________________
जयन्तिका
देवेन कथमपि प्रापणीयमिदं पत्र तामिति । एवमभिधाय वत्स ! क्कासि दर्शय ते मुखकमलम् । बाष्पप्लावितेनानेन चक्षुषावलोकयाम्येकवारं पुनर्दुर्लभम् । बाष्पाकुलतया नैव दृश्यसे । क्कासि ? वत्स ! क्कासि ? वत्स ! मामवलम्बस्व । प्रसारितभुजः परिरम्य मामाभाषयेत्यसकृदन् तमादाय बालकं शिरस्याघ्राय हा ! कथमिव हन्मि नृशंसोऽहम । हा ! नियते ! लोकविलक्षणोऽस्मीति विसंज्ञः पपात वसुमत्याम् ।
तदा स बालको बाष्पगद्गदकण्ठो हा! तात ! किमिदमुचितं ते क्षत्रावतंसस्य क्षत्रियाणां शस्त्रघातेनोत्सवो हि प्राणत्यागः । भुवि लब्धजन्मा कदापि केनापि कारणेन त्यजेदेव प्राणान् । तदिह किमर्थमबलावन्मुधा प्रलपसि । क्षिप्रमुत्तिष्ठ । निर्वर्तय नरपतिनियोगम् । इति तं मंदमुत्थाप्य क्षितितलपतितं करवालमादाय च तत्पाणिना बलाद्वाहयामास । तदनु स मातंगस्समुन्नमय्य तं कृपाणं रे ! तिग्मतर पाप ! बाष्पहतक ! कुतो वा मुधा निरुणत्सि मन्नयनसरणिम् । मा कुरु नरपतिशासनस्यांतरायम् । पाप ! पाणिहतक ! कुतो वा वेपमानः पातयसि कृपाणं क्षितितले । निपातय निर्भयं निरनुकम्पं तनयग्रीवायाम् । अयि ! दुर्गे ! निर्गतिकस्य समाश्रितभवच्चरणसरसिजस्य घोरतरदुरितभाजनस्यास्य जनस्य नालमेतेनानुभवेनास्वादितानेकपशुरुधिरधार ! निप ! निस्त्रिंश ! साधु स्वदस्व तनयकंधरारुधिरधाराम् । रे ! जीव सेनहतक ! केवलविडम्बनमेव ते परिदेवनमपि । किं मुधा प्रलपसीत्युचैराक्रन्दन्निपात्य चासिधारया पुत्रकंधरां वसुन्धरायां स्वयमप्यात्मग्रीवायां स्वपाणिनैव पातयामास कृपाण - धाराम् । मातंगनिधनमप्यवलोक्य समुद्विग्नहृदयस्स भटः ससंभ्रमं सावेगं सवेगं समासाद्य च प्रासादं तापसीं प्रति जीवसेनान्वेषणोपायमेव व्याहरत्यै मुहुर्वामेतरेक्षणपरिस्फुरणपिशुनितां निर्निमित्तापशकुन भीतिमपि प्रकाशयत्यै तस्यै जयंतिकायै साध्वसवेपमानगात्रो निवेद्य च मातंगवचनमखिलमपि तन्मरणं च तेन दत्तमिदं पत्रमिति सबाध्यं सविनयं तत्पत्रमर्पयामास ।
192