________________
पञ्चमलहरी
185
तपः लब्धुमीदृशं पितरम् । तात! मयापि पापीयसा जननांतरे कस्य वा निषूदितः पुत्रः। तदिदानीमीदृशे दारुणे कर्मणि नियुक्तोऽस्मि राज्ञा । धिक्पापिनं मां नीचमिति तं बालकमालिंग्य नृशंस ! जीवसेनहतक ! न केवलं वेषेण चण्डालोऽसि ? कृत्यतोऽपीति बहुधा विलपन्मूछितः पपात । ____तदा तस्मिन्बालके दुःखभरगद्गदिकास्फुटाक्षरे हा ! तात ! किमिदमुपनतम् । धिक्कठोरहृदयां नियतिम् । यदीदृशावस्थं तं पश्यन्ती तिष्ठति । हा! तात ! समुत्तिष्ठेति चेलांचलेन वीजयति मन्दं लब्धसंज्ञो मातङ्गः हा! वत्स ! कथमिव निपातयामि कृपाणधारां सुकुमारकुसुममालार्हायां तव कंधरायां कठिनोऽहमिति विलपन्नुत्थाय निजपाणिनोन्नमय्य बालकचुबुकं वत्स ! दूरीकृतमंबाया मुखांबुजं पुनरपि नैवावलोकितं भवता । यदि जीविता भवेत्तव माता भवन्निबर्हणमवकर्ण्य सत्यं पातयिष्यति ज्वलनज्वालायां निजतनुम् । झडिति स्फुटितहृदया वा भविष्यति । वत्स ! निकृत्य पातितं रुधिरबंधुरायां वसुंधरायां परिलुठन्तं कठिनहृदयः कथमिव द्रक्ष्यामि भवन्तं नयनहतकेनानेनेत्याघ्राय तदुत्तमांग परामृशन्पाणिना समाश्लिष्य च मुग्धमुखपुंडरीकतललंबमानामुत्सारयन्कुंतलपंक्तिं बाष्पसलिलकलुषिताभ्यां निष्पंदपक्ष्मपालिभ्यां नयनाभ्यामवलोकयतो बालकस्य मुग्धमुग्धं दुःखदैन्यदंतुरितं मुखमुदस्य दम्यमानकण्ठो मुक्तकण्ठो हा ! कथमिव हन्मि ? हा ! वत्स ! इति मूर्छितः पपात । तादृशावस्थं पितरमवलोक्य स बालकस्समुद्विमहृदयः तात ! तात ! इत्युच्चैराक्रन्दन् , अंब ! कासि ? पतितनयान्वेषणपरा कुत्र परिभ्रमसि ? हा! नियते ! किमधुनापि प्रेरिता नासि करुणया ? द्रवति हि शिलापि । मातः न मां पश्यसीत्युच्चैः सरोद।
तदनु स मातङ्गो भुवि निपतितं पाणिना कृपाणमादाय सनिश्श्चासमरे ! कृपाण! नाहं कृपणः । साधु कुरु पारणम् । पिब सविभ्रमं रुधिरधारां सुतशिरोधिजाम् । साधु प्रकाशय निस्त्रिंशताम् । अरे ! करहतक! J-24