________________
पञ्चमलहरी
197
हरणाय गुहाया बहिः क्वापि प्रयातः । तदवसरे कश्चन राजा मृगयार्थमागतः कयापि योषिता संगतः । प्रत्यागतश्च तपोधनः ज्ञात्वा च ज्ञानेन ग्राम्यधर्मापरिशुद्धां गुहां क्रुद्धश्च रे ! ग्रामीणकल्पानल्पामिक ! यदिमां मदीयां गुहां कर्मणानेनापरिशुद्धामतनोः तदिदानीमेव चण्डालभावाभिभूतो मार्याविरहितः नष्टसर्वस्वोः भवेति शप्त्वा चेतः परं यश्च हेयमिदमिहाचरिष्यति सोऽपि भूयादेवमेवेति शशाप । तत्तत्रैव संयुक्तयोर्युवयोरपि तथैवासीत् । मया त्वनुजिघृक्षया ते कारितः कांतारवर्तिन्या तापस्यानया सह वासः । योजितश्च चण्डालभावाभिभूतो जीवसेनोऽयमपि मत्सेवायामिहैव। कथमप्यभिषेचिता चास्मिन्नेव चित्रपुरे भवती प्रापिता च । माला तव मणिबन्धाच्च्याविता च । कथमपि तव तनयहस्तं प्रापिता च । घातितस्तवेहानीतः पुत्रः । यतोस्यायुषां परिमितिरियत्येव । इतःपरं दीर्घायुवर्धते। कारितश्चात्मवधो बलभेन स्वेनैव येनायं चण्डालभावोऽपि विनश्येत् । वत्से ! तवायं वलभः लब्धपुनर्जन्मा लब्धपूर्वरूपः, पुत्रोऽपि सुप्तः प्रबोधित इव च समुत्थास्यतः । तदूरीकृतशोकगंधा संध्यनुगुणं योजय तत्तत्कण्ठतलयोस्तत्तन्मस्तके इत्यादिदेश ।
अनुपदमेव सप्रमोदं जयंतिकया संयोजितयोस्तत्तच्छिरसोस्तत्तस्कंठतले सा सुन्दरी समभ्युक्ष्य निजकरकमलकलशोदकं, वत्से ! किमन्यदभिलषसि ? निवेदय । दित्सुरस्मि इति सादरमकथयत् । तदवकर्ण्य कर्णामृतं दुर्गावचनं सानन्दं सप्रश्रयं बद्धांजलिपुटा जयंतिका मातः ! प्रागिवास्यास्तापस्याः पुरुषसंपदमापादय । किंच शोकातिरेकायद्यदपराद्धं वचसा मनसा कर्मणा च मया, तदखिलमपि क्षमस्व । किंच वत्साय वल्लभाय च दीर्घमायुः प्रयच्छेति प्रार्थयामास । एवमभ्यर्थिता सा तु दुर्गा समंदस्मितं तापस्याः कण्ठे समर्प्य च निजकरस्थितां चम्पकमालां जयंतिकाप्रार्थनया लब्धपुरुषभावोऽसि । चित्रपुरे तावदभिषिक्तः प्रजारंजनपरो भव । वत्से ! जयंतिके! मर्षित एव शोकातिरेकविजंभितो