________________
॥ द्वितीयलहरी ॥ तदनु स चारुवक्त्रस्त्वानंदोच्छूनगात्रयष्टिदक्षिणपाणिपुंडरीक कृतोदंडकोदंडो दक्षिणापरांगघटिताक्षयतूणीरस्साक्षाद्दाशरथिरिव प्रस्थितशिशखरिशिखरादुपेत्य च गुहामेकाकिन्यै पुत्रविश्लेषविक्लबायै तनयमुखकमलदर्शनोत्कंठितमानसायै निरंतरकांतारसंचारपरिक्लेशितशरीरायै सममिवन्ध जनन्यै सविनयमंब ! परमकरुणापरिपूर्णस्य पुराणपुरुषस्य भगवतो नारायणस्य प्रसादोऽयमिति प्रदय तूणीरशरासने विजितनिखिलभूमंडलोऽयमहं यावत्पातयिष्यामि तं नृशंसं वृषस्कन्धहतकं त्वचरणसरसिजयोस्तावन्न प्रवेक्ष्यामि नगरं न भोक्ष्ये स्वादुतरोदनं न प्रसाधयिष्यामि जटाजटिलमिदं शीर्ष न त्यक्ष्यामि वल्कलं नाचरिष्यामि स्नानविधि नाधिरोक्ष्यामि वाहनं न वारयिष्यामि श्वेतातपत्रेण तीक्ष्णतरं सूर्यातपं न धास्यामि शिरस्युणीषं न वक्ष्याम्यात्मानमितरेषां न प्रकटयिष्यामि राजभावं न मनसापि चिंतयिष्यामि सुखगंधमपि न गणयिष्यामि शरीरमिदमिति बहुधा विधाय च प्रतिज्ञां देहि मे दिग्विजयायानुमतिमिति प्रार्थयामास ।
एवं प्रार्थिता च तेन सा वरमालिनी स्वप्नावस्थामनुभवन्तीव विसंभशून्यहृदया दृढतरं परिभ्य निजभुजलताभ्यां तं चारुवक्त्रं निजांकतलमारोप्य च शिरसि करेण परामृशन्ती हर्षभरगद्गदकंठी, वत्स! दिष्ट्या वर्धसे । नारायणकरुणापात्रमसि । तादृशस्य ते न किमप्यस्ति वक्तव्यम् । क ते बाल्यं ? कच तपः ? प्रणिधानपराणामपि तपोधनानां दुर्लभं खलु चित्तस्थैर्यम् । दिष्टया योगिजनैकसाध्यं कर्म समाचरितं भवता। महति कर्मणि च प्रतिज्ञातम् । तदधुना वात्सल्यप्रेरितहृदया कथयामि हितम् । तदवधारय । शठप्रायं जगत् । खापतेयदासो लोकः । खलबहुला भूतधात्री। कृतघ्नताकलुषितं जनहृदयम् । नैपुण्यकठोरः प्रपञ्चः । वंचनैकताना बंधुता । शूरप्रणयिनी लक्ष्मीः। प्रणिधिचक्षुषः क्षितिभृतः । तदस