________________
जयन्तिका
वागपराधः । त्वमपि दयिततनयाभ्यां समासाद्य निजपुरी गुरुजनवरिवस्यापरा धर्मैकनिरता पतिदेवता सती चिरमनुभव राज्यसंपद मित्यभिधायांतरधात् ।
198
·
तदनु जयंतिका मंदेतरानंद स्पंदमाननयनंदीवरकंदलितबाष्पमरंदमंदीकृतगमना मंदाक्षावनमितवदनारविंदा मंदमधिगत्य धवसविधं दक्षिणपाणिपल्लवेन परामृशन्ती तत्तनुं मंदमधुरया गिरा नाथ ! सनाथयोत्था यानाथममुं जनमित्यकथयत् । तत्क्षणमेव प्रियाकर किसलय संपर्कादिव सः जीवसेनः करकमलतलपरिमृष्टलोचनयुगलः परामृशन्तीमात्मतनुं सुतनुं समीक्ष्य क्षिप्रमेव क्षितितलादुत्थाय प्रियावलोकनजनितप्रमोदातिशयपरवशमानसः स्वप्ने चानुभूयमाने झडिति बलादुत्थापित इवास वास्वादमदघूर्णित इवामृतस्रोतोभिराप्लावित इव हठाद्भीत इवोरुतरपरुषर व परिक्षुभित इवामितरयपरिभ्रमणसमुपजनितहृदयवैकल्य इव ध्वांतावनद्धदृष्टिरिव निरतिशयतेजःपुंजाभिभूत इव चेतिकर्तव्यतामूढः समुद्गतपुलकजालकीलितमूर्तिः प्रमोदजनितया कयापि विकृत्यानिर्वचनीय मुखवैवर्ण्यः शिथिलितवर्णगणः किमपि किमपि भाषमाणः आनंदातिशयविकलितजङ्घाबलः पुनरपि पपात क्षितितले । तादृशावस्थमवलोक्य पतिं समुद्विग्ना जयंतिका मनस्येवमचिन्तयत् । वदंति खलु कोविदाः निरंतरक्लेशपरंपराविशीर्णहृदयस्यातर्कितोपनतोरुतरप्रमदहदावगाहनमपि निधननिदानमिति । तदिदानीमचिंतितोपन तमद्दर्शनसमुपजनिता मंदानंदतुंदिलहृदयोऽयमेवमनुभवति । तदधुना पुनरपि प्रागिव मालाबलान्नरपतितामुपेत्य पतिमेनमवलोकयामि इति विचित्य च पुरुषाकृतिमेवोररीचकार ।
तदनु शिशिरोपचारेण सचेतनो जीवसेनः हा ! प्रिये ! क्कासि गता कालमेतावन्तम् ? कथमिवेदानीं तटिदिव सन्निहिता । कालमुखपतितं मामकार्षीस्सजीवं जोवसेनं निर्दयमित्युदतिष्ठत् । उत्थाय चानवलोक्य प्रियां नरपतिदर्शनाद्भीतभीतः परितो दत्तदृष्टिः तापस्या प्रतिबोधितं
-
-