________________
द्वितीयलहरी
____67
तत्सुकुमारशरीरस्पर्शकन्दलितपुलकनिकरानसकृदपवारयन्तीभिः कपोलफलकोद्वमत्स्वेदकणिकाश्चेलांचलेनाभीक्ष्णमपनयन्तीभिस्स्मरपराधीनाभिः कृच्छ्रेण मिया च स्वायत्तीकृतहृदयाभिः सावधानमलंकुर्वतीभिस्ताभिर्वारसुन्दरीभिः समलंकृतो राज्यलक्ष्मीपाणिग्रहणायावतीर्णः पुंडरीकाक्ष इवाराजत।
मरुन्मालस्तु कुमार ! क ते तपखिनी जननी । या च निलिंपधुनीव वनाध्वनीना पावनीकृतवनीतटावनी रत्नगर्भव भूपालपालिता निजोदरधृतनायकरत्ना च कुंतीव पतिविरहासहिष्णुतया परित्यक्तराज्यसुखा, धर्मपथानुगार्जुनभीमव्रतैकताना च । बलवती मे तदिदृक्षेति पप्रच्छ । पृष्टश्च विसृष्टविष्टरश्चारुवक्त्रः प्रविश्य मरुन्मालेन समं मातृपटकुटीरं कृतप्रणामोऽम्ब ! अस्मत्कुलयोगक्षेमदत्तदृष्टिरमात्यवरिष्ठो भवद्दिदृक्षयायातः इत्यवदत् । वरमालिनी मरुन्मालमालोक्य लोचनयुगलगलदमिताश्रुसलिलक्षालितकपोलफलका किमपि किमपि गदितुकामापि दुःखभरनिरुद्धाक्षरा विलापमेव सल्लापपदे समभिषिचंती प्रणिपातमात्रदर्शितादरा धरातलदत्तदृष्टिः तस्थौ।
मरुन्मालस्तावदेनामीदृशी निरीक्ष्य शोकभराभिभूतोऽप्यपरित्यक्तपुरुषस्वभावो दमितामितदुःखतया कंठतलदम्यमानाक्षरः कथं कथमप्यम्ब ! यद्यपि वाचाप्यवर्णनीयं दुःखमनुभूतवती भवती । तथाप्यधुना अभिधीयमानमवधारय मदीयं वचनम् । इह जगति लब्धजन्मा कोऽपि निरंतरं सुखपरंपरां नैवानुभवति । किंचानुभूयमानं तदपि दुःखसंवलितमेव । यदिह निरंतरं चिरंतनसुकृतविशेषाद्विषयबृन्दमनुभवति कोऽपि सुखमिति धिया कृतामितसुकृतः कृती निरतिशयशर्मनिवेशं सौदामनीसमानतनुकांतिभिस्सुरकांताभिः कांततरं त्रिदशालयमितः प्रयातो वाचामगोचरं दिव्यमनुभवन्नपि विषयसुखं क्षीणपुण्योऽहं पुनरपि प्रवेक्ष्यामि मर्त्यलोकमेव इंतेति चिंतयन्निरंतरं ततोऽप्युत्तममदृष्टचरं विषयव्रातमितरानु