________________
218
जयन्तिका
परामृशन्ती वरमालिनी वत्स ! प्रविश भवदीयां राजधानीम् । सुसुखं धर्मेण प्रजाः परिपालय। वयसा ज्ञानेन च वृद्धमेनममात्यावतंसं मरुन्मालं विना मा कुरु किमपि राजकार्यम् । इतःपरं परित्यक्तव्यसनासक्तिः वर्तस्व धयें पथि। स्वतः प्राज्ञाय ते मया पुनः न किमपि वक्तव्यमस्ति । विषयनिम्नचित्तवृत्तिर्माभूः। प्रभुता तावदसिधारेव । तदनवरतमप्याहितचित्तावधानो भव। कर्षति विषयाः विषयिणः। तदृढगृहोतमनःप्रग्रहो भव । याहि वत्स ! पुनर्दर्शनाय । चिरं जीव । भद्रमस्तु ते। इत्यभिधाय प्रणम्योत्थितां जयंतिकामवलोक्य वत्से ! निर्वर्तिताद्भुतकार्याय ते किमस्ति वक्तव्यम् । निरंतरमपि पतिशुश्रूषापरा भव। दुरधिगमे राज्यकर्मणि पत्युस्साह्यकरणेनार्धदेहतां प्रकटयन्ती वल्लभशुभोदर्कतर्कणैकताना छायेव सवितारं तारापति रोहिणीव दयितमनुवर्तमाना मानातीतयशोभागिनो सुसुखं चिरं जोवेति शिरस्याघ्राय प्रणतं पौत्रं समाश्लिष्य प्रचुंब्य च तात ! इयन्तं कालं कृतग्रामवासतया भवता नैव गृहोतो विद्यागन्धोऽपि । नापि संपादितो राजपुत्रानुगुणस्सहवासः । किं तु द्वादशाब्दपर्यन्तं ग्रामोण इव वर्धितोऽसि। तदितो गुरुशुश्रूषया सर्वा अपि विद्यास्समधिगत्य लोकतंत्रनिष्णातो भवेति व्याहृत्य सर्वानपि विसर्जयामास ।
ततश्च जीवसेनः पुरप्रवेशोचितालंकारालंकृतो जयंतिकां तनूजं च स्यन्दनमारोप्य स्वयमारूढतुरंगमः सन्जेन सैंधवसैन्येन परिवृतो हयाधिसूढं पुरस्कृत्य सुकेश सचिवानुगतैः पोरैरभिवन्दितो विचित्रवादिननादप्रकाश्यमानोत्सवाडंबरो दंडमवलंब्य मंदमाद्वारमागतया वरमालिन्या सादरमवलोक्यमानः शतांगोपविष्टेन मरुन्मालेन सह पुराभिमुखं प्रतस्थे । प्रस्थितश्वांशुकैर्मानवैश्वानेकवर्णमयीं व्याहारैर्वाद्यैश्च शब्दमयीं प्रतिप्रासादं संघीभूतविलासिनीवातविभूषणमणिगणप्रस्मरामितप्रभापरंपराकृतवितान - शोभामुन्निबद्धाभिनवप्रसूनरसालपल्लवापहसितवसंतसंपदं प्राविशद्वैजयंतीम्। प्रविश्य च राजमार्गेण प्रस्थितः स्तूयमानः पो रैः पीयमानश्च नयनाभ्यां