________________
48
जयन्तिका
दृष्ट्वा च मनस्येवमचिंतयत् । किमिदमदृष्टपूर्वम् ! नहि जगति कोऽपि प्रतिभटो मे; कथमिदमाविर्भूतं कुत्र वा संचितमियत् ? केन वा प्रोत्साह्य प्रेषितम् ? कथमियतस्संघीभूतस्य भूतगणस्य भारमुदहति विश्वंभरा ? महदिदमाश्चर्यम् ! यदतर्कितोपनतं शलभबृन्दमिव सैन्यमिदम्। अस्मद्विभीषिकया विधिना परिकल्पितं किमिदमिंद्रजालम् ? आहोखित्वानिकप्रपञ्चः ? कथमवधारयेयं कस्मै कथयेयम् । कथं वा कालयेयमेतदिति सुचिरं विचिंत्य समुद्विग्नहृदयस्ससंभ्रमं विलोक्य पार्श्ववर्तिनं हेमांगदनामानं कंचुकिनं मद्वचनादाहूयतां मलयवातनामा सेनापतिरित्यादिदेश ।
आज्ञप्तश्च हेमांगदो द्रुततरं प्रस्थाय तं मलयवातमानिनाय वृषस्कंधसकाशम् । ततश्च तस्मिन्मलयवाते प्रणिपत्य सविनयं समाज्ञापयतु देव इति निवेद्य नातिदूरवर्तिनि स वृषस्कंधस्सेनापते! अपि नाम दृष्टं बलमिदं भवता; पश्य तावत्परबलमाश्रित्य मदधीनास्सर्वेऽपि प्रतिकूलतां प्रकाशयन्ति । इतः पश्य यश्च सौधद्वारि मद्दर्शनावसरमनुपालयन्मदाज्ञामेव कुसुममालामिव समूह्य शिरसा प्रागपश्यन्मां स कुलूताधिपस्सखड्गस्तुरगाधिरूढस्ततइतः पर्यटति । यश्च प्रस्मरपरिमलपरिकल्पितघ्राणतर्पणमपहसितसंध्यारागरामणीयकं कुंकुमकेसरसंभारं दूर्वासंभारमिव विनयावनतमौलिरुपायनीकृतवान्सोऽपि काश्मीरधराधिपस्सेनां क्रमशस्स्थापयति । इतः पश्य ; यश्च सत्कुलीनं मणिवरविभूषितसर्वांगं तुरंगमनिकुरुंबं उपग्राह्यमकल्पयत् ; सोऽपि सिंधुपतिर्मगधाधिपति प्रति किमपि सल्लपन्विहसति । यश्व रसितानुमेयगंधलुब्धचञ्चरीकसञ्चयं शातकुंभकुंभसंभृतमानीय घनतरमृगमदमर्पयांबभूव सोऽपि नेपालभूपालः कोसलेशशतांगाधिरोहिणीफलकतलविनिहितवामचरणो धरातलविन्यस्तदक्षिणांघ्रिश्वावस्करन्यस्तहस्तयुगलस्तत्कणे किमपि जल्पति ! यश्च प्रह्वभावेन धवलातपत्रतपनीयदंडं जग्राह करयुगलेन स मलयालनृपालस्तूदंडकोदंडदंडं दधाति । यौ तु पार्श्वयोरकुरुतां करे चामरं तौ च कुरुकेरलनरपालौ पुरतः कुरुतस्तोमरम् ।