________________
184
जयन्तिका निजोदवसितमासाद्यानपत्यतादुःखितायै वृद्धायै प्रायच्छन्निजगृहिण्यै । सा तु जरती शूद्री निरतिशयानंदद्विगुणितशिरःकंपा मामादायांकतले समुपवेश्य शिरस्याघ्राय कंपमानेन पाणिना शिरः परामृशन्ती वत्स ! कथमेकाकी कांतारे स्थितवानसि ? का ते माता ? कस्ते पिता ? कुतो वा बालोऽप्येकाकी निराश्रयस्तावदनाथ इव विपिनगतोऽसि ? इति पृच्छन्ती क्षुधितोऽसि । पिब तावहुग्धमिति पाययन्ती क्षीरं प्रीत्यतिशयेन जननीव मां पालयति स्म। अहं तावन्निषण्णो बहिर्वितर्दिकायां प्रभात एव पर्युषितानाशनसुहितान्सीरभुजशिखरान्युगस्कंधाननडप्रेरणपरान्पांसुलचर - णान्वृषलान् शिरसि कटितटे च विनिहितकूपोदकसंभृतमृण्मयकलशाः निनोन्नतसरणिसञ्चरणशीलाः मुग्धाश्शूद्रीश्च काश्चिद्दोहनकर्मणि निरताः काश्चिदवकरपिटकमस्तकाः काश्चिदधिमथनसक्ताः काश्चित्संमार्जनीमार्जनपराः काश्चित्प्रचाराय मुच्यमानसुरभिच्छागोरम्रगणान् समादिशंत्यो योषितश्च ग्राम्योचितक्रीडैकतानान्बालकांश्च पश्यन्कालमत्यवाहयम् ।
एवं व्यतीते च वत्सरचतुष्टये वृद्धभावाद्दौर्षल्याश्च संचारासमर्थस्सः तु वृषलः पितृनिर्विशेषः प्राहिणोन्मां पशूनामवनाय निकटशाद्वलं काननम् । अहमपि वृषलबालकैस्सह क्रीडैकतानः चारयन्पशूनां कुलं कालमत्यवाहयम् । एवं स्थिते कदाचिदरण्ये पशूश्वारयतो मम पुरतः पपातांतरिक्षात्काचिन्माणिक्यमाला । सविस्मयं तामवलोक्य मोदादादाय मदीयवेणुशिखरमायोजयम् । तदनु कतिपयेषु मासेषु व्यतीतेषु कदाचित्प्रतिदिनमिव विपिने ममोपकंठमेते भटाः समुपेत्य चोरोऽयमिति रत्नमालया सह क्षितिपतिसौधद्वारमनीनयन् । अथैतेष्वेकतमो रत्नमालापाणिः प्रविश्य चाभ्यंतरं समर्प्य च मालां राज्ञे लब्धराजादेशः पुनरप्यासाद्य सौधद्वारं बाष्पवारिपूरितेक्षणः मामादाय भटैरितरैः परिवृतः प्रापयदुर्गागारमिदमित्यकथयत् । श्रुत्वा च स मातङ्गः कर्णदारण दारुणं दुर्गालयागमनकारणं विमुञ्चन्नश्रुसलिलधारां सगद्दं वत्स! जन्मांन्तरे भवता तावत्कियद्विरचितं