोकं सौन्दर्यमयमिवानंदमयमिव नयनानामुत्सवमयमिव तं जोवसेनमपश्यत् ।
दृष्ट्वा च निरतिशयानंदपरवशतयेतिकर्तव्यतामूढा क गतास्मि? किमु निषण्णास्मि ? आहोस्वित्केनापि अवलम्बितास्मि ? किमु स्वपिमि ? किमथवा प्रबुद्धास्मि ? काहमागता ? केन वा समानीता ? किमालपामि ? किमथवा मूकास्मि ? किमु कापि प्लावितास्मि ? किमथवा स्वप्नोऽयम् ? इति बहुधा चिन्तयन्ती हर्षपरवशतया समाश्रितस्तंभा स्तंभागसमुत्कोणदंतमयसालमंजिकेव निष्पंदगात्री तस्थौ। तदा विस्मयाश्लिष्टमानसास्सामाजिका अनिर्वचनीयमानंदमनुबभूवुः । अथ स सुकेशस्सविनयं सांजलिबन्धं समुपसृत्य जीवसेनाय व्यजिज्ञपत् । देव ! देवो विज्ञापयति देवपादमूले। विस्मृत्य च कृतमखिलमप्यपराधं संतापितगात्रोमनवरतमप्यश्रुकलुषितनेत्रां दुःखैकपात्रं वल्लभलाभप्रत्याशासूत्रावलंबितप्राणमात्रां निरंतरांतरंग
Page #233
--------------------------------------------------------------------------
________________
पञ्चमलहरी
203
कृतपतिमन्त्रां मामिमामबलामुररोकृत्य कृपया कृतार्थां करोत्वार्यपुत्र इति। एतदवकर्ण्य देवः प्रमाणमिति। निशम्य च सुकेशवचनं निशाम्य च त्रपाभरविनमितवदनारविंदामायतनयनकुवलयप्रकटितदीनभावां मणिमयमेखलोपरितिर्यक्कृतवामकूर्परा कोमलकपोलतलविनिहितदक्षिणपाणिकमलां स्तोकमिवोन्नमितदक्षिणचरणांगुष्ठनखविलिख्यमानमणिकुट्टिमां नातिदूरे स्थितां जयंतिकां जोवसेनो मनसोत्थमचिंतयत्।
हन्त ! अनया तावत्को वापराधः कृतः १ कृतः खलु महारण्ये निनिमित्तमेनामुत्सृष्टवता मयैव । तथाप्यारोपयत्यात्मन्यवापराधम् । कथं वात्रागमनमस्याः १ कथमत्र स्थितिरस्याः ? सर्वमेतदजानतो झडित्येतदंगोकरणं तावन्ममानुचितमिव प्रतिभाति ! किंच प्रजा अप्यन्यधा भावयंति। हन्त ! कष्टम् ! भवतु तावदेवमाचरामि ; इति सुचिरं विचिंत्य नोरवेषु सभ्येषु सगम्भीरध्वानो व्याजहार। भद्रमुख ! ननु श्रुतं भवदुक्तमखिलमपि। न हि कदापि कथमपि योषितां स्वातन्त्र्यम् । इयं तु तरुणो रूपवतो पतिविहीना परवशा च भृतोदरा कालमियन्तमत्यवाहयत् । जगदिदं तावत्कामपरतन्त्रम् । कामस्तावदूर्ध्वरेतसामपि विकारयति मानसम् । कंदमूलफलाहारिणोऽपि भोग्यतामनीषया स्मरजटिलजालजठरे परिलुठन्ति स्म। कामस्तावझंझावात इव मनुजानां विवेकदोपकलिकायाः अन्धकार इव पिदधाति ज्ञानचक्षुः । आवाप इव तृष्णालतायाः तिरस्कारयति बन्धुजनवचनमपि। निर्मूलयति पितृगौरवमपि। उत्पाटयति विनयमपि । दूरोकरोति लज्जामपि। निश्श्रेणिरुत्पथगमनस्य । एवं स्थिते किमु वक्तव्यं योषित्सु। तदद्यापि क्वाप्येवमेव केनापि रक्ष्यमाणा स्वैरं विहरतु। भवतु च कुण्ठितमदुपकण्ठागमनोत्कण्ठा । नास्त्यवकाशलेशोऽपि भाषणस्यापि। तत्प्रयातु नाम सत्वरमितः कापि । इत्यभिधाय प्रकाशितामर्षस्तूष्णीमासोत् ।
निशम्य चाशनिनिशितानि जोवसेनवचांसि साध्वसवेपमानतनुलता
Page #234
--------------------------------------------------------------------------
________________
204
जयान्तका
जयंतिका हन्त ! किमिदमेतदपि श्रोतव्यं संवृत्तम् ? किमेतदर्थं वा इयन्तं कालमनुभूतोऽयमनिर्वचनोयश्श्रमः १ स तु फलेग्रहितामवाप्याप्यनर्थपर्यवसायी बभूव किल ! न हि भवत्यस्य मत्चसि विभः । कथं वा प्रत्येत्ययं मच्चरित्रशुद्धिम्। धिगेनां माम् । न हि दुरितमंतरा खोजनिः । दुःखैकभाजनस्य मे किमनेन प्राणधारणेन ? धिक्सौन्दर्यम् । धिक्चापल्यम् । धिगविचाररमणोयताम् । विविक्षप्रकारित्वम् । धिक्पारवश्यम् । घिगनौचित्यकारित्वम्। यदेतैरोदृशोमवस्थामापन्नास्मि । इति विचिन्तयन्तो शोकातिरेकेण लोनेव विलीनेवांधेव बधिरेव मूकेवाक्ष्णा काणेव गलितमानसेव मस्तकनिपातितगगनेव भुवा गिलितेव इतिकर्तव्यतामूढा स्तंभोभूता तस्थौ ।
तदा स सुकेशो भीतभीतो बद्धांजलिपुटस्सविनयं सधैर्यं सगाम्भीर्य देव ! अलममर्षेण । अलमविचारितोक्त्या । अलं प्रभुत्वप्रागल्भ्येन । अलं स्वेच्छानुकूलव्याहारेण । अलमगृहीतमानसत्वेन । अलमनायत्तवर्णोंगिरणेन । अल्मविदितपरोक्षव्यापारव्याहारेण । यथार्थवादी परित्यक्तानृतगंधः निवेदयामि | सावधानं शृणोतु देवः । समवधार्य मद्वचः ममापि तर्षं कृपावर्षेण पूरयितुमर्हति । न कदाप्यस्यां पतिदेवतायां दोषगन्धोऽपि । यद्यपि कामतन्त्रनिष्णातेन देवेन सम्यगभिहितः लोकसामान्यव्यापारः । न तु विशेषः। नाहमियन्तं कालं पुरुषः । मम तु चण्डिकानुग्रहसमनंतरमेव पुरुषभाव उपनतः । मदुदन्तमिदानीं यथावृत्तं देवाय श्रावयामि । इति निजमृगयायात्रामारभ्य तावदेतत्सभाप्रवेशपर्यन्तं निखिलमपि निजोदन्तं न्यवेदयत् । तदनु जयंतिकायां सबाष्पगदं किं बहुना ? यदि विसंभाय विस्तरशः कथयेयम् । तदा वावदूका भवेयम् । यदि च मूका सालभञ्जिव तिष्ठेयं तदा पुंश्चलीत्वप्रथां वहेयम् । तदद्य तावन्नाहं प्रभवामि आत्मवृत्तशुद्धिप्रत्ययोत्पादनाय । अत्र साक्षी कर्मसाक्ष्येवेति व्याहरत्यां तत्क्षणमेवाशरीरिणी वाणीयमाविरासीत्
Page #235
--------------------------------------------------------------------------
________________
पञ्चमलहरी
भो !
मा भूदस्यामन्यधा ते तु भावः वह्निज्वालेवेयमप्यार्य ! शुद्धा । तस्मादेनां प्रीतिपूर्वं गृहोत्वा युक्तो भूयाश्छाययेवांशुमाली ॥ एतदवकर्ण्य विस्मयाश्लिष्टमानसेषु सामाजिकेषु जोवसेनोऽयमब्रवीत् । भोः ! सभ्याः ! विदितं ननु चिरंतनमस्याश्चरितम् । प्रसिद्धश्च अनन्यसाधारणो मयि दृढतरोऽनुरागः । मद्वचश्श्रवणसमनंतरमेवाविर्भूतं दुःखभरकन्दलितं दलितहृदयसमुत्प्लुतं मुखवैवर्ण्यमेवावर्णयदितरजनदुर्लभमस्यास्सौशील्यम्। मया त्यक्तयाप्यनिर्वचनीयं कष्टमनुभूतम । ज्ञातपूर्वमेवेदम् । तथापि भवतां विसंभाय मया तावदेवमाचरितम् । दुष्टं हि जगत् । पावकशुद्धामपि जानकीं जगदन्यधा मेने । तदिदानोमंगोकरोम्येनां पतिदेवतां इत्यभिधाय सिंहासनादवरुह्य समंदस्मितं प्रियाकरकिसलयमवलंब्य पुनरपि तदेव सिंहासनमलंचकार ।
205
तत्क्षणमेव काहलमर्दलपटहपणवादिविविधानवद्यवाद्यध्वानैरेकदैव प्रमोदभरकन्दलितसभास्तारतारतालध्वनिभिस्साधुवादैश्चापूरितमभूत्सभांकणम् । तदनु विदितोदन्तो वीरकेतुः वृद्धभावकम्पमानविग्रहोऽपि साध्वसभर - द्विगुणितकम्पः समुपसृत्य जोवसेनं सांजलिबन्धं क्षन्तुमर्हति देवः किमप्यजानता मया तावदियन्तं कालं यत्कृतमागस्तदखिलमपि । इति नरपतिचरणकिसलये सितकुसुमस्तबकमिव पलितं मस्तकं चिरमकरोत् । तदायं जीवसेनः कृतांजलिपुटं दर्शितप्रह्वभावं तं वीरकेतुमब्रवीत् । नन्वलमनया शंकया। रक्षिता वयमिह भवतैव । स्त्रीभावसंतप्तहृदयोऽपि ते पुत्रः सुकेशोऽयं दैवदुर्विपाकाच्च्युतसंपदामस्माकमतानीदुपकारं वाचामगोचरम् । भवतो भवन एवास्माभिरुपलब्धा निर्वृत्तिः । लब्धा च दयिता । समनुभूतश्चात्मजमुखपुण्डरोकदर्शनजनितो निरतिशयानन्दः । तदधुना पुरुषभावप्रमुदितं भवत्तनयं निर्वर्तितपट्टाभिषेकं सुकेशं राजानं कर्तु - मभिलषामोति ।
तदनु जीवसेनसिहासनादवरुह्य तं सुकेशमारोप्य तदेवासनं
Page #236
--------------------------------------------------------------------------
________________
206
जयन्तिका
प्रसन्नेन सुगंधिनोदकेन भूदेवैरभ्यषेचयत् । अभिषिक्तश्च सुकेशः समुपात्तसभ्यजनसत्कारः सशरीरः प्रजानामानंदग्रंथिरिवाराजत।। एतावता कालेन सवितापि सनाथस्य चित्रपुरस्य दिदृक्षयेव गगनमध्यमधिगतवान् । अंबरमध्यमधिगतवति सवितरि चण्डातपतप्यमाने चित्रपुरे निवर्तितमाध्यदिननियमेषु भूसुरेषु प्रतिगृहं भिक्षाटनतत्परेषु वर्णिषु विरलतरजनसञ्चारेषु नगरमार्गेषु निद्रापरवशपारावतवातधूसरितेषु भवनविटंकेषु आतपासहिष्णुतया परिस्फुरदुदरपालकण्ठतलेषु दरविवृतवदनकुहरलंबमानारुणजिह्वापल्लवाग्रपतन्जलबिंदुषु भवनपटलप्रच्छायतले शयानेषु शुनकेषु माध्यंदिनशतनीध्वानस्समुदचरत् । तदन्ववरुह्यासनात्स सुकेशो विसृज्य च सर्वानपि सभास्तारानासाद्य च देवतागारं निर्वर्तितदेवतासपर्यः ससुतेन जोवसेनेन सममभुक्त। ___अथ नासातलनिबद्धन पत्रमनतरंगमनोहरेण द्विधा लंबितेन घनसाररोचिषा चीनांशुकेन धवलितप्रतीहारं विविधमणिमयवंदनमालेन विशदतरोलोचेन परिष्कृतोर्ध्वदेशं विनिहितशशोदरलोममृदुलैरुपधानैरलंकृत
॥त्युन्नतस्तपनीयमयैरासनैः क्रमशो निक्षिप्तरुपेतं सर्वत्र प्रत्युप्तस्फटिकशिलाफलकतया अपरमिव श्वेतद्वोपं भवनं जीवसेनद्वितोयो निजकरावलंबिततत्पुत्रपाणिपल्लवस्सुकेशस्तांबूलदित्सया प्राविशत् । प्रविश्य च तं जोवसेनमुपवेश्य चासने स्वयमपि परिगृहोतासनो निजोत्सङ्गदेशोपवेशिततत्पुत्रः परिगृहोततांबूलं जोवसेनं कथं वनवासः ? कथमागमनमिह ? कथं वा चण्डालभावः। किमर्थ दयितापरित्यागः ? कुतो वानिर्वचनीयक्लेशपरंपरानुभवः ? इत्यपृच्छत् । पृष्टश्च जीवसेनः एवं वनवासः । एवमिहागमनम् । विदितमेवातःपरं इति व्याहरन्कंचित्कालं नोत्वा सुकेशमब्रवीत् । ननु जिगमिषा बलवती त्वरयति माम् । इयन्तं कालं प्रतिकूलदैवतया चैकत्र प्रतिबद्धोऽभवम् । वरूप्यमन्वभवम् । अकार्यमकरवम् । हन्त ! इदानीं दैवानुकूल्यं कल्यमुपनतम् । तदितः परं न कार्यः काल
Page #237
--------------------------------------------------------------------------
________________
207
पञ्चमलहरी विलम्बः । प्रथमं तावत्प्राथमिकी मदेकजोवितामंबां वरमालिनोमवलोक्य निवेद्य च वृत्तं मदुदन्तं समाश्वास्य च, तदनु ततः प्रस्थितः जननी रत्नचूडां पितरं वज्रबाहुं च द्रष्टकामोऽस्मि। किंच वञ्चितपितृका जयंतिकापि त्वरयति निजपितृदिदृक्षया गमनाय माम् । तदादिश्य भटान्मद्वचनादागमिष्यति श्व एव भवत्पुत्र इति प्रेषय प्रथमं वैजयन्तोसमलंकृतां वैजयन्तीमिति। एवमुक्तस्तु स सुकेशस्सविनयं देव ! कालमेतावन्तं भवतेहानुभूता दुःखपरंपरा। न हि सुखगन्धलेशोऽपि। तदिह कतिचिदिव दिनानि सुसुखं वसता देवेनास्माकं मनसि साहित्यमापादनोयमित्यभ्यर्थयामास।
निशम्य सुकेशाभ्यर्थनां जोवसेनोऽयमवोचत् । नायमवसरो भवदभ्यर्थनानिर्वहणाय । अस्मन्जननी वरमालिनी मृगयानुयातं मां परिजनमुखादवकर्ण्य तदनु प्रचलितमतिविस्मयावहं मचरितं, कथंकथमपि मदिदृक्षया भवेद्धृतप्राणा । अहमपि कदा वा द्रक्ष्यामि तामंबामिति त्वराविशिष्टोऽस्मि। अतो न सुखायते स्थितिरत्र मे। किञ्च दारुणनिशाचरनिशारणाय कांतारं प्रति प्रस्थितस्य तावदेकाकिनो मम कापि वार्ता नैव याता वज्रबाहुश्रवणसरणिम् । तत्प्रबलमनुचिंत्य यातुधानं विधाय च मनसि तेन मां निषूदितं, दुःखितेन वज्रबाहुना किं वा व्यवसितमिति न जाने। पुत्रवत्सला सा तु रत्नचूडा मद्विरहजरितहृदया प्राणिति वा न वा ? तदनवरतमपि मे धावति मनस्तत्रैव । अतो न सुखायते स्थितिरत्रास्य मे। तत्प्रेषय त्वरिततरं मदागमननिवेदनाय भटान्वरमालिनीसकाशमिति । एवमनुज्ञातश्च स सुकेशो निरर्थकाभ्यर्थनः प्राहिणोत्वरितगामिभिः वाजिभिः पटुतरान्भटानरिभोकराम् । रविरपि भटप्रधावितानां तुरगाणां विजिगोषयेव स्पर्धाभरप्रधावितनिजवाहः परिश्रांतश्च गमनखेदादिव अरुणतरो विश्रांतिसुखलिप्सयेवोपसंहृतरश्मिनिकरः सिषेवे चरमगिरिसानुदेशम् ।
Page #238
--------------------------------------------------------------------------
________________
208
जयन्तिका
तदनु निर्वर्तितसंध्याविधिर्जीवसेनः क्रमेणास्तंगते त्रयीतनौ कृतदेवतासपर्यः सुकेशसहितः पुत्रेण सममाहारमकरोत् । अथ निर्वर्तिताहारया समागतयाराजहंसपक्षवलसिमास्तोर्णमृदुलतरप्रच्छदपटेन क्षोरार्णवफेनपुंजकल्पेन स्पृहणीयकलधौतसमुत्कोर्णमरालपंक्तिपर्यंतपर्यकपरिष्कृतमध्यदेश संवेशनिवेश प्राविशत् । तदनु सुकेशे निजशयनागारमुपेत्य जोवसेनतनयजुष्टं शयनोयमधिशयाने जोवसेनोऽयमनारूढनिद्र एव प्रियया परिपृष्टः निखिलमपि प्रचलितं निजवृत्तमेवं वनवासः; एवं श्मशानवाटपर्यटन ; एवं कुणपकर्पटादानं ; एवं दुर्गागारद्वारप्राप्तिः ; एवं पिटाशनेन कालयापन ; एवं प्राणिगणनिशारणकर्मसंयोजन ; एवं भवदाज्ञतभेटैः निषूदनाय पुत्रप्रापणं, एवं वत्सेन निजोदंतकथनं ; एवं मत्प्रलपनं ; इति व्याहरन्नेव क्षपयति स्म क्षपाम् । अथ निजतेजोभिभूतकौशिक्प्रचारः मन्दमन्दं नाकतलकृतपादः जाग्रद्विजवजकलकलरसितमुखरितदिगन्तरालः निजोदयम्लापितसप्तर्षिमंडलः गभस्तिमालो बलिरिवाराजत । ततश्च वंदिवृन्दप्रतिषोधितः समुत्थाय जोवसेनो जायया सह निर्वर्तितस्नानविधिः कृतसंध्योपासनः प्रवर्तितहवनकर्मा निर्वर्तितदेवतासपर्यः अभ्यर्चितभूदेवस्तोमः स्तोकमिव परिगृहोताभ्यवहारः गमनाय सज्जोऽभवत्।।
__ अनुपदमेव सुकेशादेशात्सन्नद्धे सैंधवसैन्ये समधिरूढया निजोत्संगतलोपवेशिततनयया जयंतिकया समलंकृतं स्यदनमधिरुह्य जोवसेनः सविनयं रथोपकण्ठस्थितं वोरकेतुं समाश्वास्य वेगे च गन्धवहसच्छात्रं वणे च तमिस्त्रमित्रं समुन्नतं तुरंगमवरमधिरुह्य वल्गत्कश्यतया वल्गितपृष्ठदेशं तं सुकेशं पुरस्कृत्य प्रतस्थे । प्रस्थिते च राजनि मारुतप्रेरितवाहिनीवीचिमालेव चचाल वाहवाहिनो। ततो जोवसेनो रथेनारण्यसरण्या गच्छंस्तुरगखुरपुटघट्टनधूलिपटलप्रच्छादितदिगन्तरालः कांतारमश्वगन्धैः पूरयन्नतिक्रांतानेकगिरिस्रवन्तोगहनपक्कणजनपदः गगनमण्डलमध्यं मण्डयति चण्डमयूखमण्डले श्रमजलस्नपितमवलोक्य हयषण्डं क्रियतामप
Page #239
--------------------------------------------------------------------------
________________
पञ्चमलहरी
209
गतपर्याणं सैंधवबृन्दमिति समादिश्य स्वयमपि जायया सममात्मजेन च तमालतरुमूलप्रच्छायं सिषेवे । तदानीं वैजयंत्याः प्रतिनिवृत्तास्ते भटाः मध्यमार्ग विलोक्य शोतलशिलातले निषण्णं एकाकिनमुपसृत्य सुकेशं व्यजिज्ञपन् । देव ! तनयविरहदुःखपरित्यक्तवैजयन्तो जरती सा वरमालिनी नगरोपांतवर्तिन्युपवने विरचितायामनतिविशालायां शालायां तापसीव निवसति । तस्यै निवेदितमस्माभिर्देवागमनमिति । श्रुत्वा च भटोदितं स सुकेशस्सविनयमुपसृत्य जोवसेनं देव ! विश्रामितास्सलिलघासप्रदानेन तुरंगमाः। पूर्वेद्युः प्रेषिता भटा अपि देवीमवलोक्य प्रत्यागताः देवपादमूलम् । एतदवकर्ण्य देवः प्रमाणम् । इत्युक्त्वा विरराम।
तदवकानुपदमेव जोवसेनस्तेषु भटेग्वेकतममाहूयापिकुशलिनी मे जननी वरमालिनो ? कथं वर्तते ? कीदृशी तस्याश्शरीरस्थितिः ? केन व्यापारेण सा क्षपयति कालम् ? किमभिहितं तयेत्यपृच्छत् । पृष्टश्च स भटः प्रह्वभावेन देव ! सा तु वृद्धभावसंकुचितगात्री पिंडीकृतेव तनयविरहशोकदूरीकृतवैजयन्ती नगरोपांतोपवने कुटोरमधिवसति । देवागमनश्रवणमात्रेणैव निरतिशयहर्षभरम्लिष्टप्रायेण स्खलता वचसा तात ! कथं मम वत्सः! किमु समागच्छति ? अपि नाम सत्यम् ? क वर्तते ? तात! कस्त्वम् ? अपि कुशलो वत्सः ? कदागमिष्यति ? अपि सत्यं ब्रवोषि ? अपि नाम स तु जीवति वा ? किमहं पुनरपि द्रक्ष्यामि तं पुत्रम् ? इत्यपृच्छत् । एवं सादरं पृष्टाश्च भुजिष्यादापितमधुरतरफलविशेषनिर्वर्तितशरीरस्थितयो विसृष्टाश्च तया त्वरितं देवपादमूलमागता इति व्यजिज्ञपन् । अथ त्वरिततरं रथेन व्रजन्नासायं नातिदूरे च विविधानोकहनिवहमध्यगतं मेचककाचफलकघटितकवाटैरंतस्तरलदोपप्रसृमरकिरणांकुरतया तरलतरसौदामनोरुचिरुचिरं जलधरमिव विडम्बयद्भिः पञ्चषैर्वातायनैर्मनोहरं इष्टकचितारुणवर्णभित्त्युपहसिताशोककुसुमस्तबकसौभाग्यं दारुमयकवाटयुगलतया पिहितैककवाटेनानत्यायतेन दास्मयेन परिलिसदाडिमीकुसुमवर्णJ-27
Page #240
--------------------------------------------------------------------------
________________
जयन्तिका
रंजितेन पट्टिकात्रयप्रकटितदाढर्येन द्वारेणाभिरामं नीलशिलाफलककल्पितसोपानत्रयपरिष्कृतदेहलीपुरोदेशं सद्यः प्रज्वलितदीपपल्लवारुणीकृताभ्यन्तरं सुधाधवलितभित्तिपरिगतमनत्युन्नतं कुटीरमद्राक्षीत् ।
दृष्ट्वा च मनस्येवमचिंतयत् । अहो ! सन्निवेशोऽयं हृदयंगमः परवशीकरोति मानसम् । शांतेरावासस्थानं इदम् । मौनस्याकरोऽयम् । गभीरतायाः कुलभवनमिदम् । निरंतर निबिडानो कहनिवहोपगूह्यमानतया तमसा पातालमिव विडम्बयति देशोऽयम् । झिल्लिकारवकैतवेनांधकार कुहरपतित इव दिग्भ्रान्तो रौतीव । वनमशकसंघप्रसृमरानुरणनापदेशेन पिशुनयतीव किमपि कर्णे । मंदानिलचाल्यमानकुसुमितलताकैतवेन संज्ञयाह्वयतीवाभ्यंतरमिति । एवं विचिंतयन्नेव जीवसेनः वरमालिनीभवनमिदमेवेति विदित्वा भटमुखेन सुकेशसनाथमखिलमपि बलमनतिदूरे विसृज्य गत्वा - चाद्वारं स्यंदनेनैव तत्र च पुत्रपाणिमवलंब्य सह जयंतिकया रथादवरुह्य प्राविशद्भवनाभ्यन्तरम् । प्रविश्य च गलितपरिभ्रमणशक्तितया तपसैवानीतैर्भागीरथी प्रवाहैरिव कुटिलतरैः पलितकेशपाशैरभिरामोत्तमांगां सुखोपमोगलिपिपंक्तिमखिलामपि परिमार्थकामेन वामेन विधिना कृतरेखाभिरिव वलिपंक्तिभिः विलुलितालिकतलां लंबमानपलितप्रसृमरभ्रूलतां समुन्नतास्थिहनुतया कुहरगतेन गलितपक्ष्मपालिना कर्बुरकलुषितप्रांतमंडलकनीनिकेन नयनयुगलेन विकृतदर्शनां परिहृतताटंकतया विशालरंभ्राभ्यां लंबमानाभ्यां श्रवणजाहाभ्यां दर्शनीयां प्रसृमरवलितरंगाकुलतालुगत निर्मांसपार्श्वतया वैनतेयत्रोटिमनुकुर्वत्या नासिकया समुपेतां गलिताखिलरदनराजितया पिहिताधरोष्ठपुटेन वलिविलुलितेन निरंतरमपि चञ्चलतया पदे पदे नासाशिखरं स्पृशता चुबुकेन मनोहरां वलितिलककलितया समुन्नतसिराजालिकया स्तोकमिव लम्बमानया त्वचा पिनद्धगलां कीकसस्थपुटितकृकाटिकां समुन्नतनतकशेरुकां हृदयशोकानलशुष्काभ्यामिव लम्ब - मानाभ्यां स्तनभस्त्रिकाभ्यामुपेतां कीकस बहुलाभ्यां समुद्रतधमनिजालजटि
210
Page #241
--------------------------------------------------------------------------
________________
पञ्चमलहरी
211
लाभ्यां कंपमानाभ्यां पाणिभ्यां सायंतनजडपवनपीडासहिष्णुतया परिस्फुरत्स्फुलिंगांगारपूरितां हसन्ती परामृशन्ती गंडतलकृतजानु क्षितितलनिहितचरणयुगलं च समुपविष्टतया निर्मासतया च सम्यगुपलक्ष्यमाणनलकांडां परिधृतश्वेतचीनांशुकां काषायरांकवावगुंठितगात्रीमसकृदारब्धजभां वृद्धभावगलितदेहबलतया मुहुर्मुहुनिसर्गनिस्सरद्धंकारगर्भकफकलुषितगलनालां पार्वनिक्षिप्तानतिदीर्घवेणुदण्डां समीपे च निषण्णायै छुरिकया कंदमूलफलानि लावलावं वेत्रलताभाजने निक्षिपत्यै परिधृतचाषपक्षसदृक्षवसनायै वर्षे वयसि च श्यामायै कस्यै चिद्भुजिष्याय किमपि पुरावृत्तं कथयन्ती जरती वरमालिनीमपश्यत् ।।
____ दृष्ट्वा च मनसोत्थमचिंतयत् । किमियं मम जननी सा वरमालिनी ? स्मर्यमाणमपि प्राक्तनमस्या रूपं नैवाधिरोहति मे स्मृतिपथम् । हन्त ! परिणामशीलायाः प्रकृतेर्माहात्म्यं ; या च तादृशस्याप्यस्या रूपस्य दशामीदृशीमुदपादयत् । अहो ! जराया वैभवं यया पिंडीकृतेयं । सौन्दर्यपरिपंथिनी खलु जरा । तथाहि-राक्षसीव क्षपितपिशितततिः तनोत्यस्थिपञ्जरावशेषं शरीरं। तमिस्रव तिमिरेण तिरोदधाति नयनयुगलम् । उद्यदिंदुकांतिरिव धवलयति शिरोनैल्यम् । कलिकालश्रीरिव पातयति द्विजालिम् । अशनिरिव बधिरयति श्रवणविवरम् । प्रभुतेव दण्डावलम्बेन समुत्पादयति स्थितिम् । भीतिरिव कंपयति गात्रम् । सुरेव वचसस्समुपजनयति स्खालित्यम् । मूर्छव स्रावयति सक्कभागे सृणिकाम् । उन्मत्तेव तिरोदधाति स्मृतिपथम् । गणिकव वशीकरोतींद्रियाणि । हन्त ! जरा निपीततयेव शुष्कलावण्यामृतपूरौ परिदृश्येते कपोलगौं । उच्चतलविलसन्मुखकमलसौन्दर्यद्रविणापहरणाय जरया विस्तृताभी रज्जुमयीभिः निश्श्रेणिभिरिख पृथुलसिरापरंपराभिः स्थपुटितेयं तनुः । वृद्धभावशिथिलितसंधिबन्धानामगानामनिष्पतनायव जरासंघट्टितायोमयशंकुभिरिव तिलकबिंदुभिराचितमिदं वपुः । गलितलावण्यामृतप्रवाहतयेव वलिविलुलितमृदुलतरत्वगियं विल
Page #242
--------------------------------------------------------------------------
________________
जयन्तिका
सत्यचिरगतसलिलपूरा तरंगितमृदुलतरविशदसिकता निम्नगेव । अपिनामेयमवगच्छति मामात्मतनयं ? कथमस्यास्समुत्पादयामि मयि तनयत्व - प्रत्ययम् ? केन वाभिज्ञानेन निरूपयामि मां चारुवक्त्रम् ? अपिनामोदेति मयि वात्सल्यमस्याः ? भवतु तावत्कथमप्युत्पादयामि तनयत्वप्रत्ययं प्रयलेनेति विचित्य सविनयमुपसमर्प ।
212
उपसृत्य च मातश्चारुवक्त्रः प्रणमतीति प्राथमिकमात्मनो नामधेयमेव व्याहरन्सहधर्मिण्या सह प्रणम्य सविनयं तस्थौ । सा तु वरमालिनी भ्रुकुटित तलवलभीकृतवेपमानदक्षिणपाणिस्समुन्नमितसिरा बहुलशिरोधिः कोर कितसलिलकलुषितलोचना डोलायमानचुबुकतला गलिताखिलरदनतया समुद्गललालाजलमसकृद्भिलन्ती कंपमानाधरोष्ठपुटा विलोक्य जीवसेनं दुर्बलतया मुहुर्मुहुहुँकारगर्भ तात ! कस्त्वम् ? उपकण्ठमायाहि । तिमिरतिरोहितनयनतया न सम्यग्गोचरीभवसि । समुपविश समीपे । पश्यामि तावद्भवन्तम् । इति म्लिष्टप्रायमब्रवीत् । ततश्च जीवसेनस्समुपवेश्यात्मजमंकतले जननीसकाश एवोपाविशत् । वरमालिनी तस्य प्रभामिव पार्श्व एव स्थितां दक्षिणकरकमलतलशायित कपोलफलकां निजोदरदेशतिर्यक्कृत वामप्रकोष्ठां जयंतिकां सुचिरं निर्वर्ण्य तात ! केयं मूर्तिमती राज्यलक्ष्मीरिव विलसति भवतः पार्श्वे ललनामणिः ? कोऽयं बालकः ? केसरिकिशोर इव भूभृत्सानुदेशं तवोत्संगमलंकरोति ? न शृणोति बाधिर्येण श्रवणयुगलं दरमपि । तदुच्चैरुच्यतामेतदखिलमपीत्यब्रवीत् ।
तदा नरपतिरखिलमपि मृगयागमनमारभ्य निजोदंतमुच्चैर्व्यजिज्ञपत् । श्रुत्वा चाद्भुततरमुदन्तं वरमालिनी हर्षप्रकर्षद्विगुणिताश्रुसलिला कीकसबहुलेन दक्षिणपाणिना परामृशन्ती जीवसेनोत्तमांगं तात ! दिष्ट्या मन्नयनपथमागतोऽसि । विचित्रा खलु दैवी गतिः । क्व नागकन्या ? क च शापोपहतस्स सुगंधनः ? कथमिव च तयोस्संगमनम् ? कथं वा तस्याः निजापत्यपरित्यागे समुत्पन्ना मतिः ? आयसं खलु तस्या हृदयम् !
Page #243
--------------------------------------------------------------------------
________________
पञ्चमलहरी कथं वा कांतारे जननीपरित्यक्तस्य रोदनैकतानस्य शिशोः दुर्गतविप्रप्राप्तिरित्यादि प्रचलितं दुःखबहुलमपदानमेव व्याहरंती किं ब्रवीमि ? यन्मे सुचिरं प्रणष्टस्य भवतो वदनारविंददर्शनमुपनतम् । तत्रापि स्नुषायाः पौत्रस्य च समायोग इति, तत्तु वाचामगोचरं विस्मयमुपजनयतीति मुहुर्मुहुः पौत्रं शिरस्याघ्राय निजोत्संगमारोप्य च परामृशन्ती समीपमाहूय च स्नुषां निजपार्श्व एवोपवेश्य संलपन्ती परां काष्ठामानंदस्यानुबभूव ।
तदनु वरमालिनीमनुकुर्वतीवामोदभरमंधरेवातिसमीरे घूकमिथुनकेलिकलहरवमुखरिते कांतारांतरे तरुगिरिकुहरेषु तिमिरसारूप्यमधिगतेषु कांतारेऽपि वरमालिनीशरीर इव संकुचिते तिमिरनिकरैरिव मशकनिव हैरपि समाक्रांते वनप्रांते पर्यटनपरखद्योतत्रातेन नक्षत्र इव शाद्वलतले समुच्चरति च घण्टादशकशंसिनि तारतारे शंखरवे अदूरवर्तिन्यां वैजयन्त्यां नीरवायां कंदमूलफलैः निर्वर्तितशरीरस्थितिः स्वयमेक एव दारुमयं पर्यंकमधिशिश्य । वरमालिन्यपि शाययित्वा निजदक्षिणपार्श्वे जयंतिकां वामपार्श्वे च पौत्र संकुचितक्रोडतलप्रवेशितकीकसप्रायजानुयुगला धवलकंबलावगुण्ठितकृशतरशरीरा मृदुलतरे शयनीये शयाना परामृशन्ती पाणिना पार्श्वशायितं पौत्र हन्त ! वत्स ! जननीनिदेशेन पित्रा साक्षान्निकृत्तकंधरोऽपि दिष्टया समधिगतप्राणोऽसि । तात ! कथं सोढा तदा हिंसा भवता ? अंब ! वत्से ! भवत्यापि कथं क्लेशपरंपरानुभूता ? भवद्धैर्यमनुचित्य विस्मया - लिष्टहृदयास्मि । अहो ! ते धीरता । हन्त ! उद्योगशीलता । बत ! निर्भयता । हन्त ! कष्टसहिष्णुता । बत! पतिपरायणतेति व्याजहार । अंब ! सत्यमभिहितं भवत्या । विस्मया वहैव दैवचेष्टा । शृणोतु भवती निखिलमपि। निश्शेषं निवेदयामि । एवं वनवासः । एवमार्यपुत्रवियोगः । एवमामध्याह्नं कठोरे कांतारे परिभ्रमणम् । एवं तापसीसंयोगः । एवं पुत्रजननम् । एवं पुत्रवियोगः । एवं राज्यप्राप्तिः । एवं पतिपुत्रयोरन्वेषणम् । एवं प्रणष्टाया माणिक्यमालाया लाभः । एवमार्यपुत्रपुत्रयोर्दर्शनमिति
213
Page #244
--------------------------------------------------------------------------
________________
214
जयन्तिका
जयंतिकयोच्यमानं मानातीतविस्मयावहं वृत्तं शृण्वती मुहुः जॅममाण@भा क्षणमप्यनारूढनिद्रा त्रियामा-यामद्वयमत्यवाहयत् ।
___ तदनु तृतीय यामे मन्दगन्धवाहांदोलिते विटपिविटपपटले काककुलकोलाहलाकुले नाकतले विकसत्कुसुमविसरप्रसमरपरिमलबहुले गहनांतराले मन्दं प्रसरणशीले तुहिनशीतलेऽनिले मंदालोकेन क्रमशो विस्तार्यमाणे दिक्कोणे शिखावलकेकानादमेदुरे कांतागंतरे लब्धप्रबोधो जीवसेनः पर्यके शयान एव सज़ुभारंभ विरचितांगभंगदूरीकृतालस्यः अंब ! कथममात्यो मरुन्मालः ? किमर्थमुज्झितो भवत्या वैजयन्तीवासः इत्यप्राक्षीत् । एवं परिपृष्टा च वरमालिनी तात! मरुन्मालः पञ्चषेषु दिवसेष्वेकवारमासाद्य विचारयन्मां प्रतिगच्छति राजधानीमेव । जरन्नपि स तु प्रजावनधुरंधरः यावद्भवदागमनं तावन्नरपतिरिव भवेति मया समाज्ञप्तः वर्तते परतन्त्रः । पुनरपि भवदागमनोदन्तो भेटैरेवावेदितो मृगयाप्रतिनिवृत्तैर्भवदनुचरैः सगद्गदमेवमुदीरितम् । देवि ! कुमारस्तु मृगयायां कुरंगानुयायी समुपरतः इति पूर्वोदन्तमभिधाय मुहूर्तमिव तूष्णीं स्थित्वा देवि ! मा प्राणत्यागपरा भव । यस्मात्तपोधनेनोक्तं दास्यति कुमारो दर्शनमिति, तदाहं कुमारागमनपर्यन्तं भवतैव वोढव्यो राज्यभार इति न्यवेदयम् । अहं पुनः नैव वसामि सौधे । नगरोपांतोपवने परिकल्प्य कुटीरं तत्र वसामीति ।।
एतन्निशम्य स सचिवो मुहूर्तमिव स्थित्वा दीर्घ निश्वस्य निरगात् । ततश्चाहमत्र समुपकल्पितमिदं वासभवनमासाद्य भवद्दिदृक्षया प्राणिमीत्यब्रवीत् । एतावता च कालेन भगवान्लोकबांधवः नगर्याः प्रतिप्रासादवातायनाभ्यंतरप्रसारितकरः प्रसुप्तान्प्रबोध्य पौरान्नरपतिनूतननगरप्रवेशदर्शनाय त्वरयितुमिवोदयशिलोच्चयशिखरादुदचरत् । जीवसेनस्तु सपदि समुत्थाय तल्पात्प्रागेव समुत्थितां जयंतिकां सुप्तोस्थितं निजतनयं चावलोक्य प्रक्षालितवदनारविंदः पर्यक एव निषण्णो नातिदूरादापतन्तं स्थूलस्थूलस्थपुटितेन विशदतरेणोष्णीषेण राज्यरक्षणोपात्तेन मूर्तिमता
Page #245
--------------------------------------------------------------------------
________________
पञ्चमलहरी
215
यशःपुंजेनेव परिष्कृतोत्तमांग प्रत्युप्तपृथुलपद्मरागरंजिताभ्यां कुंडलाभ्यां रहसि प्रीत्यतिशयावेदनाय प्रजाभिः पिंडीकृत्य प्रेषिताभ्यामिवानुरागाभ्यां परिमंडितोच्छूनलम्बमानश्रवणपाशं पलितशीर्णलम्बमानभ्रूयुगलं ललाटमध्यविनिहितकुंकुमस्थासकेन प्रकटयंतमिवेश्वरभावं सर्वदा वदननिस्सरत्तथ्यवचनसलिलक्षालिततयेव गलितकृष्णवर्णेन श्मश्रुकलापेन परिष्कृतोठोर्ध्वदेशं पलितश्मश्रुकलापधावल्यावलोकनापत्रपयेव गलितरदनपंक्तिना वलिविलुलिताधरोष्ठपुटेन निरंतरकंपमानवदनप्रचाल्यमानचुबुकं मानससरस्समुड्डीयमानया अवदातगुणराजहंसपंक्त्यवैकावल्या समाश्लिष्टेन समुच्छूनचलाचलगलास्थिपिंडेन समुन्नतसिराततवलितरंगितत्वचा कंठेनोपशोभमानं स्निग्धतरांजनाभेनाजानुलंबिना तनुत्रेणावगुण्ठितकार्य सलिलभरलम्बमानवलाहकाच्छादितसानुदेशं जङ्गमं शिखरिणमिव यज्ञोपवीतवत्कृतस्पृहणीयपत्रभङ्गसुभगतपनीयमयपट्टिकं परिस्फुरत्सौदामनीकं वारिवाहमिव धात्पथोऽनपेततया करगतेनेव कालपिशुनेन कालचक्रेण तनुतरतपनीयपट्टिकाबद्धेन चक्राकारेण शातकुंभमयकालयन्त्रेण रमणीयवाममणिबन्धं प्रजानामपराधानुरूपकृतदंडतया संक्रांततदुरितनिचयेनेवासितवर्णेन सुवर्णपट्टिकापरिष्कृताग्रभागेनानतिस्थूलेन महणतरेणानरालकृष्णकाकोदरभोगनिभेन दंडेन परिमंडितदक्षिणपाणिं पयःपारावारफेनपिंडविशदेनागुल्फावसक्तेन चण्डातकेनालंकृतोरुकांडं अशरण्यतया नमस्कुर्वता स्थित्यभ्यर्थनाय चिकुरगतनीलिमपुंजेनेव मसूणतरेण कृष्णवर्णेन पादयुगलेन परिमंडितचरणयुगलं पौरमुख्यैरनुगम्यमानं जराभिभूतमपि जरत्केसरिणमिवापरित्यक्तमहासत्वं नवतिवत्सरदेश्यं सचिवावतंसं मरुन्मालमपश्यत् ।
___ दृष्ट्वाचांब ! स महात्मा सकलतन्त्रपारदृश्वास्मदर्थ दुरूढमपि राज्यमारं प्रज्ञाबलेन सुसुखमियन्तं कालं साधूदा वात्सल्यातिशयादस्मत्तातनिधनदुःखमपि विस्मारयन्नस्मद्दिदृक्षयाभ्येति मरुन्माल इति जनन्यै न्यवेदयत् । श्रुत्वा च वरमालिनी वत्स ! भवत्पितुरपि गुरुमतिवाचस्पति
Page #246
--------------------------------------------------------------------------
________________
216
जयन्तिका मतिवैभवं भवच्छुभोदर्कतकतानं तत्रभवन्तं सचिवावतंसमभिमुखीभूय सादरमानयेति जगाद । जीवसेनः बाढमित्युत्थाय प्रत्युद्गम्य च बद्धांजलिपुटस्सादरमानिनाय । मरुन्मालस्तु विसृज्य च निखिलानप्यनुचरान्बहिरेव स्वयमेकाकी प्राविशन्मदिराभ्यन्तरम् । प्रविशति च तस्मिन् जीवसेनस्सभार्यः प्रणम्य सप्रश्रयं कृतकुशलानुयोगः सुखागमनमपृच्छत् । पृष्टश्च स मरुन्मालो निजहस्ते निक्षिप्तं भुवनमंडलं सुवर्णमयं विधाय प्रत्यर्पयन्निव निक्षिप्य जीवसेनहस्ते जम्बीरफलमिदानी कुशली सुखी च । यतश्च भारोदहनाक्षमे मयि निक्षिप्तं क्षत्रावतंसांसतलैकोद्वाह्यं राज्यभारममुं पुनरपि त्वय्येवावतारितवानस्मीति न्यवेदयत् ।
निशम्य तद्भाषितं जीवसेनस्समंदस्मितं भक्त्या च स्वात्मनि प्रलीन इव प्रभावमवलंब्य सचिवावतंस ! न तावद्भाजनं जनोऽयमीदृश्यास्सपर्यायाः। किंत्वनुग्राह्यः। यदस्मपितृभागधेयात्पूर्वदेवसार्वभौमस्योशनसेव विबुधेश्वरस्य धिषणेनेव तत्रभवता भवता तावदंगीकृतं साचिव्यमिदम् । किञ्च भवादृशस्तावदंकुशो राज्ञां कंदर्पदर्पवारणदर्पनिवारणे । प्रग्रहो विषयग्रहणव्यग्रसमग्रेद्रियग्रामगंधर्वगर्वनिर्वापणे । सविता मोहांधकारप्रशमने। कलानिधिः कुवलयोल्लासे । दावानलो व्यसनवनगहनस्य । संकेतभूमिः राज्यलक्ष्म्याः । रत्नाकरो रत्नसञ्चयस्य । प्राकारः परलोकाक्रांतेः । कुठारो दुर्नयतरुषंडस्य । जलदोदयः प्रत्यर्थिप्रतापातपस्य । वैनतेयो भुजङ्गकुलस्य । पन्नतरुः कीर्तिउतालयाः। आकरो मंत्रतपनीयस्य । रत्नस्तम्भः प्रज्ञाप्रासादस्य। उदयगिरिः अभ्युदयारुणस्य। जांगलिकः पैशुन्यकालकूटस्य। वातूलोऽयशस्तूलस्य। अपि च यस्य प्रज्ञाबलेन विराजते वैजयन्तीयमधुनापि धृतास्मद्विजयवैजयन्ती। यस्य चोपायचतुष्टयेन सर्वाः प्रजाः प्रजानिर्विशेषाः कृताः। यस्य च मतिवैभवेन परिपन्थिनो राजानो युवानोऽपि वनोपांतवासिनो बभूवुः। किंबहुना! मदीया स्थितिरपि यदायत्ता। तादृशस्य भवतश्छायानुवर्ती भुवनमारमुद्रोढुं अहमभिलषामीत्यब्रवीत् ।
Page #247
--------------------------------------------------------------------------
________________
पञ्चमलहरी
217
अथ जीवसेनप्रार्थनया परिगृहीतासनो मरुन्मालः प्रणतं नरपतिकुमारं सादरं सप्रेमादाय पाणिभ्यां समुपवेश्योत्संगतले पर्यकोपविष्टेन जीवसेनेन सादरमवलोक्यमानः राजन् ! दिष्टया पश्याम्यपहसितभवद्रूपं कुमारमेनं कुमारमिव । परित्यक्तकमलां कमलालयामिव रूपेन गुणेन च भवदनुरूपां भार्यामपि दिष्टयावलोकयामि । एतावत्पर्यन्तं क्लेशपरंपरया भवता नीतः खलु सकलोऽपि कालः । तदितः परं सुसुखं प्रजाः परिपालयन्निवर्तय क्रतुकर्म । सर्वमप्यन्यन्निवर्तितमेव भवता। पुत्रोत्पादनेन पितृणां ऋणमपि अपोहितम् । दिग्विजयेन संपादिता सार्वभौमपदवी । दंड्यान्दंडयता स्थापितो धर्मः । दर्शनदानेनाधुना जराजीर्णजननीहृदयलग्नं शोकशल्यमप्युत्पाटितम् । पुनरपि राजधानीमासाद्य राज्यभारोबहनेन विश्रामितो ममांसदेशः। तन्नगरप्रवेशेन सफलीकर्तुमर्हसि प्रजानां नयनानीत्यकथयत् । तदनु जीवसेनः सविनयमंब ! भवतीमपि निनीषामि राजधानीम् । सर्वधा तावदियन्तं कालं क्लेशप्रायमतिवाहितं भवत्या क्लेशमय्या। इतः परं वा पौत्रमवलोकयन्ती स्नुषाक्रियमाणया शुश्रूषया विस्मृतचिरंतनकष्टपरंपरा भवतु भवती । तदारोहतु रथमिति प्रार्थयामास । एवं प्रार्थिता सा वरमालिनी वत्स ! राज्यसुखानुभवोचिते वयसि नैव मे ललाटे लिखितो विधिना राजधानीवासः। किमधुना वैखानसवृत्त्या स्थातव्ये वयसि नगरवासेनातिक्रांतविधिसङ्कल्पा भवितुं न कल्पते तावदयं जनः। वनवासाय क्लेशपरंपरानुभवायैव नियत्यां सृष्टेयं वरमालिनी । तदलमनया प्रार्थनया । पदेपदे भवन्तमिहागच्छन्तं पश्यन्ती भगवद्धयानपरा परलोकदत्तदृष्टिः कालमतिवाहयामीत्यकथयत् ।
तदा जीवसेनस्सुचिरं विचिंत्य च मातः भवत्या समुदीरितमप्युचितमिव प्रतिभाति । तद्यथा रोचते भवत्यै तथैव निर्वर्तनीयं हि पुत्रण मया। तन्नाहं निर्बन्धेन भवती नयामि नगरीम् । देहि मे पुरप्रवेशाय सानुग्रहमनुमतिमिति पर्यकादुत्थाय प्रणनाम । प्रणम्योत्थितं तं पाणिना
J-28
Page #248
--------------------------------------------------------------------------
________________
218
जयन्तिका
परामृशन्ती वरमालिनी वत्स ! प्रविश भवदीयां राजधानीम् । सुसुखं धर्मेण प्रजाः परिपालय। वयसा ज्ञानेन च वृद्धमेनममात्यावतंसं मरुन्मालं विना मा कुरु किमपि राजकार्यम् । इतःपरं परित्यक्तव्यसनासक्तिः वर्तस्व धयें पथि। स्वतः प्राज्ञाय ते मया पुनः न किमपि वक्तव्यमस्ति । विषयनिम्नचित्तवृत्तिर्माभूः। प्रभुता तावदसिधारेव । तदनवरतमप्याहितचित्तावधानो भव। कर्षति विषयाः विषयिणः। तदृढगृहोतमनःप्रग्रहो भव । याहि वत्स ! पुनर्दर्शनाय । चिरं जीव । भद्रमस्तु ते। इत्यभिधाय प्रणम्योत्थितां जयंतिकामवलोक्य वत्से ! निर्वर्तिताद्भुतकार्याय ते किमस्ति वक्तव्यम् । निरंतरमपि पतिशुश्रूषापरा भव। दुरधिगमे राज्यकर्मणि पत्युस्साह्यकरणेनार्धदेहतां प्रकटयन्ती वल्लभशुभोदर्कतर्कणैकताना छायेव सवितारं तारापति रोहिणीव दयितमनुवर्तमाना मानातीतयशोभागिनो सुसुखं चिरं जोवेति शिरस्याघ्राय प्रणतं पौत्रं समाश्लिष्य प्रचुंब्य च तात ! इयन्तं कालं कृतग्रामवासतया भवता नैव गृहोतो विद्यागन्धोऽपि । नापि संपादितो राजपुत्रानुगुणस्सहवासः । किं तु द्वादशाब्दपर्यन्तं ग्रामोण इव वर्धितोऽसि। तदितो गुरुशुश्रूषया सर्वा अपि विद्यास्समधिगत्य लोकतंत्रनिष्णातो भवेति व्याहृत्य सर्वानपि विसर्जयामास ।
ततश्च जीवसेनः पुरप्रवेशोचितालंकारालंकृतो जयंतिकां तनूजं च स्यन्दनमारोप्य स्वयमारूढतुरंगमः सन्जेन सैंधवसैन्येन परिवृतो हयाधिसूढं पुरस्कृत्य सुकेश सचिवानुगतैः पोरैरभिवन्दितो विचित्रवादिननादप्रकाश्यमानोत्सवाडंबरो दंडमवलंब्य मंदमाद्वारमागतया वरमालिन्या सादरमवलोक्यमानः शतांगोपविष्टेन मरुन्मालेन सह पुराभिमुखं प्रतस्थे । प्रस्थितश्वांशुकैर्मानवैश्वानेकवर्णमयीं व्याहारैर्वाद्यैश्च शब्दमयीं प्रतिप्रासादं संघीभूतविलासिनीवातविभूषणमणिगणप्रस्मरामितप्रभापरंपराकृतवितान - शोभामुन्निबद्धाभिनवप्रसूनरसालपल्लवापहसितवसंतसंपदं प्राविशद्वैजयंतीम्। प्रविश्य च राजमार्गेण प्रस्थितः स्तूयमानः पो रैः पीयमानश्च नयनाभ्यां
Page #249
--------------------------------------------------------------------------
________________
पञ्चमलहरी
219
नारीभिः प्रविवेशालंकारसुभगं सौधम् ।
प्रविश्य च द्वितीयकक्षांतरप्रतिष्ठापिते कलधौतपीठे समुपविष्टः देव ! ये ये पुरा यत्र यत्र चाधिकृताः ते सर्वेऽपि वृद्धाः कालधर्ममुपयाताः। मया तु तत्र तत्रैव तद्वंश्या एव नियुक्ताः । अयं तु कोशाध्यक्षस्य पौत्रः । अयं गजघटाधिकारिणः पुत्रः । नप्तायं सैंधवबृन्दसेनापतेः । असौ प्राडिवाकस्य तनयः । एष लब्धावरोधाधिकारस्यानपत्यतया तस्य मातुलेयः। अयमक्षोहिणीपतेः पुत्रः। अयं शिल्पिगणाधिकारिणो विचक्षणः पौत्रः। अयं पंडितमंडलाध्यक्षस्य वैमात्रेयः इति मरुन्मालेन निर्दिश्य निर्दिश्यावेद्यमानान्क्रमशः प्रणमतः परिजनान्यथोचितमाभरणादिप्रदानेन सन्तोष्य विसृष्टसकलपरिजनो विसृज्य च नरपतिसमुचितमनेकभोगोपकरणसंभृतं सौधं प्रति सुकेशं, समुत्थाय चासनान्मरुन्मालमपि सादरं संप्रेष्य स्वभवनं प्रति तत्कालोचितपरिजनपरिवृतोऽभिपेकगृहे निर्वर्तितस्नानविधिः कृतभवनदेवताभ्यर्चनः तनूजन सह निर्वर्तितशरीरस्थितिः शुद्धांतमासाद्य कृताहारतया जयंतिकया सहारिभोकरादिप्रयाणे मुहूर्तमिव सल्लपन्परिगृहोततांबूलः तत्रव विश्रांतिसुखमनुबभूव । तदनु पश्चिमाचलशिखराधुगत्रयपरिमिते गगनदेशे काशमाने चांशुमालिनि मंदायमानातपे दिवसे जोवसेनः स्वयमेक एव स्थाधिरूढः पुनरपि पुरोपकण्ठवर्ति वरमालिनीभवनमासाद्य तत्र च प्रहृष्टचेतसा जनन्या सह कंचित्कालं तास्ताः कथाः कुर्वन्प्रसङ्गात्सस्य शुभेहनि चिको रस्मि नामचीलोपनयनादिकर्मेति निवेद्य दत्तानुमतिस्तया विसृष्टश्च निजभवनमेवाससाद ।
एतावता कालेनास्तंगते गभस्तिमालिनि निर्वर्तितसंध्याविधिर्जीवसेनो भुक्त्वा चांतःपुरमधिगत्य जयंतिकया तनयोदंतमुदीरयन्नुच्चरति दशघंटाशंसिनि शङ्खरवे निद्रासुखमनुबभूव । एवमेवातिवाह्य पञ्चषान्वासरान्पष्ठे अहनि शुभ मुहूर्ते विधाय च तनयस्य नाम वीरसेन इति निर्वर्त्य च चौलोपनयनादि कर्म निर्मर्यादद्रविणार्पणतर्पितभूदेववर्गों भक्ष्यभोज्य
Page #250
--------------------------------------------------------------------------
________________
जयन्तिका
चोष्यलेह्यपेयादिपरिवेषणेन समाराध्य च सर्वानपि पौरान्निरतिशयमानंदमनुबभूव । अथापरेद्युर्जीवसेनो वरमालिनीभवनमासाद्य निवेद्य चारिभीकरां प्रति प्रयाणं प्रणम्य च, जनन्या वत्स ! क्षिप्रमेव प्रत्यागच्छ । न हि तत्रैव विलम्बस्व । कथमपीयन्तं कालं भवद्विरहस्सोढः । न पुनरितः परं भवद्वियोगक्लेशितहृदया जरती प्राणिमि । तदचिरात्पुनरपि प्रयतस्व दर्शनदानाय । शिवास्संतु पन्थानः प्रस्थितस्य ते । याहि वत्सेत्यभिधाय विसृष्टः, अंब ! अरिभीकरां गत्वा च प्रथमं तत्र चोषित्वा पञ्चषान्दिवसांस्ततश्च प्रयास्यामि हेमपुरम् । तत्रत्यामवगम्य स्थिति ततः प्रयतिष्ये प्रत्यागमनाय । तन्मा क्लेशय मद्भतया चिंतया जराजीर्णां तनुतरां तनुमित्यभिधाय तस्माद्भवनान्निर्गतो निजभवनमभजत ।
220
अथ निजादेशेन सन्निहितं सुकेशं तदनुगुणसत्कारेण सत्कृत्य विसर्जयामास चित्रपुरं प्रति । विसृज्य च मरुन्मालेन लब्धानुमतिः कतिपयहयबलपरिवृतो जयंतिकावीरसेनाभ्यां सज्जं स्यन्दनमधिरुह्य प्रतस्थे । प्रस्थितश्चानुसरतः प्रतिनिवर्त्य तत्तदधिकारिणः सत्वरं व्रजन्मध्ये मार्ग विश्रम्य प्रस्थितश्चातर्कितास्मदागमनमवकर्ण्य ससंभ्रमं प्रधावितामित - परिजनमुखात्पितरौ दिदृक्षया प्रासादद्वारमासाद्य समवेक्ष्य च प्रमोदभरेतिकर्तव्यतामूढौ सत्यप्याज्ञासंपादनव्यग्रे परिजने स्वयमेव स्यन्दनोपकण्ठमुपेत्य सहस्तावलंबनमवतार्य च स्यन्दनान्नेष्यतस्सौधाभ्यन्तरम् । नीत्वा च ससंभ्रमं परिधावितपरिजनोपनीतैर्भोगोपकरणैरस्माकमध्वपरिश्रमं परिहरिष्यतः । कथं यातुधाननिषूदनम् ? कुत्र विवाह : ? प्रत्यागमनाय कुतस्तवेयान्कालविलम्बः ? किमर्थमियतापि कालेन भवद्वार्तापि न श्राविता ? दिष्ट्या चिरादस्मन्नयनपथमागतोऽसीति व्याहरन्तौ परां काष्ठामानन्दस्य तावदनुभविष्यतः इति जयन्तिकां प्रति निगदन्नेव वेगेन पिबन्निवाध्वानं कृतप्रयाणः आसायं तावदाससादारिभीकराम् ।
प्रविश्य च कोऽयमिति प्रासादद्वारगतैः द्वारपालैरवलोक्यमानः
Page #251
--------------------------------------------------------------------------
________________
पश्चमलहरी
221 पृष्टश्च तैः कस्त्वमिति निवेदितस्ववृत्तान्तः प्रविश्य च सौधाभ्यन्तरमनवलोक्य च पितरौ समुद्विमहृदयः सन्निहितं मगधाधिपतनयं निजमातुलेयं हंसध्वजमपृच्छत् । पृष्टस्स हंसध्वजः समुपविष्टमासने साक्षादृष्टा जीमूतनामा जरत्तरोऽयं कंचुको निवेदयति भवपितृगतमखिलमप्युदन्तं देवायति न्यवेदयत् । तदनु जीमूतस्सवाष्पं वक्तुमारभत । इतः प्रयाते च देवे निशाचरनिशारणाय अशरण्याविव पितरौ देवस्य प्रत्यागमनमेवानुपालयन्तौ मासपर्यन्तं देवे चाप्रतिनिवृत्ते समुद्विग्नमानसौ संप्रेष्य चान्वेषणाय परिजनाननवरतमपि तस्य चण्डदंष्ट्रस्य चण्डतामेकाकिनो देवस्य तदभिगमनं च स्मारस्मारं साध्वसध्वस्तचित्तौ कथंकथमपि शोकदोर्घदीर्घ कालमत्यवाहयताम् । प्रस्थितास्तु देवस्य मार्गणायानुचराः प्रतिनिवृत्ताश्च सविनयं देव ! सर्वत्र कांतारे मृगितोऽपि नैवोपलब्धः कुमारः। नाप्यवगता तस्य स्थितिरपि । पुलिंदैरपि नाभिहितम् । वयमितिकर्तव्यतामूढाः प्रतिनिवृत्ताः इति सनिर्वेदं व्यजिज्ञपन् ।
तत्प्रभृति देवी रत्नचूडा विजृभमाणहृदयपोडा प्रवर्धमानाधिः देवनामैवोच्चरंती परित्यक्ताहारा क्रमेण क्षपितगात्री शयनीये पातितशरीरा परिजनमनसि महतीं चिंतामुदपादयत् । एवं क्रमेण क्षीणशरीरदृश्यमानास्थिपञ्जरा व्याहारमप्याहारमिव तत्याज । एवमनिशमुत्तानशया साक्षाद्देवेन वज्रबाहुना मुहुराहारग्रहणायाभ्यर्थितापि नैव चचाल । एवं कतिपयदिनाभ्यन्तरे भुवनं निरालम्बमकरोत् । तदा वज्रबाहुः दुःखभरतप्यमानमानसः शोकातिरेकजसरितहृदयैस्सचिवैस्समाश्वासितः निर्मर्यादनिर्वेदचित्तो मगधेश्वरतनयं हंसध्वजमेनमानाय्य वत्स! जिगमिषुरस्मि तपश्चरणाय हिमवन्तम् । तन्माभूदिदं राज्यमराजकम् । इति भवानाहूतः । यद्यागच्छेत्कदापि स कुमारो जीवसेनः जीवंस्तदा तस्मै समर्पयेत्युक्त्वा तपसे ययौ । निशम्य जीवसेनो निजमातुर्निधननिदानमात्मानं मन्यमानोऽश्रुक्लिनकपोलो विष्टरादुत्थाय कृतस्नानविधिः विषण्णहृदयया
Page #252
--------------------------------------------------------------------------
________________
222
जयान्तका
कृतस्नानया जयंतिकया सह कृताभ्यवहारः शयनपातितशरोरः पितृगतास्तास्ताः कथाः कुर्वन्ननारूढनिद्र एव निजबाष्पधारामिव शोकदोर्षां तां त्रियामामत्यवाहयत्। ___ अपरेधुरुत्थाय स्रोतस्विनीकृतावगाहनो निर्वर्तितशरीरस्थितिः यावदहं हेमपुरात्प्रत्यागमिष्यामि तावदिहैवास्वेत्यादिश्य हंसध्वजं तेनैव वाजिबातेन परिवृतो जयंतिकावोरसेनाभ्यां सममधिरुह्य शताङ्गं हेमपुरं प्रति प्रतस्थे । प्रस्थितश्च व्रजन् , नन्वरिभीकरायामेकपद एव भग्ना हि पितृदर्शनोत्सुकितस्य मे मनोरथसंततिः। न जाने हेमपुरे च कीदृशो परिस्थितिरिति । तत्रापि भवेद्भवद्विरहदुःखिता हेमवत्यपि परित्यक्तप्राणा। तव पिता सत्यकीर्तिरपि कोर्तिशेषो भवेदेव । धिगेनं माम् । यदहमेव सर्वस्याप्यनर्थस्य निदानमिति बाष्पाविलेक्षणां जयंतिकां प्रति प्रकथयन्नपरिमितचिंतासंतानकलुषितस्वांतो गच्छन्नेव तं दिवसमतिवाह्य सायंसमय हेमपुरं प्राविशत् । प्रविश्य च प्रासादद्वारमासाद्यापिकुशलो सत्यकीर्तिरपिकुशलिनी हेमवतीति द्वारपालमपृच्छत् । पृष्टश्च द्वारपालः कुशलिनावेव । के यूयम् ? कुत्रत्याः ? किमु संस्तुता राज्ञः १ इत्यपृच्छत् ।
___ पृष्टस्स जीवसेनः तात ! निवेदय तावद्राज्ञे जामाता ते दुहित्रा जयंतिकया सह भवद्दिदृक्षया द्वारि तिष्ठतीति प्राहिणोदभ्यन्तरम् । अंतः प्रविष्टस्स तु भारपालः तस्मै राज्ञे सविनयं न्यवेदयत् । देव ! दुहित्रा जयंतिकया सह जामाता देवदिदृक्षया द्वारि तिष्ठति । इति श्रुत्वा हर्षुल: वृद्धभावेन गन्तुमशक्तोऽपि मंदमाद्वारमागत्य दिष्टया पश्याम्यपि कुशलिनः ? इति व्याहरन्नभ्यन्तरमानाय्य प्रणमतस्समुत्थाप्यासनं स्वयमेव ददौ । इयता कालेन विदितोदन्ता हेमवत्यपि सादरं जयंतिकाकरमवलंब्य वत्से ! अपि कुशलिनी ? बहुतियात्कालादागतासि। को वायं कुमारः १ धृतप्राणाहं पुनरपि पश्येयं, नवेति चिंतयन्ती दुःखिताभवमिति बहुधा व्याहरंती प्रमोदभरमनुबभूव । अथ जयंतिकामुखादवगतपौत्रविषया
Page #253
--------------------------------------------------------------------------
________________
पञ्चमलहरी
223
दौहित्रमारोप्य निजांकतलं परिचुम्ब्य च जयंतिकया सह कृताहारा दौहित्रमपि भोजयित्वा दशघण्टानंतरं निद्रासुखमनुबभूव ।
___ अपरेयुः कृतस्नानविधिरामध्याह्नं भाषमाणो निजप्रचलितोदन्तं सत्यकीर्तिना कृतसजग्धिस्तांबूलग्रहणायाससादावरोधम् । तत्र जयंतिकां बलादनिच्छन्तीमपि जीवसेनपाव एवोपवेश्य दापयंश्व जयंतिकापाणिनैव जीवसेनाय तांबूलवीटिकां सत्यकीर्तिः विश्रांतय सर्वानपि विसर्जयामास । एवमेव पञ्चषदिवसानुषित्वा जोवसेनः सत्यकोर्तिमब्रवीत् । मद्विरहासहिष्णुजरती मे जननी वरमालिनी मदागमनमेवानुपालयन्ती गणयति दिवसान् । तामंतरा न शक्नोमि स्थातुमिह। तजिगमिषुरस्मि वैजयन्ती इति। तदवकर्ण्य सत्यकीर्तिः तात ! जीवसेन ! वृद्धस्संवृत्तोऽस्मि। भवदीयमिदं राज्यम्। यथेदं नभवेदराजकं तथा कर्तुमर्हसि । किं च श्वश्रूस्ते दुहितृनिर्गमनात्प्रभृति तद्विरहविक्लबा जीवितजिहोर्षया प्रायोपविष्टा स्थिता । एवमतोतेषु कतिपयेषु दिवसेषु कश्चन ज्ञानी तपोधनः समाजगामेदं भवनम् । स तु समभ्यर्चितो दूयमानमानसः कृशांगोमेनामालोक्य क्षणमिव प्रणिधानपरः, वत्से ! पुनरायास्यति ते दुहिता पतिसहिता दर्शनदानाय । तन्मा तावदायासय शरीरमिदमित्यभिधाय निरगात् । निशम्य च तद्वाणी स्रवत्पीयूषवेणी कृशांगकापि हर्षप्रकर्षेण समुत्थापिता निर्वर्तितशरीरस्थितिः निर्वेदखिन्नहृदयं तपश्चरणाय महारण्यं जिगमिषू मामपि विनिवार्य प्रतिदिनमपि भवदागमनमेवानुपालयन्ती कालमतिवाहयति स्म । दैवादुपनतं भवदर्शनम् । तदिदानी यथावामपि भवेव निश्चिती सुखिनौ राजधानोयं यथा भवेद्राजन्वती तथा कर्तुमर्हति भवानित्यकथयत्।
तदा जीवसेने किमद्य करोम्यवश्यमनुपेक्षणीयं हि मदेकजीविताया जरत्या जनन्याश्शरीरं तत्कथमपि गन्तव्यमेव मयत्यभिदधति सुचिरं विचिंत्य सत्यकीर्तिरकथयत्। उचितमिव प्रतिभाति भवदीरितं । मातृदेवो भवेति श्रुतिवचनमपि सार्थयितव्यं हि पुत्रेण। इदमपि मदीयं राज्यम
Page #254
--------------------------------------------------------------------------
________________ 224 जयन्तिका राजकं न भवेद्धि ? एतदुभयमपि विचिंतयतो ममैवं प्रतिभाति / भवतस्तनयं विनयाकरं कुमारं वोरसेनमेनमभिषिच्य पुरेऽस्मिन्यथाभिलषितं यातु भवानिति। श्रुत्वा तदभिहितं जोवसेनो दयितामुखमवलोक्य किं ते तावदभिमतमिदमिति पप्रच्छ / एवं पृष्टा तु जयंतिका किं ब्रवीमि ? कालमेतावन्तं तावत्तनयवियोगखिन्ना दैवयोगात्सन्निहितं पुत्रमेनं विहाय कथमिवातिवाहयामि कालम् ? मत्पितृवचनानुरोधेन कथमपि सद्य एव भवेद्धि तनयविरहः / राज्यस्याराजकतापरिहाराय दातव्य एव तनयः / पितुरभिमतमेव ममापीत्यकथयत्। जोवसेनोऽपि तथेत्यभ्युपगम्य शुभेऽहनि शुभ मुहूर्ते च पूततीर्थोदकैः ज्ञानेन वयसा च वृद्धैः द्विजोत्तमैर्वीरसेनमभ्यषेचयत् / अभिषिक्तश्च वीरसेनो नवरत्नमयसालभंजिकामंजुलं मुक्ताकलापवलयितसितातपत्रमण्डलविडम्बितादिशेषविततफणामण्डलं सिंहासनमधिरुह्य प्रत्नरत्नभासुरकिरीटपरिष्कृतोत्तमांगः समुद्भूयमानशरदभ्रविभ्रमहरचामरमनोहरोभयपार्श्वः सामंतनरपतिकिरोटरत्नप्रभाशबलितचरणनलिनः पो रैरभिनंद्यमानः सभास्तारान्यथोचितं सत्कृत्य जयध्वानप्रमुदितमानसः प्रजानयनान्यानंदयन्नवतीर्य चासनाद्गुरूनखिलानपि प्रणम्य तदनुमत्या धर्मेण प्रजापरिपालनपरो रराज। तदनु जीवसेनस्सादरं समानितः सत्यकीर्तिना कदाचिद्वैजयंत्यां कदाचिदरिभोकरायां कदाचिद्धेमपुरे च जयंतिकया सह निर्वर्तितानेकऋतुकर्मा निर्मर्यादमानंदमनुभवन्सुसुखमासोत् / इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशाख, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, राष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूग्नाल्वडिकृष्णभूपसुवर्णपदक साहित्यपरिषद्रजतपदकसमलडूत-जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां पञ्चमलहरी सम्पूर्णा //