________________
202
जयन्तिका
जयंतिका तु प्रत्युप्तहोरकिरोटपरिष्कृतोत्तमांगमवतंसितभासुरतारानिकरमिव मेरुमूलवालारूढया लतयेव मृगमदतिलकरेखयालंकृतविशालललाटफलकमंसतले विलसंस्यै राजलक्ष्म्यै विनिहितदोपकोरकाम्यामिव माणिक्यमणिकुण्डलाभ्यां परिमंडितगंडमंडलं पृथुलमुक्ताफलमालावेष्टितकंबुकंधरं मरालराजिविराजितमिव पद्माकरं भुजलंबितपीतांबरं सपक्षमिव कनकगिरिं वोरोकल्पितकमलाभ्यामिव प्रत्युप्तपद्मरागाभ्यामंगदाभ्यां परिमंडितोदंडभुजदण्डं होरमयमेखलालंकृतावलग्नं वासुकिसमावेष्टितमध्यमिव मंदरं कालमेतावन्तं वल्लभविरहेणातिकृशे प्रकटितानुरागे लब्धराज्यतया पदपंकजवरिवस्यामाचरति भूमंडल इव चक्राकारे नात्यायते माणिक्यमयविष्टरे विनिहितचरणसरसिजं कमनीयतपनीयभूषणभूषितकंधरेण हाटकपीठमलंकुर्वता पुत्रेण रत्नसानुसानूपविष्टेन पिशंगकेसरांकुरभासुरकंधरेण केसरि-किशोरेणेव परिष्कृतदक्षिणपार्श्व नाकलोकमिव सुमनोभिरामं सुरपतिमिव सुधर्मासक्तं चन्द्रमिव दर्शनोयरूपं दिवाकरमिव निजतेजोधीनलोकं सौन्दर्यमयमिवानंदमयमिव नयनानामुत्सवमयमिव तं जोवसेनमपश्यत् ।
दृष्ट्वा च निरतिशयानंदपरवशतयेतिकर्तव्यतामूढा क गतास्मि? किमु निषण्णास्मि ? आहोस्वित्केनापि अवलम्बितास्मि ? किमु स्वपिमि ? किमथवा प्रबुद्धास्मि ? काहमागता ? केन वा समानीता ? किमालपामि ? किमथवा मूकास्मि ? किमु कापि प्लावितास्मि ? किमथवा स्वप्नोऽयम् ? इति बहुधा चिन्तयन्ती हर्षपरवशतया समाश्रितस्तंभा स्तंभागसमुत्कोणदंतमयसालमंजिकेव निष्पंदगात्री तस्थौ। तदा विस्मयाश्लिष्टमानसास्सामाजिका अनिर्वचनीयमानंदमनुबभूवुः । अथ स सुकेशस्सविनयं सांजलिबन्धं समुपसृत्य जीवसेनाय व्यजिज्ञपत् । देव ! देवो विज्ञापयति देवपादमूले। विस्मृत्य च कृतमखिलमप्यपराधं संतापितगात्रोमनवरतमप्यश्रुकलुषितनेत्रां दुःखैकपात्रं वल्लभलाभप्रत्याशासूत्रावलंबितप्राणमात्रां निरंतरांतरंग