________________
पञ्चमलहरी
193 जयंतिका तु त:चश्श्रवणमात्रेण विहस्ता सत्वरं पत्रमुद्घाख्य पपाठ। त्यक्त्वा त्वां विपिने कुरंगनयने ! हा! जीवसेनो गतः
चण्डालत्वमुपेत्य जोवित इह त्वलाभकांक्षाबलात् । अध वापि समागतं तव सुतं हत्वा क्षितोशाज्ञया
कासि प्रेयसि । पापकृत्समददां काल्यै ममासूनपि ॥ इत्थमनुवाच्य हा! नाथेत्यतर्कितापतिताशनिहतेव पपात वसुमत्याम् । तादृशावस्थां तां जयंतिकां निशाम्य शोकविक्लबा सा तापसोत्थमचिंतयत्। केयमनर्थपरंपरा ? यदर्थमियन्तं कालं महानुद्यमः कृतः। स एव समूलनाशं नाशितो नियत्या। भस्मनि हुतमिव निष्फलमभवदखिलमपि कर्मजातम् । ध्रुवमियमपि त्यक्ष्यत्येव प्राणान् । किमद्य कर्तव्यम् ? द्रष्टव्यमिदमपि संवृत्तं पापया मया। विविक्ते विपिने मुनिवृत्त्या कालमतिवाहयंत्याः मम केदमापतितम् १ हंत ! विधिविलसितम् ! विचित्रगतिता च कर्मणां विस्मयमुपजनयति । वात्यया गन्धर्वनगरमिव गगनांकणे नियत्या ताव
संसारचक्रे प्रियजननिवहमेकत्र संयोज्य दर्शनीयतामापाद्य च प्रवर्ध्यते हर्षप्रकर्षः । क्षणमिव तदखिलमपि विघटय्य च शोचनीयता कल्प्यते । तदत्र प्रतिविधातुं न कोऽपि शक्नोति। किंतु शुभाशुभकर्मफलमनुभूयैव क्षपयितव्यम् । तदहमपि सिद्धास्मि सर्वमनुभवितुं यद्यदापतिष्यतोति विचिंत्य तस्यास्संज्ञामुदपादयत् ।
सा तु जयंतिका पतिसुतनिधनजनितशोकपावकपच्यमानहृदया मंदमुत्थाय सगद्गदबाष्पं किमनेनेतःपरं गर्हणोयेन पुरुषवेषेणेति मालाबलाइरोकृतपुरुषाकृतिरनपेक्षितशतांगा चरणाभ्यामेव प्रस्थिता किमपि गदितुमप्यनोशया शोकातिरकावनमितवदनया तया तापस्या सह धावंधावं दुर्गालयद्वारमवाप। अवाप्य च तत्र रुधिरधारारंजिततया अरुणकौशेयावगुंठितोपधान इव वध्यशिलातले शयानं समुद्गलदसाविंदु विशालबध्यशिलातलालंबमानदेहार्धमागं निकृन्तनानुपदमेवापरित्यक्तजीवसंपर्कतया
J-25