________________
जयन्तिका
तु वरमालिनी दंडकारण्यशरण्या समाकर्ण्य बलकलकलरसितं गुहायाः बहिरागत्य समुन्नतमधिरुह्य शिलोचयशिखरं विलोक्य च दूरादापतत्तद्वलं भयविह्वलाबला वेपमानगात्रयष्टिरितिकर्तव्यतामूढा मनस्येवमचिंतयत् । हा! हतास्मि । हन्त ! ममैव मारसुकुमारः कुमारो विपक्षरुक्षक्षुरप्रक्षतकोमलशरीरः भवेत् । अन्यथा कथं सैन्यमिदमापतेत् । इह स तु सांयुगीनः खलु दुरात्मा रंध्रान्वेषी वृषस्कंधहतकः । हन्त ! स तु बालमेनं स्वायत्तं विधाय हिंसां कृत्वा तन्मुखादवगतमदावासकंदरो भवेत् । अथवा निहत्य तं मजिघृक्षया समायाति यातुधान इव । हन्त ! कथमनुभूतो निषूदनावसरे वत्सेन क्लेशः। किमशरीरिणी वाण्यपि निरर्थका ? कथमितःपरं क्षुद्रस्य करहृदयस्य तस्य वशवर्तिनी भवेयम् ? इति बहुधा विचित्य दुःखभरगद्गदकण्ठी अंब! भूतधात्रि ! देहि मे विवरं मंदभागधेयाय । हा! नियते ! यतसे किमु कांतारादपि कालयितुमेकाकिनी माम् । हन्त ! वैहायसस्य किमिदमेव फलं भाषितस्य । तत्प्रत्ययादेव रक्षिप्यति पुत्रो मां कंप्यति शत्रु विजित्य च पुनरप्यासाद्य हृद्यमुखारविंदो मां प्रासादं सादरं नेष्यति इति बहुविधसङ्कल्पकल्पनापरंपरयैव मया निर्भाग्यया यापितः कालः । बत! नायातः तनयो विनयोज्ज्वलः । हा! वत्स ! चारुवक्त्र! कथमिवानुभूता भवता भयानके सांपरायके सायकहतिवेदना। कथमिव भवेत्तदा रमणीयमाननं निशिततरशरनिकरविशीर्णस्य ते। वत्स ! तदधुना स्मृतिपथमधिरोहति । संग्रामप्रयाणात्यागासाद्य मां मंदस्मिताकुरितरुचिररदनमरीचिकिंजल्कं यन्मनोहरमाननसरोरुहं प्रादर्शयः । हा! चारुवक्त्र ! क्वासि ? कथमसि विहाय मामेकाकिनी कानने। किमु पितृदिदृक्षया गतोऽसीत्यतिचपलचित्ततया वात्सल्याविष्कृतहृदयतया च बहुधा विलपन्ती प्रेमातिशयनाशुभमेव भावयन्ती चिरमनुभूतकष्टतया कष्टमेव विचिंतयन्ती स्त्रीस्वभावतयातितरामधैर्यमेवारोपयन्ती कापि गन्तुमपि स्थातुमपि नितरामनीशा साध्वसातिरेकादधतमः प्रविष्टेव तत्रतत्र स्खलन्ती