________________
चतुर्थलहरी
161 प्रविश्य दंडकमंडलुकृष्णाजिनचीरांबरादिकमादाय निधाय च शिविकायां स्वयमप्युपाविशत्।
तदनु सप्रमोदं कतिपयबलपरिगतस्सन्स सुकेशो मधुवर्ण सिंधुजातं सैंधवमधिरुह्य मंदारनामानं चित्रपुरमभिप्रतस्थे । प्रस्थितश्च दुर्गम कांतारमतिक्रम्य च विचित्रचित्रचित्रितं चित्रपुरं प्राविशत् । तदानी मत्तकाशिन्योऽहमहमिकया समाश्रितक्षौमाः क्षौमालंकृताः राजमार्गेणापतन्तं समनयनमपि विषमनयनमिव महासेनादृतं सुजनपरिगतमपि निस्त्रिंशपरिगतं लक्ष्मीहृदयमिवाच्युतरूपाक्रांतं सुकुमारं रूपापहसितमारं राजकुमार विलोक्य ननंदुः।
एवं प्रदक्षिणीकृतनगरः पौराभिनंदितः पुरंध्रीभिर्विरचितमंगलविधिः सचिवैरनुगम्यमानः प्रासादं प्राविशत् । प्रविश्य च तस्यै तापस्यै सौधे एवावासमेकत्र विविक्तमकल्पयत् । तदनु शुभेऽहनि शुभे मुहूर्तेऽभिषिक्तश्च स सुकेशो मणिगणरुचिरविविधविचित्रपत्रभङ्गं लम्बमानपरिमलबहुलप्रसूनमालापरिसरपरिभ्रमद्भुङ्ग सितातपत्रसमुल्लसितशृंगं प्रत्ननवरत्नप्रभापिशंगं समुत्कोर्णसुवर्णसालभंजिकातरंगं राज्यलक्ष्मीलासिकानर्तनरंगं तुंगं सिमासनमारोह । आरुह्य च सामंतनरपतिमूर्धावतंसितसुममालाप्रसृतमधूलीधुनीपालोमरालीकृतचरणयुगलः नरपतिरराजत।
इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशारद, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, राष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूग्नाल्वडिकृष्णभूपसुवर्णपदक-साहित्यपरिषद्रजतपदकसमलङ्कत–जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां
चतुर्थलहरी सम्पूर्णा ॥
J-21