________________
66
जयन्तिका स्सविनयं देव ! देवैः भवत्तातपादैः मंत्रिपदे अभिषिक्तोऽयममात्यवरो द्विजोत्तमो मरुन्मालनामा भवदिक्षया भवत्सन्निधिमायात इति विज्ञाप्य विरराम ।
तत्क्षणमेवोत्थाय चासनात्सविनयं विमतकेसरितनयश्वारुवक्त्रः प्रणमतीति प्रणिपतंतं तं कुमारमुत्थाप्य दोभ्यां मरुन्मालो विजृभमाणवात्सल्यसमाश्लिष्टांतरंगतया इतिकर्तव्यतामूढो भद्र ! तात! कुमार ! चारुवक्त्रेयनुलपन् परिरभ्य दृढतरं शिरस्याघ्राय च अमन्दानन्दकन्दलितबाप्पप्रक्षालिततत्केशपाशः परामृशन्नसकृत्तदुत्तमांगं गद्गददम्यमानस्खलदक्षरैर्भाषितैः कुमार ! दिष्ट्या वर्धसे । नैव विमतकेसरिवंशकरीरोऽपि इति निश्चित्य दुःखितस्य मम मानसं तस्माद्यत्त्वमेको जात इति तदेवानंदयति । तत्रापि यद्वाल्ये एव विजितनिखिलभूमण्डलोऽसीति तदधिकतरमाह्लादमुत्पादयति । तत्रापि यद्रूपौदार्यादिसद्गुणानां विधात्रा पात्रीकृतः इति तत्तु तरणाचार्य इव नितरां प्रमोदपयोनिधौ मज्जयति प्लावयति चेति निगदन्सबाष्पं कुमार ! भवत्पितुराभरणजालमिदम् ; राजयोग्यमंशुकमिदम् ; माल्यमिदममूल्यम् ; भवता तावदेतदखिलमपि अंगीकरणीयं इत्यभिधाय विरराम ।
ततश्च स चारुवक्त्रो निर्वाभरणजालमश्रुकलुषितलोचनोऽन्तविलसन्मकर इव पद्माकरः क्षणमिवावनतमुखः स्थित्वा त्रपया किंचिदवनमितमुखपंकजाभिः कृतमंदहासतया स्तोकमिवोन्नमितकोमलारुणकपोलफलकाभिः अपांगवीक्षणेनैव कर्णमूलावतंसितनीलोत्पलाभिः पाणिपल्लवकृतोज्ज्वलपूर्णकुम्भविलसन्निजप्रतिबिंबकैतवेनात्मानमिवाऽर्पयन्तीभिः वारनारीभिः पुरः प्रसारितान् सुवर्णपूर्णकुम्भान्स्पृष्ट्वा पाणिभ्यां परिजनसमुपनीते समुपविश्य च तपनीयपीठे मरुन्मालमप्यन्यस्मिन्पीठे समुपवेश्य च तन्मुखसौन्दर्यावलोकनांतर्जातमनोभवद्रुमपल्लवाभिरिव सविभ्रमं परस्परसखीजनमुखावलोकनजनितलज्जारुणवदनारविंदाभिः क्षौमाच्छादनेन