________________
जयन्तिका
सत्पुरुषसहवासश्च। तासां परयोषितां दर्शनमेव दर्शनदर्शनम् । तासां उदंतश्रवणमेव पुराणेतिहासादिकथाश्रवणम् । तासां स्मरणमेव पवित्रहरिचरणस्मरणम् । तासु रतिरेवापवर्गः। तत्रापि विसन्धमित्रभार्यायां निरर्गलोऽसि ? यदि ते जननी जीविता भवेत् सापि जाया भवितव्या । धिगनवधानतां विधातुः । यत्तव कृते भुवनमंडलमखिलमपि नैवासृजललनामयम् । वैधेय ! कथमिव प्रगल्भसे योद्भुमिह विषयग्रहणलंपटानिन्द्रियहयान्मनःप्रग्रहेण वशीकर्तुमसमर्थः। किञ्च मनोभवपरवशस्य तवेदमप्युचितम् । यदात्मपोषकस्य मनसोऽप्यपहर्ता काम इवास्मत्तातानुजीवी भवानपि तमेव निहतवान् । अत्र तावन्नियो नासि। स तु मे पिता निंद्यः । यस्तावदाबाल्यादात्मनिर्विशेष पापिनं त्वां पोषयामास।" इति बहुधा वेपमानं समनुभूयमानावमाननं तमनतिदूरे स्थितं वृषस्कन्धमसकृदुपालभमानं सामंतनिखिलनरपतिपरिवृतं चारुवक्त्रमद्राक्षीत् ।
___ दृष्ट्वा च सविनयमुपसृत्य कृतांजलिपुटो देव ! समागता देवी भवतो जननीति न्यवेदयत् । तदनु विविक्तं पार्थवर्ति वसनोदवसितं प्रवेशय जननीमिति विभीतकमभिधाय समुत्थिते च तस्मिन्सर्वेऽपि सत्वरमुदतिष्ठन् । समुत्थितश्चारुवक्त्रः त्वरिततरमानय तमविनीतमेनं तत्पटकुटीरमिति भटमादिश्य विसृष्टसकलराजलोकः स्वयमेकाकी प्रविश्य च मातुः पटकुटोरं सुतमुखकमलावलोकनकुतूहलिनी जननीमपश्यत् । दृष्ट्वा चांब ! पराजितारातिश्चारुवक्त्रः प्रणमतीति पादयोः पतन्तं तं पुत्रमुत्थाप्य बाहुलताभ्यां सा वरमालिनी दृढतरमाश्लिष्य परामृश्य पाणितलेन शरहतिक्षतान्यंगानि वत्स ! चिरं जीवेत्याघ्राय तदुत्तमांगममंदानंदसिंधुतरंगपरंपराभिहतेवेतिकर्तव्यतामूढा बाष्पसलिलप्रक्षालितकपोलस्तनमंडला वत्स! अपिनाम हतस्स पापैकतान इत्यप्राक्षीत् । पृष्टस्सः मातः ! जीवति स नृशंसो भवच्चरणसरसिजनखमयूखोदकधारामवगाह्य शिरसास्मानं पावयितुमिति निवेदयन् स्वयमेव स्तोकमिव द्वारदेशमासाध