________________
72
जयन्तिका कोमलकपोले ! तिष्ठ तावत्क्षणमिव निश्चला। यावत्ते कपोलदर्पणे मन्मुखमवलोकयन्ती समीकरोमि विलुलितं तिलकम् । भ्रांते ! इत एहि । भित्तितलघटितायतमुकुरतलपतितमात्मनः प्रतिबिंबमेव याचसे मार्गावकाशम् । पक्ष्मलाक्षि ! राजकुमारमेनं वशीकर्तुमलिकतलकुटिलीकृतभ्रूचापलता किमु प्रयुंक्षे पञ्चशरस्य पञ्चमं सायकं अपांगवीक्षणकैतवेन ? गुरुजनभीते ! द्रष्टव्यमवलोक्य निश्शंकं सफलीकुरु नयनवैपुल्यम् । असित नयने ! किमिदं नरपतिकुमारावलोकनेन ते चक्षुरभिरागाक्रांतम् ? तरलिके ! वेश्मनि डोलाशायितं शिशुमनुस्मृत्य मुक्तालतेव तरलहृदया नैव पश्यस्यदृष्टपूर्व सार्वभौमम् । चारुहासिनि ! पश्य तावत्कोऽपि कमनः कमनीयवेषो भवदवलोकनाय क्षौमदेशदत्तदृष्टिः मार्गगामी परेणाभिपतता संघट्टितः समुपालब्धश्च कृतमुखविकृतिः परावर्तते । नीलकुंतले! कुंतलमुल्लासय जनसम्मर्दविलुलितम् । मदिरेक्षणे! समवेक्षस्व । पुरोवर्तिनो जनाः पथि परिसरपर्यटत्घोटकखुरकोटिसंघट्टनभिया कृतमुखविकाराः निजपृष्ठवर्तिनि जनसंघे विलीना भवंति । कोमलहृदये ! किमु मुधा खिद्यसि ? बद्धभुजयुगलं विलोक्य नतमस्तकं पदातिमध्यगामिनं वृषस्कंधं । निजकर्मानुगुणं फलमनुभवत्ययम् । अहो ! समायातोऽयमैरावतारूढः पुरंदर इव राजकुमारः। यदस्य दर्शनादनिमिषास्संवृत्ता वयम् । हंत ! वरमालिन्या पुराकृतस्यावदातकर्मणः फलमिदम् । यदीदृशं अनिर्वचनीयसौन्दर्यमसूत कुमारम् । नूनमस्यावलोक्य सौन्दर्य मन्मथस्त्रपयागमदनंगताम् । हंत ! तपस्वी विमतकेसरी पुत्रमीदृशमनवलोक्यैव परलोकं गतः । धन्या खलु राज्यलक्ष्मीः। यदस्याधिरोहति भुजशिखरक्रीडाशैलशिखरम् । इतः परं वसुमती पातिव्रत्यधर्ममनुतिष्ठति । यदेनमाप पतिम् । धन्या च गरीयसी नगरीयम् । यदस्य राजधानी । कीदृशं प्रजाभिर्विरचितं तपः ! यतस्ताः कुमारमेनमनुभवंति राजानम् । हंत ! कृतनिरतिशयसुकृतान्यस्मनयनानि । यदेनं निरंतरायं निरंतरं निनिमेषमवलोकयति। किमयमुप