________________
भटाभ्यामसकृत्परिगृह्यमाणमपि त्रपाभरात्पदेपदे च्यवमानं गलितमानं मुहुर्मुहुर्नुद्यमानं याहियाहीति प्रतिपदं चोदितमपि ग्रामदेवतायै बल्यर्थ नीयमानमजमिव दृढनिहितावष्टब्धचरणं निश्चलं तिष्ठन्तं तं वृषस्कन्धं विलोक्य क्रुधा भृकुटितभूलतस्स्वयमेव सरभसमनुधाव्य दृढमुष्टिगृहीततत्केशपाशो गच्छ रे ! वैधेयेति बलासुदन्वरमालिनीपटागारं प्रावेशयत् ।
प्रवेशितस्य तस्य पापिनो दर्शनमात्रेण स्मरणपथाधिरूढनिजरमणमरणतया समुद्भलत्कदुष्णबाष्पधारापरिबाधमानाधरा धरातलमवलोकयन्ती निश्शब्दं रुदती वरमालिनी सगद्गदं वत्साभीकं भीकरमभिकं तं क्षिप्रमपसारय मन्नयनपथात् । एतद्दर्शनेन स एव समयस्स्मृतिपथमधिरोहति । यत्समय निकृत्तभवपितृकंधरारुधिरधारारुणितधरासिधेनुकापाणिरकरणो दुरात्मा दंडधरचंडतररूपोऽयमनाथाया मे हृदयं जरितमतानीत् । किमर्थमधुनापि नायं प्राणैर्वियोजितः ? न कार्यों हि शत्रुशेषः । इति दीनदीना अकथयत् । तदवकर्ण्य चारुवक्त्रस्सविनयमंब ! मा भूदयं दुरात्माभिको रणशिरसि निशितशरनिशारितो वीरस्वर्गमासाद्यानवद्यरूपस्पृहणीयाप्सरोगणपरिष्वंगपात्रमिति मया जीवग्राहं गृहीतः । इति निगदन्गलहस्तिकया विहस्तं तं बलात्पातयित्वा जननीचरणसरसिजयोः खयमेव सत्वरमनीनयन्निजदूष्यम् । तदनु श्वः कल्य एव प्रवेक्ष्यति नगरी चास्वक्त्रस्तदलंकरणीया वैजयन्तीत्युद्धष्यतां भवतेति पार्श्ववर्तिनं विभीतकमादिश्य प्रविश्य च निजपटनिकेतनं तैर्नरपतिमिः परिवृतः समुपविश्य च चामीकरविष्टरे तास्ताः निजदंडकारण्यवासकथाः वृषस्कंधोपालंभगर्भाः कथाश्च व्याहरन्वृषस्कंधानुगतपरिहासवार्ताभिर्हासयन्महीपालान्कालमत्यवाहयत् ।
अथांशुमाली बहुजुगुप्साकरां द्रष्टुमपारयन्निव रणधरणिं समाश्रितचरमगिरिचरमसानुररुणकिरणारुणितरमणीयविचित्रगन्धर्वनगरतया स्वच्छतराकाशदर्पणे विचित्रतरविदारितानां रणांकणनिपातितानां रुधिरसिक्ता