________________
जयन्तिका
भूयमानं निर्वर्ण्य निर्निवार्यमात्सर्यविशीर्यमाणहृदयश्च दुःखेनैवानुभुङ्क्ते स्वर्गसुखमपि । तदनवरतमपि स एव सुखी ; यश्च प्रशांतमनाः मनागप्यस्पृष्टान्य शुभद्वेषदोषस्त्रिविष्टपमपि तृणाय मन्यमानो लब्धतुष्टिर्विष्टरश्रवःप्रकृष्टपदपंकेरुहविनिहितस्वांतः कालयापनपरो वरीवर्ति । तदिदानीं दृगासेचकसौन्दर्यं निराकृतशंबरारिसौन्दर्यवैभवं वसुंधराधिपबृंद वंद्यमानचरणारविंदं प्राज्यराज्यलक्ष्मी प्रणयपात्रं पुत्रमवलोकयंत्यतीतामखिलामपि विस्मृत्य क्लेशपरंपरां कुमारशुभोदर्काशंसनपरा भवतु भवतीति न्यवेदयत् ।
तदनु चारुवक्त्रोऽप्यंब ! स शठो वृषस्कंधः प्रदीप इव स्वप्रकाशमेवाशंसमानः स्वप्रभया सकलजननयनमावर्जयन्प्रपूर्ण स्नेहमपि क्षपयित्वा स्वाश्रयमपि विनाश्य स्वयमपि क्षयिष्णुरभवत् । तत्किमितोऽतीतवृत्तानुशोचनेन । स्थितिमिदानींतनीं अनुस्मरंती विस्मृतचिरंतनक्लेशपरंपरा भवितुमर्हतीति निवेद्य प्रणिपत्य च निजपटनिकेतनमेव मरुन्मालेन समं प्राविशत् । अथ विभीतकः प्रविश्य विष्टरे निषण्णं हीरमणिखचितमकुटमंडितोत्तमांगतया रोहिणीताराधः प्रदेशगतं सुधांशुमंडलमिव मुखमंडलमुद्वहंतं मृगमदतिलकालंकृतललाटफलकं पट्टबन्धनकृते मानरेखाचिह्नितमिव दधानं हीरकुण्डलप्रकीर्यमाणविविधभासुरवर्णसंकीर्ण किरणगणबंधुरतया समालिखितेन्द्रचापमिव कपोलफलकं बिभ्रतं, मरुन्मालं प्रति किमपि भाषमाणतया प्रसृमराधरकिसलयारुणिमशबलितरदन रुचिभिः वक्षस्स्थलविलसद्गारुत्मतरत्नं शारवर्णमिव कुर्वतं भुजशिखरविराजमानराज्यलक्ष्मीपादांगदाभ्यामिवांगदाभ्यामलंकृतभुजदण्डं कनकमय कवचाश्लिष्टं डोलायमान पृथुलमौक्तिकमालालंकृतं विशालं वक्षस्स्थलमुद्वहन्तं तनुतरनिर्झरपरीतसानुं रत्नसानुमिव प्रत्युप्तमरकतमणिमंजुलवलयालंकृताभ्यां पाणिभ्यां चञ्चरीकपरिगताभ्यां कमलाभ्यामिव विराजमानं भासुरैर्नवरत्न - मयैरंगुलीयकैर्विविधवर्णकुसुमैर्नवपल्लवैरिव पारिजातं समलंकृतांगुलिपल्लवं प्रत्युप्तामलकफलपृथुलामलमुक्ताफलया चतुरश्रेणानत्यायतेनेंद्रनीलफलंकेन
68