________________
पञ्चमलहरी
मिति वक्तुमारभत ! वत्स ! न बुद्धिपूर्वकं कृतमिदम् । कापि दैवचेष्टा स्यात् । तस्यामेव गुहायां तया सह जयंतिकया निशि गाढनिद्राविद्राणहृदयः विस्मृतशरीरः तल्पायमानशिलातलः श्रमशिथिलितप्रतीकः परमात्मनि लीन इव निद्रासुखमन्वभवम् ।
I
तदनु दूरीकृतनिबिडांधकारे दिवाकरे पूर्वपर्वतमौलिमलंकुर्वति समुड्डीयमानविविधपतगपूगनोरंधिते गगनाभोगे बालातपपाटलितेषु समुन्नततरुशिखरेषु समुदग्रमहीभ्रतलनिपतन्निर्झरझरोरवमुखरिते कांतारे निबिड - तरप्ररूढकेतकोगहनकुहरलीनमयूरवारकेका रावतारप्रतिध्वान पूरितेषु कंदरोदरेषु मंदमुन्मीलितलोचनोऽहं वर्षादिवसतया पत्रपुटक्षरत्सलिलपृषन्निकरसिक्ते शाद्वलप्राये कस्मिंश्चित्तरुमूलतले शयानं नग्नमात्मानमपश्यम् । दृष्ट्वा च सविस्मयं विहस्तः किन्नु खल्विदम् ? काहम् ? कोऽहम् ? कुत इदम् ? नानीतोऽस्मि ? क्व सा जयंतिका ? क्व सा गुहा ? कथमत्रागतोऽस्मि ? निद्रितोऽहम् । क्व गतं वासः ? हन्त ! दिगम्बरोऽस्मि । किमर्थं ममेदृशी दुरवस्थेति सरभसं समुत्थाय लज्जया विपिनमभितो दत्तदृष्टिरनतिदूरे विभावसुभिया प्रधावंतमिव तमोनिकरमनूपतलसत्वर विन्यस्यमानचरणतया समुच्चलज्जंबालकलुषितांबु-द्विगुणितनोलिमानं तस्करनिकरमद्राक्षम् । दृष्ट्वा च मनस्येवमचिंतयम् । निद्रापरवशतयाहमेतैरिहानीतो भवेयम् । मदीयमेतैरेवापहृतं स्यात्सपरिष्कारमंशुकमपि । अपिनाम वर्तेत तस्मिंस्तस्करस्तोमे जयंतिका भिया वेष्टमाना । हन्त ! नैव दृश्यते निर्वर्णितापि सा । कथमन्विष्यामि तामीदृशावस्थः । सा तु मामनवलोक्य भृगुतटान्निपतिता भवेदथवा मल्लिप्सया कठोरे कांतारे मामाह्वयन्ती परिभ्रमेदनायेव । कुत्र वा सा गुहा ? यत्राहं निद्रासुखमन्वभवम् । गुहायास्तावत्कियद्दूरमानीतोऽस्मि । न जाने दुखगाहे गहने को वा मार्गः ? कथं तां गुहां प्राप्नुयाम् ? कं पृच्छामि ? को वावेदयति ? सा पुनः कथमिव कालीकृतदेहं मां प्रत्यभिजानाति जीवसेन इति ? हा ! दैवहतक ! किमिद
।
187