SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 200 जयन्तिका तदनु लोकबांधवतयेव सवितरि तत्पुनरुत्थानपर्यन्तं स्थित्वा च पश्चिमाचलशिरसि मंदमस्तमुपगतवति विचित्रचरित्रावलोकनेन विस्मयाश्लिष्टमानसेषु तत्रत्येषु समुपरतान्पशूनादाय निजावासं प्रति गतेषु त्रोटिपुटगृहीतावनितलनिपतितपिशितशकलेषु सारवं समाश्रितनिकटविटपिविटपपटलकोटिषु ध्वांक्षेषु अचिरकृतदीपपल्लवतया ज्योतिर्मये चित्रपुरे बालिकाजनगीयमानगानविशेषहृदयंगमेष्वगाराभ्यन्तरेषु द्विजवजपरिपठ्यमाननारायणनामसहस्रस्तोत्रवाचालितेषु देवमंदिरेषु वधूजनक्रियमाणसंध्यारक्षाविधिसक्तेषु शिशुषु विरतेषु चाटुवचसा पंजरकीरेषु मणिमययष्टिशिखरकृतादरेषु अगारमयूरेषु क्रीतपरिमलबहुलप्रसूनमालास्तबककरपुटेषु विटपुरुषपटलेषु सायंतनमङ्गलवाद्यध्वानगम्भीरे सौधद्वारे सौरभमरितागरुधूपधूमलतावितानिते धनिभवनाजिरे सुन्दरीजनविरचितबलिकुसुमतारकितेषु प्रतिमवनदेहलोदेशेषु सा तु तापसी जयंतिकाभ्यनुज्ञया ताभ्यां दापिताहारा कस्मिंश्चिद्विविक्ते निवेशे संवेशाय तौ सादरं विसर्जयामास । तदनु समासाद्य च निजसदनं दूर एव परिगृहीततल्पामनारूढनिद्रां पतिसुतलाभकंदलितप्रमोदभरगंथरमानसां प्रथमं कथं कदा क वावलोकनीयोऽयमार्यपुत्रः पुत्रश्च इति पृच्छन्तीं जयंतिकामब्रवीत् । ननु कल्याणि ! दिष्टया वर्धसे । भवत्या तावदेतावन्तं कालं क्लेशपरंपरानुभूता। इदानी शुभोदर्कफलेग्रहितामवाप। भवत्यास्सहवासमहिम्ना दुर्गाप्रसादाचापगतस्त्रीभावः संवृत्तोऽस्मि पुरुषः। मह्यमेवं रोचते। तावुभावपि उषस्येव उत्थाप्य कारयित्वा च मङ्गलस्नानविधिं महाधनैविभूषणैश्वालंकारयतु भवती । त्वमपि मालाबलात्परिहृतपुरुषाकृतिः निर्वतितमंगलस्नानविधिः स्त्रीसमुचितेन मंगलवेषेण सुभगदर्शना सिमासनोपवेशितं भद्रमुखं सपुत्रमार्यपुत्रं चावलोकय । अहमपि निर्वर्तितस्नानविधिः नरपतिसमुचितालङ्कारालंकृतः तत्र सभायां द्रक्ष्यामि युष्मानिति । जयंतिका तु "एवं कल्पनीया सभा । एवं द्रष्टव्यस्तावत्प्रथममेवमार्य
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy