________________
पञ्चमलहरी किमिति जग्राह भवान्पाणिमस्या मंदभाग्यायाः । हन्त ! भवता तु नैवानुभूतं किंचिदप्यनया मया सह शर्म । नाचरितं च नर्म । नापि कृतं अवदातं कर्म । किंतु मत्कृते दूरीकृतो निजधर्मः । समाश्रितं च सज्जनगर्हितं चंडालकर्म । घिगेनामोदृशानर्थपरंपराया निदानीभूतां जयंतिकाम् । अहह नाथ ! कथमिव निकृत्तवानात्मजमपि नरपतिभिया । हन्त ! निखिलनरपतिमकुटकोटिरत्नप्रभानीराजितचरणारविंदस्य भवतोऽपि का नाम भीतिरन्यस्मान्नरपतेः । धिक्पर सेवाम् । ननु नलिनायताक्ष ! स्थूललक्ष ! कथमिव न्यपातयः कृपारहितः कृपाणधाराम विदितलोकतंत्रे पुत्रेऽनेन पाणिनेति तत्पाणितलं निधाय निजनयनयुगले कपोलफलके च मुहुः करतलेन परामृशन्ती तन्नयनयुगलं तत्कपोलतलविनिहितात्ममुखकमला निजासमीक्ष्यकारितां पदेपदे निंदन्ती हा ! जीवसेन ! विपुलोरस्क ! तिरस्कृत स्मरसौंदर्यार्य पुत्रेत्य सकृदाकारयन्ती शिलामपि विलापयन्ती कठोरमपि वज्रं द्रवीकुर्वती रोदनातिरेकण दिक्तटमपि शिथिलयन्ती गगनमपि पातयन्ती धरामपि विदारयन्ती तारतारं विललाप ।
एवं विलपन्ती शिलातले शयानं तनयमवलोक्य दुःखभरद्विगुणिताश्रुच्छटासिच्यमानस्तनतटा मंदमुपसृत्य रुधिराविले भूतले समुपविश्य हा ! वत्स ! नियत्या ते ललाटतटे किमिदमपि विलिखितं, यज्जनन्या समादिष्टः खड्गपाणिना जनकेन निकृत्तकण्ठो भवेति । ननु पुत्रक ! पुरा वल्लभमनुचित्य रुदन्तीं मामवलोक्य मदुःखासहिष्णुर्बालभावमधुराभिस्सांत्वोक्तिभिरजनयः किल किंचिदिव हृदयशांतिम् । कुतो वाधुना नैव सांत्वयसि प्रलपन्तीं माम् । धन्योऽसि ! यत्पितृनिधनमनवलोक्यैव प्रथममेव त्यक्तप्राणोऽसि । प्राणिमि पापाहमद्यापि कष्टपरंपरामीदृशी मनुभवितुम् । अंब ! कर्कशहृदये ! दुर्गे ! भवती तावदन्यादृशेनानेन बलिक्रमेणाप्य - पर्याप्तसौहित्येति ज्ञायते । तदुररीकुरु मदीयान्प्राणानपि दयया । समर्पयाम्यधुनैव । पश्येत्यादाय जीवसेनकरतलात्करवालं निजकण्ठनिकृन्तनाय
195