________________
पञ्चमलहरी
191
पाणिहतकः परावर्तते भवन्निषूदनात् ! तात ! यदि समवलोकितो भवेन्नरपतिना तदा नैव स्यादोशी दशा ते। वंचितोऽसि दैवेन । कठोरहृदयस्य ममेदं हृदयं विदार्य प्राणा अपि नैव यांति। अंब ! दुर्गे! रक्ष माम्। मातः दुर्गे ! निरपराधिनि निर्गतिके वत्सेऽस्मिन्निरनुक्रोशासि । पाहि कृपयेति विललाप । तदा परस्परमेतयोः परिदेवनमवकर्ण्य तत्रत्येषु मूकेष्विव दुःखभरदम्यमानकण्ठेषु बाष्पदिग्धलोचनेषु परस्परमुखावलोकनप्रकटितदैन्येषु स्तम्भीभूय स्थितेषु स भटो मंदमुपसृत्य शोकगद्गदकण्ठः स्फुरदधरपुटः कंपमानचिबुकः तात ! मातंग ! को वा निवारयेद्भवितव्यताम् । प्रायो जगति नष्टाधिकारं भ्रष्टश्रीकं कृतोपकारमपि साधुशीलमपि सत्कुलीनमपि मानवं नैव मानयंति जनाः । को वा निवेदयेद्धृतधैर्यो राज्ञे भवदुदन्तमखिलमपि। भृत्यानां अस्मादृशां नैव तादृशी धृष्टता। किं कुर्मः ? कथं कथयामः ? भवद्दशां द्रष्टुमपि वयं न पारयामः । किमनेन परिदेवनेन निष्फलेन । राजाज्ञा तावद्भवताप्यस्माभिरपि अवश्यं निर्वर्तनीया। तन्नैव पश्यामि कालविलंबनेन किमपि प्रयोजनम् । किं च मयापि क्षिप्रमावेदनोयं देवादेशो निर्वर्तित इति राज्ञे। तदविलंबितमाचर कर्तव्यं कर्मेति सबाष्पमब्रवीत् ।
__भटवचनमवकर्ण्य स मातंगः तात! सत्यमभिहितं भवता। कोऽहं प्रभुनियोगमन्यधा कर्तुम् । प्रभुणा संकल्पितो भवेद्वालकबलिः । भृत्यकृत्यं हि स्वामिसङ्कल्पनिर्वहणम् । तत्क्षमस्व मत्कृतं कालविलम्बनरूपमागः । पापीयानह निस्त्रिंशधाराक्रूरतामाश्रित्य हन्मि कुमारं ममात्मजम् । कित्विदमेकमभ्यर्थये । दास्यते च दासेन पत्रमेकम् । तत्समर्पय राज्ञे कृपयेत्यभिधाय रुधिरसिक्तेन च्छुरिकाशिखरेण किमपि विलिख्य पत्रमेकं भटहस्ते निक्षिप्य च दुःखभरग्रस्ताक्षरः क्षरदश्रुधारापरिबाधमानाधरपुटः कृतांजलिः तात ! समर्प्य च राज्ञे पत्रमिदं समावेदय दीनस्य प्रार्थनाम् । यदि भवेत्कापि धृतप्राणा सा मस्विनी मंदभागधेया जयंतिका दयालुना