________________
॥ पञ्चमलहरी ॥
तदनु सा विधृतनरपतिवेषा जयंतिका त्वखिलविटपिपटलपरिगतमुरुगजरिपुमुखमृगगणसमुपजनितभय - मचिरकरिकलभविलुलित किसलयकुसुमनिचयपरिमलबहुल - मतिचटुलकुपितकपिकुलकलहचलितविटपिविटपशिखरदलनिवहरवमुखरित - मतिरुचिरपिककुलकलर वकलितपरिमलबहुलकुसुमविसरपरिसरचरमधुकरनिकरनिनदसुभग - मनुसृतवनचरजनभयचलितहरिणनिचय चरणगतिरयपरिमृदितधरणितलनिपतितरविकिरणपरिणतदलरवबहुल - मुलपपिहितकिटिपटलहननकुतुकिमृगयुसमुदय - मतिरयचरचमरमृगगणचरणनिशितखुरहतिविदलितपवनचलितचरमतनु रुहनिवहविस्मर - मृदणुगणशबलित-मचिरवनचरनिहतकुरररवमुखरित-मविरतवनजनमिथुन
निधुवनमथितशिथिलितकचनिचयगलितविकच विविधकुसुमपरिमलवहपवन परिचलितलत - मुरुकरटतटनिकषणजनितसुखद रविवृतवदनकुहरगलितनलकबलगजचरणकलुषिततरुतलपरिसर - मतिमधुरसरिदुदकविहरणपरविविधपतगगणरसितसुभगतर- मनवरतमपिमृगपतिपरुषरवमुखरितगिरिविवरमुरगततिमुखविषपवनमुषितमूषिकं विपिनमुपेत्य वनविहारकैतवेन तत्र तत्र पुत्रमार्यपुत्रं च स्वयमेव तुरगाधिरूढा मृगयति स्म ।
प्रधावितस्य तुरंगमस्य वेगमवलोक्य त्रपयेव त्रयीतनुतुरगेऽपि चरमगिरिसानुतलनिलीने तुरगखुरपुटकुट्टन त्रुटितगिरितटगैरिकधातुक्षोदेखि रंजिते संध्यारागैर्गगनांकणे दरविवृततरुत्वगभ्यंतरेषु विटपिकोटरेषु च नीरवं निलीने च विविधशकुनिसंघाते निद्राविद्राणैः शाखामृगैः नीरंध्रासु तरुशाखासु निबिडकीचकध्वानदंतुरे कांतारे कुंजपुंजमधिशयानेषु भल्लूकेषु परिस्फुरत्स्फुलिंग संकाशखद्योतसमुद्योतिते शाद्वलतले दवदहनज्वालाशंकामापादयत्सु ज्योतिर्लतापटलेषु तारतारझिल्लीरखमुखरितेषु हरिदंतरेषु घूकसंघघोरघूंकाररवशब्दापितेषु गुहाभ्यंतरेषु ससाध्वसमवलोक्य ध्वांतावनद्धं
162