________________
तृतीयलहरी
89
अथैकदा तूञ्छवृत्त्या आत्मानं मां च पोषयन्तं तं धमनमपृच्छम् । तात! क मे जननीति । पृष्टश्च स धमन एवमवोचत् । वत्से ! दुर्गततया मत्वा च द्वितीयाश्रममाश्रममाश्रितप्रथमाश्रम एव निरंतरमुञ्छवृत्त्या भृतजठरपिठरोऽहमेकाकी कालमत्यवाहयमिति । पुनरपि नितांतचिंताकुलांतःकरणया मया तात ! कथं मे जनिरिति परिपृष्टस्स धमनः सानुतापमकथयत् । वत्से ! कदाचिदहं समिदाहरणायारण्ये पर्यटन्माकंदगुमवृन्दमध्यवर्तिनः कस्यचित्कोकिलालापवाचालितस्य रसालस्य चञ्चरीकचयचरणपातनिपातितैर्बालकलानिधिशंकया परितः परिगतैनक्षत्रैरिव कुसुमनिकरैरतिरमणीयं स्यन्दमानमरंदबिदुसंदोहबन्धुरैः पत्रवातैर्दैतुरं कुलगुच्छविच्छुरितप्रांतं मधुकरनिकरमधुररुतमुखरितं मूलतलमधिशयानमरुणतरशरीरतया निपतितचूतकिसलयशंकामुपजनयन्तं सक्कतलनिपातितदर्भपल्लवकबलैस्सहुंकारमाघ्राणतत्परैः कुरंगनिकुरुंबैः परिवृतं कूजत्कोकिलालापकलरवं रुदन्तं चञ्चलकोमलारुणकरचरणकिसलयं सद्योजातमिव भासमानं शिशुं त्वां नातिदूरादपश्यम् ।
दृष्ट्वा च सावेगं मनस्येवमचिंतयम् । हन्त ! दृश्यते हि शिशुरयमचिरप्रसूत इव । बत ! कया वा स्यादीदृशमतिदारुणं कर्म कृतम् । जगत्यपत्यप्राप्तये शरीरमपि तृणाय मन्यमानाः स्वाभिमतमशनमपि परित्यजन्तः कति तैकरताः ? कति वा पवित्रक्षेत्रतीर्थयात्रापरतंत्राः ? कति च चिरसंचितद्रविणगणवितरणपराः ? देवतासपर्यापर्युत्सुकमानसाश्च कति ? नतेभ्यो न तेभ्यो ददाति नियतिः कदापि शिशुम् । ईदृशानां नृशंसानामेवापत्यसंपत्तिः। अथवा किमनेन विप्रतीसारेणासारे संसारेऽस्मिन्नेवंप्राया ह्यपत्योत्पत्तिः । तथा हि-दुर्गतास्समधिगतानेकतोकाः क्लिश्नन्ति तत्पोषणाय । विश्वस्ता अपि पूर्णतारुण्यपण्याः रहसि कृतेत्वरीचर्याः निजसाधुचारित्र्यप्रकटनाय लब्धमपि मुग्धं निजापत्यं परित्यजन्ति । हत ! स्त्रीणां चपलता निर्मर्यादा निर्निवार्या च । क भोजकुलं ? कवा
J-12