________________
90
जयन्तिका
कुरुकुलसम्बन्धः । तथापि पृथायाश्शीलमतिगर्हणीयं हि ! यदपुष्पवत्यपि संगम्य नीरदनेन तपनेन निघृणा स्पृहणीयं तत्याजोपहरे निजापत्यम् । देवतास्वेव कर्कशमीदृशं दृश्यते कर्म । किमु वक्तव्यं मानवेषु ? मेनकापि कामयमाना त्यक्ताभिमाना तपश्चरता विश्वामित्रेण संगम्य समुत्पादितां कांततरकुंतलां शकुंतलां निजवत्सां काप्युत्ससर्ज । धिग्दौर्जन्यं जन्मिनाम् । ईदृशाय जनाय दीयते दैवेनापत्यम् । इति बहुधा विचिंत्य नितांतानुतापतांतस्वांतस्त्वामादाय दयया सदनमासाद्य च सद्यः पयसा पार्श्वपक्कणानीतेन भवदशनायामशमयम् । वत्से ! कृच्छादेतावन्तं कालं तावदेवमेव वर्धितासीत्यकथयत् ।
अथ व्यतीतेषु कतिपयेषु मासेषु कदाचिज्जरत्तरो धमनो व्याधिजझरितशरीरस्संतापपरितप्यमानोऽपि पार्श्ववर्तिनी मां वात्सल्यातिरेकेण बाष्पजलकलुषितक्षीणवीक्षणो विलोकयन्वेपमानेन कीकसमायण पाणिना सकृदंबेति परामृशन् मय्युपरते निर्जने वने कथमेकाकिनी निवससि ? कुत्र गच्छसि ? क भुंक्षे ? कथमनाथामीदृशीं बालां भवतीमेकाकिनी विहाय त्यजेयं प्राणान् इति । दुःखभरदम्यमानकण्ठो रुदन्नस्फुटाक्षरं व्याहरंस्तारतरनिश्वासपरंपरया समममुञ्चदश्रुधाराम् । तदनु सवितरि कष्टमस्य शिष्टोत्तमस्य द्रष्टुमसमर्थ इव विसृष्टघृष्टाववष्टंभितपाटलिग्नि अधितिष्ठति चरमगिरिशिखरं सत्वरमेवास्तमेति गभस्तिमालीति तज्जठरजिगमिषयव सत्वरं निर्जगाम धमनाजीवः । अहं पुनर्बालभावेन गतप्राणमपि तमुपरतमजानन्ती निद्राति किं ? किमथवा ध्यायति भगवन्तमिति चिंतयन्ती समुपेत्य च तत्समीपं निर्वर्ण्य च मुखविकृति संचाल्य च निभृतशरीरं आशीर्षादापादतलं चलन्ती तनुमवलोक्य सगद्गदबाष्पं ताततातेत्यसकृदाहूयमानमपि अदत्तप्रतिवचनं किंचिदर्धमीलितलोचनं स्तोकमिव विवृतवदनं धमनमपश्यम् । दृष्ट्वा चेतिकर्तव्यतामूढा गाढांधकारजठरप्रविष्टेव भयजसरितहृदया दुःखभरदम्यमानकंठी सगद्दं परिदेवनैकशरण्या मुहुररण्यानीमभितः