________________
196
जयन्तिका
समुत्तस्थौ । “तदानीं कथमयं जीवसेनः १ क वास्य चक्रवर्तित्वम् ? कायं चंडालभावः ? क सारिभीकरा ? केदं चित्रपुरम् ? कथमिहागमनमस्य पर्यवसितमंततो निधने । स्यान्नामैतत् । असूर्यपश्यायास्तन्महिष्याः कथमिव स्थितिरिह । अहो ! विस्मयावहः खलु सौंदर्यमस्याः । सत्यमियं चण्डिका चंडयेव । रमणोमिमां निजप्राणानपि जिहासतीं विलोकयंत्याः दुर्गायाः हृदयं निजकरकरवालनिशितधारासोदरमिव दृश्यते । किमिह न कोऽपि निवारयितुमस्ति वा ?” इति परस्परं व्याहरतां, मातस्सप्रश्रयमभ्यर्थयामहे । मा तावदोदृशे परुषतरे कर्मणि समुद्यता भूरिति सांजलिबन्धं याचमानानां, हन्त ! क्षणादेव नश्यति स्त्रीरत्नम् । किं कुर्मः ? कोऽपि नास्ति रक्षकः ? इत्यानंदतां च तत्रत्यानां जनानां हाहाकारपूरिते दुर्गागाराजिरे जयंतिकायास्तावत्समुद्यत्खङ्गो बाहुस्तथैव स्तंभितोऽभवत् ।
तदा तु शरच्चन्द्रचंद्रिकाधवलं क्षोमं वसाना दीप्रतरहीरहारपरिष्कृतवक्षोजमंडला निजाजानुलम्बमानपरिमलबहुलमल्लिकामाला वामपाणिधृततीर्थोदकपूर्णसुवर्णकलशा निरतिशयसौंदर्यापहृतसकलजननयना तेजोमयविग्रहापि कौमुदीव नयनाह्लादकरी गौरांगी काचिदाविरासीसुन्दरी । तत्रत्येषु सादरं सविस्मयं सकौतुकं तामेव वीक्षमाणेषु जयंतिका का स्वमंब ! कादंबिनीव धर्मातपपरितप्तस्य आविर्भूतासि । यदि दुर्गंव, गृहाण कृपया कृपाणमेनम् । ममापि मंदभाग्यायाः निकृत्य कंधरां धरां गलितभरां कुरु । कृपयांगीकुरु प्राणहतकानिमानपि। निवर्तयाभ्यर्थनामिमा सादरमिति सगद्गदमब्रवीत् । तदवकर्ण्य सा सुन्दरी समंदस्मितं वत्से ! नाहं निघृणा । त्वं त्वविदितपूर्वोदता शोकातिरेकादेवं व्याहरसि । निर्निमित्तमेवं मा कुप्यतु भवती मह्यम् । शृणु तावदेवं भवितव्यताया निदानं पूर्ववृत्तम् ।
पुरा किलाश्वकर्णाभिधस्तपोधनः तस्यामेव गुहायां तपश्वरन्नासीत् । यस्यां युवयोस्संगमस्संवृत्तः। स तु कदाचित्प्रणिधानानंतर कंदमूलफला