________________
द्वितीयलहरी
57
समवरुह्य मन्दं महीध्रशिखरात्तस्यामेव गुहायां निश्शब्दा निलिल्ये। स तु विभीतको गहनमभितो दत्तदृष्टिः पर्यटन्नन्विष्यान्विष्य प्रतिकन्दरं प्रतिसरस्तीरं प्रतिमहीरुहमूलं प्रतिप्रताननीगुल्ममनवलोक्य च तां वरमालिनी नीरंध्रनमेरुतलबहुलोपकण्ठतया अलब्धदिवाकरमरीचिनिचयप्रवेशावकाशां क्षितितलनिहितनारिकेलकमण्डलु शंकुलंबितधवलचेलां दर्भासनसनाथां एकदेशनिक्षिप्तकृष्णाजिनभस्त्रिका कन्दमूलफलकल्पितैकदेशां व्रतमाचरंती तापसीमिव विलोक्य तां गुहां भवेदत्र सा तु वरमालिनीति विचित्य नातिदूर एव विसृष्टनिखिलबलः मृगेन्द्र इव स्वयमेक एव प्राविशत्तां गुहाम् । समुपस्थितमवलोक्य च तं विभीतकं सा वरमालिनी वेपमाना वैवर्ण्यदीनवदना हन्त ! कथं सन्निहित एव पापोऽयं । किमधुना कर्तव्यम् । कुत्र वा गन्तव्यम् । किमद्य करोत्ययं न जाने। हा ! रुक्मिणीजाने ! त्वं खलु दुरात्मना दुश्शासनेनापह्रियमाणदुकूलां पराधीनामाक्रन्दन्तीं दीनामपालयः पांचालीम् । अहमपि लब्धपांचालिकादशास्मि । विवशास्मि । पाहि मामनाथामिति रुदती विभीतकमभाषत । तात ! कस्त्वम् ? कुतो वा घोरतरमिदं कांतारमभ्यागतोऽसि ? समुपलब्धराजवालभ्यः प्रभुमनस्संतोषसंपादनैकतान इव लक्ष्यसे। न हि किमु मयि दुरध्यवसायः ? अबलाहमनाथैकाकिनी निराश्रयारण्यवासिन्यस्मि । पातिव्रत्यरक्षणायापिनाम न मामनुकम्पसे ? सत्यमावेदय । कुतस्समागतोऽसि ? दयया निवेदयेति । तदवकर्ण्य तस्याश्च तादृशीमवस्थां विलोक्य स विभीतकः कृतप्रणामो बद्धांजलिपुटस्सविनयं स्थित्वा च नातिदूरे देवि ! न भेतव्यम् । विभीतकनामाहं सेनापतिः वृषस्कन्धस्येति निवेदयंस्तत्रांतरे स्त्रीसमुचितमतितया कातर्याच्च हा! वत्स ! चारुवक्त्र ! कीदृशीमवस्थां प्रतिपन्नोऽसि ? महदिदं कष्टमिति तारतारमाक्रन्दन्ती मूर्छितां तां वरमालिनीं विलोक्य क्रमेण सावेगं ससंभ्रमं च चेलांचलेन वीजयन्नचिंतयत् ।
अहो ! चक्रवर्तिमहिष्यपि महतीमीदृशीमवस्थामनुभवति । हन्त !