________________
जयन्तिका
इतस्तावद्वैजयन्त्यां मरुन्मालस्सचिववरः साचिव्यसमुचितालंकारालंकृतः मलयवातेन समं समुपविश्य स्यंदने निजबलानुगम्यमानः काभिश्विद्विविधविचित्राभरणभरितभासुरशातकुंभभाजनविराजमानपाणिपल्लवाभिः काभिश्चिन्नरपतिभोग्यगुंभितमनोहरसुमनोहारसौरभभरसन्निहितचञ्चरोकचयशंकार - मुखरितपत्रभङ्ग-तरंग कमनीयतपनीयसम्पुटकमुखव लयप्रोतकूर्पराभिः काभिश्चित्सितदूर्वासितकुसुमकलित लाजपुंजधवलितकलधौतपात्रांचितकर किसलयाभिः काभिश्चित्सुवर्णतन्तुसन्ततिकल्पितविचित्रपत्रभंग भासुरपर्यंतैरनेकधा पुनरुक्तीकृतैः विविधवर्णदर्शनीयैः कौशेयैरलंकृतशयकुशेशयाभिः काभिश्चित्कनककलशोदरतलविनिहितकरकमलतया बहिः प्रकटिताभ्यंतरविनिहितपल्लवैखि विशदतरकुसुमावेष्टितकण्ठैरेलाकुंकुमघनसारपटीरादिद्रव्यदिव्यसौरभसम्भृतांभः पूर्णैः नारिकेरफलपिहितमुखविवरैश्शातकुंभकुम्भैः परिमंडितोरुतलाभिः काभिश्चिन्मलयजरस भरितकांचनचषकग्रहणव्यग्र कर किसलयाभिः परिघृतधवलकोमलकौशेयाभिः तुंगपयोधरकुंभतटडोलायमानमौक्तिकमालाभिः लावण्यस्पृहणीयकोमलतनुयष्टिभिः मंगलमयीभिरिवोत्सव वैजयन्तीभिरिव चारुवक्त्रवक्त्रदर्शनकुतूहलालिंगितांतरंगाभिः वारसुन्दरीभिः विराजमानाभ्यंतरैः कतिपयैश्शतांगैः परिष्कृतोभयपार्श्वः यन्त्रविकीर्णार्णश्शीकरनिकरसिक्तेन स्तोकमिव वामकूर्परसंदंशितक्षितितललम्बमाननीवीकलापाभिः अवनमितपूर्वकायतया स्कंधतलादापयोधरमण्डलं लंबमानां कृष्णभुजगभोगमसृणदीर्घा पिंडीकृत प्रसूनमालामंडितमूलां वेणीं दक्षिणभुजादसकृच्चरमांगदेशं प्रति नुदन्तीभिः कौशेयमयतयासकृत्स्रस्तमुद्गमनीयं मुहुर्डोलायमानविचित्रतररत्नहारमंडलमंडितं वक्षोजमंडलं नयन्तीभिः वामहस्ततलविन्यस्तरंगवल्ली भाजनाभिस्ततइतः परिस्पन्दनेन रणरणायमाननूपुरगणपरिष्कृतचरण पंकजाभिस्सावधानं धरातलदत्तनिस्तरलायतनयनेन्दीवराभिर्दक्षिणपाणिपुंडरीकदलाग्र क्रियमाण धवल मृत्तिका क्षोदरेखा राजितया प्रसृमरकरनखररुचिरकिरणैरेव विरचयन्तीभिरिव रंगवल्लीमात्मनैपुण्यप्रकट
64