________________
जयन्तिका
दैवविलासितम् ! कोवा जानाति कदा वा कथं वा पतिष्यति द्वन्द्वपरं परेति । पुरा की हगनुभूतमनया राज्यसौख्यम् । कीदृगनुभवत्यधुना दैवदुर्विपाकाद्दुःखमियम् । हन्त ! अग्रे कथमनयानुभोक्ष्यते च । को वा शक्नोति निर्णेतुमिदमित्थमिति । दैवाधीनं किल जगदखिलमपि । हन्त ! विचित्रो हि जगन्मोहः । यदापदि सर्वेष्वपि विषयेष्वस्थिरता संपदि च स्थिरता जनैरारोप्यते। वस्तुतः अस्थिरमेव सर्वम् । तथाहि स तु वृषस्कन्धो निहत्य च विमतकेसरिणं विषयसुखेषु स्थिरतां भावयन्तीमेनां निष्कासयामास नगरात् । इदानीं तु चारुवक्त्रो राज्ये स्थैर्यमाशंसमानं मानोद्धतं तं वृषस्कन्धं निर्जित्य सर्वमप्यपजहार । अतो दैवविलसितस्य वेत्ति न कोऽपीति विचिंतयन् शिशिरोपचारेण तस्यास्संज्ञामुदपादयत् । लब्धसंज्ञा च सा वरमालिनी मंदमुत्थायापि कुशली ? वत्सश्चारुवक्त्रो दयया निवेदयेत्यप्राक्षीत् । पृष्टश्च स सेनापतिः देवि ! समाश्वसिहि । कुशली वृषस्कन्धस्य जेता मध्यमलोकस्य च नेता भवत्याः पुत्रश्चारुवक्त्रः भवदागमनमेवानुपालयति । तदागच्छतु भवती; शिबिकामेनामधिरोहतु । आनन्दयतु तनयनयनयुगलम् । पश्यतु भवती तनयमुखकमलमिति न्यवेदयत् ।
58
निशम्य च तद्वचनं वरमालिनी तात ! कथमिव तथ्यमित्यवगच्छामि भवद्वचनम् । दुरितकर्मैकतानस्य तस्य वृषस्कन्धहतकस्य दौरात्म्यमनुचिंत्य दुःखभरजर्झरितहृदया भवामि । निरवलंबनास्मि । कदाप्यसंस्तुतं भवन्तं कथमिवास्मत्पक्ष्यमिति प्रत्येमि । तदपसर दूरं ; नाहमारोहामि शिबिकामिमामित्यब्रवीत् । तदा स विभीतकस्सविनयं बद्धांजलिपुटः देवि ! यद्यहं नराधमस्य तस्य वृषस्कन्धस्यादेशानुरोधी तदैव बलाद्भवतीमारोपयेयं शिबिकामेनाम् । यदा च भवती गतचैतन्या क्षितिशायिनी परवशा तदैव शाययेयं भवतीं शिविकायाम् । यद्यप्यनुभूतापरिमितदुःखतया जगतो वञ्चनाबहुलतया जनानां कृतघ्नतया च भवन्मानसे तावदीदृशी समुदेत्यचिकित्स्या विचिकित्सा । सत्यमावेदयामि ।