________________
188
जयन्तिका
मेवं दूरीकृतपितृकां मदेकशरणां तां जयंतिकां दयनीयदशां विधाय मोदसे किमु ? धिक्कठोरमानसं मां इति उन्मत्त इवाक्रन्दन्लतापिनद्धभूर्जपत्रपटलविरचितपरिधानो दीनदीनः कांतारे तावदनुपलब्धजनपदवा दूरीभूतगांभीर्यः कदर्य इव सुदूरमभ्रमम् ।
एवं वनवर्मना संचरमाणः शीतलसलिलशीकरवहगंधवहसमुपजनितरोमजालकोलित इव चलितुमप्यनीशः तत्र तत्र काप्यन्विष्यन्विशंकटाटवोतटे वैश्वानरं असकृदिशमभितः पश्यन्ननतिदूरे पुनरपि मां पीडयितुं नियतिप्रेरितकादंबिनीसंदोहसंदेहमापादयन्तं दुर्दिनतया निस्तेजस्कं मार्तंडमंडलमंडशंकया गिलितुं पातालतलादुद्गच्छन्तं कालोरगमिव दंडाकारेण नभसि प्रस्मरं जलभरितवलाहककुलमपि कालिना समाच्छादयन्तं दिवापि तमिस्राभ्रांतिमुपजनयन्तं तमालतरुवाटेषु द्विगुणयन्तमंधकारं धूमनिकरमपश्यम् । दृष्ट्वा च सानन्दं भवेदत्र जनतावसथानोति विचिंतयन्कथमपि गत्वा तदन्तिकं भिक्षामटन्वा परपरिचर्यामाचरन्वा भृत्यभावमापन्नो वा दिगम्बरतापरिहरणाय किमपि याचिष्ये चेलमेकमिति मनसि कृत्वा तदुपकण्ठं प्रति प्रस्थितः,
क्वचिदचिरचितातलविनिहितहुतवहतया पच्यमानवसाबहुलशवशरोरचीत्कारदंतुरितं कचिदहनविदार्यमाणकुणपकोकसफीटारदूरीकृतफेरवारावमुखरितं वचिदुपरतं वल्लभ चितामारोपयितुमुद्यतानगलीभूय पुरुषान्मामेति निरुध्य तारतारं हा ! नाथ ! विहाय मां निरनुकोशो गतोऽसि। मामप्युपनयेति शवोपरि निपत्य रुदतीनां तदपदानमेव व्याहरंतीनां शिथिलितधम्मिल्लानां वक्षोजतटनिपतनत्रुटितैलबिंदुभिरुरस्ताडनत्रुटितैः मुक्ताहारक्षोदशंकामुपजनयद्भिदैतुरितदुकूलानां ललनानां परिदेवनारावमुखरितदिगंतरं क्वचित्पत्रपुटनिक्षिप्सतंडुलापहरणावसरमनुपालयद्भिः पुरोहितभिया सुदूरे सकटुरवं निषण्णैर्विवल्यमानकंधरैर्यमभटकुटुंबैरिख वायसविसरैः कालीकृतैकदेशं क्वचिदुदुम्बरपत्रदर्भपटलविच्छुरितक्षितितलं