________________
चतुर्थलहरी
तत्तत्कालोचितपरिजनपरिवृतापि भुजिष्येव स्वयमेव कर्मकलापं कुर्वती भूदेवबृन्दचरणसेवाहेवाका नानाविधदानानंदितदीनजना भगवन्नारायणचरणस्मरणपरायणा कृततीव्रतरव्रततया परिश्रांता च स्थंडिलशायिनी निशीथिन्यां विस्मृतगात्री क्षणमिव निद्रासुखमनुबभूव ।
121
तदनु प्राभातिकमंगलवादित्रध्वानप्रतिबोधितां हर्षभरप्रफुल्लनेत्रकमलां त्रपावनतमुखीं नवीकृतामिव दूरीकृतालस्यां निजवल्लभां तामवलोक्य प्रतिदिनमिवागतस्सौखशायनिकस्सत्यकीर्तिः परिजनानीतमासनमपि दूरीकृत्य प्रत्युतुमुद्यतां प्रियां निवारयंस्तत्पार्श्व एव क्षितितले निषण्णस्सस्मितमपृच्छत् । ननु सुमुखि ! प्राभातिकं कमलमिव ते मुखकमलमिदं प्रफुलं पिशुनयति शुभोदर्कम् । कठोरं व्रतमाचरंत्या अपि तेनैवाद्य पश्यामि ग्लानिमंगेषु । अपिनाम प्रसन्ना गृहदेवता ? विलसति चांकुरितमंदस्मितमधुराधरं वक्त्रं कमपि हर्षोदन्तं गदितुमुद्युक्तमिव । निवेदय तावदपिनाम प्रसन्ना ते देवतेति । पृष्टा च सा हेमवती मंदाक्षमंदाक्षरा क्षरदमृतधारासारसारां गिरमेव मुदगिरत् ।
नाथ । किमिति ब्रवीमि ? कथं कथयेयं ? रोमांचयति गात्रं स्मरणमात्रेण । चिरविरचितव्रतजनितश्रमपरवशावयवतया स्थंडिलशायिनी संवेशवशा प्रत्युषसि स्वप्ने शरत्समयविशदेऽप्याकाशे काशकुसुमसंकाशवितत विशकलितावदातपयोदाभ्यंतरात्कामपि तरलतारतारां कनकच्छेदकांतिमाविर्भूतां विद्युतमपश्यम् । सविस्मयं तामेवावलोकयंत्यां मयि शुभ्रा भ्रशकलद्वयं कलहंसमिथुनतां प्रपन्नम् । तदुपरि सा तु विद्युदुद्योतमाना अमानुषतरुणीरूपेण परिणता दधाना च पाणिपल्लवे जातरूपमयपारिजातप्रसूनमालां शरदंबुदविशददुकूलपरिमंडिता गगनतलादवतीर्य च मदुपकण्ठं समंदस्मितं गृहाण वत्से ! मत्सेवैकताने ! मालामिमामिति विन्यस्य तां पारिजातस्रजं मत्पाणितले क्षणादंतरधात् ।
हस्तगता तु सा सुममाला स्पृहणीयरूपस्त्रीशिशुरभवत् । अहं
J-16