________________
पञ्चमलहरी
217
अथ जीवसेनप्रार्थनया परिगृहीतासनो मरुन्मालः प्रणतं नरपतिकुमारं सादरं सप्रेमादाय पाणिभ्यां समुपवेश्योत्संगतले पर्यकोपविष्टेन जीवसेनेन सादरमवलोक्यमानः राजन् ! दिष्टया पश्याम्यपहसितभवद्रूपं कुमारमेनं कुमारमिव । परित्यक्तकमलां कमलालयामिव रूपेन गुणेन च भवदनुरूपां भार्यामपि दिष्टयावलोकयामि । एतावत्पर्यन्तं क्लेशपरंपरया भवता नीतः खलु सकलोऽपि कालः । तदितः परं सुसुखं प्रजाः परिपालयन्निवर्तय क्रतुकर्म । सर्वमप्यन्यन्निवर्तितमेव भवता। पुत्रोत्पादनेन पितृणां ऋणमपि अपोहितम् । दिग्विजयेन संपादिता सार्वभौमपदवी । दंड्यान्दंडयता स्थापितो धर्मः । दर्शनदानेनाधुना जराजीर्णजननीहृदयलग्नं शोकशल्यमप्युत्पाटितम् । पुनरपि राजधानीमासाद्य राज्यभारोबहनेन विश्रामितो ममांसदेशः। तन्नगरप्रवेशेन सफलीकर्तुमर्हसि प्रजानां नयनानीत्यकथयत् । तदनु जीवसेनः सविनयमंब ! भवतीमपि निनीषामि राजधानीम् । सर्वधा तावदियन्तं कालं क्लेशप्रायमतिवाहितं भवत्या क्लेशमय्या। इतः परं वा पौत्रमवलोकयन्ती स्नुषाक्रियमाणया शुश्रूषया विस्मृतचिरंतनकष्टपरंपरा भवतु भवती । तदारोहतु रथमिति प्रार्थयामास । एवं प्रार्थिता सा वरमालिनी वत्स ! राज्यसुखानुभवोचिते वयसि नैव मे ललाटे लिखितो विधिना राजधानीवासः। किमधुना वैखानसवृत्त्या स्थातव्ये वयसि नगरवासेनातिक्रांतविधिसङ्कल्पा भवितुं न कल्पते तावदयं जनः। वनवासाय क्लेशपरंपरानुभवायैव नियत्यां सृष्टेयं वरमालिनी । तदलमनया प्रार्थनया । पदेपदे भवन्तमिहागच्छन्तं पश्यन्ती भगवद्धयानपरा परलोकदत्तदृष्टिः कालमतिवाहयामीत्यकथयत् ।
तदा जीवसेनस्सुचिरं विचिंत्य च मातः भवत्या समुदीरितमप्युचितमिव प्रतिभाति । तद्यथा रोचते भवत्यै तथैव निर्वर्तनीयं हि पुत्रण मया। तन्नाहं निर्बन्धेन भवती नयामि नगरीम् । देहि मे पुरप्रवेशाय सानुग्रहमनुमतिमिति पर्यकादुत्थाय प्रणनाम । प्रणम्योत्थितं तं पाणिना
J-28