________________
117
चतुर्थलहरी सुतदर्शनमात्रेणेतिकर्तव्यतामूढा दिग्भ्रांतिस्तंभीभूता किमिदं ? कोऽयं ? काही किमेतत्? अपि नाम सत्यम् ? किमथवा मतिभ्रांतिः? मंदभाग्यायाः मे भवेदपिनामेदृशी संपत् ? न खलु प्रत्येमि । अथवा को वा जानाति मानवानां भाग्योदयावसरम् । अपि नाम देवताप्रसादपात्रमस्मि ? वेति डोलायमानमानसा निजकरतले शयानमावर्तमनोहरैर्ललाटतटश्रवणमूललंबमानैः कोमलैः केशपल्लवकलापैः दर्शनीयोत्तमागं चक्रवातपरिघूर्णितैनवजलधरशकलैरिव घनदिवसं ईषदृश्यमानकलंकलेखांकिताष्टमीशशांकानुकारिसूक्ष्मतरभूलेखासमलंकृतं ललाटफलकमुद्रहंतं ऊर्णासनाथभ्रमध्यं राज्यलक्ष्मीलीलाकमलाभ्यामिवाश्रवणमूलविवरप्रसृमरलावण्यपूरकुल्याभ्यामिव मुखलावण्यसलिलचलाचलशफराभ्यामिव च लोचनाभ्यामुपशोभमानं विकचकोकनदसच्छायाभ्यां श्रवणजाहाभ्यां मनोहरं ललाटौन्नत्यश्रीविजिगीषयेव समुन्नतघोणं लाक्षारसपाटलाभ्यां समुद्यदिंदुमंडलानुकारिभ्यां भुजशिखरभविष्यद्राज्यलक्ष्मीवदनकमलावलोकनायेव विधिविरचितपद्मरागमुकुरमंडलाभ्यामिव कोमलाभ्यां कपोलाभ्यां विराजमानमरुणतराधरपल्लवमरुणारुणशरीरतया संध्यारागविरचितमिवाचिरारूढतुहिनकिरणकलाकलापकल्पितमिव जतुरसस्नापितमिव माणिक्यमंदिराभ्यंतरगतमिव किंशुककुसुमनिकरनिरंतरनिचितमिव कुंकुमकर्दमचर्चितमिव रुधिरच्छटामुद्रमंतमिव धातुधूलिपटलविलुठितमिव पारावारतीरमिव विद्रुमलतारुणं जरत्तापसमिवायतकूर्च स्पंदनमिव परिस्फुरचक्रचरणं उपरक्तसुधांशुमिव केतुसमाक्रांतपादं दिवाकरमिव करप्रकाशितपनं पोतमप्यानंदसिंधौ मजयंतं तमभकमद्राक्षीत् ।
तत्क्षणमेवांतःपूर्णतया हृदयावहिनिस्सरंती प्रीतिरसच्छटेव निस्सरति स्म तस्याः पयोधराभ्यां पयोधारा। तदनु सा रत्नचूडा व्रीडाभरारुणितमुखीदंप्रथमसुतस्पर्शशर्मोद्गतस्वेदकणिकाप्रकरतारकितावयवा दृश्यमानकतिपयोडुमंडलांचिता प्रतीची हरिदिव संध्यारागेणोपांतप्रदेशं तेन सुतेनोत्संग