________________
जयन्तिका
हंत ! जगति निरपत्यता तावज्जनानां निरतिशयक्लेशजननी । तत्रापि भूवल्लभानां तु हृदयं दहति कुकूलानलवदिति विचितयंस्तस्य नयनयोरतिथीबभूव । वज्रबाहुस्तु पुत्रपरिमंडित करपुंडरीकमाखंडलम वलोक्य विस्मयविस्मृतगात्रस्स्वप्नो नु ? निरंतरकृतनिदिध्यासनतया मतिभ्रमः किं ? अथवा प्रतारणाय यातुधानविरचिता माया ? आहोस्विदनवरतापत्यस्मरणगुणिता रणरणिका ? किमथवा संकल्पमात्रकल्पितं वैकल्यमित्यनेकधा प्रत्यक्षस्थितमपि वितर्कयन्नानंदातिरेकादितिकर्तव्यतामूढः स्तंभीभूतः प्रकटीचकार धरणीधरताम् ।
116
ताक्षं क्षोणीशमवेक्ष्य विलक्षस्सहस्राक्षः करुणया तात ! वज्रबाहो ! वज्रपाणिरहं तव तपसा सुहितो हितचिकीर्षया प्रत्यक्षता मुपगतोऽस्मि । गृहाणैनमर्भकम् । अयं तु धर्मेण धरणिभरणधुरीणो भविष्यति इति वितीर्यान्तरधात् । ततोऽयं नरपतिराजन्मदुर्गतो वित्तमिवातर्कितोपनतमपत्यमादाय निरतिशयानंदसिंधुप रिप्लाव्यमानमानसो मनसातीतभावनागम्भीरवदनारविंदश्शिशुदर्शनकंदलितमहानंदो महिषीमनोविनोद नप्रकारं मनसि भावयन्बंधुजनबृंदसंभ्रमानंदकार्यकलापमनुचितयन्नेवं मां शिशुशयं ससंभ्रममभ्युद्गच्छंति परिजनाः । हंत ! क्क वा कथमुपलब्धोऽयमिति त्वरातिशयात्पृच्छंति बांधवाः । शिशुरत्नादित्सयाहमहमिकया पुरः प्रसारयंत्यवरोधभुजिष्याः बाहुलताः इति भावनातरंगाला वितहृदयस्समासाद्यारिभीकरामनधिगतापत्यतया भृशं दुःखितायै निरंतरमपि पतिध्यानपरायै निजवल्लभानुष्ठीयमानं तपो निरंतरायं सफलयतेति गृहदेवताः प्रार्थयमानायै स्वयमपि चिरात्परिगृहीतव्रतनियमतया कृशांगलतिकायै सततमप्यपत्यवार्तामेव व्याहरत्यै भुजिष्याजनसमाश्वास्यमानायै निरलंकारायै निजमहिध्यै रत्नचूडायै स्पृहणीयदर्शनं तमर्भकं समर्पयामास ।
सा तु रत्नचूडा विस्तृतायतनयनकुवलया पीयूषहद तरंग परंपराभिहन्यमानेव गगनतलांतरालप्लाव्यमानहृदयेव घनसारघनधूल्यंतरप्रविष्टेव