________________
जयन्तिका
मप्रतीकाशे क्वचिद्विटपिसञ्चयच्छदसंच्छादिततयांतरांतरा प्रसृतचन्द्रातपतया चवित्रस्थासकनिचित इव क्वचिन्निपतत्प्रालेयपृषदार्द्रीकृतशादपटलतयातिशीतलतले क्वचिदमितसितसिकताप्रायतया कृच्छ्रसंचारतले क्वचिच्छर्करा - चिततया दुर्गमे कचिद्वर्ताकुलतया स्थपुटिते कचिज्झरीपरीततया शिलातलगम्ये वनमार्गे धावंधावं भयचकितदृष्टिर निर्दिष्टप्राप्यस्थानविशेषा वातचालितशुष्कपर्ण मर्मररवेऽपि वेपमाना भयप्रघट्टयमानहृदया श्रमसलिलसिक्तवल्कला विलुलितकुंतला विगलितजंघाबला श्रमवशादतर्कितोपनतनिद्राभरपरवशतया स्वयमनिच्छाघटमानपक्ष्मपुटा पदादेकमपि पदं गन्तुं नितरामनीशा कस्य चिदुत्तुंगस्य विततविटपपटलस्य महीरुहस्य मूलमधिशिश्ये ।
अथ सहस्रकरे पाकशासनाशामपि कर प्रसारितपद्मरागरागैरापूरयति अचिरसमुद्भिद्यमानकमलकल्हारप्रभृतिविविधकुसुमपरिमलवाहिभिस्समूह्य मानशीतलतुहिनशीकरकलित प्रसून परागभारतयेव मन्दं मन्दं स्पंदमानैः निजसुहृद्भनंजयधामनिधनदुःखेनेवातिजडैः पवमानैर्निशमनिशं पत्रपुटक्षरद्भिश्शीतलतरैः प्रालेयैराद्रीकृतवल्कला बाष्पासाररेखाकल्माषितकपोलतला धूलिधूसरितांगयष्टिरहं प्रतिबोधिताभवम् । अहो ! किं ब्रवीमि निद्राया महिमातिशयम् । मातृकल्पया तया विस्मारितपितृशोका निर्वासितधावनक्लेशा समुत्पादितबलविशेषा नवीकृतेव प्रकटितोल्लाघते व कृतसांत्वनेव समुल्लासितेवापोहितसाध्वसा समापूरितोत्साहा चाभवम् । तदन्वहं नातिदूरादापतंतं वटुजनपरिपठ्यमानश्रुतिसुभगनिगमघोषं, पिंगकेश ! संभारीकुरु त्वा दर्भपत्राणि । भोश्शङ्खनाभ ! त्वरिततरमुपाहर पलाशसमिधः । क्षेमंकर ! सत्वरमपचित्य परिमलमनोहराणि भगवदर्चनाय कुसुमानि नारिकेलसंपुटकमापूरय । कपिंजल ! गच्छ कंदमूलफलाहरणाय । दृढकंधर ! याहि गुरुवल्कलक्षालनाय । जाबाले ! गृहाण लवित्रं होमधेनुघासकृंतनाय । श्वेतकेतो ! धृतकुठारोऽसि । क्षिप्रमानय
92
·