________________
द्वितीयलहरी
65
नव्यग्राभिः पौरसुन्दरीभिः विचित्रपत्रमङ्गभङ्गभङ्गया रंगवल्ल्या समलंक्रियमाणेन, विस्रंसितानां स्कंधावाराणां दारुसंभारपटपटलरज्जुजालजटिलानि वस्तुन्यवशिष्टहरिमंथकादिधान्याशन्याः गोणीश्च समहद्भिः क्रमेलकैर्दैतुरेण प्रागेव चारुवक्त्रदिदृक्षया सकौतुकं संघशः समागतान्पौराक्रमशः स्थापयितुं तत्रतत्र सादिभिः प्रधाव्यमानानां सैंधवानां खुरपुटरवमुखरितेनोभयपाक्षितितलनिखातोच्चतर सिंधूरसुधापट्टशबलितस्तंभपंक्ति घटितपताकादण्डनिकटनिबद्धरसालपल्लवतोरणपरंपरावितानितेन दीर्घतरेण राजमार्गेण प्रस्थितश्चारुवक्त्रपटसदनमाससाद ।
आसाद्य च कुत्र युवराज इति पृष्टैः परिजनैरितइत इति प्रदर्श्यमानमार्गो मरुन्मालो द्वारदेश एवं शतांगादवतीर्य रथेभ्योऽवतीर्णाभिर्वारांगनाभिस्समं पुरस्कृतमलयवातः प्राविशत्पटमंदिराभ्यंतरम् । प्रविश्य च निषण्णं चामीकरविष्टरे चिरकृतस्नानविधि परिजनविशोध्यमानजटाजटिलपाटलकुटिलशिरोरुहं विशदांशुकावगुंठितशरीरं दुग्धाब्धिकल्लोलच्छटाविच्छुरितमिव मन्दरं सौन्दर्यराशिमिव पुरुषतामापन्नं तं चारुवक्त्रमद्राक्षीत् । दृष्ट्वा चोन्मीलितलोचनपुटे विस्मयस्तिमितमानसे तस्मिन्मरुन्माले नातिदूर इव स्थित्वा अहो ! सौन्दर्यमहो ! सौकुमार्यम् । हन्त ! कोमलता ! बत! लावण्यम् । अद्भुततरं गांभीर्यम् । सद्यस्सूर्यमरीचिविकसितनवसहस्रपत्रपत्रविशालं नयनमस्य पिशुनयति चक्रवर्तितां ; धन्या खलु राज्यलक्ष्मीः ; यतस्सततमपि सेवते कुमारमेनं वल्लभम् । हन्त ! रूपमस्य विलोडयति पुरुषाणां च हृदयं किमुत स्त्रीणां? दर्शनादस्य मुह्यति मे मनः । जहाति लोचनं निमेषस्पंदनम् । यदि पश्येयुः ललनाः सशरीरं मन्मथमिव एनमनुपदमेव मुह्येयुरुन्मत्ता भवेयुः। हंत ! विमतकेसरी तावदीदृशं पुत्रमनवलोक्यैव कालवशं गतः । वयमेव सुकृतिनः। धन्या वरमालिनी। समधिगतभाग्याः प्रजाः। यतः प्राप्तवान्दिष्टया स्वकीयं राज्यं सोऽयमिति चिंतयति सति, स्तोकमिव मलयवातः चारुवक्त्रमुपसृत्य बद्धांजलिपुट
J-9