________________
जयन्तिका
तदनु जीवनकृते जिगमिषुः पुराभ्यन्तरं प्रियाविरहदहनक्वाथ्यमानहृदयोऽपि निरनुक्रोश इवागच्छन्गोपुरपार्श्ववर्तिनममंदानंदभरितो व्यलोकयममुं दुर्गालयम् । हन्त ! मे निगोर्णमिव क्षुधा क्वापि लीनं गांभीर्यम् । दग्धेव शोकानलेन क्वाप्यंतर्हिता वदनकांतिः । अनुगतं रूपमपि दुर्दशाभिभूतमिव क्वापि गतम् । अहो ! विधिविलसितम् । अहं तावत्क्षुत्पीडासहिष्णुतया ध्वांक्ष इव निहतक्षितित लपतितपशुपिशितच्छेदमन्विष्यनौदरिक इव दुर्गायै भक्तानीतं तंडुलपिष्टपिंडं याचमानः दूरीभूतमानः कथंकथमपि दैन्येन प्रशमयन्बुभुक्षां क्षामांगकोऽनधिगतकार्यांतरतया विरूपशरीरतया दारिद्रयानुगुणवेषतया निर्विण्णहृदयतयोन्मत्तानुरूपस्थितितया च विस्मृत्य पुराभ्यन्तरप्रवेशाभिलाषमनवरतमप्येतदालय पार्श्ववर्तिनि शिलापीठे निषण्णो दुःखेनैकाकी चिंतयन्नात्मनश्चक्रवर्तित्वमधीनानंतसामंतनरपतिकृता नर्घो पायनरत्नसमर्पणं मखप्रियप्रोत्साहनं चण्डदंष्ट्रयातुधाननिबर्हणं गन्धर्वपतिमुखावकर्णितात्मापदानं जयंतिकाप्राप्तिमिदानींतनीं स्थितिं च निरंतरनिपतदश्रुधारास्नापितशरीरः रात्रंदिवमपि निर्निद्रः दूरीकृतस्नानः कथंकथमप्यत्यवाहयं दुःखमयानि कतिचिद्दिनानि ।
190
अथ कश्चन लब्धाधिकारः पुरुषः परुषतरां मद्दशामवलोक्य विधिचोदिततया वा एवं भवितव्यतया वानुकंपितस्वांतो रिरक्षया न्ययूयुजदेनं दीनं मां सज्जनगर्हिते दुरितानामाकरे कठोरतरे तावदस्मिन्कर्मणि । तत्रत्यैरहं मातंगनाम्ना समाहूतः पुरहूतपदमिदमेव मन्वानः नियतिनियोगस्यानतिक्रमणीयतया कठोरमपि गर्हितमपि अकृत्यमपि समुद्वेजित - मपि दुरितावहमपि शास्त्रनिषिद्धमपि नृशंसैकयोग्यमपीदं कर्म समाचरन् " जीवन्भद्राणि पश्यति " इति समनुचिंत्यापरित्यक्तप्राणः शुभोदर्कं तर्कयन्नंतर्निरुद्धशोकावेगः वसामि। वत्स ! वसाबहुले क्षितितले मम तावद्धृतप्राणस्येदमेव सुदिनं हि ! यच्चिरादतर्कितोपनतं पुत्रमुग्धमुखपुंडरीकदर्शनं इत्यकथयत् । एवमात्मोदंतमभिधाय वत्स ! किमद्य करोमि ? मम