________________
जयन्तिका
सन्निहिता भवती हितैषिणी, चित्रपुरमपि पवित्रयन्ती चरणविन्यासेन मामनुगृह्णातु कृपयेति प्रार्थयामास तां तापसीम् । सा तु तापसी सस्मितं वत्स ! कुमार ! किमेवमभिदधासि ? क राजधानी ? कारण्यानी ? भोगः क्व ? क्व च तपः ? परित्यक्तसर्वविषयायाः नोचितः खलु नगरवासः । कामक्रोधाद्यावासः खलु राजधानी । अकृत्यमपि कारयति तत्रत्यस्सहवासः । अवाच्यमपि वाचयति । अगण्यमपि गण्यतां नयति । अश्राव्यमपि श्रावयति । मानमत्ततामुत्पादयति । अप्रतीक्ष्यमपि प्रतीक्षयति । अविवेकप्रसवित्री खलु राजधानी तावदाशाविवर्धिनी । तदलमनया प्रार्थनया । गच्छतु भवान्पित्रा साकम् । निरंतरमपि धर्मपरो भव प्रजापरिपालनेन । अहमस्मि कानने । यदा च मद्दिदृक्षा तदागच्छतु भवान्मदुपकण्ठम् । मा मनसि चिंता तावदेतदर्थम् । तद्याहोत्यकथयत् ।
1
160
1
तदवकर्ण्य स सुकेशः सविनयं बद्धांजलिपुट: भगवति ! भवत्यास्तपसस्तावन्नैव प्रत्यूहः । तत्र परिजना अपि यथाभिलाषं भवतीमनुसरति । कल्प्यते च भवदर्थं विविक्तो देशः । अयमभिनिवेशेन मामेवं निर्बध्नातोति मनसि न कर्तव्यम् । भवत्सान्निध्यं निरंतरमपि भवत्विति मनीषयाभ्यर्थये । तदनुगृहाण मामनुगमनेनेति प्रणिपपात । वीरकेतुरपि सप्रश्रयं भगवति ! पवित्रय चित्रपुरमपि । मत्पुत्रप्रार्थनामंगीकृत्य तत्र स्थिता च कालानुगुणनीतिबोधनेन सन्मार्गगामिनं करोतु भवती कुमारम् । भवादृशास्तावदंकुशप्रायाः खलु राज्यलक्ष्मीमदोत्कटनृपालमातंगानाम् । निरंतरमपि परोपकारपरायणाः खलु तपोधनाः । तदिदानीमलंकरोतु भगवती भवती शिबिकामिमां इत्यसकृदभ्यर्थयामास । निशम्य तद्वचनं जयंतिकायाः प्रार्थनां च विचार्य मनसि चिरं विचिंत्य च सा तापसी किं कर्तव्यम् ? कथं वर्तितव्यम् ? किमनुष्ठातव्यम् ? बलवती खलु ! भवतां प्रार्थना । निराकर्तुं तां परावर्तते मे मनः । भवतु तथा यथा च नियतेस्संकल्पः । तमन्यधा कर्तुं नाहं समर्था । तदिदानीं प्रस्थितास्मीति निजकंदराभ्यंतरं