________________
पश्चमलहरी
__199 निजदर्शनजनितप्रमदभरप्रफुल्लवदनारविंदं सरभसं प्रणिपतनायापतन्तं निर्वर्ण्य पुत्रं ससंभ्रमं सविस्मयं समभिपत्य पाणिभ्यामादाय दृढतरं परिष्वज्य मनसीत्थमचिंतयत् । हन्त ! विधिविलसितम् ! क पुनरुत्थानमुपरतस्य ? क्वाहमस्मि ? क पुनरंतककरालवक्त्रकुहरक्रूररदनक्रकचाघातपतितस्य वत्सस्योज्जीवनम् ? हन्त! किमयं स्वप्नप्रपञ्चः ? तटित्पटलमिव मन्नयनपथाधिरूढं प्रियामुखकमलं क्वापि लीनम् ? किमिदमहं नवीकृत इवेति विचित्य च वत्स ! केन पुनरुज्जीवितोऽसि मया पापिना निकृत्तशिराः ? प्रदर्शय तं दयालुम् । महात्मनस्तस्य चरणनलिनयुगलमवतंसयामि । हा! प्रिये ! त्वं तावदस्मिन्नवसरे न सन्निहितासि । क्वासि ? देहि मे प्रतिवचनम् । इति बहुधा व्यलपत् ।।
एवं विलपन्तं तमवलोक्य जयंतिका सानुतापं दुःखदम्यमानकण्ठापि सगम्भीरं बालिश ! भवदनुयायिनीमबलां विहाय महारण्ये तद्विरहदुःखमिहाभिनयसि ? दंडनीयः खलु विस्रभद्रोहीति प्रकटितप्रभुदर्पा जीवसेनमपृच्छत् । पृष्टस्स कृतांजलिपुटस्साध्वसवेपमानगात्रो गात्रलीन इव विनयनम्रकायस्सबाप्पगद्दं न्यवेदयत् । देव ! नाहमपराधी। कांतारे कंदरे प्रियया सह शयानस्य ममाभवत्कापि तरुमूलतले प्रतिबोधः । प्रबुद्धेन च मया तत्रतत्रान्विष्टापि सा नैव लब्धा । केनाप्यपहृतांशुकतया नग्नोऽहं कांतारे पर्यटन्वसनमन्विष्यन्प्रियामाक्रन्दन् अनाथ इव निरवलम्बनः निराहारः हालिककल्पः अनल्पवैरूप्याभिभूतः मार्गवशादेतचित्रपुरनिकटवर्ति पितृवनमवापम् । तत्र च क्षितितलनिपतितं पटचरं कच्चरं खण्डपटमेकमादाय परिधाय च जीविकायै जिगमिषुः पुराभ्यन्तरं गोपुरपार्श्ववर्तिन्यस्मिन्नेव दुर्गागाराजिरे कथमपि कति चिदिनान्यत्यवाहयम् । अथ नियुक्तोऽस्मि प्रभुणास्मिन्कर्मणि। श्रुत्वा च धृतपुरुषवेषा जयंतिका हन्त ! मदर्थमनेन कीदृशी समनुभूता दशेति सानुतापं विचित्य तापसीमवलोक्य प्रवेशय प्रासादमुभावपि तावित्यभिधाय निरगच्छत् ।