________________
जयन्तिका
तस्मिन्नेव विष्टरे जोषंभावमाश्रित्यावनमितमुखो निरुत्तरस्समुपाविशत् ।
समुपविशति च तस्मिन्स वृषस्कन्धः किं वा चिन्तितम् १ किमिदानीमपि शक्यं जेतुमेतद्बलम् ? किमद्य कर्तव्यम् ? मदधीनास्सर्वेऽपि राजानस्संघीभूय निजबलपरिगतास्तत्र तिष्ठन्ति । को वा स्यादेतेषां जेतेत्यप्राक्षीत् । पृष्टश्च स सचिववरस्सवितर्क देव ! चिन्तितमिदानीम् । बलमिदमदृष्टपूर्वमश्रुतपूर्वञ्च । कतिपयबलपरिगतैरशक्यमस्माभिर्जेतुम् । यतश्चास्मदधीनास्सर्वे तत्पक्ष्यास्संवृत्ताः । तत्संप्रति समाश्रयणीया वैतसी वृत्तिरेव । कथयाम्यहमर्थशास्त्रमनुरुध्य । न पुनर्विपक्षपक्षपातेन । तर्कयतु भवानपि शुभोदर्कम् । सन्धिमन्तरा नान्यमुपायं पश्यामि । जानीहि तावदिदानीं विग्रहाकरणं भवद्विग्रहपोषणमिति । सैकतसेतुना वाहिनी - वेगनिरोध इव भवदल्पबलेनास्या वाहिन्या वेगनिरोधः । तदधुना तावन्मा नमय धनुः ; किन्तु शिरः । मा च प्रेषय शरम् ; किन्तु करम । हितमुच्यते मया ; न तु प्रियमित्यकथयत् ।
50
श्रुत्वा च सचिववचनमतिपरुषं रुषा स तु वृषस्कन्धो भ्रुकुटितभ्रूलतो रेखावलितरङ्गितललाटः पावकज्वालामिव वमद्भयां रुधिरच्छटामिव संकिरद्भयां विरूपाक्षरूक्षतरतृतीयनयनमिव विडम्बयच्यां परिघूर्णिततया तटिलतामिवानुकुर्वच्यां पिङ्गलाभ्यां लोचनाभ्यां प्रकम्पिताखिलपरिजनहृदयो दीर्घदीर्घ सर्प इव निश्वसन्परिस्फुरदधरोष्ठपुटः स्खलदक्षग्गणः, तिष्ठ तावत् ; अलं विकत्थनेन । न वयं परमपुरुषस्य मन्दस्मित स्पृहणीयान्मुखकमलाल्लब्धजन्मानः । किन्तु दुर्दान्तदानवदर्पदमनदक्षादोर्दण्डात् । न निमन्त्रणस्थानमिदम् । किन्तु नियन्त्रणस्थानम् । न वयमाज्याकर्षणनिपुणाः । किन्तु ज्याकर्षणनिपुणाः । नापि पुस्तकहस्ता वयम् । किन्तु लस्तकहस्ताः । न वयमक्षगणनासक्ताः । किन्तु अक्षहननासक्ताः । न तावद्वयं मन्दहासवशीकृतविपक्षाः । अपि तु चन्द्रहासवशीकृतविपक्षाः ।