________________
द्वितीयलहरी यश्च वन्दीवोन्नमितबाहुदण्डो नुतिशतैरभ्यनंदयच्छ्रवणयुगलं सोऽपि कोसलपतिरिंशजानैः क्लेशयति श्रवणविवरम् । क्वापि प्रस्थिते मयि विनयविनतपूर्वकायः पुरःप्रसारितपाणिर्यस्तु मार्गदर्शी बभूव सोऽपि बर्बरपतिस्तावदिदानी मार्गणदर्शी वर्तते इति प्रसारितभुजदण्डो निर्दिश्यांगुलिशिखरेण तवत्यान्नरपतीन्प्रदर्य च किंचिदिव विचित्य दीर्घमुष्णं च निश्वस्य हेमांगदमादिदेश ; क्षिप्रमानीयतां मद्वचनान्मरुन्मालनामा सचिववर इति। ____ हेमांगदस्तु प्रासादशिखरादवरुह्य सत्वरं सचिववरं मरुन्मालमानिनाय । आगते च तस्मिन्मरुन्माले स्वस्ति भवत इत्यभिधाय समुपविशति च समुचित विष्टरे सोऽपि वृषस्कंधः परिगृहीतासनः सचिववराप्यवलोकिता भवता भयजननी वाहिनी । वर्षादिवसविगंभितनवघनौघनिभा इमाः कति ? सुपर्वसार्वभौमाखर्वगर्वसर्वकषवीर्या गन्धर्वाः कति ? कति वाकुंठितविज़ंभमाणप्रत्यर्थिविजयमनोरथा रथाः ? प्रकटितपरपराक्रमणनिपुणरूपाः नृपाः कति ? निजास्त्रमथितपरवरूथिनीस्रावितास्रास्साहलाः कति ? समरोद्भटाः भटाश्च कति ? द्रष्टुमपि गदितुमपि श्रोतुमप्यशक्यम् । सम्यगवलोक्यताम् ? किमद्य कुर्म इत्यब्रवीत् ।।
निशम्य च वृषस्कन्धभाषितं कूपरोपधानतलविनिहितात्मभारस्स्तोकमिवोत्थायासनान्मरुन्मालो विवलितकंधरस्समवलोक्य बलमपरिमितं मनस्येवमचिंतयत् । चिरात्पापमेनं निहंतुकामेन प्रयत्नपरेण मया तावदवकर्णितं परितः परिचोदितप्रणिधिमुखाद्विमतकसरिणस्तनयो विनयोज्वलो वरमालिनी जठरसंभवश्वारुवक्त्रनामा तपोबललब्धशरासनतूणीरो जगदखिलमपि वितनोति वशमिति । अस्मत्स्वामिनो विमतकेसरिणो मरणमारभ्य नाशयितुमेनं दुरात्मानं नृशंसं बहुधा चिंतयतापि न मया समुपलब्धः कोऽपि पन्थाः । दिष्ट्या समुपनतः कालोऽयम् । हतायमेव स्यात्स चारुवक्त्रः जेताप्यतेषां । तदधुनैव विधाय पापर्मनं प्रकुपितं समीकदवपावकशिलीमुखशिखावलि: कावलीढं शलभमिव कारयामि । नश्यतु पापीयानिति विचिंत्य च
J-7