________________
जयन्तिका
जीवसेनपाणिरसि । कुतो वा ते दया ? तन्निपातय कृपारहितः कृपाण - मस्मिन्वत्से । हा ! वत्स ! क्कासि ? वाष्पपिहितमिदं नयनयुगलम् । न किमपि गृह्णाति । तदेहि मे प्रतिवचनम् । इति दुःखभरकंपमानकरतलच्युतमपि करवालमजानन्नेव रुधिरबन्धुरे वसुन्धरातले निपत्य निपत्य शिथिलितकचकलापः तारतारं रुदन्नंग ! घातुकोऽहं ओषधिप्रवालकुसुमसंभृततीर्थोदकाभिषेकसमुचितमधुना शोणितशोणे क्षितितले कृपाणेन पातयामि भवदुत्तमांगम् । विविधमुक्ताहारादिपरिष्करणोचितायां ते कंधरायां पाणिहतकोऽयं पातयति कृपाणधाराम् । अवरोधे रमणोगणपरिरंभणसमुचितायाः मृदुलतल्पयोग्यायाः तव तनोः तनोम्यद्य निर्दयः कीलालकलुषितं क्षितितलं शयनमिदम्। हा ! धिक्पराधीनताम् । यदि त्यजेयं मदीयान्प्राणांस्तदा भविष्यामि भर्तुराज्ञोल्लंघनदोषदूषितः । किमद्य करोमि ? हा ! नियते ! कृपया मामप्युररीकुरु नराधममेनमिति बहुधा व्यलपत् । इत्थं विलपन्तं पितरमवलोक्य स बालको दुःखभरदम्यमानकण्ठः तात ! मा रोदोः । एवं भवितव्यतां को वा निवारयति ? तदलं परिदेवनेन । किमर्थं सुन्दरीं तां एकाकिनीं कानने परित्यज्य निरनुक्रोशश्चण्डालतामोदृशीं लोकगर्हणीयां परसेवां च प्राप्तवान्भवान् ? कथमिदं चित्रपुरं समागतः ? भवदनुयायिनीं सहधर्मचारिणीं स्वयमेव विहाय किमर्थमेवं शोचसि ? निवेदय मे दयया सकलमपीति सविनयं प्रार्थयामास । 1
1
186
स मातंगस्तु साक्षररिंखणं सगद्गदं च साश्रुधारासारं सदैन्यं सावहेलनं च मास्तु वत्स ! मास्तु । किं श्रुतेन तेन गर्हितेन १ मातंगभावमापन्नस्य पापीयसो दैवदूरीकृतस्य लोकगर्हितस्य परित्यक्तद्वारस्य दारुणकर्मणः कथयितुमपि ममोदन्तं जिह्वा परावर्तते । कथमावेदयामि ? श्रुतमात्रेण स्फुटितहृदयो भविष्यसि । वक्ता तावदहं तु प्राणिमि । यतश्च वज्रसारकठोरहृदयः । वत्स ! मज्जीवितनिर्विशेष ! यदि कुतुकी श्रोतुं तदश्राव्यमपि श्रावयामि । धीरो भव । निवेदयामि वेदनाबहुलं ममोदंत
1