________________
122
जयन्तिका पुनस्सविस्मयं सादरमवलोक्य शिशुरत्नं किमिदमद्भुतमिति हर्षभरादुन्मोलितलोचना प्रबुद्धा च शिशुरिक्तहस्तं निर्वर्ण्य वर्णनातीतदुःखभरदंदह्यमानहृदयापि प्राभातिकमंगलातोद्यध्वानेन मंगलतरस्वप्नवृत्तभावनया च समाश्वासिता शुभोद निहितदृष्टिः प्रहृष्टास्मीति । एतदवकर्ण्य प्रमोदपरवशे तस्मिन्सत्यकोौ ननु कल्याणि ! उषःकालिकस्वप्नोऽयं भाविशुभाशंसी। तत्रापि व्रतनिष्ठायास्ते समुपनतोऽयं तावदोदृशस्स्वप्नः । श्रद्धया विरचितं व्रतं तावन्न कदापि भविष्यति निष्फलम् । दिष्ट्या वर्धसे । हंत ! ते प्रसन्ना देवता। व्रतमपि प्राप सफलतां भविष्यस्यचिरादेवापत्यपूर्णोत्संगा। भविष्यति चास्मत्कुलमुद्भुतम् । अस्मत्पितरश्च वंशकरोरदर्शनेन प्रहृष्टा नर्तिष्यन्ति। किंबहुना ! धन्या वयमधिगतनिरतिशयभाग्या वयमिति व्याहरति, ससंभ्रममुपेत्य देवतागारद्वारपालकः प्रणिपत्य सप्रश्रयं देव ! देवतागाराभ्यंतरे शिशुरोदनध्वनिरिख श्रूयते । महदिदमाश्चर्य न केनाप्युद्घाटितं कवाटम् । नाप्यंतः प्रविष्टं केनापि । एतदवकर्ण्य देवः प्रमाणमिति निवेद्य विरराम।
निशम्य च तदुदन्तं प्रमोदपारावारतरंगपरिप्लाव्यमानांतरंगावप्यपिनाम सत्यम् विस्मयावहोऽयमुदन्तः । अपिनाम शिशुरोदनं तत् ? कथमनुद्घाटितकवाटे देवागारे तावदंतः प्रवेशः ? न किमु निद्रितो भवानिति बहुधा हर्षातिरेकात्परिपृच्छन्तौ पुलककवचितगात्रौ समुत्थाय कृतस्नानौ मंगलालंकारालंकृतौ शिशुदर्शनकुतूहलाक्रांतस्वान्तौ काांतिकनिर्दिष्टशुभंयुमुहूर्तमनुपालयन्तौ कथमिदमद्भुतं संवृत्तम् ? केन तत्र विनिहितः शिशुः ? कथं वर्तेत ? कदा द्रक्ष्यामः ? इति परस्परं संलपन्तौ तावुभावपि जायापतो प्राप्ते च काान्तिकनिर्दिष्टे शुभे मुहूर्ते मंगलवादित्ररसितमुखरितं प्रविश्य देवतामंदिरं हय्यंगवीनप्रज्वालितदीपपल्लवविलसच्छातकुंभस्तंभभासुरोभयपार्थायां परिमलकृतघ्राणतर्पणमनोहरधूपधूमलतावितानितायां कनकशृङ्खलानियमितायामनल्पकल्पलताप्रसवमालापरिष्कृ