________________
216
जयन्तिका मतिवैभवं भवच्छुभोदर्कतकतानं तत्रभवन्तं सचिवावतंसमभिमुखीभूय सादरमानयेति जगाद । जीवसेनः बाढमित्युत्थाय प्रत्युद्गम्य च बद्धांजलिपुटस्सादरमानिनाय । मरुन्मालस्तु विसृज्य च निखिलानप्यनुचरान्बहिरेव स्वयमेकाकी प्राविशन्मदिराभ्यन्तरम् । प्रविशति च तस्मिन् जीवसेनस्सभार्यः प्रणम्य सप्रश्रयं कृतकुशलानुयोगः सुखागमनमपृच्छत् । पृष्टश्च स मरुन्मालो निजहस्ते निक्षिप्तं भुवनमंडलं सुवर्णमयं विधाय प्रत्यर्पयन्निव निक्षिप्य जीवसेनहस्ते जम्बीरफलमिदानी कुशली सुखी च । यतश्च भारोदहनाक्षमे मयि निक्षिप्तं क्षत्रावतंसांसतलैकोद्वाह्यं राज्यभारममुं पुनरपि त्वय्येवावतारितवानस्मीति न्यवेदयत् ।
निशम्य तद्भाषितं जीवसेनस्समंदस्मितं भक्त्या च स्वात्मनि प्रलीन इव प्रभावमवलंब्य सचिवावतंस ! न तावद्भाजनं जनोऽयमीदृश्यास्सपर्यायाः। किंत्वनुग्राह्यः। यदस्मपितृभागधेयात्पूर्वदेवसार्वभौमस्योशनसेव विबुधेश्वरस्य धिषणेनेव तत्रभवता भवता तावदंगीकृतं साचिव्यमिदम् । किञ्च भवादृशस्तावदंकुशो राज्ञां कंदर्पदर्पवारणदर्पनिवारणे । प्रग्रहो विषयग्रहणव्यग्रसमग्रेद्रियग्रामगंधर्वगर्वनिर्वापणे । सविता मोहांधकारप्रशमने। कलानिधिः कुवलयोल्लासे । दावानलो व्यसनवनगहनस्य । संकेतभूमिः राज्यलक्ष्म्याः । रत्नाकरो रत्नसञ्चयस्य । प्राकारः परलोकाक्रांतेः । कुठारो दुर्नयतरुषंडस्य । जलदोदयः प्रत्यर्थिप्रतापातपस्य । वैनतेयो भुजङ्गकुलस्य । पन्नतरुः कीर्तिउतालयाः। आकरो मंत्रतपनीयस्य । रत्नस्तम्भः प्रज्ञाप्रासादस्य। उदयगिरिः अभ्युदयारुणस्य। जांगलिकः पैशुन्यकालकूटस्य। वातूलोऽयशस्तूलस्य। अपि च यस्य प्रज्ञाबलेन विराजते वैजयन्तीयमधुनापि धृतास्मद्विजयवैजयन्ती। यस्य चोपायचतुष्टयेन सर्वाः प्रजाः प्रजानिर्विशेषाः कृताः। यस्य च मतिवैभवेन परिपन्थिनो राजानो युवानोऽपि वनोपांतवासिनो बभूवुः। किंबहुना! मदीया स्थितिरपि यदायत्ता। तादृशस्य भवतश्छायानुवर्ती भुवनमारमुद्रोढुं अहमभिलषामीत्यब्रवीत् ।