________________
द्वितीयलहरी
नैवावकाशोऽत्र तादृशसंदेहस्य। किंचेदमभिज्ञानं सुदूरमुत्सारयति ते विचिकित्साम् । यत्ते पुत्रेण तपसः प्रतिनिवृत्तेन भवत्सन्निधौ प्रतिज्ञातं नृशंसं तं वृषस्कन्धहतकमहत्वैव जीवग्राहं गृहीत्वा भवचरणसरसिजयोः पातयिष्यामीति । तथैव कृतवता महात्मना तव पुत्रण प्रेषितोऽहम् । किंचापि स्मरसि ? चिताश्रयाशप्रवेशावसरे समुदीर्णामशरीरिणीं वाणीम् । एतदुदंतनिवेदनेन विलंभय मम जननीमित्यभिहितं चारुवक्त्रेण । तदिदानी भवत्पुत्रेणैवाज्ञप्तस्त्वदानयनायागतोऽस्मि । तदूरीकुरु शंकामलंकुरु शिबिकामिति प्रार्थयामास।
___ एवं प्रार्थिता च बहुधा विस्रभवितस्तविचिकित्सा हर्षभरकंदलिताश्रुजलबिंदुमालिनी सा वरमालिनी हन्त ! असमीक्ष्यकारिण्या मया तावदाशंसिता मुधैव वत्से तस्मिन्नमंगलपरंपरा । यदभिदधति विबुधाः स्त्रिय एवाशेषानयति । तत्तथ्यमेव । धिगीदृशीं मामशुभोदर्कसंतर्ककर्कशहृदयामिति बहुधा विचिंतयन्ती प्रमोदभरकंटकितकपोलफलका विनमितवदना संस्तुताभिर्मुग्धाभिर्लुब्धकवधूभिस्सबाष्पं कथंकथमपि लब्धानुमतिः सन्निहितां शिविकामारुरोह । आरुह्य च समुपविष्टायां तस्यां विधाय च तां शिबिकां धवलदुकूलावगुंठितां परिजनाः निन्युः तां पटकुटीरोपकण्ठम् । तदनु विभीतकस्त्वरया बलपरिवृतया शिबिकया सह चारुवक्त्रपटनिकेतनसकाशमासाद्य, - “निरवद्यमाचरितं किल कर्म भवता । महती भीतिः खलु दुष्कर्मणि । न हि किमु मनागपि त्वयि धर्मच्युतिः। ननु भवता जगतीह महती कीर्तिरार्जिता। निर्जिता हि भुजबलेन वसुमतीयम् । विलब्धे सुहृदि प्रकटितविलंभोऽसि । नयविदामग्रणीरसि । जंबुक इवान्योपभुक्तोज्झितमामिषमभिलषसि । न पुनर्पगेन्द्र इव स्वपराक्रमार्जितम् । दुरितकभाजन ! निखिलजनविगर्हित ! अपि जानास्सशस्त्रवश्यं किंतु शास्त्रवश्यं परलोकम् । निस्त्रप! भवतस्तावत्परदारपरिग्रह एवावदातं कर्म ; देवतासपर्या,