________________
चतुर्थलहरी
159 ननु वत्स ! त्वयि तापसवृत्त्या तावदरण्यशरण्ये भवदेकपुत्रस्य मे का गतिः १ राज्यलक्ष्मीरपि निरवलम्बना भविष्यति । परराजवशवर्तिनी च । स्यादेतदखिलमपि; विमृशतु भवानेवाधुना मदोयामिदानींतनी स्थितिम्। पश्य माम्। कापुरुष इव परिस्खलद्वर्णोऽस्मि । जरया तावदहं शिशुभावाविशेषितोऽस्मि। प्रायो जगति जनाः वयसीदृशे सुखलिप्सया किल पुत्रमभिलपंति। वत्स! मामीदृशावस्थं परित्यजतस्तव न तावत्पश्यामि किमपि फलं तपसा। त्यक्तपितृवरिवस्यस्य न किमपि कर्म सिध्यतीति वदंति प्राज्ञाः। तदुत्तिष्ठ। निधेहि धर्म धियम् । धवलयोपार्जितेन यशसा भुवनमण्डलम् । प्रकाशयात्मसंभूतेन पुत्रेणास्मद्वंशम् । आनंदय साधुजनपरिपालनेन प्रजानां मनांसि। तर्पय देवताः क्रतुकर्मणा । मानय गुरुजनानामय विपक्षोत्तमांगानि । ततश्च कृतकृत्यो लब्धवृद्धभावो वृत्तिमिमामेवावाप्स्यसि । गंधर्वनगरमिव प्रतिक्षणं परिणाममुपयाति वयोऽपि । तद्विधिना यदा च यद्विहितं तदा तदवश्यमनुष्ठेयम् । अन्यधा कृतमकृतम्। भवांस्तु क्षत्रकुलोत्पन्नः। तदवश्यमधुना वोढव्यो राज्यभारः । तदिदानी प्राप्ततारुण्यस्य धर्मो हि राज्यपरिपालनम् । नेदं तपः । कुमार! मा तावदुपयातु मोघतां काननचन्द्रिकेव तवेयं रूपसंपत्तिः । मा च वनलताप्रसूनमिव ते यौवनमपि जोर्यतु वने एव। तदेहि वत्सानंदय पौराणां नयनानि नोदय पित्रोरावयोर्वयोविह्वलयोः पुत्रविरहजक्लेशमित्यभ्यर्थयामास।
तदनु वयोवृद्धर्ज्ञानवृद्धैश्च ननु कुमार! माररूपोऽसि। किमनेन तपोनुगुणवेषेण । पितृमनस्संतोषणमेव हि पुत्रकृत्यम्। तदेव तपः । तदेव धर्मः । तदेवावदातं कर्म। तदेव परलोकसाधनम् । तदेव ऋतुः । तदेव यशोमूलं ; यत्पितृमनोरथपूरणम् । तदेहि राज्यावनायेति सचिवैः प्रार्थितस्स सुकेशः बद्धांजलिपुटः ननु भगवति! तपोधने! भवतीमंतरा नाहं कामये राज्यसुखमपि । तदायातुमर्हसि मया साकम् । निरंतरमपि