________________
पञ्चमलहरी
पुत्रः । प्रथममेवं संभाषणीयः । एवमाश्लिष्य पुत्रस्सांत्वनीयः । प्रथममेवं सभास्ताराणां प्रत्ययस्समुत्पादनीयः” । इत्येव प्रकारेण तापस्या समं संमंत्र्य यामद्वयमत्यवाहयत् । तदनु चरमे यामे वत्स ! प्रभुरयं किमर्थं प्रासादाभ्यन्तरं निनायावामुभावपि ? किमर्थं मिष्टान्नदानेन समतोषयत् ? किमर्थं शशोदरलोममृदुलशयनीये शायितवान् ? प्रभोस्तावदत्यादरोऽयमुपजनयति भीतिम् । राजाशयं ज्ञातुं को वा शक्नोति ? वत्स ! अहं तावदवैमि घोरतरे कांतारे स्वाश्रितदयिता परित्यागरूपापराधकृते दंड्योऽयमिति दंडनार्थं स्यादिदमिति परस्परं भाषमाणावनारूढनिद्रौ तावुभावपि तापसी - मुखादुत्थाप्य कारयित्वा च मङ्गलस्नानविधिं विविधैर्भूषणैर्भूषितौ चाकारयत् । स्वयमपि विहाय पुरुषाकृतिं मालाबलान्निर्वतितमंगलस्नानविधिः समुज्ज्वलशरीरा भूषणालंकृता च तापसीत्वात्ययसंतुष्टमानसं पुरुषभावलाभमासुरं कृतमङ्गलस्नानं परिष्कारपरिष्कृतं सुकेशं त्रपाभराकुंचितोत्तमांगा स्थिता चानतिदूरे जगाद ।
ननु भद्रमुख ! विचित्र परिष्कारदर्शनीयां परिकल्प्य सभां तत्र च पांडरतर तिरस्करिण्यन्तर्हिते मुक्तातपत्राभिरामे सिंहासने तावुभावप्युपवेश्य निवेदय तावन्मह्यं इति प्राह । एतावता कालेन प्राप्तोदययोरेतयोस्समागमावलोकन कुतूहलेनेव लोकबांधवः प्रकाशितरागश्चोदयगिरिशिखर मारुरोह । तदनु सुधर्मायामिव कल्पितायां सभायां सुकेशादेशेन बहिस्तिरस्करणीतः समुचितपीठमधिगतेषु विबुधेषु सभासमुचितवेषेषु करगृहीतचामीकरदंडेषु निश्चलंस्थितेषु परिजनेषु तपनीयपीठमलंकुर्वत्सु सचिवेषु यवनिकाभ्यंतरे च मणिमयसिंहासनजुषि सपुत्रके जीवसेने स सुकेशो विदितोदतायै मङ्गलालंकारालंकृतायै मंदमायांत्यै जयंतिकायै प्रसारितबाहुयुगलः सप्रश्रयं प्रदर्शयन्मार्गं तां सभां प्राविशत् । प्रविशति च तस्मिन्स्वांतर्निहितं जीवसेनं तस्यै जयंतिकायै त्वराभरात्प्रदर्शयितुकामेव यवनिका द्विधा विभक्ता सुदूरमपससर्प ।
J-26
201