________________
156
जयन्तिका
निपत्य प्राणपरित्यागाय निश्चिकाय । तदा बाष्पदिग्धमुखी तापसो निर्वर्ण्य विवर्णवदनामेनां प्राणपरित्यागाय कृतोद्यमामचिंतयत् । कथमिव निवारयाम्येनाम् ? कथं वा सांत्वयाम्येनाम् ? न हि लगति तावदधुना मदुपदेशोऽप्यस्या हृदये। कथं कथमपि पतिविरहजश्शोकस्तनयमुखावलोकनेन शांत इवाभवत् । इत्थं सुचिरं विचिंत्य तामवलंब्य दुःखभरस्फुटितवचनाश्रुधारापरिबाधमानाधरा बलान्मंदमित्थमकथयत् । ननु कल्याणि ! विलोक्य च भवदशां वक्तुमपि सांत्वोक्तिं वदनमिदं परावर्तते । तथापि कथयामि। सावधानमवधारय । दीनाया अपि पराधीनायाः प्रमदायाः अनुचिता हि स्वच्छन्दप्रवृत्तिः । एते च जीवसेनविद्राणाः तव प्राणाः । तद्विरमाद्य तावदनेन यत्नेन । बालभावेन चञ्चलप्रकृतिस्तव तनयः क्वापि प्रयातोऽतिगहनतया परिभ्रष्टवा कस्यापि पुलिंदस्य भवेशवर्ती। प्राप्स्यसि पुत्रमन्वेषणेन । तदधुना धोरा भव । तदन्वेषणपरा भव। जोवसेनोऽपि कापि भवेद्भवदाशया। किं साधितं भवति प्राणपरित्यागेन । “जीवन्भद्राणि पश्यति" इति मुधा नैव कथितं प्राज्ञैः । तदिदानी नीतिमत्या धृतप्राणया त्वया तावत्तदन्वेषणयत्नः कार्यः । विस्रब्धा भव माचसि । गृहाणेमां रत्नमालाम् । बध्वा च मणिबन्धे स्मर पुरुषाकृति मनोहररूपाम् । तदनु चित्रपुरे भवाभिषिक्ता प्राप्स्यस्यवश्यं प्रियं तनयं च।।
तत्र प्राप्ताधिकारश्च प्रेषय तावत्सर्वत्रान्वेषणाय चतुरांश्वरान् । अहमपि पुत्रविरहशोकजईरितहृदयाय मत्पित्रे वोरकेतवे निवेदयामि दृष्टो दिष्ट्या तव तनयस्सुकेश इति। तदवकर्ण्य कर्णामृतं स वोरकेतुस्सादरमानाय्यावश्यं भवतीमभिषेक्ष्यति । तत्सांत्वय पर्यालोचनया हृदयम् । दूरीकुरु शोकावेगमिति । आकर्ण्य च जयंतिका शुभोदर्कमपि सद्यः कर्णकर्कशं तापसोवचनं निश्वस्य हन्त ! मंदभाग्यायाः मम किमवशिष्टं राज्याधिकारेणैकेनेति मुहुः वल्गितवक्षोजयुगलं सगद्दं रुदतो मा भूदंब !